न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
DevanagariHindipublished608 पृष्ठ
पृष्ठ 7, कुल 608 में से
संदर्भ में पढ़ेंपृष्ठ 7
- श्रीगुरुः शरणम् * प्रस्तावना [ पण्डितराजः श्रीराजेश्वरशास्त्री द्राविड़ः काशीस्थवल्लभरामशालिग्रामसाङ्गवेदमहाविद्यालयध्यक्षः । ] न्यायाचार्यश्रीमदुदयनाचार्यप्रणीतो न्यायकुसुमाञ्जलिग्रन्थः वर्धमानप्रकाशमकरन्दमेघ- ठक्कुररुचामहाकृतटीकाप्रटीकादिभिः सम्भूषितः नूतनतया निजेनामोदेनामोदयन् सहृदयमनांसि पुरःस्थितो दृश्यते । नास्तिकदर्शनेष्विचारितकदर्शनेष्वपि निरीश्वरवादिमतं साङ्ख्यैः मीमांसकैश्चादृतं खण्डयित्वा अत्र ग्रन्थे ईश्वरतत्त्वसाधनिका कृता । तस्याः साधनिकाया एतावतैवात्युत्कृष्टत्वं सिद्ध्यति यत् न्यायाचार्यमतानुसारेण इच्छाविशेषरूपां शाब्दीभावनामङ्गीकुर्वन् खण्डदेवः स्वनि- र्मितायां भाट्टदीपिकायां ईश्वरनिराकरणपराणि मीमांसासूत्राणि शाबरभाष्यदृष्टीकाद्यनुसारेण व्याचक्षाणोऽपि अन्ते भीतभीतः मम त्वेवं वदतोऽपि जिह्वा दूषयति इति हरिस्मरणमेवात्र शरणमिति प्रायश्चित्तं विदधौ । बौद्धास्तु स्वसमय एवाचार्यैः भारतवर्षाद्दुत्खाताः इत्यहो आचार्याणां वैदुष्या- तिशयः प्रभावातिशयश्च ! ऐतिहासिकदृष्ट्या पुराणवाङ्मयनिर्माणानन्तरं सहस्रसम्वत्सरात्मके काले आयुर्वेदग्रन्थान् सुश्रुतवाग्भटादीन् विहाय दर्शनप्रतिपादकः वर्णाश्रमिणां कोऽपि शास्त्रीयो ग्रन्थः प्रामाणिकैरादृतः यद्योपलभ्यते महाभाष्यं विहाय, तेन एतत्सुष्ठ्ववगम्यते बौद्धधर्मानुसारिणां राज्ञां काले वर्णाश्रमिणां विद्याः क्रमशः विलुप्यमाना आसन् राजकीयप्रभावातिशयात् । तथापि आयुर्वेदविषयस्यारोग्याश्रितत्वात् बौद्धैरपि आरोग्यार्थं वर्णाश्रमधर्मोऽवश्यं स्वीकार्य इति मत- मासीत् । प्रथमशताब्दीभवेन नागार्जुनेन संशोषितस्य सुश्रुतग्रन्थस्य षष्ठशताब्दीभवस्य वाग्भट- ग्रन्थस्य च पर्यालोचनादिदं सिद्ध्यति । नीतिसारदृष्ट्यापि 'संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव चे'त्यत्रत्यवचनानुसारेण जनपदग्रामादिसन्निवेशस्यारोग्यायत्तत्वात् तस्य च बलायत्तत्वात् बलस्य च शीलायत्तत्वात्तस्य च व्यसने चाभ्युदये चाविकारकरि यत्सत्त्वं तद्रूपत्वेन तस्य ईश्वरीयज्ञाना- नुसरणाद्यत्तत्वमवगम्यते । विस्तरेण विवेचितोऽयमर्थः गीर्वाणवाग्वर्धिनीसभापञ्चाशदब्द्युत्सव- स्मारकनिबन्धेऽस्माभिरिति नेह तन्यते । विष्णुसहस्रनामस्तोत्रजपस्य ज्वरादिनिवर्त्तकत्वेन विधानं चरकाद्युक्तमेत एव संगच्छते । न्यायशास्त्रं हि विषादिनाशकमन्त्रागुर्वेदप्रामाण्येन वेदप्रामाण्यं साधयत् मीमांसकान् जीवयतीति स्पष्टमस्मात्कृतान्यत्र निबन्धे । आयुर्वेदोपदर्शितमीश्वरमप्यादा- वुपन्धस्य प्रत्यभिज्ञाप्य च कुसुमाञ्जलिग्रन्थस्य महत्त्वमस्यां भूमिकायां प्रकटीकर्तुमिच्छामः । जाठरो भगवानग्निः ईश्वरोऽन्नस्य पाचकः । सौक्ष्म्याद्रसानादानानो विवेक्तुं नैव शक्यते । इति उदयगनेरीश्वरत्वेनोपासना आयुर्वेदीयानां सम्मता । इति निम्नलिखितडल्हणकृतसुश्रुतटी- कादर्शनात् प्रतिपद्यते । एतदंप्रतियन्तः केचनं वर्तमाना वैद्याश्चरकादिग्रन्थेषु भगवानिति विशेषणमात्र- दर्शनात्, वायुमेवेश्वरत्वेनोपास्यं मन्यन्ते ! तत्तु सुश्रुतवचने ईश्वरशब्दस्य प्रत्यक्षं निर्देशदर्शनात् तन्मूलकेन डल्हणवचनेन विरुध्यत इति न प्रीणाति हृदयं सहृदयानामित्यन्यदेतत् । जाठराग्ने- रीश्वरत्वेनोपासनं हि न केवलं वैद्यक्रमूलकमपि तु--;