न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
मनपह्नवनीयतां गतमस्ति । तथा हि कुसुमाञ्जलिग्रन्थे 'कार्यायोजनधृत्यादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ।' इति पद्ये अष्टविधेपु अनुमानेषु ब्रह्माण्डविषयीणि कार्यायोजनधारणानि पक्षीकृत्येश्वरानुमानमुक्तं तत्तु ब्रह्माण्ड इव पिण्डाण्डेऽपि स्वतन्त्रनाडीतन्त्रकृतं शरीरनिर्माणात्मकं कार्यं, तदारम्भकपरमाणुप्रेरणात्मकमायोजनं, जीवतः शरीरधारणात्मकञ्च पक्षी- कृत्य सम्यगवगन्तुं शक्यते । 'पदात्प्रत्ययतः श्रुतेः' वाक्याच्च नादसापेक्षात् ईश्वरानुमानं पूर्वोक्त- नादप्रक्रियया स्वतन्त्रनाडीतन्त्रमूलिकया स्पष्टमवगन्तुं शक्यत इति पराहन्तानुभवानुसारेण एकस्मिन्सर्वविषयकज्ञाने स्थिरीकृते सति तदनुसारिमनननिदिध्यासनादिद्वारा जीवस्यापि सर्वज्ञ- त्वसिद्धिरप्रत्यूहा भवति । अत एव स्वर्गापवर्गयोर्द्वारमामनान्त मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ न्यायचर्चैयमीशस्य मननव्यपदेशभाक् । उपासनैव क्रियते श्रवणानन्तरागता ॥ इत्युक्तं न्यायकुसुमाञ्जलौ । इयांस्तु विशेषः-अद्वैतवादिनां द्वैतवादिनाञ्चेश्वरविषयविवादे मध्यसेतुभूतास्तत्रभवन्त उदयनाचार्याः स्वकीयया अलौकिक्या नैयायिकपरिभाषया ईश्वरतत्त्वम- नुमानद्वारा उभयाविरुद्धं साधयन्ति, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यैव सम्पूर्णेऽस्मिन्ग्रन्थे उपलभ्यमानत्वात् । अन्तरा अनूद्यमाने जीवेश्वरभेदादौ तु अनूद्यमानत्वमेव न विधेय- त्वम्, तदुपयोगिपञ्चावयववाक्यप्रयोगस्यात्र ग्रन्थे क्वचिदप्यदर्शनात्, प्रत्युत— 'न ग्राह्यभेदसवधूय धियोऽस्ति वृत्तिस्तद्बाधने बलिनि वेदनये जयश्रीः । नोचेदनिन्द्वमिदमीदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥' ( आत्मतत्त्वविवेके ) इत्यादिना आचार्यैर्वैदकसिद्धे परमेश्वरतत्त्वे स्वतात्पर्यमाविष्कृत- मन्यत्र, अतः प्रामाणिकानामयमत्यन्तमुपादेयः कुसुमाञ्जलिग्रन्थ इति न तिरोहितमस्ति विदुषाम् । नैयायिकानामपि परलोकधर्माधर्मविषयेषु नैयायिकप्रक्रियानुरोधिविप्रतिपत्त्याद्यभ्यासार्थं बहुटीका- सनाथः विशेषतो मिथिलामण्डलमण्डनायमाननैयायिकवरपूज्यवच्चाझामहोदयकृतटीकोपबृंहितोऽयं ग्रन्थो अतीव प्रकाशकरो वर्तत इति उचिततममुपादेयतमञ्चैतत्प्रकाशनं श्रीमता श्रेष्ठिवरेण जयकृष्ण- दासगुप्तमहोदयेन कृतं प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतइष्टसाधनताककर्माऽनुष्ठानरूपभारतीय- राजनीतिरूपमेवेति सहर्षमस्माभिरनुमोद्यते । इति ।
भूमिका अथायं प्रकाश्यते मुद्रयित्वा वरदराजकृतया बोधिन्या, व्याख्यात्रयसमलङ्कृतेन वर्धमानो- पाध्यायविरचितेन प्रकाशेन च समन्वितो न्यायाचार्यपदाङ्कितेन श्रीमदुदयनाचार्येण निबद्धो न्यायकुसुमाञ्जलिरित्यभिधया प्रथितो महानिबन्धः । तत्र च लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्व्याप्य- जात्यधिकरणत्वमात्मनि वर्तते न वेति संशये, भावकोट्या धर्मत्वाधर्मत्वरूपतादृशजात्यधिकरणत्वमा- त्मनि नैयायिकमतेन वर्तते, अभावकोट्या च चार्वाकमतेन गुरुत्वादिरूपतादृशजात्यधिकरणत्वम- नात्मगुण इति प्रथमविप्रतिपत्तिनिरसनार्थः प्रथमस्तवक आचार्यप्रवरेण जुगुम्फे । द्वितीये च अदृष्टादिसद्भावेऽपि वेदानाम्नाप्तोक्तत्वेन प्रामाण्यावधारणादाप्तो वेदकर्ता कश्चिदीश्वर इति न संभवति, अन्यथापि तेषां नित्यनिर्दोषतया स्वतःप्रामाण्यावधारणात्तद्विहितस्वर्गादिसाधनयागादौ प्रवृत्तिसंभ- वादित्याशयवान्मीमांसको द्वितीयः प्रतिवादी प्रत्यवतिष्ठते तन्मतखण्डनेनेश्वरसिद्धिः प्रसाधिता । तृतीये-भवतु वेदानां पौरुषेयत्वादाप्तोक्तत्वं तदभावावेदकप्रमाणसद्भावात्, क्षित्यादेः कर्तृजन्यत्वे च प्रत्यक्षबाधान्नेश्वरः कथमपि सिध्येदिति सौगतमतनिराकरणमकारि । सन्नपीश्वरो न प्रमाणम्, यतः प्रमाणपदं हि भावकरणकर्तृव्युत्पत्त्या प्रमातत् साधनतदाश्रयेषु प्रवर्तते, तथाचेश्वरः कर्ता स्यात्प्रमावांस्तत्करणेन्द्रियादिमांस्तत्समवायिकारणं च स्यान्न चायं तथेति विपर्ययानुमानादिति वादी दिगंबरश्चतुर्थश्चतुर्थे स्तवके दूषितः श्रीमदाचार्यपादैः । पञ्चमे च स्तबके नैयायिकैः क्षिति- वेदादेः कर्तृजन्यत्वेनेतरबाधादीश्वरकर्तृकत्वं साधनीयम्, स च हेतुः शरीरजन्यत्वाद्युपाधिग्रस्ततया न साधकः संभवतीति निरीश्वर सांख्यमतविप्रतिपत्तिखण्डनपुरस्सरं साधकयुक्तिगणैरीश्वरं साधयित्वा तन्मूलकमेव श्रुतिस्मृतिपुराणेतिहासादीनामथयावत्प्रामाण्यमुररीक्रियते . वैदिकधर्मप्रामाण्यवादिनि- र्मानवैस्तैः प्रधानतयेश्वरसिद्धिरेवास्य ग्रन्थस्य निर्मितौ आचार्यचरणानां प्रयोजनम् । एवं चेश्वरो वर्तते न वेति संशयबीजविप्रतिपत्तिनिरसनमुखेनेश्वरसिद्धेर्जागरूकत्वात्तदाज्ञापत्र (१) रूपश्रुतिस्मृतीति- हासपुराणान्यनुसृत्या तद्विहिताचरणसम्पन्नानां हृदि सुविमलां पुरुषार्थचतुष्टयलब्धिहेतुकां शेमुषीमुत्पा- द्यपत्रानास्थया तन्निषिद्धाचारवतां च स्वान्ते विपरीतां बुद्धिं प्रयच्छन्नीश्वरो जीवकर्मानुरूपाणि सुकृतदुष्कृतफलानि भोजयन्कर्मसापेक्षतया न वैषम्यनैर्घृण्यदोषदूषितो भवति, अत एवोक्तं भगवता व्यासेन वेदान्तब्रह्मसूत्रेषु 'वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति २-१-३४ इति । अस्मिंश्च सूत्रे तथाहि दर्शयति इतिवाक्यैकदेशेनैतद्विषये 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' ( प्रश्नो० ३।७ ) 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' (बृह० ३।२।१३) 'कर्मवैचित्र्यात्सृष्टिवैचित्र्यम्' ( ६।४१ ) इत्यादिना कर्मनिमित्तं रचनावैविध्यमतो न परमात्मनि कश्चिद्दोष इति श्रुतिप्रामाण्यं स्फुटीचकार सूत्रकारः । कर्मानुगुणमतिप्रेरकोऽपि स एवेत्यत्रापि । ( १ ) अतएवोक्तं वाधूलस्मृतौ-श्रुतिस्मृती ममैवाज्ञे यस्तामुल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः ॥ इति ।
