न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 158, कुल 608 में से
संदर्भ में पढ़ें१२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां प्रकाशः । भिघातजन्यक्रियायां तथा दर्शनात् । उष्णस्पर्शव्यावर्तनायातीन्द्रियेति । तत्त्वं च साक्षात्कारनिया- मकप्रत्यासत्त्यनाश्रयत्वम् । प्रतिबन्धकाभावनिवारणाय भावभूतेति । उच्यते । अनुमानानां विपक्षबाधकाभावेनाप्रयोजकत्वम् । उभयसिद्धप्रतिबन्धकाभावेनैवोप- पत्तेः । न च सहचारदर्शनव्यभिचारादर्शनाभ्यामेव व्याप्तिग्रहः । साध्ये शक्त्यतिरिक्तेति विशेषणा- त्तेनैव हेतुना तत्सिद्धावेवं तत्तदतिरिक्तेतिविशेषणपरम्परातस्तादृशानन्तधर्मसिद्ध्यापत्तेः । न च घट- वत् क्षितिः क्षितिवद्धट इतीश्वरानन्त्यवच्छक्त्यानन्त्यम् कार्यमात्रे नेश्वरत्वेन द्विकर्तृत्वेन वा कार- णता, गौरवात्, किन्तु कर्तृत्वेनेति तदपादकाभावः । प्रतिकूलतर्कप्रतिघातश्च । शक्तेर्भावहेतुत्वे शक्त्यनुकूलाप्यन्या शक्तिरेवं तत्तदनुकूलाऽप्यन्याऽन्येत्यनवस्थापातात् । भावभूतेति च व्यर्थम् । न च व्यापके न व्यर्थविशेषणता व्याप्यताग्राहक इव व्यापकताग्राहकेऽपि लाघवस्य सहकारित्वात् । द्वितीयाद्यनुमानेषु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः । तुल्ययोगक्षेमत्वेऽपि सन्दिग्धोपाधित्वात् । प्रकाशिका । नन्वतीन्द्रियत्वं साक्षात्काराविषयत्वं लौकिकसाक्षात्काराविषयत्वं वा, आद्ये न्यायमतेऽप्रसिद्धिः अन्ये परमते व्यावत्र्याप्रसिद्धिरत आह। तत्त्वञ्चेति । संयोगादिष्वन्यतमप्रत्यासत्त्यनाश्रयत्व- मित्यर्थः । यद्वा साक्षात्कारपदं विषयजन्यज्ञानपरम्, विशिष्टाभावतया च न व्यर्थविशेषणता, उभयेति । भट्टमतेऽभावस्यातीन्द्रियत्वाभिप्रायेणातीन्द्रियप्रतिबन्धकप्रतियोगिकाभावाभिप्रायेण वा इदमुक्तम् । वस्तुतो भावभूतपदवदतीन्द्रियपदमपि व्यापके गौरवेण त्याज्यमेवेत्यभिप्रा- येणैवेदम् । कारणमात्रपक्षकानुमान उपाधिव्यतिरेकस्य न सत्प्रतिपक्षोत्थापकत्वं भागासिद्धत्वा- दित्याशयेनाह । द्वितीयादीति । वह्निपक्षकानुमानद्वयसंयोगपक्षकानुमानेष्वित्यर्थः । न च पिण्डीभूत इत्यनुमाने संयोगपक्षकानुमाने च साध्याव्यापकत्वमुपाधेर्गुरुत्वस्थितिसंस्थापकवति वृक्षादाविति वाच्यम् । उभयत्र कार्यानुकूलपदस्य दाहानुकूलार्थकत्वात् । न च तत्र तथा विव- क्षायामात्मत्वोपाधेर्द्व्यणुके द्रव्यत्वोपाधेरेकत्वादौ साध्याव्यापकत्वाभिधानं ग्रन्थकृतो विरुध्येतेति वाच्यम् । द्व्यणुकपदेनोभयत्र वह्निद्व्यणुकस्योक्तत्वात् । तदीयस्पर्शैकत्वयोश्चावयविमहत्त्वे मकरन्दः । निमित्तकारणं तत् तदुभयसमानाधिकरणगुणजन्यमित्यत्र तात्पर्यात् । कपालरूपन्तु तत्रासम वायिकारणमिति नोक्तदोषः । नचाजसंयोगाभावेनेश्वरज्ञानादिजन्यसुखादिषु व्यभिचार इति वाच्य- म् । मूर्त्तवृत्तित्वस्य कार्यविशेषणत्वाद् घटादावीश्वरसंयोगहेतुत्वस्येष्टत्वात् । अत एव लीलावती- प्रकाशे कण्ठरवेणैव तथोक्तम् अत एव मन्त्रपाठजन्यविषचलनेऽपि व्यभिचारो निरस्तः । अदृष्टा द्वारकतन्वेन विशेषणाद्वा, मन्त्रस्याऽऽशुविनाशित्वेनाऽदृष्टद्वारकत्वात् । नचात्र विपक्षबाधकाभावः । अप्रत्यासन्नस्य जनकत्वेऽतिप्रसङ्गादिति दिक् । नन्वतीन्द्रियत्वं यदि साक्षात्काराविषयत्वं तदा अस्मन्मते अप्रसिद्धिः । लौकिकत्वविशेषणे परस्य व्यावत्र्याप्रसिद्धिरित्यत आह तत्त्वञ्चेति । संयोगाद्यन्यतमप्रत्यासत्त्यनाश्रयत्वमित्यर्थः । साक्षात्कारपदं विषयजन्यज्ञानपरम् । साक्षात्कारथ सन्निकर्षविशेषणमिति न व्यर्थविशेषणते त्यन्ये । अतीन्द्रियप्रतियोगिकाभावाभिप्रायेणाह । प्रतिबन्धकेति । भट्टमतेन वा । प्रथमानुमाने अतीन्द्रियस्यापि पक्षत्वादुपाधिः पक्षाव्यापकविपर्यय इत्यत आह । द्वितीया- टिप्पणी । र्थानुकूलातीन्द्रियादृष्टद्व्यणुकैकत्वतत्स्पर्शानिरूपितो यः समवायस्तन्निरूपकत्वस्य स्वस्मिन्नपि सत्त्वात् साध्याव्यापकत्वं बोध्यम् । तेन द्व्यणुकस्यादृष्टत्वेऽपि न क्षतिः । तुल्ययोगक्षेम- त्वेऽपीति । एकसाधकसाध्यत्वेऽपि यथा कारणानि तादृशधर्म्मवन्ति कार्य्यत्वात् आत्मवदि-