न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२३ प्रकाशः । तो वा वह्निर्दाहजनकदशावृत्तिदाहानुकूलभावभूतधर्मशून्यो, दाहजनकत्वात् , दाह्यासयुक्ताग्निवत् । अत्रानुकूलत्वं न स्थितिस्थापकेनार्थान्तरवारणाय, तत्र तदभावात् , क्रियाया वेगेनादृष्टवदात्मसं- योगेन वोत्पत्तेः, किन्तु तथाभूतो धर्मः सिद्धयत्वित्येतदर्थम् , तच्च कारणतावच्छेदकसाधारणं नि- रुक्तम् । अदृष्टवदात्मसंयोगवारणार्थमद्विष्टेति । न च तज्जनकत्वे मानाभावः, कार्यस्यादृष्टजन्यतया व्यधिकरणगुणजन्यत्वात् । तस्य च तत्समानाधिकरणगुणजन्यत्वव्याप्तत्वात् , स्पर्शवद्वेगवद्द्रव्या- प्रकाशिका । च्छेदकीभूतदाहानुकूलधर्मशून्यतामादाय सिद्धसाधनमिति । दाहजनकदशावृत्तीति । दाहज- नकतादशायां वह्निवृत्तीत्यर्थः । तेन शून्यपदात् ध्वंसप्रागभावान्यतरलाभ इति नोक्तदोषः । हेतौ च वह्नित्वं विशेषणमतो नाकाशादौ दाहजनके व्यभिचारः । न च तथापि दाहानुपहितवह्नौ व्य- भिचारः, तत्राप्युष्णस्पर्शप्रागभावसत्त्वात् । न चैवमपि भाविसंयोगान्तरप्रागभावमादाय सिद्धसा- धनमिति वाच्यम् । दाहानुकूलैकै कदाह्यसंयोगाद्याश्रयवन्हेरेव पक्षत्वात् । न च वह्निकर्म्मणः संयोग- द्वारा दाहानुकूलत्वमिति तद्ध्वंसमादाय सिद्धसाधनमिति वाच्यम् । दाह्यकर्मजसंयोगाश्रयवन्हेरेव पक्षत्वात् । केचित्तु शून्यपदं कादाचित्काभावपरं उक्तकर्माभावमादायोक्तदोष इति वृत्तीत्यन्तं विशे- षणम् । कर्म च दाहोपधानकाले नास्तीति नोक्तदोष इत्याहुः । प्रतिबन्धकाभावेनार्थान्तरमिति । भावभूतेति । दाहजनकत्वादिति । तदनुपहितत्वादित्यर्थः । तेन नासिद्धिः । अत्रेति । कार्यानुकूलेत्याद्यनुमान इत्यर्थः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च स्थिति- स्थापकस्य द्रव्यचतुष्टयवृत्तित्वप्रतिपादकगुणभाष्यविरोधः, तस्य वैशेषिकमतानुसारित्वात् , न्या- यमते तद्विरोधस्याकिञ्चित्करत्वात् । तस्य चेति । अत्र यत् कार्यस्य व्यधिकरणयद्गुणजन्यं तत्कार्यस्य तद्गुणस्य च समानाधिकरणो यो गुणः तज्जन्यमिति व्याप्तिः, तज्जन्यत्वं च तन्निमि- त्तकारणत्वमतो न कपालरूपजन्यघटरूपे व्यभिचारः । तस्य तत्रासमवायिकारणत्वात् । कार्ये च मूर्त्तवृत्तित्वं विशेषणमतो नेश्वरज्ञानजन्यास्मदादिज्ञाने व्यभिचार इति कश्चित् । तन्न । तथापि घ- टादिरूपे व्यभिचारात् , ईश्वरज्ञानजन्यस्य तस्येश्वरघटसंयोगजन्यत्वात् तथासति क्षणद्वयं घट- स्य नीरूपत्वापत्तावपसिद्धान्तात् । तस्मात् कारणत्वं तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वं विव- क्षितमतो नेश्वरज्ञानमादाय व्यभिचार इति तत्त्वम् । अत्र चोभयसमानाधिकरणसंयोगजत्वं व्यापकमतो न द्वित्वमादायार्थान्तरम् । अत एव च गुरुत्वजन्यपतनक्रियायां व्यभिचारवा- रणाय व्यधिकरणपदम् । न च निमित्तकारणत्वविवक्षयैव तन्निरासः, असमवायिकारणभिन्नत्वं हि प्रकृते निमित्तकारणत्वं तत्र चासमवायिकारणपदेन कारणैकार्थप्रत्यासन्नकारणमात्राभि- धानं तावतैव कपालरूपजन्यघटरूपे व्यभिचारावारणादिति । निमित्तकारणपदेन गुरुत्वजन्य- पतने व्यभिचारवारणात् । न चात्र व्याप्तावप्रयोजकत्वम् अप्रत्यासन्नस्याजनकत्वादिति दिक्। मकरन्दः । णार्थान्तरम् । हेतुसिद्धियाधयोर्वारणाय । मणीति । वह्नौ तादृशात्यन्ताभावेनार्थान्तरप्रसक्तौ नेष्ट- सिद्धिरित्येत आह । वृत्त्यन्तमित्येके । तच्चिन्त्यम् । भावभूतपदेनैव तन्निरासात् । केचित्तु संयोगद्वारा वह्निकर्मणोऽपि दाहानुकूलतया तस्य च पिण्डीभूतवह्याभावाद्यार्थान्तरवारणाय तदिति । तस्य च संयोगानाश्यत्वेन तदानीमभावादित्याहुः । हेतुः फलोपधानाभाव इति नासिद्धिः । दृष्टान्ते दाह्यसंयोगाभाव उभयसिद्धः । तत्रेति । पृथिव्यामेव तदुपगमादिति भावः । न च 'स्थितिस्था- 'पकस्तु चतुर्षु वर्त्तमान'' इतिगुणभाष्यविरोध इतिवाच्यम् । वैशेषिकमते तथात्वादिति भावः । कार्यस्येति । ननु कार्यपदं यदि स्पन्दपरं तदा प्रकृतासङ्गतिः । स्पन्दस्यातथात्वात् । यदि च जन्यमात्रपरं तदा कपालरूपजन्ये घटरूपे व्यभिचार इति चेन्न । यत् कार्यं यदीयगुण-
