भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 157, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 157

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२३ प्रकाशः । तो वा वह्निर्दाहजनकदशावृत्तिदाहानुकूलभावभूतधर्मशून्यो, दाहजनकत्वात् , दाह्यासयुक्ताग्निवत् । अत्रानुकूलत्वं न स्थितिस्थापकेनार्थान्तरवारणाय, तत्र तदभावात् , क्रियाया वेगेनादृष्टवदात्मसं- योगेन वोत्पत्तेः, किन्तु तथाभूतो धर्मः सिद्धयत्वित्येतदर्थम् , तच्च कारणतावच्छेदकसाधारणं नि- रुक्तम् । अदृष्टवदात्मसंयोगवारणार्थमद्विष्टेति । न च तज्जनकत्वे मानाभावः, कार्यस्यादृष्टजन्यतया व्यधिकरणगुणजन्यत्वात् । तस्य च तत्समानाधिकरणगुणजन्यत्वव्याप्तत्वात् , स्पर्शवद्वेगवद्द्रव्या- प्रकाशिका । च्छेदकीभूतदाहानुकूलधर्मशून्यतामादाय सिद्धसाधनमिति । दाहजनकदशावृत्तीति । दाहज- नकतादशायां वह्निवृत्तीत्यर्थः । तेन शून्यपदात् ध्वंसप्रागभावान्यतरलाभ इति नोक्तदोषः । हेतौ च वह्नित्वं विशेषणमतो नाकाशादौ दाहजनके व्यभिचारः । न च तथापि दाहानुपहितवह्नौ व्य- भिचारः, तत्राप्युष्णस्पर्शप्रागभावसत्त्वात् । न चैवमपि भाविसंयोगान्तरप्रागभावमादाय सिद्धसा- धनमिति वाच्यम् । दाहानुकूलैकै कदाह्यसंयोगाद्याश्रयवन्हेरेव पक्षत्वात् । न च वह्निकर्म्मणः संयोग- द्वारा दाहानुकूलत्वमिति तद्ध्वंसमादाय सिद्धसाधनमिति वाच्यम् । दाह्यकर्मजसंयोगाश्रयवन्हेरेव पक्षत्वात् । केचित्तु शून्यपदं कादाचित्काभावपरं उक्तकर्माभावमादायोक्तदोष इति वृत्तीत्यन्तं विशे- षणम् । कर्म च दाहोपधानकाले नास्तीति नोक्तदोष इत्याहुः । प्रतिबन्धकाभावेनार्थान्तरमिति । भावभूतेति । दाहजनकत्वादिति । तदनुपहितत्वादित्यर्थः । तेन नासिद्धिः । अत्रेति । कार्यानुकूलेत्याद्यनुमान इत्यर्थः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च स्थिति- स्थापकस्य द्रव्यचतुष्टयवृत्तित्वप्रतिपादकगुणभाष्यविरोधः, तस्य वैशेषिकमतानुसारित्वात् , न्या- यमते तद्विरोधस्याकिञ्चित्करत्वात् । तस्य चेति । अत्र यत् कार्यस्य व्यधिकरणयद्गुणजन्यं तत्कार्यस्य तद्गुणस्य च समानाधिकरणो यो गुणः तज्जन्यमिति व्याप्तिः, तज्जन्यत्वं च तन्निमि- त्तकारणत्वमतो न कपालरूपजन्यघटरूपे व्यभिचारः । तस्य तत्रासमवायिकारणत्वात् । कार्ये च मूर्त्तवृत्तित्वं विशेषणमतो नेश्वरज्ञानजन्यास्मदादिज्ञाने व्यभिचार इति कश्चित् । तन्न । तथापि घ- टादिरूपे व्यभिचारात् , ईश्वरज्ञानजन्यस्य तस्येश्वरघटसंयोगजन्यत्वात् तथासति क्षणद्वयं घट- स्य नीरूपत्वापत्तावपसिद्धान्तात् । तस्मात् कारणत्वं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं विव- क्षितमतो नेश्वरज्ञानमादाय व्यभिचार इति तत्त्वम् । अत्र चोभयसमानाधिकरणसंयोगजत्वं व्यापकमतो न द्वित्वमादायार्थान्तरम् । अत एव च गुरुत्वजन्यपतनक्रियायां व्यभिचारवा- रणाय व्यधिकरणपदम् । न च निमित्तकारणत्वविवक्षयैव तन्निरासः, असमवायिकारणभिन्नत्वं हि प्रकृते निमित्तकारणत्वं तत्र चासमवायिकारणपदेन कारणैकार्थप्रत्यासन्नकारणमात्राभि- धानं तावतैव कपालरूपजन्यघटरूपे व्यभिचारावारणादिति । निमित्तकारणपदेन गुरुत्वजन्य- पतने व्यभिचारवारणात् । न चात्र व्याप्तावप्रयोजकत्वम् अप्रत्यासन्नस्याजनकत्वादिति दिक्। मकरन्दः । णार्थान्तरम् । हेतुसिद्धियाधयोर्वारणाय । मणीति । वह्नौ तादृशात्यन्ताभावेनार्थान्तरप्रसक्तौ नेष्ट- सिद्धिरित्येत आह । वृत्त्यन्तमित्येके । तच्चिन्त्यम् । भावभूतपदेनैव तन्निरासात् । केचित्तु संयोगद्वारा वह्निकर्मणोऽपि दाहानुकूलतया तस्य च पिण्डीभूतवह्याभावाद्यार्थान्तरवारणाय तदिति । तस्य च संयोगानाश्यत्वेन तदानीमभावादित्याहुः । हेतुः फलोपधानाभाव इति नासिद्धिः । दृष्टान्ते दाह्यसंयोगाभाव उभयसिद्धः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च 'स्थितिस्था- 'पकस्तु चतुर्षु वर्त्तमान'' इतिगुणभाष्यविरोध इतिवाच्यम् । वैशेषिकमते तथात्वादिति भावः । कार्यस्येति । ननु कार्यपदं यदि स्पन्दपरं तदा प्रकृतासङ्गतिः । स्पन्दस्यातथात्वात् । यदि च जन्यमात्रपरं तदा कपालरूपजन्ये घटरूपे व्यभिचार इति चेन्न । यत् कार्यं यदीयगुण-