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥' इति गीतावचनं प्रमाणम् । इत्थं प्राधान्येनात्र महानिबन्धे परमेश्वरतदवतारादीनां दृढप्रमाणैरवधारयितुर्न्यायाचार्य्य- विरुदावलीसमलङ्कृतस्याचार्य्योदयनभगवतः समयचारित्र्याद्यैतिह्यं भूतपूर्वैर्वारणसेयराजकीयसंस्कृत- महाविद्यालयीयपुस्तकाध्यक्षैः श्री पं० विन्ध्येश्वरीप्रसादद्विवेदिमहोदयैः काशीस्थचौखम्बासंस्कृत- सीरीजभिधपुस्तकमालायां प्रकाशितायां न्यायवार्तिकभूमिकायां, तत्रैव प्रकाशिते चात्मतत्त्वविवेके- ऽस्माभिरपि विस्तीर्य वर्णितप्रायमतस्तत्रैव द्रष्टव्यम् । आचार्येण वैशेषिके किरणावली, लक्षणावली, न्याये न्यायनिबन्धाख्या तात्पर्यपरिशुद्धिः, न्यायपरिशिष्टापरपर्याया न्यायसूत्रवृत्तिरात्मतत्त्वविवेकश्च यया पाण्डित्यपूर्णया रचनया विरचितास्तां विदन्त्येव प्राचीनन्यायवैशेषिकदर्शनहार्दज्ञा नैयायिकाः । स चायमाचार्यप्रवर इतः पूर्वं १९०५ पञ्चाधिकैकादशशतमिते वैक्रमे वर्षे नवाधिकसप्तशत ७०९मिते शकाब्दे वा प्रादुर्भूतस्य भगवतः शंकराचार्यस्य कियत्कालानन्तरमाविर्भूवेत्यत्र— तर्काम्बराङ्कप्रमितेष्वतीतेषु शकान्ततः । वर्षेष्बूदयनश्चक्रे सुबोधां लक्षणावलीम् ॥ इति तदुक्त्यैव निर्धार्यते । एतद्विरचितोयं न्यायकुसुमाञ्जलिर्द्विविधः—एको हरिदासमहेशचन्द्रन्यायरत्नप्रभृतिभिर्व्या- ख्यातः केवलकारिकात्मकोऽपरश्च गद्यपद्यात्मको वरदराजवर्धमानोपाध्यायादिभिष्टीकाग्रन्थैः समुपबृंहितः । अस्य च पूर्वं वारणसेयचौखम्बासंस्कृतपुस्तकालयमालायां ई० १९१२ हायने वर्धमानकृतप्रकाशेन, रुचिदत्तविरचितमकरन्देन च समलङ्कृतस्य महामहोपाध्यायरत्नगर्वस्थ- लक्ष्मणशास्त्रिभिः संस्कृतस्य प्रकाशनमभूत्, किन्तु तस्याधुनाऽप्राप्यत्वाद्बोधिन्याश्च वरदराजकृताया वारणसेयराजकीयसरस्वतीभवनात्प्रकाशिताया दुष्प्रापतया चास्मिन्संस्करणे बोधिनी, मेघठक्कुरकृतं जलदापरपर्यायं प्रकाशिकाख्यं प्रकाशाव्याख्यानं, मैथिलनैयायिकश्रीबब्चाझाकृता टिप्पणी च संनिवेशिता । एवं समुदितव्याख्यात्रयोपेतप्रकाशबोधिनीसहितस्य सर्वाङ्गपरिपूर्णस्य न्यायकुसुमांजलेः प्रातःस्मरणीयानामस्मद्गुरुप्रवराणां महामहोपाध्यायानां श्रीवामाचरणभट्टाचार्याणामन्तेवान्तेवासि- भिर्न्यायाचार्यश्रीपद्मप्रसादभट्टराइभिर्महता श्रमेणारब्धेऽस्य संपादने तेषां नेपालराजकीयकाठमाण्डू- स्थितराजकीयसंस्कृतमहाविद्यालये प्रधानाचार्यत्वेन नियुक्ततया तत्र गमनेन तृतीयस्तबकमारभ्य काशीस्थचौखम्बासंस्कृतपुस्तकालयाध्यक्षैः श्रेष्ठिकुलावतंसैर्जयकृष्णदासमहोदयैरस्य संस्करणस्यावशिष्ट- संपादनकार्येऽहं न्ययोजिषि । ऐषमे संस्करणे प्रकाशमकरन्दसहितं पूर्वनिर्दिष्टमेकमेव पुस्तकं प्रायशः शुद्धमादर्शत्वेनावलम्बितम् । जलद (प्रकाशिका)टिप्पण्योश्चादर्शपुस्तकाश्रयेण लेखकलिखिते भट्टराइमहोदयैः संशोधिते द्वे एव । बोधिन्याश्च वरदराजकृताया उपरि निर्दिष्टं प्रायः शुद्धमेकमेव पुस्तकमादर्शभूतमस्माभिरुपलब्धम् । स चायं वरदराजः कस्मिन्समये बभूव, मध्यकौमुदीलघुकौ- मुद्योर्व्याकरणग्रन्थयोस्सम्पादकाद्विजः स एव वेति सन्देहे प्रायशो मिथिलादेशवासी रामदेवमिश्र- तनूजोऽयमीस्वीयपंचदशशताब्द्यां बभूवेति वदन्त्यैतिहासज्ञाः । कुसुमांजलिहार्दप्रकाशनपुरस्सरमक्षरार्थ- संगतिद्वारा व्याख्यां प्रकुर्वाणोन वरदराजेनाऽन्येभ्यो व्याख्याकारेभ्यः प्रथितनैयायिकप्रचुरभारतचर्या-
( ८ )
दन्यत्राप्यनेन व्याख्यानेन कुसुमांजलिरहस्यजिज्ञासूनामीश्वरेऽनास्थां विदधतां गीर्वाणवाणीसु- बुद्धानां वैदेशिकानामुपकृतिर्भवेदिति बोधनी विरचितेति वैलक्षण्यमत्र प्रतीयते यतस्तेनैवोक्तं मङ्गलान्ते- औदयने पथि गहने विदेशिकः प्रतिपदं स्खलति लोकः। तस्य कृते कृतिरेषा कुसुमांजलिबोधनी जयतीति॥ लघुकौमुद्यादिरचयिता तु वरदराजोऽस्माद्भिन्न एवेति प्रतीयते। यद्यपि पंचदशशताब्दया अन्ते वर्तमानेन रामचन्द्रविदुषा रचितायाः प्रक्रियाकौमुद्या व्याख्याता वरदराजोऽपि तत्समय एव प्रायशो बभूव, अन्नंभट्टादिवन्न्यायव्याकरणादिशास्त्रपांडित्यमपि तस्य संभवतीत्यत्रापि न कापि क्षतिस्तथापि तस्य जनको भट्ट···नामोत्तरप्रदेशवासीति विभिन्न एवायं वरदराज इति सिद्धान्तः। पूर्वमीमांसाभिज्ञः कश्चिदन्योऽपि वरदराज इति मीमांसकाः प्राहुः। न्यायकुसुमाञ्जलिप्रकाशकारो न्यायाद्यनेकशास्त्रपारावारपारदृश्वा वर्धमानोपाध्यायस्तु मिथिलादेशे दरभङ्गामण्डलान्तर्गत'करियन'ग्रामे जातस्तत्त्वचिन्तामणिकृद्गङ्गेशोपाध्यायस्यापर- गौतममूर्तेरात्मजः। अत एवोक्तं न्यायकुसुमांजलिप्रकाशारम्भे-- न्यायाम्भोजपतङ्गाय मीमांसापारदृश्वने। गङ्गेश्वराय गुरवे पित्रेऽत्र भवते नमः॥ इति। 