भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 9, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 9

( ३ )

मिति' योगसूत्रदर्शनान्, सिद्धिविशेषबलात् रूपस्य सूक्ष्मत्वेऽपि स्पर्शस्य स्थौल्यमुपपद्यत एव । सोऽयं जाठराग्निः 'सोऽन्नभुक् विभजन्तिष्ठन्नाहारमजरः कविः' इति वेदे वह्नित्वेनोपवर्णितः । कविः क्रान्तदर्शी इति प्रामाणिकव्याख्यादर्शनात् कुसुमाञ्जलिनिर्दिष्टं सर्वज्ञत्वमस्यैव जाठराग्नेरवगम्यते । स्पष्टमुक्तं च भावप्रकाशने शारदातनयेन :— 'सोऽपि त्रैविध्यमन्विच्छन् विराट्पुरुष ईश्वरः । बीजत्रयेण भिन्नः स्यात्सोमसूर्याग्निरूपिणा । स रुद्रोपेन्द्रपद्मोत्थगुणत्रयविभेदिना । षण्णवत्यङ्गुलायामं सर्वेषाम्च शरीरिणाम् । शरीरं तस्य मध्यः स्यादाधारः कन्दसंज्ञितः । वलयत्रितयाकारः सोमसूर्याग्निमण्डलैः । वह्नेः शिखा तस्य मध्ये नीपान्तःकेसराकृतिः । परा प्रकृतिरेषा स्याद्विश्विकेत्यपरे जगुः' । इत्यादिना मूलाधारोत्थिताया सुषुम्नाकाण्डान्तर्गतोर्ध्वमुखवेगधराया जाठराग्निशिखायाः ज्ञान- रूपधारिण्या आधुनिकविज्ञानसिद्धं वर्णनं कृतं तदपि अत एवोपपद्यते । अस्याग्नेः शरीरारोग्य- सम्पादकत्वं शरीरवर्द्धकत्वं च कुम्भकप्राणायामावस्थायामेव भवति समानवायुसञ्चारे सतीति । 'समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः । अन्नं गृह्णाति पचति विवेचयति मुञ्चति' । इत्यादि भावप्रकाशनवचनं सङ्गच्छते । अत एव पापकर्मणि कृतेऽनृते चोक्ते वक्तु- र्विच्छायमुखत्वं जाठराग्नेः कोपादेव रुधिरधाराया यथावदपरिपच्यमानतया भवति, इति स्पष्टमेवा- स्येश्वरत्वम् । यद्यपि जाठरोऽग्निः नैयायिकैः तैजसविषयमध्ये परिगणितः, ईश्वरस्तु आत्मभेदान्तर्गतः स्वतन्त्रद्रव्यत्वेन; तथापि 'देवताः सन्निधानेन प्रत्यभिज्ञानतोपि वा' । इति कुसुमाञ्जलिग्रन्थ एव विषयरूपेऽपि जाठरे हव्यवाहे ईश्वराहाङ्कारास्पदत्वरूपं तच्छरीरत्वं नैयायिकैरप्युपगम्यत एवेति स्वीकृतत्वान्नेयं कल्पना तद्विरोधिनी । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् । गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्' । इति भगवद्गीतोपबृंहणमुपर्युक्त एवार्थेऽनुकूलं दृश्यते । यद्यपि सोमसूर्याग्नीनामत्यन्तसात्त्विकतया तदवच्छिन्नचैतन्यस्यैव प्रकटत्वमाहुपारयत्व- मंदम्पर्येणात्र विहितमिति स्थितिः, तथापि 'तत्तेजो विद्धि मामकमिति पुनः तेजःपदोपादानात् शुक्लभस्वररूपवतस्तदीयतेजसोऽपीश्वररूप्योपास्यत्वं समर्थितं तन्त्राल्यादिभिः । तेन आयुर्वेदर्तत्ति- रीयेपनिषद्रीतानामेकवाक्यत्वोपपत्तिः । मेस्मेरिज्मवादिभिरुच्यमानं प्राणतेजोऽपीदमेव, यत् पाश्चात्त्यन्यायालयेऽपि निर्णाय स्वीकृतमिति नात्र विषये कस्यापि विप्रतिपत्तिरवशिष्टा । एवं स्थितेः स्वोपादानगोचरापरोक्षज्ञानचिकीर्षासमिष्टिरूपे ईश्वरतत्वे सर्वैरभीप्सिते तस्य 'किण्वादिभ्यो मदशक्तिवदिति, जडभूतपरिणतिमात्ररूपत्वे, भूतव्यक्तिभेदेन भिन्नत्वे, आनन्त्यं प्रति- २ न्या० कु०