भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 16, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 16

( १० )

सुप्रथितविदुषो महायोगिनः श्रीविशुद्धानन्दसरस्वतीमहोदयस्य चरणचञ्चरीकतामङ्गीकृत्य पूर्वोत्तर- मीमांसाहार्दं विज्ञाय सुप्रौढपाण्डित्यं लेभे । पश्चान्मिथिलाप्रचलितां स्वगृहे एव चतुष्पाठीमुद्घाट्याध्यापनं चकारेति वदन्ति तत्रस्थाः। तत्र- भवतोऽध्यापनचातुरीमाकर्ण्य देशान्तरस्थाश्छात्रागणा यन्निकटेऽधीत्य देशान्तरेऽपि यत्कीर्तिपताकां प्रकाशितवन्तः । कदाचित्पाण्डित्यसंतुष्टा द्वारिकापीठाध्यक्षाः शंकराचार्या अपि सादरमाहूय यत्समीपे शास्त्राध्ययनमकुर्वन्त । ‘सूरत’इत्यत्रायोजितेऽखिलभारतीयपण्डितसमाजेऽपि प्रधानपदं येनालङ्कृतमभूत् । भृतकवृत्तिमपहुवानेनापि येन मिथिलाधीशश्रीरमेश्वरसिंहराज्ञामनुरोधेन धर्म- समाजसंस्कृतकालेजमुजफ्फरनगरप्रधानाचार्यपदमलंकृतम् । स चायं वैक्रमे १९७८ वर्षे देवपुरातिथि- र्बभूव वच्चाझामहोदयः । अयं च कविताशक्तिप्रतिभया सुलोचनामाधवं चंपूनामकं चंपूकाव्यमपि निर्ममे । एतत्कृतग्रंथाः— १. व्याप्तिपंचकटीका । ७. सिद्धान्तलक्षणविवेचनम् । २. अवच्छेदकत्वनिरुक्तिविवेचनम् । ८. व्याप्त्यनुगमविवेचनम् । ३. व्युत्पत्तिवादगूढार्थतत्त्वालोकः । ९. शक्तिवादटिप्पणम् । ४. सव्यभिचारटिप्पणम् । १०. सत्प्रतिपक्षटिप्पणम् । ५. खण्डनखाद्यटिप्पणम् । ११. कुसुमांजलिप्रकाशटिप्पणम् । ६. न्यायभाष्यटीका । १२. अद्वैतसिद्धिचन्द्रिकाटिप्पणम् । सोऽयं कुसुमांजलिग्रन्थोऽद्य यावदप्रकाशिताभ्यां जलदापरपर्यायप्रकाशिकाटिप्पणीभ्यां सह महता श्रमेण यथामति संशोध्य विदुषामग्रे उपस्थापितः । अत्र च पंचमस्तबकान्ते प्रकाशिकायां मकरन्दे च पृष्ठे प्रदर्शितस्य वक्तरीति, आगन्तुकेति च प्रतीकद्वयस्य मुद्रितप्रकाशपुस्तकेऽद- र्शनाल्लिखितादर्शप्रकाशपुस्तकप्राप्त्यर्थमस्माभिः प्रयत्नो विदधे, किन्तु वाराणसेयसरस्वतीभवनाख्य- राजकीयपुस्तकालयेऽपि केवलमेकं चतुर्थस्तबकमात्रस्य पुस्तकं वर्तते न तु पूर्णमेकमपि। मकरन्दप्रका- शिकयोश्चादर्शपुस्तके वंगाक्षरे वरीवर्तेते, तयोरपि चोक्तप्रतीकद्वयमुपलभ्यैतन्निर्धारितं यत्प्रकाशस्थो- यमन्तिमो भागोऽवश्यं भ्रष्टो नोपलब्धः पूर्वप्रकाशकैरिति स्वयमूहनीयं नैयायिकप्रवरैः । निरीश्वरवादिमतोन्मूलनक्षमस्यैकमात्रस्यास्य महानिबन्धस्य संशोधनकार्यं मादृशामल्पबुद्धीनां यद्यप्युडुपेन सागरतितीर्षोरिवोपहासकरन्तथापि प्रातःस्मरणीयानां गुरुचरणानामसीमानुग्रहबलादेव यथाकथंचित्पूर्णतां गतमिति तदुपकृतीर्भूमिकालिखने ऐतिह्यसाहाय्यं प्रदतां वाराणसेयराजकीयसंस्कृत- महाविद्यालयप्रधानपुस्तकालयाध्यक्षाणां डॉ० सुभद्रझामहोदयानां चोपकारान् यावज्जीवं न कदापि विस्मरिष्यामः । वाराणसेयागस्त्याश्रमवासी
कार्तिकपूर्णिमा } विदुषामनुचरः २०१३ ० / ढुंढिराजशास्त्री ।