'यस्तर्कतन्त्रशतपत्रसहस्ररश्मि'रित्यादिकिरणावलीप्रकाशे च वर्धमानोपाध्यायाः। अस्य गणरत्नमहोदधिकारस्य च तत्तद्ग्रन्थेषु वर्धमाननाम्नैव प्रसिद्धिसत्त्वेऽपि समयैक्यासंभवाद्- गुरोर्नामभेदाच्च गणरत्नमहोदधिकारोऽन्यः स्वकीयग्रन्थे जैनेषु गौरवं प्रदर्शयन् जैन इति प्रतीयते, स च वर्धमानसूरिगोविन्दसूरिशिष्य इति तद्वृत्तौ स्वयमेव लिखितवान्। सप्तनवत्यधिकेष्वेकादशसु शतेष्वतीतेषु। वर्षाणां चक्रिमतो गणरत्नमहोदधिर्विहितः॥ इत्यप्युक्तम्। अनेन च गौतमसूत्रतत्त्वचिन्तामणिन्यायलीलावतीप्रभृतयोऽनेके ग्रन्था व्याख्याताः। किरणावल्याद्या आचार्यग्रन्था अपि सर्वे व्याख्याताः। स चायं मिथिलादेशजातो विद्वद्वरेण्यः दशमशताब्द्यां वर्तमानादुदयनाचार्यादनन्तरकालिको द्वादशशताब्द्व्यां बभूवेति निर्धारितमस्माभिर्न्यायलीलावतीभूमिकायाम्। कुसुमांजलिप्रकाशग्रन्थस्य प्रकाशिकाख्यव्याख्याकारो भगीरथठक्कुरापरपर्यायो मेघठक्कु- रोऽपि मैथिलः। अयं च पक्षधरमिश्रशिष्य इति किंवदन्ती, 'विंशाब्दे जयदेवपण्डितकवेरि'त्याद्यभि- युक्तोक्त्या चायं जयदेवसमकाले विंशाब्दे तदनन्तरं वा त्रिंशाब्दे बभूवेति इतिहासतत्त्वज्ञाः। अनेनापि वर्धमानोपाध्यायनिर्मिताः सर्वे प्रकाशग्रंथा व्याख्याता इत्यनुमीयते। उपलभ्यन्ते च किरणावलीप्रकाशप्रकाशिका, न्यायलीलावतीप्रकाशप्रकाशिका एतदतिरिक्ता ग्रन्थाः। प्रकाशव्याख्यां मकरन्दाभिधया टीकया समुद्भासयतो महामहोपाध्यायरुचिदत्तमिश्रस्य विषये त्वियं किंवदन्ती जागर्ति-यदेष मिथिलामण्डलान्तर्गतसोदरपुरवास्तव्यो देवदत्तमिश्रसूनुः
( ६ )
पीयूषवर्षजयदेवापरनाम्नो पक्षधरमिश्रस्य प्रधानोऽन्तेवासी नव्यन्यायप्राचीनन्याययोस्तत्त्वज्ञस्त- त्कालिकनैयायिकेष्वतीवप्रसिद्धनैयायिको बभूवेति । यत एवोक्तं तत्त्वचिन्तामणिप्रत्यक्षखण्डपुष्पिकायां— अधीत्य रुचिदत्तेन जयदेवाज्जगद्गुरोः । चिन्तामणौ ग्रन्थमणौ प्रकाशोऽयं प्रकाश्यते ॥ इति । तथा— श्रीदेवदत्ततनयो विनयोपगूढः श्रीरेणुकाविरलगर्भपुटोपजातः । श्रीशक्तिदत्तमतिदत्तसहोदरो यः सोऽमुं चकार रुचिदत्तकृती प्रकाशम् ॥ इति श्रीसोदरपुरकुलसमुद्भूतमहामहोपाध्यायश्रीरुचिदत्तविरचिते तत्त्वचिन्तामणि- प्रकाशे । अनेन न्यायकुसुमाञ्जलिप्रकाशे मकरन्दव्याख्या, तत्त्वचिन्तामणिप्रकाशः, तर्कपादः, तर्कसारश्च स्वतंत्रो व्यरचीति प्रसिद्धिः । एतत्समयविषये त्वनेकमतानि प्रतीयन्ते, तथथा सुरेन्द्र- नाथगुप्तमहोदयमतेनायमीस्वीयत्रयोदशशताब्द्यां १२७५ वर्षे बभूवेति । सार्धदशकोत्तर-त्रयोदशश- ताब्दिमध्येऽस्य स्थितिररासीदिति च तार्किकरक्षायां वाराणसेयभूतपूर्वरराजकीयसंस्कृतमहाविद्यालयीय- प्रधानाचार्या महामहिमशालिनो डॉ० वेनिसमहाशया दर्शयन्ति स्म । वस्तुतस्त्वनेकशास्त्राविस्तृतस्य नव्यन्यायशास्त्रस्य बीजाधानं विदधतः श्रीगङ्गेशोपाध्यायस्य शिष्येण पुत्रेण च प्रकाशकर्त्रा द्वादशशताब्द्यां वर्तमानेन सुयोग्यस्तत्कालिको यज्ञपतिरध्यापितः । यज्ञपतिशिष्यश्च हरिमिश्रस्तस्य च पक्षधरमिश्रः । तेन च वासुदेव-रुचिदत्त-चन्द्रपतिरिति त्रयो- ऽन्तेवासिनः प्राधान्येन न्यायशास्त्रमध्याप्य भारतं वर्षे स्वनामकीर्तिपताक्या समलङ्कृतमभूत् । तेषु रुचिदत्तमिश्रस्य शिष्यो महेशठक्कुरो महामहिम्नो अक्रूरनाम्नो यवनराजस्य समये ई० १५५६ हायने षोडशशताब्द्यामेवाभूदतस्तमय एव रुचिदत्तस्य स्थितिररासीदिति सिद्धान्तः । अयं च सिद्धान्तो— वेदैर्बाणयुतैः सशंभुनयनैस्संख्यां गते हायने श्रीमत्प्रौढमहीभुजो गुरुदिने मार्गे च पक्षेऽसिते । पट्ट्यां ताममरावतीमधिवसन् या भूमिदेवालया श्रीमत्पक्षधरः सुपुस्तकमिदं शुद्धं व्यलेखीद्भुतम् ॥ इति च वचनेन १४५१ A. D.–१४६५ A. D. समयस्थितिकस्य पक्षधरमिश्रस्य समयनिर्धारणेन परिपुष्टो भवतीति सुधीभिर्विभावनीयम् । टिप्पणीकारा धर्मदत्तापरपर्यायश्रीवच्चाझामहोदयास्तु मिथिलाप्रदेशान्तर्गतनवानीनाम्निग्रामे १९१७ वैक्रमाब्दे दरभंगाधीशश्रीरुद्रसिंहमहाराजराजपण्डितानां रत्नपाणिझामहोदयानां तनुज- न्मनो पं० दुर्गादत्तझानाम्नो विदुषः पुत्रः सुगृहीतनामधेयो धर्मदत्तनाम्ना वच्चाझापरपर्यायेण प्रथितो बभूव । स च गृह एव प्रारम्भिकमध्ययनं समाप्य ठाढीग्रामनिवासिनो विद्वन्मूर्धन्यस्य पं० विश्वनाथझाविदुषः समीपे किंचित्कालमध्ययनं कृत्वा तत्कालीनप्रसिद्धनैयायिकप्रवरस्य पं० वचु- जनझाविदुषः प्रधानान्र्तेवासित्वमवाप्य न्यायवैशेषिकशास्त्रे व्युत्पत्तिमावाप्तवान् । पश्चाद्वाराणस्यां
( १० )
सुप्रथितविदुषो महायोगिनः श्रीविशुद्धानन्दसरस्वतीमहोदयस्य चरणचञ्चरीकतामङ्गीकृत्य पूर्वोत्तर-
मीमांसाहार्दं विज्ञाय सुप्रौढपाण्डित्यं लेभे ।
पश्चान्मिथिलाप्रचलितां स्वगृहे एव चतुष्पाठीमुद्घाट्याध्यापनं चकारेति वदन्ति तत्रस्थाः। तत्र-
भवतोऽध्यापनचातुरीमाकर्ण्य देशान्तरस्थाश्छात्रागणा यन्निकटेऽधीत्य देशान्तरेऽपि यत्कीर्तिपताकां
प्रकाशितवन्तः । कदाचित्पाण्डित्यसंतुष्टा द्वारिकापीठाध्यक्षाः शंकराचार्या अपि सादरमाहूय
यत्समीपे शास्त्राध्ययनमकुर्वन्त । ‘सूरत’इत्यत्रायोजितेऽखिलभारतीयपण्डितसमाजेऽपि प्रधानपदं
येनालङ्कृतमभूत् । भृतकवृत्तिमपहुवानेनापि येन मिथिलाधीशश्रीरमेश्वरसिंहराज्ञामनुरोधेन धर्म-
समाजसंस्कृतकालेजमुजफ्फरनगरप्रधानाचार्यपदमलंकृतम् । स चायं वैक्रमे १९७८ वर्षे देवपुरातिथि-
र्बभूव वच्चाझामहोदयः । अयं च कविताशक्तिप्रतिभया सुलोचनामाधवं चंपूनामकं चंपूकाव्यमपि
