न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 142, कुल 608 में से
संदर्भ में पढ़ें१०८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्या प्रतिबन्धो विसामग्री तद्धेतुः प्रतिबन्धकः ॥ १० ॥ न ह्यभावस्याकारणत्वे प्रमाणमस्ति । न हि विधिरूपेणासौ तुच्छ इति स्वरू- पेणापि तथा, निषेधरूपाभावे विधेरपि तुच्छत्वप्रसङ्गात् । कारणत्वस्य भावत्वे- न व्याप्तत्वात्तन्निवृत्तौ तदपि निवर्त्तेत इति चेन्न । परिवर्त्तप्रसङ्गात् । अन्वयव्य- तिरेकानुविधानस्य च कारणत्वनिश्चयहेतोर्भाववदभावेऽपि तुल्यत्वात् । अभा- बोधनी । नियतोत्तरभावित्वेनाभावः कार्य, तथा नियतपूर्वकालवर्त्तित्वेनाभावः कारणमपीति भावः । विसामग्री=सामग्र्यन्तर्गतकारणविगमः, सामग्रीवैकल्यमिति यावत्, मन्त्रादिश्च तथा, तद- भावस्य सामग्र्यनुप्रवेशात् । तेन मन्त्रादेः प्रतिबन्धकत्वाभावादकिञ्चित्करत्वं न दोषाय । कस्तर्हि प्रति- बन्धक इत्यत्रोक्त-तद्धेतुः इति । मन्त्रादिप्रयोक्तारः प्रतिबन्धकाः ते तु किञ्चित्करा एवेति भावः ॥१०॥ कारिकां व्याचष्टे—न हि इति । तुच्छत्वमत्र प्रमाणमुक्तमित्याह—न हि विधीति । किमत्र तुच्छत्वं ?—यद्यलीकत्वं तदसिद्धं, यद्यन्यरूपेणासत्त्वं तत्तर्हि भावस्याप्यविशिष्टं भावा- भावयोरितरेतरानात्मकत्वात् । अत ईदृशं तुच्छत्वमनैकान्तिकमिति । शङ्कते—कारणत्वस्य इति । स्पष्टम् । न इति । कारणत्वस्याभावत्वेन व्याप्तत्वादभावत्वनिवृत्तौ कारणत्वमपि निवर्त्तेत इति वक्तुं शक्यत इति । ननु न वयं तावत्त्वमात्रेण कारणत्वं ब्रूमः येनैवमुपालभ्येमहि, किन्तु कारणत्वनिदानमन्वयव्यतिरेकौ, तौ चाभावस्येति तन्नाह-अन्वय इति । नन्वाकाशादिवदवर्ज- नीयसन्निधितया नाभावः कारणमित्याह-अभावस्य इति । न तावदाकाशादिवन्नित्यत्वविभुत्वा- प्रकाशः । मतः, तेनैवाभावोऽपि कारणम् । तथात्वेऽपि भावत्वव्याप्तं कारणत्वमिति यदि ब्रूयात्- प्राह । कार्यवदिति । तर्ह्यभावो नियतोत्तरवर्त्तित्वेन कार्योऽपि न स्यात्, भावत्वव्याप्य- त्वात् कार्यत्वस्य । अथ वैपरीत्यस्यापि सुवचत्वान्न तथा, एवमभावः कारणमपि, तत्त्वस्य भावत्वव्याप्यत्वे मानाभावादित्यर्थः । द्वितीयामथोपत्तिं दूषयति । प्रतिबन्ध इति । सामग्र्यन्तर्गतमन्त्राद्यभावविगम एव प्रतियोगीरूपः प्रतिबन्धः, तत्कारणञ्च प्रतिबन्धकः पुरुषो न तु मण्यादिः, स च कि- ञ्चित्कर एवेत्युभयसिद्धमित्यन्यथोपपत्तिरित्यर्थः । ननु तुच्छत्वमेव तत्र मानमुक्तमित्यत आह । न हीति । तुच्छत्वं हि भावनिषेधरूपत्वमुक्तम् । तच्चाप्रयोजकम् । अन्व- यादिरहितत्वस्योपाधित्वात् । न चान्यनिषेधरूपत्वेनैवाकारणत्वं, भावस्याप्यभावनिषेध- रूपत्वेनाकारणत्वापातात् । अथाकारणत्वे तन्त्रमस्वरूपत्वम्, भावश्च स्वरूपमेवेति मतं, तर्ह्यभावेऽपि तुल्यमित्यर्थः । परिवर्त्तेति । कारणत्वमभावत्वव्याप्यमिति भावः, कारणं न स्यादित्यर्थः । नियतपूर्ववर्त्तित्वमात्रं कारणत्वं, तच्चाभावेऽप्यस्तीति भावः । कारणत्वग्राहकमप्युभयसाधारणमित्याह । अन्वयेति । न च सत्ताविशिष्टस्य कारणत्वं, जात्या- देरप्यतंत्ववापातादित्यर्थः । अभावस्येति । अन्वयानुविधाने तुल्येऽप्यभावसन्निधिराकाशस्येवाऽन्यथासिद्ध इत्यर्थः । मकरन्दः । कल्पनादिति भावः । विधिरूपेणेति । तृतीयार्थः प्रतियोगितानिरूपकत्वरूपं वैशिष्ट्यम् ।