न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 8, कुल 608 में से
संदर्भ में पढ़ें( २ )
'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥' इति गीतादर्शनात्, 'तस्याः शिखाया मध्ये परमात्माव्यवस्थितः, स ब्रह्म स शिवः स हरिः सेन्द्रः सोक्षरः परमः स्वराट्' इति तैत्तिरीयोपनिषद्द्वचनाच्च सिद्धम् । यद्यपि 'प्राणो ब्रह्म खं ब्रह्म' इत्यादि श्रुत्या प्राणाद्युपासनान्यपि विहितानि, तान्यपि सत्यान्येवेति नास्ति सन्देहः । तथापि पूर्वोक्तडल्हणवचनदर्शनात्, जाठराग्नेरेवोपासनाप्रतीकत्वं वैद्यकमतसिद्धमिति प्रतीमः । सोऽयं जाठराग्निः कथमेश्वरो भवितुमर्हतीति प्रथमतः किञ्चिद्विरतरेणोच्यते । तत्र नैयायिकैः साध्यमानमीश्वरत्वं कार्यमात्रंप्रति कर्तृत्वरूपमेव । तदुक्तं 'यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः' इति । तत्तु कर्तृत्वं कार्यमात्रनिरू- पितोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वरूपमेवेति न्यायकुसुमाञ्जलिदर्शनात् नैयायिकैः स्पष्ट- मेवागम्यते । यद्यपि 'स्वतन्त्रः कर्ता' इति पाणिनीयसूत्रे स्वातन्त्र्यरूपमेव कर्तृत्वमिति प्रतीयते, तच्च कारकान्तराप्रयोज्यत्वे सति स्वेतरसकलकारकप्रयोक्तृत्वरूपमेवेति वैयाकरणा वर्णयन्ति । न्याय- वार्तिककारोऽप्युद्योतकर एवंविधमेव शरीरात्मनोः सादृश्यमावहं कर्तृत्वं वर्णयांवभूव । तथापि निष्कृष्य- माणे स्वोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिसमष्टिमित्येव पुरुषे तादृशं स्वातन्त्र्यं विश्राम्यतीति हेतो- रेवंविधे ईश्वरत्वे सर्वेषामेतेषां अविप्रतिपत्तिरेव । अत एव ज्ञानसमर्जनार्थं प्रयत्नः सर्वसंग- परित्यागेन विचारसिकैः क्रियते स्वातन्त्र्यस्येश्वरस्वरूपस्य लाभायेत्यत्र नास्ति चार्वाकस्यापि विप्रति- पत्तिः । कर्तव्यविस्मरणमेव जाड्यापरपर्यायं पारतन्त्र्यापादकं भवति । ज्ञानन्तु स्वातन्त्र्यापरपर्याये- श्वरत्वापादकमिति सर्वेषां हृदयाभ्यनुज्ञातोऽयमर्थः । एवंस्थिते प्राप्ताप्राप्तविवेकेन परिपूर्णज्ञानस्येश्व- रतारूपत्वे, तज्ज्ञानं किण्वादिभ्यो मदशक्तिवत् भूतपरिणामरूपमेवेति चार्वाकाः, ततोऽन्यदिति आस्तिका इति मतभेदस्थितावपि चार्वाकमतेऽपीश्वरत्वापादकं ज्ञानतत्त्वं नापह्नोतुं शक्यत इति वस्तुस्थितिस्तु वक्तव्यैव भवति । पाश्चात्त्यविज्ञानशास्त्रेऽपि हि सेन्द्रियविज्ञानं निरिन्द्रियविज्ञानमिति विभागद्वयं कृत्वा सेन्द्रियविज्ञानमध्ये प्राणिशरीरावयवसापेक्षोत्पत्तिकानां शर्कराघृततण्डुलगोधूमादीनां द्विलक्षाधिकपदार्थानां संयुक्तानां वर्णनं यदुपलभ्यते तत्तेषां निरुक्तजाठराग्निमात्रसाध्यत्वादेव । वनस्पतिषु स्थितस्य पर्णहरितद्रव्यस्य सूर्यप्रकाशादेव सिद्धेः सौरशक्तेरसाधारणकारणत्वमिव शुक्लपक्षे समारोपितानामेव वंशानां रोगविनिर्मुक्तानां दर्शनात् चान्द्रमसज्योतिष्यपि जीवनोपयो- गित्वसिद्धेस्तेजस्त्रयस्याप्यस्य जाठराग्निसाहाय्येन कार्यकरत्वं स्पष्टम् । 'तस्य मध्ये महानग्निर्विश्वार्चि- र्विश्वतोमुखः । सोऽग्रभुक् विभजन्तिष्ठन्नाहारमजरः कविः । तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य संतता । संतापयति स्वं देहमापादतलमस्तकः । तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । नीलतोयदमध्यस्था विद्युल्लेखेव भारवरा । नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा । तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः' । इति तैत्तिरीयोपनिषदि सुषुम्नाकाण्डस्थितज्ञानतन्तुगतानामूर्ध्व- मुखानां वेगानामाश्रयभूते वह्नौ परमात्मदृष्ट्योपास्यत्वं विधीयते । 'धातवः सप्तभूतानामन्तः सप्ताग्नयः स्थिताः । केचिदग्नय इत्येवं केचिदूमति जानते । त्वग्रक्तमांसमेदोस्थिमज्जाशुक्राणि धातव ।' इत्यादिना भावप्रकाशनकारेण शारदातनयेन वैद्यके एतदनूदितं जाठराग्निविषये । तस्योष्म- रूपत्वपक्षे चरकानूदिते अनुद्भूतरूपत्वात् अतीन्द्रियत्वम् । सुश्रुतंमते तु 'सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते' इति दर्शनात् सौक्ष्म्यादनुपलब्धिः चाक्षुषप्रत्यक्षद्वारा । स्पार्शनप्रत्यक्ष- विषयत्वं तु उद्भूतस्पर्शत्वादुभयवादिसिद्धम् । 'कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे अन्तर्धान-