निर्ममे । एतत्कृतग्रंथाः—
१. व्याप्तिपंचकटीका । ७. सिद्धान्तलक्षणविवेचनम् ।
२. अवच्छेदकत्वनिरुक्तिविवेचनम् । ८. व्याप्त्यनुगमविवेचनम् ।
३. व्युत्पत्तिवादगूढार्थतत्त्वालोकः । ९. शक्तिवादटिप्पणम् ।
४. सव्यभिचारटिप्पणम् । १०. सत्प्रतिपक्षटिप्पणम् ।
५. खण्डनखाद्यटिप्पणम् । ११. कुसुमांजलिप्रकाशटिप्पणम् ।
६. न्यायभाष्यटीका । १२. अद्वैतसिद्धिचन्द्रिकाटिप्पणम् ।
सोऽयं कुसुमांजलिग्रन्थोऽद्य यावदप्रकाशिताभ्यां जलदापरपर्यायप्रकाशिकाटिप्पणीभ्यां सह
महता श्रमेण यथामति संशोध्य विदुषामग्रे उपस्थापितः । अत्र च पंचमस्तबकान्ते प्रकाशिकायां
मकरन्दे च पृष्ठे प्रदर्शितस्य वक्तरीति, आगन्तुकेति च प्रतीकद्वयस्य मुद्रितप्रकाशपुस्तकेऽद-
र्शनाल्लिखितादर्शप्रकाशपुस्तकप्राप्त्यर्थमस्माभिः प्रयत्नो विदधे, किन्तु वाराणसेयसरस्वतीभवनाख्य-
राजकीयपुस्तकालयेऽपि केवलमेकं चतुर्थस्तबकमात्रस्य पुस्तकं वर्तते न तु पूर्णमेकमपि। मकरन्दप्रका-
शिकयोश्चादर्शपुस्तके वंगाक्षरे वरीवर्तेते, तयोरपि चोक्तप्रतीकद्वयमुपलभ्यैतन्निर्धारितं यत्प्रकाशस्थो-
यमन्तिमो भागोऽवश्यं भ्रष्टो नोपलब्धः पूर्वप्रकाशकैरिति स्वयमूहनीयं नैयायिकप्रवरैः ।
निरीश्वरवादिमतोन्मूलनक्षमस्यैकमात्रस्यास्य महानिबन्धस्य संशोधनकार्यं मादृशामल्पबुद्धीनां
यद्यप्युडुपेन सागरतितीर्षोरिवोपहासकरन्तथापि प्रातःस्मरणीयानां गुरुचरणानामसीमानुग्रहबलादेव
यथाकथंचित्पूर्णतां गतमिति तदुपकृतीर्भूमिकालिखने ऐतिह्यसाहाय्यं प्रदतां वाराणसेयराजकीयसंस्कृत-
महाविद्यालयप्रधानपुस्तकालयाध्यक्षाणां डॉ० सुभद्रझामहोदयानां चोपकारान् यावज्जीवं न कदापि
विस्मरिष्यामः ।
वाराणसेयागस्त्याश्रमवासी
कार्तिकपूर्णिमा } विदुषामनुचरः
२०१३ ० / ढुंढिराजशास्त्री ।
कुसुमाञ्जलिकारिकाः प्रथमः स्तवकः । सत्पक्षप्रसरः सतां परिमलोद्बोधबद्धोत्सवो विम्लानो न विमर्दनेऽमृतरसप्रस्यन्दमाध्वीकभूः । ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रम- चेतो मे रमयत्वविघ्नमनघो न्यायप्रसूनाञ्जलिः ॥ १ ॥ स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ २ ॥ न्यायचर्चैयमीशस्य मननव्यपदेशभाक् । उपासनैव क्रियते श्रवणानन्तरागता ॥ ३ ॥ सापेक्षत्वादनादित्वाद्द्वैचित्र्याद्विश्ववृत्तितः । प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥ ४ ॥ हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च । स्वभाववर्णना नैवमवधेर्नियतत्वतः ॥ ५ ॥ प्रवाहो नादिमानेष न विजात्येकशक्तिमान् । तत्त्वे यन्नवता भाव्यमन्वयव्यतिरेकयोः ॥ ६ ॥ एकस्य न क्रमः कापि वैचित्र्यञ्च समस्य न । शक्तिभेदो न चाभिन्नः स्वभावो दुरतिक्रमः ॥ ७ ॥ विफला विश्ववृत्तिर्नो न दुःखैकफलापि वा । दृष्टलाभफला वापि विप्रलम्भोऽपि नेदृशः ॥ ८ ॥ चिरध्वस्तं फलायालं न कर्मातिशयं विना । सम्भोगो निर्विशेषाणां न भूतैः संस्कृतैरपि ॥ ९ ॥ भावो यथा तथाऽभावः कारणं कार्यवन्मतः । प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ॥ १० ॥ संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः । स्वगुणाः परमाणूनां विशेषाः पाकजादयः ॥ ११ ॥ निमित्तभेदसंसर्गादुद्भवानुद्भवादयः । देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा ॥ १२ ॥ ज्येतरनिमित्तस्य वृत्तिलाभाय केवलम् । परोद्देश्यसमवेतस्य परीक्षाविधयो मताः ॥ १३ ॥ कर्तृधर्मा नियन्तारश्चेतिता च स एव नः । अन्यथाऽपवर्गः स्यादसंसारोऽथ वा ध्रुवः ॥ १४ ॥ नान्यदृष्टं स्मरत्यन्यो नैकं भूतसंप्रक्रमात् । वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे ॥ १५ ॥ न वैजात्यं विना तत् स्यात् न तस्मिन्ननुमा भवेत् । विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥ १६ ॥ ७३ न्या० कु०
( २ ) स्थैर्यदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोधतः । एकतानिर्णयो येन क्षणे तेन स्थिरे मतः ॥ १७ ॥ हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तु सत् । तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम् ॥ १८ ॥ पूर्वभावो हि हेतुत्वं मीयते येन केनचित् । व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि ॥ १९ ॥ इत्येषा सहकारिशक्तिरसमा माया दुरुन्नेतितो मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता । देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः साक्षात् साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम ॥ २० ॥ 𑁋𑁋𑁋𑁋𑁋𑁋 अथ द्वितीयः स्तबकः । प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् । तदन्यस्मिन्नविश्वासान्न विधान्तरसम्भवः ॥ १ ॥ वर्षादिवद्भवोपाधिर्वृत्तिरोधः सुषुप्तिवत् । उद्भिद्वृश्चिकवद्वर्णा मायावत् समयादयः ॥ २ ॥ जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः । ह्रासदर्शनातो ह्रासः सम्प्रदायस्य मीयताम् ॥ ३ ॥ कारं कारमलौकिकाद्भुतमयं मायावशात् संहरन् हारं हारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति । तं देवं निरवग्रहस्फुरदभिध्यानानुभावं भवं विश्वासैकभुवं शिवं प्रति नमन् भूयासमन्तेष्वपि ॥ ४ ॥ 𑁋𑁋𑁋𑁋𑁋𑁋 अथ तृतीयः स्तबकः । योग्यादृष्टिः कुतोऽयोग्ये प्रतिबन्धः कुतस्तराम् । क्वायोग्यं बाध्यते शृङ्गं क्वानुमानमनाश्रयम् ॥ १ ॥ व्यावर्त्याभाववत्तैव भाविकी हि विशेष्यता । अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ २ ॥ दृष्टोपलम्भसामग्री शशशृङ्गादियोग्यता । न तस्यां नोपलम्भोऽस्ति नास्ति सानुपलम्भने ॥ ३ ॥ इष्टसिद्धिः प्रसिद्धेऽशे हेत्वसिद्धिरगोचरे । नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा ॥ ४ ॥ आगमादेः प्रमाणत्वे बाधनादनिषेधनम् । आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता ॥ ५ ॥ दृष्टादृष्ट्योर्न सन्देहो भावाभावविनिश्चयात् । अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभम् ॥ ६ ॥
