न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 11, कुल 608 में से
संदर्भ में पढ़ेंमनपह्नवनीयतां गतमस्ति । तथा हि कुसुमाञ्जलिग्रन्थे 'कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ।' इति पद्ये अष्टविधेपु अनुमानेषु ब्रह्माण्डविषयीणि कार्यायोजनधारणानि पक्षीकृत्येश्वरानुमानमुक्तं तत्तु ब्रह्माण्ड इव पिण्डाण्डेऽपि स्वतन्त्रनाडीतन्त्रकृतं शरीरनिर्माणात्मकं कार्यं, तदारम्भकपरमाणुप्रेरणात्मकमायोजनं, जीवतः शरीरधारणात्मकञ्च पक्षी- कृत्य सम्यगवगन्तुं शक्यते । 'पदात्प्रत्ययतः श्रुतेः' वाक्याच्च नादसापेक्षात् ईश्वरानुमानं पूर्वोक्त- नादप्रक्रियया स्वतन्त्रनाडीतन्त्रमूलिकया स्पष्टमवगन्तुं शक्यत इति पराहन्तानुभवानुसारेण एकस्मिन्सर्वविषयकज्ञाने स्थिरीकृते सति तदनुसारिमनननिदिध्यासनादिद्वारा जीवस्यापि सर्वज्ञ- त्वसिद्धिरप्रत्यूहा भवति । अत एव स्वर्गापवर्गयोर्द्वारमामनान्त मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ न्यायचर्चैयमीशस्य मननव्यपदेशभाक् । उपासनैव क्रियते श्रवणानन्तरागता ॥ इत्युक्तं न्यायकुसुमाञ्जलौ । इयांस्तु विशेषः-अद्वैतवादिनां द्वैतवादिनाञ्चेश्वरविषयविवादे मध्यसेतुभूतास्तत्रभवन्त उदयनाचार्याः स्वकीयया अलौकिक्या नैयायिकपरिभाषया ईश्वरतत्त्वम- नुमानद्वारा उभयाविरुद्धं साधयन्ति, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यैव सम्पूर्णेऽस्मिन्ग्रन्थे उपलभ्यमानत्वात् । अन्तरा अनूद्यमाने जीवेश्वरभेदादौ तु अनूद्यमानत्वमेव न विधेय- त्वम्, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यात्र ग्रन्थे क्वचिदप्यदर्शनात्, प्रत्युत— 'न ग्राह्यभेदसवधूय धियोऽस्ति वृत्तिस्तद्बाधने बलिनि वेदनये जयश्रीः । नोचेदनिन्द्वमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥' ( आत्मतत्त्वविवेके ) इत्यादिना आचार्यैर्वैदकसिद्धे परमेश्वरतत्त्वे स्वतात्पर्यमाविष्कृत- मन्यत्र, अतः प्रामाणिकानामयमत्यन्तमुपादेयः कुसुमाञ्जलिग्रन्थ इति न तिरोहितमस्ति विदुषाम् । नैयायिकानामपि परलोकधर्माधर्मविषयेषु नैयायिकप्रक्रियानुरोधिविप्रतिपत्त्याद्यभ्यासार्थं बहुटीका- सनाथः विशेषतो मिथिलामण्डलमण्डनायमाननैयायिकवरपूज्यवच्चाझामहोदयकृतटीकोपबृंहितोऽयं ग्रन्थो अतीव प्रकाशकरो वर्तत इति उचिततममुपादेयतमञ्चैतत्प्रकाशनं श्रीमता श्रेष्ठिवरेण जयकृष्ण- दासगुप्तमहोदयेन कृतं प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतइष्टसाधनताककर्माऽनुष्ठानरूपभारतीय- राजनीतिरूपमेवेति सहर्षमस्माभिरनुमोद्यते । इति ।