१२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१० कारिकाव्याख्यायां प्रकाशः । भिघातजन्यक्रियायां तथा दर्शनात् । उष्णस्पर्शव्यावर्तनायातीन्द्रियेति । तत्त्वं च साक्षात्कारनिया- मकप्रत्यासत्त्यनाश्रयत्वम् । प्रतिबन्धकाभावनिवारणाय भावभूतेति । उच्यते । अनुमानानां विपक्षबाधकाभावेनाप्रयोजकत्वम् । उभयसिद्धप्रतिबन्धकाभावेनैवोप- पत्तेः । न च सहचारदर्शनव्यभिचारादर्शनाभ्यामेव व्याप्तिग्रहः । साध्ये शक्त्यतिरिक्तेति विशेषणा- त्तेनैव हेतुना तत्सिद्धावेवं तत्तदतिरिक्तेतिविशेषणपरम्परातस्तादृशानन्तधर्मसिद्ध्यापत्तेः । न च घट- वत् क्षितिः क्षितिवद्धट इतीश्वरानन्त्यवच्छक्त्यानन्त्यम् कार्यमात्रे नेश्वरत्वेन द्विकर्तृत्वेन वा कार- णता, गौरवात्, किन्तु कर्तृत्वेनेति तदपादकाभावः । प्रतिकूलतर्कप्रतिघातश्च । शक्तेर्भावहेतुत्वे शक्त्यनुकूलाप्यन्या शक्तिरेवं तत्तदनुकूलाऽप्यन्याऽन्येत्यनवस्थापातात् । भावभूतेति च व्यर्थम् । न च व्यापके न व्यर्थविशेषणता व्याप्यताग्राहक इव व्यापकताग्राहकेऽपि लाघवस्य सहकारित्वात् । द्वितीयाद्यनुमानेषु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः । तुल्ययोगक्षेमत्वेऽपि सन्दिग्धोपाधित्वात् । प्रकाशिका । नन्वतीन्द्रियत्वं साक्षात्काराविषयत्वं लौकिकसाक्षात्काराविषयत्वं वा, आद्ये न्यायमतेऽप्रसिद्धिः अन्ये परमते व्यावत्र्याप्रसिद्धिरत आह। तत्त्वञ्चेति । संयोगादिष्वन्यतमप्रत्यासत्त्यनाश्रयत्व- मित्यर्थः । यद्वा साक्षात्कारपदं विषयजन्यज्ञानपरम्, विशिष्टाभावतया च न व्यर्थविशेषणता, उभयेति । भट्टमतेऽभावस्यातीन्द्रियत्वाभिप्रायेणातीन्द्रियप्रतिबन्धकप्रतियोगिकाभावाभिप्रायेण वा इदमुक्तम् । वस्तुतो भावभूतपदवदतीन्द्रियपदमपि व्यापके गौरवेण त्याज्यमेवेत्यभिप्रा- येणैवेदम् । कारणमात्रपक्षकानुमान उपाधिव्यतिरेकस्य न सत्प्रतिपक्षोत्थापकत्वं भागासिद्धत्वा- दित्याशयेनाह । द्वितीयादीति । वह्निपक्षकानुमानद्वयसंयोगपक्षकानुमानेष्वित्यर्थः । न च पिण्डीभूत इत्यनुमाने संयोगपक्षकानुमाने च साध्याव्यापकत्वमुपाधेर्गुरुत्वस्थितिसंस्थापकवति वृक्षादाविति वाच्यम् । उभयत्र कार्यानुकूलपदस्य दाहानुकूलार्थकत्वात् । न च तत्र तथा विव- क्षायामात्मत्वोपाधेर्द्व्यणुके द्रव्यत्वोपाधेरेकत्वादौ साध्याव्यापकत्वाभिधानं ग्रन्थकृतो विरुध्येतेति वाच्यम् । द्व्यणुकपदेनोभयत्र वह्निद्व्यणुकस्योक्तत्वात् । तदीयस्पर्शैकत्वयोश्चावयविमहत्त्वे मकरन्दः । निमित्तकारणं तत् तदुभयसमानाधिकरणगुणजन्यमित्यत्र तात्पर्यात् । कपालरूपन्तु तत्रासम वायिकारणमिति नोक्तदोषः । नचाजसंयोगाभावेनेश्वरज्ञानादिजन्यसुखादिषु व्यभिचार इति वाच्य- म् । मूर्त्तवृत्तित्वस्य कार्यविशेषणत्वाद् घटादावीश्वरसंयोगहेतुत्वस्येष्टत्वात् । अत एव लीलावती- प्रकाशे कण्ठरवेणैव तथोक्तम् अत एव मन्त्रपाठजन्यविषचलनेऽपि व्यभिचारो निरस्तः । अदृष्टा द्वारकतन्वेन विशेषणाद्वा, मन्त्रस्याऽऽशुविनाशित्वेनाऽदृष्टद्वारकत्वात् । नचात्र विपक्षबाधकाभावः । अप्रत्यासन्नस्य जनकत्वेऽतिप्रसङ्गादिति दिक् । नन्वतीन्द्रियत्वं यदि साक्षात्काराविषयत्वं तदा अस्मन्मते अप्रसिद्धिः । लौकिकत्वविशेषणे परस्य व्यावत्र्याप्रसिद्धिरित्यत आह तत्त्वञ्चेति । संयोगाद्यन्यतमप्रत्यासत्त्यनाश्रयत्वमित्यर्थः । साक्षात्कारपदं विषयजन्यज्ञानपरम् । साक्षात्कारथ सन्निकर्षविशेषणमिति न व्यर्थविशेषणते त्यन्ये । अतीन्द्रियप्रतियोगिकाभावाभिप्रायेणाह । प्रतिबन्धकेति । भट्टमतेन वा । प्रथमानुमाने अतीन्द्रियस्यापि पक्षत्वादुपाधिः पक्षाव्यापकविपर्यय इत्यत आह । द्वितीया- टिप्पणी । र्थानुकूलातीन्द्रियादृष्टद्व्यणुकैकत्वतत्स्पर्शानिरूपितो यः समवायस्तन्निरूपकत्वस्य स्वस्मिन्नपि सत्त्वात् साध्याव्यापकत्वं बोध्यम् । तेन द्व्यणुकस्यादृष्टत्वेऽपि न क्षतिः । तुल्ययोगक्षेम- त्वेऽपीति । एकसाधकसाध्यत्वेऽपि यथा कारणानि तादृशधर्म्मवन्ति कार्य्यत्वात् आत्मवदि-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२५ प्रसङ्गात् । कालविशेषात्तदुत्पादे तदेवानियतहेतुकत्वमिति ॥ १० ॥ स्यादेतत् । मा भूत् सहजशक्तिः, आधेयशक्तिस्तु स्यात् बोधिनी । सङ्ग इति भावः । उत्तम्भकेनानुत्पादेऽपि नानुत्पादप्रसङ्ग इत्याशङ्क्याह-कालविशेषात्-इति । यदुत्तम्भकेन तदुत्पादे वर्णितं तदेवेति ॥ १० ॥ अपूर्वस्य भूतधर्मत्वे सहजा शक्तिर्मा भूद् दृष्टान्त आधेयशक्तिस्तु दृष्टान्तः स्यात् दुरपह्नव- त्वात् तस्या इति पूर्वपक्षयति-स्यादेतत्-इति । अत्र च भूतानामेव स्वहेतुवशेनवातीन्द्रियाति- प्रकाशः । अस्मत्पितृचरणास्तु, जनकत्वस्य केवलान्वयित्वेन व्यतिरेकाप्रसिद्धया नान्वयव्यतिरेकित्व- म् । न च शक्तावेव तत्प्रसिद्धिरन्योन्याश्रयात् । नापि पण्डापूर्वेपरार्द्धसङ्ख्योस्तत्प्रसिद्धिः । अप्रत्य- क्षयोः शब्दैकवेद्ययोस्तयोर्व्याप्तिग्रोहेकेण प्रत्यक्षेण साध्यहेतुव्यतिरेकस्य ग्रहीतुमशक्यत्वादित्याहुः १०. प्रोक्षणजन्यः कालान्तरकार्यानुकूलोऽतीन्द्रियों धर्मोऽस्तीत्युभयसिद्धम् , स व्रीहिसमवेतो न वेति नाधेयशक्तौ संशयः, ग्रन्थे प्रथमं संस्कारसाधनस्यार्थान्तरतापत्तेः, किन्तु प्रोक्षणं व्रीहिनिष्ठा- प्रकाशिका । प्रयोजकतया दाहानुकूलत्वात् । अप्रत्यक्षयोरिति । न च मानान्तरात्तदुपस्थितौ मनसा जन- कत्वाभावग्रहः । शब्दस्य सिद्धार्थकस्याप्रमाणत्वात् , तन्मतेऽनुमानस्य च व्याप्तिग्रहाधीनतया तत्साधकानुमानान्तरापेक्षायामनवस्थानात् । उपमानस्य च नियतविषयत्वात् । यत्तु पण्डापूर्वपरा र्द्धसंख्ययोरपि स्वध्वंसजनकतया तत्र व्यतिरेकप्रसिद्धिशङ्केति । तन्न । अभावस्य गुरुमतेऽधिक- रणत्मकत्वात् । एतेन स्वनिष्ठस्य महत्त्वसमानाधिकरणोद्भूतरूपवत्वाभावस्य ग्रहे प्रत्यासत्तिघट- कतया तयोः कारणत्वान्न तत्र व्यतिरेकप्रसिद्धिशङ्केत्यपास्तम् ॥ १० ॥ किन्तु प्रोक्षणमिति । जलसंयोगवारणायातीन्द्रियेति । व्रीहिनिष्ठत्वं च समवायेन विव- मकरन्दः । दीति । न चात्रापि गुरुत्वस्थितस्थापकादिकमादाय वृक्षादौ साध्याव्याप्तिः । कार्यानुकूलत्वेन दाहानुकूलत्वाभिधानात् । अगुरुत्वरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वादित्याहुः । नान्वयेति । तन्मते केवलान्वयिनो हेत्वाभासत्वादिति भावः । अप्रत्यक्षयोरिति । न च मानान्तरात्तद्ग्रहः । तद्धि न शब्दः । तस्य सिद्धार्थत्वात् । नाप्यनुमानम्, जनकत्वसत्त्वे तादृशधर्मवत्त्वस्याऽऽवश्यक- तया जनकत्वाभावेन साध्याभावोऽनुमेयः । जनकत्वाभावानुमानञ्च तादृशधर्माभावेन तादृशधर्मस्य जनकतावच्छेदकस्य सत्त्वे जनकत्वस्यावश्यकत्वादित्यन्योन्याश्रयात् । अनवस्थानादित्यन्ये । उप- मानस्य नियतविषयत्वादनभ्युपगमाच्चेति भावः । न च पण्डाऽपूर्वादौ स्वध्वंससाक्षात्कारजन- कतया जनकत्वाभाव एव नेति वाच्यम् । अतीन्द्रियत्वेन योगिज्ञानस्य विषयाजन्यतया च साक्षात्काराजनकत्वात् । तन्मते ध्वंसस्याधिकरणरूपतया तदसाध्यत्वाच्चेति भावः ॥ १० ॥ किन्त्विति । जलसंयोगेनार्थान्तरवारणायातीन्द्रियेति । न चादृष्टस्यापि स्वरूपसम्बन्धेन टिप्पणी । त्यनुमानं क्रियते तथा कारणानि बहिरिन्द्रियाप्रत्यक्षाणि कारणत्वादात्मवदित्यपि कर्तुं शक्यते पक्षे च व्यभिचारो न यथापूर्वानुमाने दोषस्तयोत्तरत्रापि स्यात् । पूर्वसाधनस्य साधना व्यापकत्वविरहे उत्तरस्यापि तत्त्वं स्यादिति तुल्ययोगक्षेमत्वेनोपाधित्वसम्भवो यद्यपि तथापि पक्ष एव साधनाष्या- पकत्वसन्देहेनोभयोः सोपाधित्वात् अनुकूलतर्कविरहे सन्दिग्धोपाधेरपि दूषकत्वादिति भावः॥१०॥ प्रोक्षणजन्यः कालान्तरकार्यानुकूलोऽतीन्द्रिय इति । अतीन्द्रियधर्मे गुरुत्वादौ व्रीहिसमवेतत्वस्योभयसिद्धत्वेन विप्रतिपन्नत्वासम्भवात् प्रोक्षणजन्य इति । प्रोक्षणजन्यस्या- तथाभूतस्य व्रीहिसमवेतत्वसिद्धावपि न प्रकृतसिद्धिः स्यादतः कालान्तरेत्यादि । प्रथमं सं- स्यादेतत् । एतत् मा भूदित्यादि वक्ष्यमाणम् ।
१२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां दृश्यते हि प्रोक्षणादिना व्रीह्यादेरभिसंस्कारः । कथमन्यथा कालान्तरे तादृशाना- बोधनी । शयशालित्वेनोत्पन्नानां भोगनियामकानुपपत्तावपि यागादिजन्यातिशयभाजां शरीरादिभूतानां त- दुपपत्तेस्तेष्वोधीयतामपूर्वप्रोक्षणादिवन्न त्वात्मनीति भावः । आधेयशक्तिसद्भावे प्रमाणमाह । दृश्यते हि-इति । व्रीहीन् प्रोक्षतीति द्वितीयाश्रुत्या प्रोक्षणस्य व्रीहयः कर्मत्वेनावगम्यन्ते । क्रि- याजन्यफलभागित्वं च कर्मत्वम् । अतः प्रोक्षणादिना व्रीह्यादिषु संस्कारापरनामा शक्तिराधीयत- इत्यत्र श्रुतिरेव प्रमाणमिति । तदनुग्राहकं तर्कमाह—कथम्-इति । यदि तद्गतः कश्चिदतिशयो प्रकाशः । तीन्द्रियधर्मजनकं, न वा ? । व्रीहिगुरुत्वजनके तज्जनकत्वं प्रसिद्धम् । तत्राधायकं शक्तावाह । दृश्यते हीति । ननु व्रीहीन् प्रोक्षतीत्येतावन्मात्रं श्रूयते, न तु प्रोक्षणस्य संस्काराधायकत्वमपी- त्यत आह । कथमिति । कालान्तरेऽवघातादौ प्रोक्षितस्यैव व्रीहेर्विनियोगो न स्यादित्यवश्यं