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ ७ ॥ परस्परविरोधे हि न प्रकारान्तरस्थितिः । नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः ॥ ८ ॥ साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते । अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् ॥ ९ ॥ सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ १० ॥ सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयापि वा ॥ ११ ॥ श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति । पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥ १२ ॥ अनैकान्तः परिच्छेदे सम्भवे च न निर्णयः । आकाङ्क्षा सत्तया हेतुर्योग्यासत्तिर्बन्धना ॥ १३ ॥ निर्णीतशक्तेर्वाक्याद्धि प्रागेवार्थस्य निर्णये । व्याप्तिस्मृतिविलम्बेन लिङ्गस्यैवानुवादिता ॥ १४ ॥ व्यस्तपुंदूषणाशङ्कैः स्मारितत्वात् पदैरमी । अन्विता इति निर्णीते वेदस्यापि न तत् कृतः ॥ १५ ॥ न प्रमाणमनाप्तोक्तिर्नादृष्टे क्वचिदाप्तता । अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः ॥ १६ ॥ न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात् । निरञ्जनाऽवबोधार्थो न च सन्नपि तत्परः ॥ १७ ॥ हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा । तदभावात् प्रवृत्तिर्न कर्मवादेऽप्ययं विधिः ॥ १८ ॥ अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः । न मानयोर्विरोधोऽस्ति प्रसिद्धे वाऽप्यसौ समः ॥ १९ ॥ प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्थानपेक्षणात् । अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ २० ॥ प्रतियोगिनि सामर्थ्याद्व्यापाराद्व्यवधानतः । अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् ॥ २१ ॥ अवच्छेदग्रहाण्यैवाद्दौस्थ्ये सिद्धसाधनात् । प्राप्त्यन्तरेऽनवस्थानान्न चेदन्योऽपि दुर्घटः ॥ २२ ॥ प्रत्यक्षादिभिरेभिरेवमधरो दूरे विरोधोदयः प्रायो यन्मुखवीक्षणैकविधुरैरात्माऽपि नासाद्यते । तं सर्वानुविधेयमेकमसमस्वच्छन्दलीलोत्सवम् देवानामति देवमुद्भवदतिश्रद्धाः प्रपद्यामहे ॥ २३ ॥
( ४ ) अथ चतुर्थः स्तवकः । अप्राप्तेरधिकप्राप्तेर्लक्षणमपूर्वदृक् । यथार्थोऽनुभवो मानमनपेक्षतयेष्यते ॥ १ ॥ स्वभावनियमाभावादुपकारो हि दुर्घटः । सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥ २ ॥ अनैकान्तादसिद्धेर्वा न च लिङ्गमहि क्रिया । तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ ३ ॥ अर्थेनैव विशेषो हि निराकारतया धियाम् । क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् ॥ ४ ॥ मितिः सम्यक्परिच्छित्तिस्तद्वत्ता च प्रमातृता । तद्योगोह्यव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ ५ ॥ साक्षात्कारिणि नित्ययोगिनि परद्वारानपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताववस्तुक्रमः । लेशादृष्टिनिमित्तदृष्टिविगमप्रभ्रष्टशङ्कास्तुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः ॥ ६ ॥ अथ पञ्चमः स्तवकः । कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात् सङ्ख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ १ ॥ न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धो न दुर्बलैः । सिद्धयसिद्धयोर्विरोधो न, नासिद्धिरनिबन्धना ॥ २ ॥ तर्काभासतयाऽन्येषां, तर्काशुद्धिरदूषणम् । अनुकूलस्तु तर्कोऽत्र कार्यलोपो विभूषणम् ॥ ३ ॥ स्वातन्त्र्ये जडताहानिः, नादृष्टं दृष्टघातकम् । हेत्वभावे फलाभावः, विशेषस्तु विशेषवान् ॥ ४ ॥ कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः । विच्छेदेन पदस्यापि प्रत्यादेश्च पूर्ववत् ॥ ५ ॥ उद्देश एव तात्पर्यं व्याख्या विश्वदृशः सती । ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः ॥ ६ ॥ प्रवृत्तिः कृतिरेवात्र सा चेच्छातो यतश्च सा । तज्ज्ञानं, विषयस्तस्य विधिस्तज्ज्ञापकोऽथ वा ॥ ७ ॥ इष्टहानेरनिष्टाप्तेरप्रवृत्तेर्विरोधतः । असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात् ॥ ८ ॥ कृताकृतविभागेन कर्तृरूपव्यवस्था । यत्न एव कृतिः, पूर्वा परस्मिन् सैव भावना ॥ ९ ॥ भावनैव हि यत्नात्मा सर्वाख्यातस्य गोचरः । तया विवरणध्रौव्यादाक्षेत्तानुपपत्तिः ॥ १० ॥
