भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 143, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 143

प्रथमस्तबके ] अपूर्व्वस्य चेतनधर्म्मत्वाक्षेपः । १७६ वस्यावर्जनीयतया सन्निधिर्न तु हेतुत्वेनेति चेत्, तुल्यम् । प्रतियोगिनमुत्सारय- तस्तस्यान्यप्रयुक्तः सन्निधिरिति चेत्, तुल्यम् । भावस्याभावोत्सारणं स्वरूपमे- वेति चेदभावस्यापि भावोत्सारणं स्वरूपान्नातिरिच्यते । तस्माद्यथा भावस्यैवा- भावो जनक इति नियमोऽनुपपन्नः, तथा भाव एव जनक इत्यपि । को ह्यनयोर्वि- शेषः । प्रतिबन्धकोत्तम्भकप्रयोगकाले तु व्यभिचारस्तदा स्यात्, यदि यादृशे सति कार्यानुदयस्तादृश एव सत्युत्पादः स्यात् । न त्वेवं, तदाऽपि प्रतिपक्षस्याभावात् । असत्प्रतिपक्षो हि प्रतिबन्धकाभिभतो मन्त्रः प्रतिपक्षः । स च तादृशो नास्त्येव । यस्त्वस्ति, नासौ प्रतिपक्षः । तथापि विशेष्ये सत्येव विशेषणमात्राभावस्तत्र स बोधनी । भावादवर्जनीयसन्निधिरभावस्तथाप्यवर्जनीयत्वे भावस्यापि तत्तुल्यत्वमित्याशयवानाह - तुल्यम् इति । ननु अनन्यथासिद्धान्वयव्यतिरेकवतः कारणत्वम् , अभावस्तु कार्यविरोधिनं स्वप्रतियोगिनं प्रतिबन्धकमुत्सारयन् सन्निधत्ते न तु कार्यार्थमित्याह - प्रतियोगिनम् इति । तर्हि भावोऽपि कार्यविरोधिनं स्वाभावमुत्सारयन् सन्निधत्त इति शक्यते वक्तुमित्याह - तुल्यम् इति । अथ भा- वस्याभावाभावात्मकत्वेन न स्वरूपव्यतिरिक्तमभावोत्सारणं नाम किञ्चिदस्ति कार्यं, तेन कार्यप्रयुक्त एव भावसन्निधिरिति चेत्तर्हि अभावस्यापि भावाभावात्मकत्वान्न स्वव्यतिरेकेण भावोत्सारणं नाम कार्यमस्तीति शङ्कोत्तराभ्यामाह - भावस्य इति । उपसंहारव्याजेन कार्यवन्मत इत्येतद् विवृ- णोति - तस्मात् इति । यथा प्रमाणबाधितत्वादेको नियमोऽनुपपन्नस्तथाऽपरोऽपि, द्वयोर्नि- यमयोर्बाधितत्वाविशेषात् । यद्वा, कार्यत्वकारणत्वयोः प्रमाणसिद्धत्वाविशेषादिति । यत्तुक्तम् उत्त- म्भकप्रयोगे सत्येव कार्योत्पत्तेर्व्यतिरेकव्यभिचारः प्रतिबन्धकाभावस्येति तत्राह - प्रतिबन्धक इति । यादृश इति उत्तम्भकरहिते प्रतिबन्धे, सतीति प्रतिबन्धोत्तम्भकप्रयोगकालेऽपि कार्यप्रति- पक्षः प्रतिबन्धको नास्तीत्यर्थः । कीदृशस्तर्हि प्रतिबन्धकः यदभावात्तदा कार्यमुत्पद्यत इति । अत उक्तम् - असत्प्रतिपक्षो हि इति । उत्तम्भकापरपर्यायस्वप्रतिपक्षाभावविशिष्टो हि मन्त्रादिः- प्रकाशः । तुल्यमिति । अभावस्यैव कारणत्वे भावसन्निधिस्तथैत्येव किन्न स्यादित्यर्थः । प्रति- योगिनमिति । विध्युत्सारणप्रयुक्तसन्निधिरभावस्येत्यन्यथासिद्ध इत्यर्थः । तुल्यमिति । भाव- स्याप्यभावोत्सारणप्रयुक्तः सोऽप्यन्यथासिद्धः स्यादित्यर्थः । अभावस्यापीति । भावाभावयोः स्वरूपमेव मिथोविरोधी, न तूत्सारणमन्यदित्युभयसमानमित्यर्थः । वस्तुतस्तु कुड्यसंयोगाभावस्य गतौ, अनुपलब्धेश्चाभावज्ञाने, विहिताकरणस्य प्रत्यवाये, निर्दोषत्वस्य वेदप्रामाण्यज्ञाने जनक- त्वस्य मीमांसकरैपि स्वीकारादभावस्य कारणत्वानभ्युपगमेऽपसिद्धान्त इति रहस्यम् । अनुप- पन्न इति । प्रमाणाभावादिति शेषः । प्रतिबन्धकेति । तत्रापि प्रतिबन्धकस्याऽभावो, न तु तत्सद्भाव इति, न व्यतिरेकव्यभिचार इत्यर्थः । ननु प्रतिबन्धकोत्तम्भकसत्त्वे कथं प्रतिबन्ध- कस्याभाव इत्यत आह । असत्प्रतिपक्षो हीति । उत्तम्भकाभावविशिष्टो यः प्रतिबन्धकस्तस्या- भावः कारणम् , स चोभयसद्भावेऽप्यस्तीत्यर्थः । प्रतिबन्धकाभिमत इति । प्रतिबन्ध एव प्रतिबन्धकः, स्वार्थे कः । तत्त्वेनाभिमत इत्यर्थोऽतो न विरोधः । यस्त्विति । कार्याभावोन्नेयं प्रतिपक्षत्वं कार्यसत्त्वे नास्तीत्यर्थः । तथापीति । यत्रोत्तम्भकाभावे सति प्रतिबन्धकस्याभावस्तत्र विशेष्यप्रतिबन्धकस्यैवाभावः कारणम् । यत्र तु प्रतिबन्धकसद्भावे सत्युत्तम्भकसद्भावात् कार्यं, तत्रोत्तम्भकाभावस्य विशेषणस्याभाव एव