प्रोक्षणजन्यः संस्कारो व्रीहिनिष्ठः स्थिरोऽभ्युपगन्तव्य इत्यर्थः । नन्ववघातादौ कथं प्रोक्षितस्यैव व्रीहेरन्वयः, व्रीहीनवहन्तीत्यस्य व्रीहिमात्रान्वयेऽप्युपपत्तेः । अथावघाते व्रीहिविशेषाकाङ्क्षायां प्रोक्षितानामेवान्वयो व्यक्तिवचनानां सन्निहितविशेषपरत्वमिति न्यायात् । अन्यथा प्रकरणोपस्थि- तंहाने तदन्योपस्थितिकल्पने च गौरवंमिति चेत् । तर्ह्येकस्य द्वयं यत्र प्रोक्षणं तत्रावघातो, न तु प्रकाशिका । क्षितम् । अन्यथादृष्टस्यापि स्वरूपसम्बन्धेन व्रीहिनिष्ठतया सिद्धसाधनापत्तेः । तटस्थः शङ्कते । मकरन्दः । व्रीहिनिष्ठत्वाभ्युपगमात् सिद्धसाधनम् । व्रीहिसमवेतेत्यर्थात् । तटस्थः शङ्कते ॥ नन्विति ॥ प्रोक्षणस्य कालान्तरभाविफलजनकत्वे मानाभावान्न व्यापार- टिप्पणी । स्कारसाधनस्यार्थान्तरतापत्तेरिति । पश्चाद्विप्रतिपाद्य संस्कारसाधनस्यार्थान्तरत्वं न स्यात् प्रथममिति । प्रोक्षणजन्यत्वेन संस्कारसाधनस्येत्यर्थः । तथा हि सिद्धस्यैव पक्षत्वेन सिद्धे- प्रोक्षणजन्यातीन्द्रियधर्मे व्रीहिसमवेतत्वं विप्रतिपन्नं सत् साधनीयं तत्र प्रोक्षणजन्यत्वेन संस्कार- साधनस्यार्थान्तरत्वं तस्य प्रकृताननुगुणत्वात् , तादृशसंस्कारस्य सिद्धत्वाच्च, “दृश्यते हि”त्यादि- ग्रन्थस्येदानीं व्रीहिनिष्ठत्वसाधंकत्वे “न चे”त्यादिना ग्रन्थेन संस्कारेऽन्यथासिद्धिशङ्कायामप्रयोज- कत्वं स्यात् , द्वितीये तु प्रोक्षणेऽतीन्द्रियधर्मजनकत्वं विप्रतिपन्नं तत्साधनं न प्रोक्षणजन्यत्वेन सं- स्कारसाधनं विना, तादृशधर्मस्यैवासिद्धत्वे व्रीहिनिष्ठातीन्द्रियधर्मजनकत्वस्य बाधितत्वादित्या- लोचनीयम् । प्रोक्षितस्यैव व्रीहेर्विनियोग इति । प्रोक्षणस्य तदानीमविद्यमानत्वात् तेनातिश- याजननाच्च प्रोक्षिताप्रोक्षितयोरविशेषादिति भावः । नन्ववघातादौ कथं प्रोक्षितस्यैवेति । वादिनापि प्रोक्षितस्यैवावघातस्वीकारात् तटस्थस्येयं शङ्का । व्रीहिमात्रान्वयेऽप्युपपत्तेरिति । तथा च प्रोक्षणस्यैवाकारणत्वे कुतस्तन्निर्वाहायातिशयकल्पनमिति भावः। व्यक्तिवचनानां सन्नि- हितेति । ननु बहुव्रीहीनवहन्तीत्यत्र व्रीहिपदस्य व्यक्तिवचनत्वमेवेति कुतोऽवधार्यत इति चेद् , जातिपरत्वे बहुवचनवैयर्थ्यादिति । तदन्योपस्थितिकल्पने गौरवमितीति । तथा च प्रोक्षणविशिष्टेऽवघातान्वयेऽसति बाधके उद्देश्यतावच्छेदकविधेययोः प्रयोज्यप्रयोजकभावनियमात् प्रोक्षणेऽवघातजनकत्वप्रतीतिसम्भवादिति भावः । तर्ह्येकस्य द्वयं यत्र प्रोक्षणमिति । तर्हि- दृश्यते=अनुमीयते । अन्यथा=संस्कारं विना । तादृशानामेवप्रोक्षितानामेव।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२७ मेव कार्यविशेषोपयोगः । न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति बोधनी । नाधीयेत प्रोक्षितानामेव पुरोडाशादिकार्योपयोगो नान्येषामिति न स्यादप्रोक्षितेभ्यः तेषामविशेषा- दिति । प्रोक्षणादिस्वरूपसहकृतानामेव कार्योपयोगोऽस्तु, अन्यथादृष्टकल्पनानुपपत्तेरित्याशङ्कयाह- न च-इति । सन्तु तर्हि प्रोक्षणादिप्रध्वंसादयः कालान्तरेऽप्यनुवर्त्तमानाः सहकारिण इत्याशङ्कयाह- प्रकाशः । प्रोक्षणविशिष्ट इति तस्य कारणत्वाज्ञानान्न तज्जन्यातिशयकल्पनम् । प्रोक्षिता व्रीहयोऽवघाताय कल्प- न्ते इति वाक्यशेषादिति चेत् । न । तेनाप्यतीतप्रोक्षणे व्रीहाववघातान्वयो बोध्यत इति प्रोक्षणध्वं- सस्य हेतुतापत्तेः । मैवम् । प्रोक्षणमवघातजनकं प्रमाणतस्तदर्थमुपादीयमानत्वाद् व्रीहिवत् । न च हेत्वसिद्धिः । अप्रोक्षितेऽवघातासम्भवादिति भावः । एतावता तज्जन्यव्यापारमात्रसिद्धावपि न संस्कारः सिद्ध्यति, ध्वंसेनैवोपपत्तेरित्याशङ्कय प्रकाशिका । नन्विति । तथा च न प्रोक्षणस्यावघातजनकत्वमिति न व्यापारकल्पनेति भावः । प्रमाणत इति । अवघातोद्देश्यकप्रमाणमूलकोपादानविषयत्वादित्यर्थः । ननु प्रमाणमिदमेवान्यद्वा नाद्यः, अन्योन्याश्रयात् । नान्त्यः, तदभावात् , भावे वा तेनैव सिद्धसाधनादिति चेत् । न । "दर्शपू- र्णमासाभ्यां यजेत् स्वर्गकाम" इत्यधिकारविधिना निरपेक्षेण तयोः कर्त्तव्यतायां बोधितायामिति- कर्त्तव्यताकाङ्क्षायां व्रीहीनित्यादिविधिप्रवृत्तिः, तेन चोपस्थितस्वावघातद्वारा 'प्रोक्षणस्य परमापूर्व- जनकत्वबोधनात् संसर्गविधया च जनकत्वमवघातं प्रति प्रोक्षणस्य शब्देन बोधितमिति न तत्प्र- कारकानुमाने सिद्धसाधनमित्याशयात् । वस्तुतो व्यक्तिवचनन्यायेन व्रीहेरवघातकारणत्वे बोध्यमा- नउत्सर्गसहकारेण प्रोक्षणस्य विशेषणत्वं बोध्यत इति प्रोक्षणस्यावघातकारणत्वे प्रमाणं तदुक्तं अप्रो- मकरन्दः । त्वेनातिशयकल्पनमिति भावः ॥ प्रमाणत इति ॥ प्रमाणमूलकावघातोद्देश्यकोपादानविषयत्वादि- त्यर्थः । ननु प्रमाणमिदमेव तदुपादानहेतुरन्यद्वा ? । नाद्यः । हेतुज्ञाने सत्येतत्प्रमाणप्रवृत्तिरेतत्प्रमा- णप्रवृत्तौ च तद्धितहेतुज्ञानमित्यन्योन्याश्रयात् । नापरः। तदसत्त्वात् । सत्त्वे वा तन्न साक्षादुपादा- नहेतुः । प्रवृत्तेर्ज्ञानजन्यत्वात् । किन्तु प्रोक्षणमवघातजनकमिति ज्ञानद्वारा । तथा च सिद्धसाधन- मिति । अत्र वदन्ति । प्रकरणादिसहकृतवेदस्यैवावघातजनकत्वबोधकत्वमिति । सिद्धान्तानुसारा- देतदुक्तम् । संसर्गविधया च ततस्तद्धेतुत्वावगम इति तत्प्रकारकबुद्ध्यभावान्न सिद्धसाधनावकाशः । शब्दादेरपि परं प्रति लिङ्गविधया प्रयोगाच्चेति । वस्तुतो व्यक्तिवचनन्यायेनावघाते प्रोक्षितव्रीहेरन्वये प्रोक्षणस्य बाधकं विना विशेषणत्वं, नोपलक्षणत्वमिति । एतदभिप्रायेणाह । अप्रोक्षित इति । टिप्पणी । तथापीत्यर्थः । एकस्य एकस्यैवेत्यर्थः । द्वयं प्रोक्षणावघातौ । सम्पन्नमिति शेषः । तदेव विवृणोति । यत्रेति । न तु प्रोक्षणविशिष्टेति । अवघात इति शेषः । तस्य कारणत्वाज्ञानान्न तज्जन्याति- शयकल्पनमिति । तस्य प्रोक्षणस्येत्यर्थः । प्रोक्षणविशिष्टेऽवघातबोधेऽप्रोक्षितानवघातप्रोक्षितावघाता- भ्यामन्वयव्यतिरेकाभ्यां प्रोक्षणोवघातजनकताज्ञानं स्यात्तदेव नेति भावः । कारणत्वानुपपत्त्यैव त- त्कल्पनादिति भावः । वाक्यशेषादिति चेन्नेति । शङ्कानिवर्त्तकं वाक्यं वाक्यशेषः । शङ्का ह्यत्र व्रीहिन् प्रोक्षति व्रीहिनवहन्त्यादित्यत्र किं व्रीहिः प्रोक्षितव्यः अवघातोऽपि कर्तव्यः । किं प्रोक्षितव्री- हिरवहन्तव्य इति । अतीतप्रोक्षण इति । प्रोक्षणध्वंसविशिष्ट इत्यर्थः । ते=व्रीहयः ।
१२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां साम्प्रतम्। तेषु चिरध्वस्तेष्वपि कार्योत्पादात्। नापि प्रध्वंससहायास्ते तथा। एवं हि यागादिप्रध्वंसा एव स्वर्गादीनुत्पादयन्तु, कृतमपूर्वकल्पनया। तेषामनन्तत्वाद- नन्तफलप्रवाहः प्रसज्यत इति चेत् , अपूर्वेऽपि कल्पिते तावानेव फलप्रवाह बोधनी । नापि-इति । तथाकालन्तरकार्यकारिण इत्यर्थः । अतिप्रसङ्गपरिहारमाशङ्कते—तेषाम्-इति । यागादिप्रध्वंसानामेव फलसाधनत्वे तेषामनन्तत्वेन फलविनाश्यत्वाभावादुत्पन्नेऽपि पुनरपि तत ॰एव फलोत्पादप्रसङ्गेन फलप्रवाहोऽनन्तः स्यात् , तत्र च कर्मान्तरफलोपभोगोऽपवर्गश्च न स्या- ताम् ; अतो यागादिजन्यमपूर्वमवश्यमभ्युपगन्तव्यमिति । तर्हि कल्पितमप्यपूर्वं किञ्चित् स्वर्गा- दिसुखमुत्पाद्य नानन्तरमेव नश्यति सहस्रसंवत्सरादिभोगश्रुतेः, तेन परिमितफलप्रवाहस्तदापि न स्यादित्याह—अपूर्व-इति । यदि तु परिमितफलप्रवाहजनकत्वमपूर्वस्य स्वभावः स तर्हि प्रध्वंस- प्रकाशः । निराकरोति । नापीति । तेषामिति । ननु ध्वंसव्यापारत्ववादिनां व्यापारस्य यावत्सत्त्वं फलो- त्पादकत्वाप्रसिद्धिः । न च व्यापारकालस्य फलोत्पत्तिनियमेन फलानन्त्यापत्तिः । उत्तरकालीन- कीर्त्तनादिनाश्यपूर्वे व्यभिचारात् । मैवम् । विवादाध्यासितः कालो यदि चैत्रस्वर्गोत्तरत्वे सति प्रकाशिका । क्षितेऽवघातासंभवादिति । सिद्धसाधननिरासस्तु पूर्ववदेवेति । ध्वंसव्यापारवादिनामिति । प्रकृतमपेक्ष्य वस्तुतः सर्वेषामेवेदमप्रसिद्धमन्ततो व्यापारोत्पत्तिकाल एव व्यभिचारात् । उत्तर- कालीनकीर्त्तनेति। जनितफलव्यापारकालगर्भा व्याप्तिराशङ्कितुरभिमतत्यजनितफलकीर्त्तनानाश्य- पूर्वस्थले न व्यभिचार इत्युत्तरकालीनत्वं कीर्त्तनविशेषणम् नाश्यपूर्वस्य किञ्चित्फलजननोत्तरकाली- नत्वं च तदर्थः । न च व्यापारे भोगतेरनाशकालानाश्यत्वमपि विशेषणं किञ्चित्फलजननोत्तरं प्रतिकृत्यापूर्वप्रतिरुद्धकृत्यापूर्वे व्यभिचारात् । न च तत्रापूर्वस्य प्रथमस्य नाश एवेति वाच्यम् । तथा सति प्रतिकृत्यापूर्वेण फलजननापत्तेः । न च सुन्दोपसुन्दन्याय इति वाच्यम् । मानाभा- वात् । आपाततः सन्देहेऽप्यनैकान्तिकसन्देहाच्च विवादाध्यासित इति । कालमात्रपक्षत्वे चैत्रस्वर्गपूर्वकाल आपादकासिद्धेश्चैत्रस्वर्गाधिकरणकाले च इष्टापत्तिरिति तद्वारणाय प्रथमविशेषणम् तदर्थश्च तद्व्यापारजन्यचैत्रस्वर्गोत्तरं