( ५ ) आक्षेपलभ्ये संख्येये नाभिधानस्य कल्पना । संख्येयमात्रलाभे तु साकाङ्क्षेण व्यवस्थितिः ॥ ११ ॥ अतिप्रसङ्गाच्च फलं नापूर्वं तत्त्वहानितः । तदलाभान्न कार्यञ्च न क्रियाऽप्यप्रवृत्तितः ॥ १२ ॥ असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी । बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः ॥ १३ ॥ हेतुत्वादनुमानाच्च मध्यमादौ वियोगतः । अन्यत्र क्लृप्तसामर्थ्यान्निषेधानुपपत्तितः ॥ १४ ॥ विधिर्वक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । अभिधेयोऽनुमेया तु कर्तुरिष्टाभ्युपायता ॥ १५ ॥ कृत्स्न एव च वेदोऽयं परमेश्वरगोचरः । स्वार्थद्वारेव तात्पर्यं तस्य स्वर्गादिवद्विधौ ॥ १६ ॥ श्यामभूवं भविष्यामीत्यादौ संख्या प्रवक्तृगा । समाख्याऽपि च शाखानां नाद्यप्रवचनादृते ॥ १७ ॥ इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते येषां नास्पदमधासि हृदये ते शैलसाराशयाः । किन्तु प्रस्तुतविप्रतीपविधयोऽप्युच्चैर्भवच्चिन्तकाः काले कारुणिक ! त्वयैव कृपया ते तारणीया नराः ॥ १८ ॥ अस्माकन्तु निसर्गसुन्दर ! चिराच्चेतो निमग्नं त्वयी- त्यद्धाऽऽनन्दनिधौ तथापि तरलं नाद्यापि सन्तृप्यते । तन्नाथ ! त्वरितं विधेहि करुणां येन त्वदेकाग्रतां याते चेतसि नाप्नुवाम शतशो याम्याः पुनर्यातनाः ॥ १९ ॥ इत्येष नीतिकुसुमाञ्जलिरुज्ज्वलश्री- र्यद्वासयेदपि च दक्षिणवामकौ द्वौ । नो वा, ततः किममरेशगुरोर्गुरुस्तु प्रीतोऽस्त्वनेन पदपीठसमर्पणेन ॥ २० ॥ ॥ इति कुसुमाञ्जलिकारिकाः ॥
कुसुमाञ्जलिप्रकरणीयकारिकानामकारादिक्रमेण प्रतीकसूची। ( अ ) स्तबके, पृष्ठे, पङ्क्तौ १ अतिप्रसङ्गान्न ... ... ५ ५४४ ५ २ अनियमस्य नायुक्तिः ३ ४१९ ४ ३ अनैकान्तः परिच्छेदे ३ ३९० ७ ४ अनैकान्त्यात ... ... ४ ४६० १० ५ अर्थेनैव विशेषः ... ... ४ ४६१ ११ ६ अवच्छेदग्रहध्रौव्यात् ३ ४४६ ३ ७ अव्याप्तेरधिक ... ... ४ ४५० ७ ८ असत्त्वादप्रवृत्तेश्च ... ... ५ ५५५ ३ ९ अस्माकन्तु निसर्गसुन्दर ... ... ५ १४९ १७ ( आ ) १० आगमादेः प्रमाणत्त्वे ... ... ३ ३३३ ८ ११ आक्षेपलभ्ये ... ... ५ ५३७ १ ( इ ) १२ इत्येवं श्रुतिनीति ... ... ५ ५७५ १५ १३ इत्येष नीतिकुसुमा ... ... ५ ५७६ ५ १४ इत्येषा सहकारिशक्तिः ... ... १ २०८ १ १५ इष्टसिद्धि- ... ... ३ ३३२ ५ १६ इष्टहानेरनिष्टाप्तेः ... ... ५ ५२६ ५ ( उ ) १७ उद्देश एव तात्पर्य्यम् ... ... ५ ५१९ ५ ( ए ) १८ एकस्य न क्रमः क्वापि १ ९२ ३ ( क ) १९ कर्तृधर्म्मा नियन्तारः ... ... १ १७४ ९ २० कारंकारमलौकिकाद्भुत ... ... २ ३०९ १ २१ कार्यत्वान्निरुपाधित्वं ... ... ५ ५०७ ९ २२ कार्यायोजन ... ... ५ ४७९ ७ २३ कृताकृतविभागेन ... ... ५ ५३० १ २४ कृत्स्न एव हि वेदोऽयम् ... ... ५ ५६८ १२ ( च ) २५ चिरध्वस्तं ... ... १ १०२ २ ( ज ) २६ जन्मसंस्कार ... ... २ २९२ ११
( ७ ) स्तबके, पृष्ठे, पङ्क्त. २७ जयेतरनिमित्तस्य ... ... १ १४८ ५ ( त ) २८ तर्काभासतयाऽन्येषाम् ... ... ५ ५०० १ ( द ) २९ दुष्टोपलम्भ- ... ... ३ ३३० १४ ३० दृष्टयदृष्टयोः ... ... २ ३३४ ७ ( न ) ३१ न चासौ क्वचिदेकान्तः ... ... ३ ४१६ ५ ३२ न प्रमाणमनाप्तोक्तिः ... ... ३ ४१५ ६ ३३ न बाधोऽस्त्युपजीव्यत्वात् ... ... ५ ४८५ १ ३४ न वैजात्यम् ... ... १ १८३ ५ ३५ नान्यदृष्टम् ... ... १ १८० ५ ३६ निमित्तभेद ... ... १ १४५ ६ ३७ निर्णीतशक्तेः ... ... ३ ४०१ ६ ३८ न्यायचर्चैयम् ... ... १ १९ ३ ( प ) ३९ परस्परविरोधे हि ... ... ३ ३७२ १ ४० पूर्वभावो हि हेतुत्वं ... ... १ २०३ ६ ४१ प्रतिपत्तेः ... ... ३ ४२७ ३ ४२ प्रतियोगिनि ... ... ३ ४४१ ७ ४३ प्रत्यक्षादिभिः ... ... ३ ४४९ १ ४४ प्रमायाः परतन्त्रत्वात् ... ... २ २१० ३ ४५ प्रवाहोनादिमान् ... ... १ ६३ १ ४६ प्रवृत्तिः कृतिरेवात्र ... ... ५ ५२५ १० ( भ ) ४७ भावनेव हि यत्नात्मा ... ... ५ ५३२ ७ ४८ भावो यथा ... ... १ १०७ ५ ( म ) ४९ मितिः सम्यक्परिच्छित्ति ... ... ४ ४७५ ३ ( य ) ५० योग्यादृष्टिः ... ... ३ ३१२ ४ ( व ) ५१ वर्षादिवद्भवोपाधि ... ... २ २८१ २ ५२ विधिर्वक्तुरभिप्रायः ... ... ५ ५६७ ४ ५३ विफला विश्ववृत्तिः ... ... १ ९६ ४ ५४ व्यस्तपुंदूषणाशङ्कैः ... ... ३ ४०४ २ ५५ व्यावर्त्त्याभाववत्तैव ... ... ३ ३२९ ३
( ८ ) स्तबके, पृष्ठे, पङ्क्तौ ( श ) ५६ श्रद्धा चेदनुमास्त्येव ... ... ३ ३४१ ७ ५७ श्रुतान्वयादनाकाङ्क्षं ... ... ३ ३८१ ६ ( स ) ५८ संस्कारः पुंस ... ... १ १३३ ६ ५९ सत्पक्षप्रसरः ... ... १ २ १ ६० सम्बन्धस्य परिच्छेदः ... ... ३ ३७७ २ ६१ साक्षाकारिणि नित्ययोगिनि ... ... ४ ४७८ १ ६२ सादृश्यस्यानिमित्तत्वात् ... ... ३ ३७९ १ ६३ साधर्म्यमिव ... ... ३ ३७५ ३ ६४ सापेक्षत्वादनादित्वात् ... ... १ १ २ ६५ स्थैर्य्यदृष्ट्योः ... ... १ १९९ २ ६६ स्वर्गापवर्गयोः : ... ... १ १ २ ६७ स्वातन्त्र्ये जडताहानिः ... ... ५ ५०३ १३ ६८ स्वाभावनियमाभावात् ... ... ४ ४५९ ७ ६९ स्यामभूर्वं भविष्यामि ... ... ५ ५७२ २ ( ह ) ७० हेतुत्वादनुमानाच्च ... ... ५ ५६३ ६ ७१ हेतुभूति ... ... १ ४९ २ ७२ हेतुशक्तिमनादृत्य ... ... १ २०१ ५ ७३ हेत्वभावे फलाभावात् ... ... ३ ४१७ १० इति कुसुमाञ्जलिकारिकासूचीसमाप्तिमगमत् ॥
