न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 10, कुल 608 में से
संदर्भ में पढ़ेंव्यक्त्यपरिपूर्णत्वञ्च चार्वाकेन वक्तव्यम् यत्र स्वभाववादस्योत्थितिः, लाघवादेकत्वं नित्यत्वं च, अतः सर्वविषयकत्वात् पराहन्तारूपत्वमास्तिकानां पक्षः । तत्रापि तादृशसर्वज्ञत्वस्य योगजधर्म- जन्यत्वेन, अनित्यत्वेनानीश्वरापादकत्वं बौद्धानां पक्षः । कर्मणो जडस्य परिणतिमात्रत्वमिति पूर्वमीमांसकानाम्। एतत्पक्षत्रयनिराकरणेन नित्यैकज्ञानादिरूपत्वं नैयायिकवेदान्तितान्त्रिकादीनामित- रास्तिकानां सिद्धान्त इति कुसुमाञ्जलिग्रन्थे सम्यगालोचिते सिद्ध्यति । (१)साहित्यप्रक्रियासारस्वा- दवेलायां साधारणीकरणव्यापारेण पराहन्ताया वेदान्तदर्शनसिद्धसाक्षिरूपायारतादात्म्येन जगद्भा- सनदर्शनात् प्रत्यक्षानुभवसिद्धोऽप्ययमास्तिकानां पक्षः भेदवादिपतितैः कुताकिकैः नास्तिकैरपलप्यते, इति स्वाङ्गीकृतप्रत्यक्षप्रामाण्यविरुद्धोऽपि केषाञ्चिदेव पुण्यवतामास्तिकानामनुभूतिपथगामी भवति । तदुक्तं— ईश्वरानुग्रहादेषा पुंसामद्वैतवासना । महाभयकृतत्राणाद्वित्राणामेव जायते ॥ इति । केवलमास्तिकानां पूर्वमीमांसकानां पक्षः किञ्चिदिवालोचनामर्हति । दहराकाशमध्यस्थसहस्रदलशोभिते । विस्फुरत्केसराश्लिष्टकर्णिके पङ्कजोदरे । आत्मा निःसङ्ग एवैकः साक्षी सर्वस्य कर्मणः । तस्य स्यामिति सङ्कल्पो मनग्राह्यां लभेत्तु सः। मनोऽधितिष्ठति प्राणपूर्वान् पञ्च समीरणान् । ते धातून् व्याप्य धमनीमुखेभ्यरत्न सम्भवान् । अग्नीन् प्रज्वलयन्त्येव तेभ्यो नादः प्रवर्तते' । इति भावप्रकाशनकारेण वैयाकरणसम्मतस्य चिदचिन्मिश्रसंवलनरूपस्य नादात्मकस्य चेतनस्य शब्दस्य मध्यमानादूपरस्य प्रणवांशरूपस्य पूर्वोक्ताग्न्युद्भवत्वं वर्णयताऽग्निप्रज्वलनं प्रत्याधुनिकवैज्ञानिकदृष्ट्यापि लघुमस्तिष्कसमीपस्थितप्राणगुहासमीपस्थघ्राणदानाडीप्रेरणाधीनफुप्फु- सद्रयसंकोचविकासाधीनप्राणादिवायुसञ्चारणप्रयोजकीभूतं बृहन्मस्तिष्कस्थितज्ञानकेन्द्रसमीपप्रवृत्तीच्छा- शक्तिरूपेश्वरसङ्कल्पात्मकमनसः सामर्थ्यमुपवर्णितं यदरित तत्र बृहन्मस्तिष्कस्थितस्य जीवैरज्ञातसा- मर्थ्यस्य समस्तकर्मसाक्षिणः परमात्मन एव सिद्धिरुक्ता, या 'एको देवरसर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च' इति श्रुतिसिद्धा । 'विस्फुरत्केसराश्लिष्टकर्णिके पङ्कजोदरे' इति भावप्रकाशनवाक्ये ऊर्ध्वाधोमुखवेगवाहिनीनां नाडीनां विस्फुरत्ताया वर्णनदर्शनात् मस्तिष्कस्थपङ्कजकेसररूपत्वं वर्ण्यमानं दृष्ट्वा नाडीतन्त्रविज्ञान- माधुनिकं सर्वमपि प्राचामवगतमासीदिति स्पष्टमेव वर्णयितुं शक्यते आस्तिकैः । तत्र स्वतन्त्र- नाडीनां स्वतन्त्रेच्छाशक्ति क्षेत्राणाञ्च जीवनानधिष्टितानामधिष्ठानमिच्छाशक्तिचेष्टनासाहाव्येनैव जीवाज्ञातज्ञानशक्ति क्षेत्रभूतैः मस्तिष्कभागैः क्रियत इति आधुनिकविज्ञानसिद्धत्वात् । नादोत्पत्ति- प्रक्रिया इयं सर्वापि कुसुमाञ्जलौ अंशतः सूचिता दृश्यते । तथा च मीमांसकानामपि ईश्वरास्तित्व- ( १ ) चित्रादाविव स्वसादृश्यदर्शिनो राश इति तन्नतटीकादर्शने चित्रतुरगन्यायः काव्यप्रकाशोक्तः पुरत आगच्छति तत्रत्यचित्रतुरगन्यायः आहार्यारोपरूप एव इति यद्यपि वर्धमानमगीरथठकुरमकरन्दादि- ग्रन्थदर्शनेनावगम्यते, अतश्च स भ्रम इति शङ्कितुं शक्यतेऽपि । तथापि गोकुलनाथोपाध्यायकृतविवरण- रीत्या रंगातुरंगेतदुभयवार्तिकविशेष्यता निरूपिततदीयसन्निवेशविशेषतुरगत्वोभयनिष्ठैकप्रकारताकालौकिक- ज्ञानविशेषरूपे चित्रतुरगप्रत्ययेऽङ्गीक्रियमाणे तद्भ्रमत्वस्य वक्तुमशक्यत्वाद्देवतादीनामीश्वरस्य च प्रतिमादिषु तादृशसन्निधिरूपाहङ्कारगमकारयोरङ्गीकारे आहार्यारोपकल्पनानुपपत्तेश्च, अतः रसप्रतीतिमनुसृत्याग्रे वक्ष्य- माणरीत्या सर्वैरननागतः स्वात्मतादात्म्यापन्नतया अनुभूयमानत्वं न अम्रकृतमिति शङ्कनीयम् ।