यथाभूतस्वर्गानधिकरणम् । अजनितस्वर्गव्यापारकाले व्य- भिचार इति सत्यन्तम् , किञ्चित्स्वर्गोत्तरत्वं तत्रापीति सत्यन्ते चैत्रपदं तद्व्यापारजन्यस्वर्गोत्तरत्वे मकरन्दः । : कीर्त्तनादोति । न च शब्दबोधितनाशकनाश्यत्वं विशेषणम् । प्रतिकृत्यापूर्वप्रतिरुद्धे कृत्यापूर्वे व्यभिचारात् । न च तत्र प्रतिरोधो नाशो वेति कथं निर्णय इति वाच्यम् । तथापि सन्दिग्धानैकान्तादिति भावः । विवादाध्यासित इति । उभयसिद्धचैत्रस्वर्गाधारकालोत्तरकाल इत्यर्थः । तेन कालमात्रपक्षत्वे स्वर्गकालभाग इष्टापत्तिः । तत्पूर्वकाले सत्यन्तापादकासिद्धिरिति दूषणमलग्नकं बोध्यम् । स्वर्गपूर्वकाले व्यभिचारादाह सत्यन्तम् । किञ्चित्स्वर्गोत्तरत्वं तत्रापीत्यत- उक्तं, चैत्रेति । तद्व्यापारजन्यस्वर्गोत्तरत्वे सतीत्यर्थः । स्वर्गान्तरजनकव्यापारान्तरवति स्वर्ग- तेषु=मन्त्रादिषु । तथा=कार्यविशेषोपयोगिनः । ननु प्रोक्षणादीनां परमापूर्वं प्रत्येव हेतुतया तस्य ध्वंसव्यापारकत्वेऽपि परमापूर्वहेतुयागादिक्रियायाः कालान्तरेऽसत्त्वात् फलानन्त्यापत्त्य- सम्भवात् तत्र तदेवास्तु यागस्य ध्वंसव्यापारकत्वे व्यापारमात्रोच्छेद्यस्वर्गादिफलस्यानन्त्यापत्तिः स्यादिति न तत्रतद्वक्तुमुचितमिति कः प्रतिबन्ध्यवकाश इति मीमांसकं प्रत्याशङ्कते । तेषामिति । अनन्तेति । न अन्तो ध्वंसो यस्य सोऽनन्तः ध्वंसप्रतियोगीति यावत् । प्रवाहेऽनन्त त्वञ्च प्रागभावव्याप्यध्वंसप्रतियोगित्वम् ।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १२६ इति कुतः । अपूर्वस्वभावादिति चेत्तुल्यमिदमिहापि । तावतापि तत्प्र- ध्वंसो न विनश्यतीति विशेषः । बोधनी । स्यापि भविष्यतीति शङ्कोत्तराभ्यामाह-अपूर्व-इति । तावता-इति । परिमितफलोत्पादकत्वाभ्यु- पगमे नामान्तरेणापूर्वमेवाङ्गीकृतं स्यादित्याशङ्क्य फलविनाश्यत्वाविनाश्यत्वाभ्यां विशेषोऽस्तीत्याह- तावता-इति ॥ प्रकाशः । तत्स्वर्गजनकयागव्यापारवान् स्यात् , तत्स्वर्गाधारः स्यादित्यापादनार्थत्वात् । अपूर्वेति । प्रति- नियतकालावच्छिन्नस्वर्गजनकस्वभावत्वादित्यर्थः । तुल्यमिति । तर्हि तद्ध्वंसस्यापि स एव प्रकाशिका । सतीति च सत्यन्तार्थः । अन्यथैकस्मिन्नपूर्वे जनितफले चैत्रस्य नष्टे सति चैत्रस्यैव स्वर्गजनकेऽ- पूर्वान्तरेऽजनिफले तिष्ठति व्यभिचारापत्तेः । अजनितफलेऽपूर्वे नष्टे सति व्यभिचार इत्युत्तर- दलम् । स्वर्गान्तरजनकव्यापारान्तरवति स्वर्गपूर्वकाले व्यभिचार इति तदिति । सुखप्राप्त्यनन्तरं मे राज्यं भूयादिति कामनाकृतप्रयागस्नानजन्यापूर्वेण सुखजनने कृते व्यभिचार इति यागेति । मकरन्दः । पूर्वकाले व्यभिचारादाह । तदिति । तथा च फलोपहितयागव्यापारस्य यावत् सत्त्वं फलोपपा- दकत्वमिति नियमेन फलानन्त्यापत्तिरिति तात्पर्यम् । अन्यस्वर्गाधारत्वेनेष्टापत्तिवारणायापाद्ये तदिति । तद्व्यापारजन्यस्वर्गाधारः स्यादित्यर्थः । आद्यस्वर्गोत्तरतत्स्वर्गाधारकालो दृष्टान्तः । टिप्पणी । क्तप्रत्ययस्य भूतार्थकत्वात् प्रोक्षणध्वंसस्य हेतुतापत्तेरिति । प्रोक्षणध्वंसविशिष्टेऽवघातान्वये तेन सहान्वयव्यतिरेकाभ्यां ध्वंसस्यैव कारणत्वप्रतीतेः । प्रमाणतस्तदर्थमुपादीयमानत्वादिति [पृ. १२७] । अवघातोद्देश्यकप्रमाणमूलकतदर्थोपादानविषयत्वादित्यर्थः । नन्ववघातार्थप्रोक्षणप्रवृत्तेर्मू- लभूतं किं प्रमाणम् ? उच्यते "व्रीहीन् प्रोक्षति" 'व्रीहिनवहन्त्यात्" इति वाक्यद्वयम्, प्रोक्षिता व्रीह योऽवघाताय कल्पन्त इति वाक्यशेष एव वा । तथा हि व्यक्तिवचनन्यायेनोच्चवचनाभ्यां यत्र प्रो- क्षण तन्नावघाते बोधित एवं वाक्यशेषाच्च प्रोक्षिते तद्बोधिते प्रोक्षणेऽवघातपूर्वत्वावगतौ जनकत्वा- ग्रहेऽपि पूर्वस्य तस्यासत्त्वे परोऽवघातः कथमित्यतः प्रोक्षणगोचरावघातार्थं जनानां प्रवृत्तिः प्र- माणमूलिकेति भावः । अवघातासम्भवादिति । अवघातादर्शनादित्यर्थः । ननु ध्वंसव्यापार- त्वादिनामिति । इदन्तु प्रकृतमपेक्ष्य, वस्तुतः सर्वेषामेव यावत्सत्त्वं व्यापारस्य फलोत्पादक- त्वमप्रसिद्धमेवेति बोध्यम् । फलोत्पादकत्वाप्रसिद्धिरिति । तथा च व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वनियमो यदि स्यात् तदैवानन्तफलप्रवाहः प्रसज्येत, तदेव नेति भावः । न च व्या- पारकालस्य फलपूर्वत्वेति । व्यापारस्य यावत्सत्त्वं फलोत्पादकत्वाभावेऽपि