न्यायकुसुमाञ्जलिप्रकरणस्य प्रस्तावक्रमेण विषयसूची । प्रथमस्तबके पृष्ठे पङ्क्तौ १ मङ्गलाचरणम् ... ... २ १ २ परमात्मनिरूपणप्रतिज्ञा ... ... ११ १ ३ ईश्वरे वादिनां मतानि ... ... १४ १ ४ ईश्वरमननावश्यकता ... ... १९ ३ ५ ईश्वरविषये विप्रतिपत्तयः ... ... २९ १ ६ कार्यकारणभावव्यवस्थापनम् ... ... ४१ २ ७ आकस्मिकत्ववादखण्डनम् ... ... ४९ १ ८ स्वभाववादखण्डनम् ... ... ५५ १ ९ कार्यकारणप्रवाहस्यानादित्वव्यवस्थापनम् ... ... ६३ १ १० तृणारणिमणीनां वह्निकारणत्वविचारः ... ... ७१ १ ११ शक्तिपदार्थखण्डनविचारः ... ... ,, २ १२ दहनसामान्यस्य प्रयोजनिरूपणम् ... ... ९० १ १३ ब्रह्मप्रकृतिकारणतावादखण्डनम् ... ... ९१ ३ १४ अपूर्वकारणताव्यवस्थापनम् ... ... ९६ ३ १५ प्रतिबन्धकपार्थनिर्वचनम् ... ... १०७ ५ १६ प्रध्वंसस्य व्यापारत्वखण्डनम् ... ... ११७ २ १७ उपलक्षणस्य कारणताखण्डनम् ... ... १३० १ १८ परमाणूनां पाकजविशेषेण कार्यविशेषजनकत्वम् ... ... १४३ २ १९ कारणतापवार्थनिर्णयः ... ... १५० २ २० शक्तिपदार्थनिर्णयः (न्यायमते) ... १५१ ३ २१ अदृष्टस्य भोक्तृनिष्ठत्वव्यवस्थापनम् ... ... १६७ १ २२ सांख्यमतप्रक्रिया, सांख्यमतखण्डनम् ... ... १६९ ४ २३ कार्यकारणयोः समानजातीयत्वनियमो न तु समानधर्मत्वनियमः ... ... १७६ ६ २४ भेदाभेदवादखण्डनम् ... ... १७८ ४ २५ भूतचैतन्यवादः ... ... १८० १ २६ भूतचैतन्यवादखण्डनम् ... ... ,, ५ २७ क्षणभङ्गवादः ... ... १८२ २ २८ क्षणभङ्गवादखण्डनम् ... ... १८३ ५ २९ जातिसांकर्यविचारः ... ... १८७ १ ३० नित्यविभोः कारणत्वशङ्का ... ... २०२ ९ ३१ नित्यविभोः कारणत्वव्यवस्थापनम् ... ... २०३ ६ ७४ न्या० कु०
१. प्रथम स्तबक: अदृष्ट एवं कर्म-फल व्यवस्था द्वारा ईश्वर-सिद्धि
( १० ) द्वितीयस्तबके पृष्ठे पङ्क्तौ १ ईश्वरानुमानम् ... २०९ ४ २ प्रामाण्यस्य गुणजन्यत्वव्यवस्थापनम् ... २११ १ ३ प्रामाण्यस्य परतो ग्राह्यव्यवस्थापनम् ... २२० ३ ४ शब्दानित्यत्वोपपादनम् ... २३३ ४ ५ जातिशक्तिवादखण्डनम् ... २७४ १ ६ प्रलयव्यवस्थापनम् ... २८० ६ ७ वेदहासव्यवस्थापनम् ... २९२ ११ ८ आचारस्य प्रत्यक्षश्रुतिमूलकत्वव्यवस्थापनम् ... २९९ ७ ९ महाजनपरिग्रहपदार्थनिर्वचनम् ... ३०२ ७ १० प्रलयान्तरं सृष्ट्युपपादनम् ... ३०३ ११ तृतीयस्तबके १ अनुपलब्धेरीश्वरबाधकत्वनिरासः ... ३११ ४ २ योग्यानुपलब्धेरभावनिश्चायक- व्यवस्थापनम् ... ३१३ १२ ३ मनोवैभववादः ... ३१४ ३ ४ मनोवैभववादखण्डनम् ... ३१५ १ ५ स्वापनिरूपणम् ... ३२३ ८ ६ सुषुप्तिनिरूपणम् ... ३२४ ३ ७ परमात्मनः परस्यायोग्यत्वव्यवस्थापनम् ... ,, ४ ८ प्रत्यक्षमात्रप्रमाणवादखण्डनम् ... ३३४ ७ ९ अनुमानप्रामाण्यव्यवस्थापनम् ... ३३६ ९ १० अप्रयोजक-निरूपणम् ... ३५१ २ ११ उपाधिलक्षणम् ... ३५२ १ १२ अप्रयोजकस्य हेत्वाभासान्तर्भावविचारः ... ३६६ १ १३ सिद्धसाधनस्य हेत्वाभासान्तर्भावविचारः ... ३७१ १ १४ सादृश्यस्यातिरिक्तपदार्थत्वखण्डनम् ... ,, ५ १५ शक्तिसंख्यादीनामतिरिक्तपदार्थत्वखण्डनम् ... ३७३ ६ १६ उपमानस्य प्रमाणान्तरत्वव्यवस्थापनम् ... ३७७ १ १७ उपमानस्य लक्षणम् ... ३८६ १ १८ शब्दस्य प्रमाणान्तरत्वव्यवस्थापनम् ... ३८८ १ १९ शब्दस्य बाधकत्वखण्डनम् ... ४१५ १ २० अर्थापत्तेर्बाधकत्वखण्डनम् ... ४१७ ७ २१ अपलब्धेः प्रमाणान्तरत्वखण्डनम् ... ४२७ १ चतुर्थस्तबके १ प्रमालक्षणम् ... ४५० ७ २ ज्ञातताखण्डने विचारः ... ४५९ ३ ३ क्षणिकत्वविचारः ... ४६४ ११
( ११ ) पञ्चमस्तवके पृष्ठे पङ्क्तौ १ ईश्वरानुमानम् ... ... १ ७ २ परमाण्वादीनामीश्वरशरीरत्व- 'व्यवस्थापनम् ... ... ४९४ ४ ३ ईश्वरस्यापि शरीरपरिग्रहः ... ... ५०८ १३ ४ वेदंलक्षणम् ... ... ५१७ १ ५ द्यणुकपरिमाणादीनां संख्याजन्यत्वव्यवस्थापनम् ... ... ५१४ ५ ६ विधिविचारः ... ... ५२५ ८ ७ स्वप्नस्थानुभवरूपत्वव्यवस्थापनम् ... ... १४६ १ इति कुसुमाञ्जलिप्रकरणसूची समाप्ता । कुसुमाञ्जलिवोधन्या-प्रकाशस्य च सन्दर्भानुसारण विषयसूची। प्रथमस्तवके पृष्ठे पङ्क्तौ १ मङ्गलाचरणम् ... ... १ ८-१५ २ स्वपितृपरिचयः ... ... १ २१९ ३ ग्रन्थस्य प्रयोजनाभिधेयसम्बन्धाः ... ... २ ५-२३ ४ न्यायशब्दस्य तात्पर्यार्थः ... ... ३ ५६५ ५ पदयुगशब्दस्य सारार्थः ... ... २ ८-६-८ ६ पदयुगशब्दस्य विकल्पार्थः ... ... २ ११-६-८ ७ पदयुगशब्दस्य शब्दानुमानातिरिक्तत्व- व्यवस्थापनम् ... ... ६ १५ ८ न्यायानामनघत्वव्यवस्थापनम् ... ... ६ १३-१८ ९ अमृतेत्यादि विशेषणस्य तात्पर्यार्थः ... ... ८ ११. १० कर्मयोगपद्ये न्यायप्रसूनांजलिशब्दार्थः ... ... ९ १ ११ अमृतेत्यादिविशेषणस्य तात्पर्यार्थे सतर्कता ... ... ९ ८ १२ मोक्षविषये सन्देहः ... ... १० ३-१६ १३ ईश्वरमननस्य मोक्षहेतुत्वे शङ्का ... ... " १८. १४ ईश्वरमननस्य सफलत्वसाधनम् । ... ... ११ ३-१० १५ आत्मनः परिणामिनित्यत्वखण्डनम् ... ... १२ १०-२१ १६ कपिलमते 'आदिविद्वान्' इति शब्दस्य तात्पर्यमाह ... ... " २३ १७ तत्र मिश्राणां सम्मतिः ... ... " २४ १८ क्लेशपदार्थकथम् ... ... " २७ १९ विपाकपदार्थकथनम् ... ... १५ ४-१५ २० आशयपदार्थकथनम् ... ... " ५-१५ २१ अनादिवेदस्य भगवता द्योतनम् ... ... " १७