यावतो व्यापार- कालस्य फलपूर्वत्वमस्त्येव । न च प्रायशो व्यापारस्य फलपूर्वक्षणस्थायित्वेन तत्रैव व्यभिचारः फलो- त्पत्तिकक्षणान्यत्वेन विशेषणीयत्वादित्यनुशयेनाह । व्यापारेत्यादि । फलानन्त्येति । तथा च ध्वंसस्य व्यापारत्वे फलोत्तरकालस्यापि व्यापारकालत्वेन तस्य फलपूर्वत्वरक्षार्थं तदुत्तरं फलं स्वी- अपूर्वस्वभावादिति । अत्र स्वभावेत्युपलक्षणम् कालविशेषघटितेश्वरेच्छातोऽपि नियमः स्यादेव । एवं यज्ञानां कालविशेषावच्छिन्नफलान्वयित्वेनेच्छाविषयतया तदिच्छाजन्यत्वमपि निया- मकं स्यादेवदुभयमपि ध्वंसपक्षेऽपि तुल्यमेवेति । तुल्यमिति । इदम् = स्वभाववर्णनम् । इहापि। ध्वंसव्यापारत्वपक्षेऽपि । तावतापि = फलमुत्पाद्यापि । न विनश्यति = अपूर्वं तु विनश्यतीति शेषः । १७ न्या० कु०
१३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां स्यादेतत् । उपलक्षणं प्रोक्षणादयो, न तु विशेषणम् । तथा चाविद्यमाने रपि तैरुपलक्षिता व्रीह्यादयस्तत्र तत्रोपयोक्ष्यन्ते । यथा गुरुणा टीका कुरुणा क्षेत्र- मिति चेत् । तदसत् । न हि स्वरूपव्यापारयोरभावेऽपि उपलक्षणस्य कारणत्वं- बोधनी । स्यादेतत्-इति । यदि प्रोक्षणादयो विशेषणं भवेयुस्तदा कार्यान्वयिन एव विशेषणत्वात् कार्यकाले तेषामसत्त्वेन विशेषणत्वायोगाद् विशिष्टस्य कारणत्वं न सिध्येत् । तेषां तूपलक्षणत्वे बुद्धिसन्निहितानामेवेतरव्यवच्छेदेन विशेष्यविषयबुद्धिजननद्वारेण कार्योपयोग इत्यविद्यमानसत्त्वेऽपि न कश्चिद् दोषः । अविद्यमानस्यैवोपलक्षणत्वे तदुपलक्षितस्य कार्यविशेषोपयोगे च दृष्टान्तः-यथा- इति । अविद्यमानेनैव हि गुरुणा कुरुणा च प्रभाकरकुरुक्षेत्रत्वोपलक्षिते टीकाक्षेत्रे तेषु कार्यविशे- षेषूपयुज्येते-यथा-इति । तदस्र्दिति । उपलक्षणत्वे प्रोक्षणादीनां कार्यन्तरोपयोगिव्रीह्युद्देशेन विधानेन तत्कार्येऽपि साधनत्वावगमात् कार्योत्पत्तिं यावत् स्वरूपेण वा स्वोत्पादितातिशयद्वारेण वा तेषां सत्त्वमङ्गीकार्यम् । अन्यथातिप्रसङ्गादिति । कथं तर्ह्यसत एव गुर्वादेरुपलक्षणत्वेन कार- प्रकाशः । स्वभाव इत्यग्रे सन्नपि न स्वर्गोत्पादक इत्यर्थः । अथ यागध्वंसो न व्यापारः, प्रतियोगिध्वंसयोरे- कुत्राजनकत्वादुपजीव्ययागकारणत्वभङ्गापत्तेः, प्रत्युत प्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रति- योगित्वादिति मतम् । तदपि तुल्यमिति भावः । स्यादेतदिति । यथाऽन्यत्रातीतेनाप्युपलक्षणेनोपलक्ष्यव्यावृत्तिबुद्धिस्तथा प्रोक्षणेनापि व्रीहे- रिति तादृशानामेवोपयोगोऽन्यथासिद्ध इत्यर्थः । न हीति । अन्यत्राप्यतीतेनोपलक्ष्यव्यावृत्तिबोधो- न जन्यते । स्वरूपव्यापारयोरसत्त्वात् । किन्तु तज्ज्ञानेनेत्यर्थः । तर्हि तज्ज्ञानमेव, तज्जन्यं स्या- प्रकाशिका । यागपदेन चात्र स्वर्गमात्रहेतुक्रिया विवक्षितेति नोक्तदोषः । सा पि च निरन्तरैकसन्तानापन्नस्व- र्गमात्रजनिका विवक्षितेति नानाजन्मव्यापकस्वर्गजनकापूर्वस्थले न व्यभिचारः । अन्यस्वर्गाधार- त्वेनेष्टापत्तिवारणायापाद्ये तदिति । तद्व्यापारजन्येति च तस्यार्थः । दृष्टान्तश्चात्र तज्जन्यैकस्वर्गो- त्तरकालस्तद्व्यापारजन्यद्वितीयस्वर्गकालः । टिप्पणी । कार्यम्, एवं तत्क्षणस्यापि तादृशकालत्वेन एवं तदुत्तरक्षणस्यापि तथात्वेन तत्र तत्र तदनुरोधे- न फलधाराप्रसक्तिरिति भावः । जनितफलव्यापारगर्भा व्याप्तिराशङ्कितुरभिमतत्यजनितफल- कीर्त्तनादिनाश्यापूर्वे न व्यभिचार इत्यत उत्तरकालीनत्वं कीर्त्तनविशेषणम्, किञ्चित्फलजननउत्तर- कालीनकीर्त्तनेति तदर्थः । विवादाध्यासितः काल इत्यादि । कालमात्रस्य पक्षत्वे स्वर्गपूर्व- काल आपादकासिद्धिः, स्वर्गकाल इष्टापत्तिरित्यतो विवादाध्यासित इति कालविशेषणम्, तदर्थश्च तद्व्यापारजस्वर्गोत्तरत्त्वे सति तथाभूतस्वर्गाधिकरणत्वमिति । स्वर्गापूर्वे, एवं चैत्रस्य जनितफ- लके नष्टेऽजनितफलके तिष्ठत्यपूर्वे, एवं कालान्तरवर्त्तिस्वर्गापूर्वे एवं जनितस्वर्गापूर्वनाशकाले एवं तत्रैव स्वर्गान्तरजनकव्यापारकाले, एवं स्वर्गोत्तरं मे राज्यं भूयादिति कामनया कृतप्रयागस्ना- नजन्यापूर्वे जनितस्वर्गे व्यभिचारवारणाय क्रमेण सत्यन्तम् । चैत्रीयतद्व्यापारजन्यार्थकं चैत्रपदम् । स्वर्गपदोत्तरदलं चैत्रीयतद्व्यापारजन्यार्थकं तत्प ' पूर्वपदस्य स्वर्गमात्रजनकार्थकत्वे तात्पर्य्यग्रा- हकं यागपदसुपादेयं स्वर्गान्तरमादायेष्टापत्तिवारणायापाद्ये तदिति ध्येयम् । तदपि तुल्यमितीति । प्रोक्षणध्वंसेऽपि तुल्यमित्यर्थः । यथान्यत्रातीतेनापीति । अविद्यमानस्य कारणत्वमत्यन्त्यमेवा- लीकमित्येतो मूलग्रन्थ्या व्याचक्षते यथेति । उपयोगोऽन्यथासिद्ध इति । संसारं विनापि : विद्यमानं सत्प्रयोजकं विशेषणमेव, उपलक्षणन्त्वविद्यमानमपि प्रयोजकमित्याह । उपलक्षण-