( १२ ) पृष्ठे पङ्क्तौ २२ अस्मदायदृष्टैर्भगवच्छरीरनिष्पत्तिः ... ... १५ १८ २३ मिथ्याज्ञानवतः कर्मजन्यमदृष्टं न तत्त्वज्ञानिनः ... ... १६ ९ २४ प्रवरपदार्थकथनम् ... ... १८ ६-१३ २५ सिद्धसाधनस्य स्वार्थानुमानेऽदोषत्वम् ... ... २० ९ २६ पाठक्रमादर्थक्रमस्य बलवत्त्वम् ... ... २१ १ २७ सिद्धसाधनस्य हेत्वाभासतान्यवस्थापनम् ... ... २३ ४ २८ सिद्धसाधनस्य दशाविशेषे दोषत्वम् ... ... २५ ४ २९ सिद्धसाधनस्य पृथग्दूषणत्वाभावः ... ... ,, ५ ३० संशयं विनापि न्यायावतारः ... ... २७ ४ ३१ अलौकिकविप्रतिपत्तौ सावधानता ... ... २९ ३-११ ३२ अलौकिके विप्रतिपत्तिः ... ... ३० ५ ३३ अदृष्टे विप्रतिपत्तिः ... ... ३१ ६ ३४ अदृष्टविप्रतिपत्तौ यद्वाकल्पः ... ... ३४ १ ३५ स्वर्गे विप्रतिपत्तिः ... ... ३५ १ ३६ नरके विप्रतिपत्तिः ... ... ३६ १ ३७ परलोकमात्रे विप्रतिपत्तिः ... ... ,, ३ ३८ साधने विप्रतिपत्तिः ... ... ,, ५ ३९ तत्र यद्वाकल्पः ... ... ३८ १ ४० तत्र द्वितीययद्वाकल्पः ... ... ,, ३ ४१ साधनविप्रतिपत्तौ तृतीययद्वाकल्पः ... ... ३९ १ ४२ मीमांसकादिविप्रतिपत्तिकथनम् (बो०) ... ... ४० ४ ४३ विशिष्टे विप्रतिपत्तिः ... ... ,, १६ ४४ चार्वाकाभिप्रायः ... ... ,, १७ ४५ अलौकिकहेतुसाधकानुमानम् ... ... ४१ ११ ४६ कार्यकारणभावानभ्युपगन्तृचार्वाकानां युक्तिः ... ... ,, १६ ४७ कार्यकारणभावव्यवस्थापनम् ... ... ४२ १५ ४८ कार्यकारणभावे प्रत्यक्षप्रमाणप्रदर्शनम् ... ... ,, १९ ४९ कार्यकारणभावेऽनुमानेन प्रामाण्यप्रदर्शनम् ... ... ४३ ४ ५० कार्यकारणभावे प्रामाणिक्यनवस्थाङ्गीकारः ... ... ४४ ९ ५१ अदृष्टसाधनम् ... ... ,, १८ ५२ दध्यारंभकपरमाणुषु दधित्वानानावश्यकत्वम् ... ... ७३ १८ ५३ तत्र रत्नकोशकारमतम् ... ... ८० १ ५४ जात्यपेक्षया नियमनादि बौद्धमतखण्डनम् ... ... ८१ ३ ५५ शक्तिपदार्थखण्डनम् ... ... ८४ ३-९ ५६ तत्र गङ्गेशोपाध्यायमतम् ... ... ८५ १० ५७ धर्मधर्मिभेदानुपपत्त्या शक्तिभेदानुपपत्तिः ... ... ९५ ६-२१ ५८ शक्तौ विप्रतिपत्तिः ... ... १०३ २४ ५९ विशिष्टस्यानर्थान्तरत्वकथनम् ... ... ११० २७
( १३ ) पृष्ठे, पङ्क्तौ ६० तत्र गंगेशमतम् ... ... ११३ ११ ६१ शक्तिसाधकानुमानकथनम् ... ... १२१ ३१ ६२ उक्तानुमानखण्डनम् ... ... १२४ ४ ६३ प्रतियोगिध्वंसयोरेकत्राजनकत्वम् ... ... १३० १४ ६४ लाक्षारसावसिक्तबीजस्यारुणपुष्पजनकत्वम् ... ... १४१ १० २४ ६५ सौरभशैत्ययोरेकाधारत्वाभावः ... ... १४२ २७ ६६ कारणत्वपदार्थविचारः ... ... १५० २३ ६७ उत्पत्तिपदार्थनिरूपणम् ... ... १५१ १९ ६८ अन्यथासिद्धिपदार्थनिरूपणम् ... ... १५८ २ ६९ भेदाभेदवादः ... ... १७९ १० ७० अन्योन्याभावस्याव्याप्यवृत्तित्वमतम् ... ... ,, ११ ७१ भेदाभेदवादखण्डनम् ... ... ,, १७ ७२ क्षणिकत्वे विप्रतिपत्तिः ... ... १८२ २२ ७३ घटत्वजातेः साङ्कर्यविचारः ... ... १८८ ८ ७४ घटत्वजातेः संस्थानवृत्तित्वमतम् ... ... ,, १२ ७५ गुणगतजातौ साङ्कर्यस्यादोषत्ववादिमतम् ... ... ,, १५ ७६ घटत्वजातेर्नानात्वव्यवस्थापनम् ... ... ,, १६ ७७ घटत्वजातेः संस्थानवृत्तित्वमतखण्डनम् ... ... १८९ ८ ७८ घटत्वस्योपाधित्वव्यवस्थापनम् ... ... ,, १० ७९ स्थैर्यपक्षे कारणत्वानुपपत्तिशंका ... ... २०१ ८ ८० उक्तशंकासमाधिः ... ... ,, १८ द्वितीयस्तबके ८१ ज्ञानप्रामाण्ये विप्रतिपत्तिः ... ... २२० १३ ८२ भाट्टप्रभाकरमतखण्डनम् ... ... २३१ २५ ८३ परतः प्रामाण्यपक्षेऽनुमानासंभवाक्षेपः ... ... २२३ १० ८४ उक्ताक्षेपसमाधिः ... ... २२५ ४ ८५ प्रतियोगितावच्छेदकभेदेनाभावभेदः ... ... २४५ ३ ८६ तारत्वादिवैजात्याशङ्कासमाधी ... ... २६३ १५ ८७ संयोगस्याजातवादः ... ... २५५ २३ ८८ कालस्य षडिन्द्रियवेद्यत्वम् ... ... २६९ २६ ८९ जातिव्यक्त्युभयशक्तिवादिप्राभाकरमताक्षेपसमाधिः ... ... २७८ २६ ९० पक्षैकदेशस्य दृष्टान्तत्वम् ... ... २८३ १० ९१ प्रलयसद्भावे वैद्यकदृष्टान्तः ... ... २८५ १२ ९२ स्तुतिनिन्दार्थवादाभ्यां विधिनिषेधवाक्यकल्पनम् ... ... २९६ १७ तृतीयस्तबके ९३ द्रव्यसाक्षात्कारे योग्यविशेषगुणस्य प्रयोजकत्वम् ... ... ३१४ १५ ९४ विभुकार्यविशेषगुणस्य न स्वासमवायिकारणन्यूनदेशत्वमिति- नियमः ... ... ३१७ २२
( १४ ) पृष्ठे, पङ्क्तौ ९५ बुभुत्साप्रणिधानयोर्नानांशजंडंसमवायदशायां यः ९६ शब्दग्रहस्तत्र सहकारित्वम् ... ... ३२१ ६ ९७ अव्यभिचारपदार्थः ... ... ३४० १६ ९८ व्याप्तिनिरूपणम् ... ... ३४८ २७ ९९ उपाधिस्वरूपविचारः ... ... ३५२ १२ १०० असिद्धिस्वरूपनिर्वचनम् ... ... ३६७ २ १०१ बाधस्य पृथक् हेत्वाभासत्वाक्षेपसमाधी ... ३६९ २ १०२ लक्षणाबीजविचारः ... ... ३८१ २४ १०३ आकांक्षाकारणत्वविचारः ... ... ३९४ २४ १०४ प्रामाण्यप्रयोजकविचारः ... ... ४०४ २२ चतुर्थस्तबके १०५ अन्वयांशे शक्तिखण्डनम् ... ... ४०७ २० १०६ गृहनिष्ठाभावप्रतियोगित्वस्य लिङ्गत्ववाक्षेपसमाधी ... ४२२ १३ १०७ विशेष्यवति विशिष्टाभावस्य विशेषणाभावात्मकत्वम् ... ४२६ १९ १०८ धारावहनबुद्धौ मानम् ... ... ४५२ ८ १०९ वैशिष्ट्यसम्बन्धखण्डनम् ... ... ४५३ १६ ११० तत्तालक्षणम् ... ... ४५८ ८ १११ समवायिकारणस्य कार्यसमानकालत्वम् ... ... ४६१ १४ ११२ ज्ञाततासाधकानुमानखण्डनम् ... ... ” २८ पञ्चमस्तबके ११३ ईश्वरसाधकानुमाने पक्षादिविचारः ... ... ४७९ १६ ११४ विशेषणासामर्थ्यविचारः ... ... ४८६ २० ११५ ईश्वरसाधकानुमाने बाधोपाध्योर्निरासः ... ... ४९१ ८ ११६ वेद लक्षणम् ... ... ५११ १० ११७ पौरुषेयत्वलक्षणम् ... ... ” १९ ११८ द्व्यणुकमहत्त्वस्य परिमाणजन्यत्वविचारः ... ... ५१६ १७ ११९ आख्यातार्थविचारः ... ... ५३३ २६ १२० भावनान्वयविचारः ... ... ५३९ १७ १२१ लिङ्पदस्य कार्यत्वमात्रशक्तिखण्डनम् ... ... ५४७ १५ १२२ यागस्य स्वर्गसाधनताज्ञानविचारः ... ... ५५१ १७ १२३ देवताप्रीतेर्यागव्यापारत्वखण्डनम् ... ... ५५३ १६ १२४ विधिविचारः ... ... ५५६ ३२ इति कुसुमाञ्जलिवोधिनीप्रकाशगतविषयसूची समाप्ता ।