प्रथमस्तवके ] अपूर्व्वस्य चेतनधर्म्मत्वाक्षेपः । १३१ कश्चिदिच्छति, अतिप्रसङ्गात् । व्यवहारमात्रन्तु तज्ज्ञानसाध्यं, न तु तत्साध्यम् । तज्ज्ञानमपि स्वकारणाधीनं, न तु तेन निरन्वयध्वस्तेन जन्यते । अस्तु वा तत्रा प्यतिशयकल्पना किन्नश्छिन्नम् ! । यद्वा, यागादेरप्युपलक्षणत्वमस्तु तदुपलक्षितः कालो यज्वा वा स्वर्गादि साधयिष्यति, कृतमपूर्वेण । न च देवदत्तस्य स्वगुणा- ऽऽकृष्टः शरीरादयो भोगाय, तद्भोगसाधनत्वात्, स्रगादिवदित्यन्वयबलादपू- र्व्वसिद्धेर्नाविशेष इति साम्प्रतम् । इच्छाप्रयत्नज्ञानैर्नार्थायोगं सिद्धसाधनात् । न च तद्रहितानामपि भोग इति युक्तिमद्, येन ततोऽप्यधिकं सिद्ध्येत् । नापि स्व- गुणोत्पादिता इति साध्यार्थः, मनसाऽनैकान्तिकत्वात् । नापि कार्य्यत्वे सतीति विशेषणान्न हेतुः, तथासत्युपलक्षणैरेव सिद्धसाधनात् । असतां तेषां कथमुत्पाद- बोधनी । णत्वमित्यत्राह—व्यवहार-इति । न तावद् गुर्वादिनो टीकादौ किञ्चित्कार्यं क्रियते किन्तु तदी- यत्वेन व्यवहारमात्रमेव तत्रास्ति, तदपि तेन न क्रियते किन्तु गुर्वादिज्ञानेन, तज्ज्ञानमप्याप्तवादि- कारणाधीनं न त्वनुत्पादितव्यापारध्वस्तेन गुर्वादिना जन्यते; प्रत्यक्षज्ञान एव ह्यर्थः कारणं नान्य- त्रेति भावः । अथ गुर्वादिनापि टीकादौ तत्तत्कार्योपयुगुणः कश्चिदाधीयतामतिशयः, न तेन संस्का- रवादिनामस्माकं काचित् क्षतिः, भवतस्तु साध्यविकलो दृष्टान्तः स्यादित्यभिप्रेत्याह—अस्तु वा-इति । यदि वा प्रोक्षणादीनामतिशय मन्तरेणोपलक्षणत्वेन कारणत्वं स्यात् चेत् तदा यागादी- नामपि सत्वात्प्रसङ्गादपूर्व दत्तजलाञ्जलि स्यादित्याह—यद्वा-इति । ननूपलक्षणत्वेन यागादीनां फलसाधनत्वोपपत्तावपि प्रमाणवलादेव तत्रापूर्वसिद्धिरित्यत्राह—न च इति । स्रगादयो हि स्व- गुणेन प्रयत्नादिना सन्निधापिता भोगाय भवन्ति, तथा पश्चादयोऽप्यपूर्वाख्येन गुणविशेषेण सन्नि- धापिता इत्यपूर्वसिद्धेः प्रोक्षणादिभ्यो यागादीनां नाविशेषः । इच्छा-इति । कचिद् ज्ञानेच्छाप्रयत्नैः समुदितैरुपगृहीताः पश्वादयो भोगाय भवन्ति । कचित् त्वन्यतमेन यथा निदाघतप्तस्य मेघच्छा- याद्यः, न तेन तदतिरिक्तापूर्वसिद्धिरिति । यदीच्छादेर्व्यतिरेकेऽपि भोगः स्यात् ततस्तदतिरिक्तं सिध्येत् । न त्वेवमस्तीत्याह-न च-इति । इच्छाभावे भोगत्वमेव न स्यात्, इष्टत्वलक्षणात् सुख- प्रकाशः । दित्यत आह । तज्ज्ञानमपीति । ननु स्वकारणमपि तदेवेत्यत आह । न त्विति । निरन्वयध्व- स्तेन=अनुत्पादितव्यापारध्वस्तेनेत्यर्थः । तत्रापीति । उपलक्षणाभिमतेऽपीत्यर्थः । स्रगादिस्त- न्निर्मितो दृष्टान्तः । स्वगुणाकृष्ट इति । स्वगुणसहकारिण इत्यर्थः, स्वगुणोत्पादितां इति वा, आद्ये, इच्छेति । अन्त्यमाशङ्क्य निराचष्टे । नापीति । उपलक्षणैरिति । जन्मान्तरी- यज्ञानेच्छाप्रयत्नैरिर्यर्थः । सिद्धसाधनपदमत्रेष्टहानिपरम् । यथाश्रुतेऽपसिद्धान्तापातात् । प्रकाशिका । जन्मान्तरीयेति । निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः । मकरन्दः । जन्मान्तरीयेति । निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः । टिप्पणी । सिद्धः उपलक्षणाभिमतेऽपीति । कुरुक्षेत्रादावित्यर्थः । सिद्धसाधनपदमत्रेष्टहानिपरमिति । सिद्धसाधनस्य यथार्थतार्थत्वेऽविद्यमानसयोत्पादकत्वस्य सर्वैरस्वीकृततया तस्य सिद्धत्व एव तेन सिद्धसाधनसम्भवेनापसिद्धान्त इति भावः । अपसिद्धान्तप्रसङ्गादिति । तथा चार्थान्तर- मित्यादिना । व्यवहारमात्रमित्यादि । तदेतदभिमन्त्रणादिष्वित्यादिग्रन्थदर्शनात् । कुरोः पूर्वमपि तादृशक्षेत्रस्य सद्भावात् तदानीमतादृशत्वेनावश्यं तत्र कुरुजनितातिशयः स्वीकरणीयः । एवमविद्यमानस्य कस्यापि न जनकत्वमिति नियमात् तत्रापि तत्कल्प्यमेवेति दृष्टान्तासङ्गतिरित्याह । अस्तु चेति । अभ्युपगमे त्वाह । यद्वेति । देवदत्तस्येति । अत्र शरीरं पक्षः, देवदत्तस्वगुणाकृष्टत्वं साध्यम् । साध्यस्य स्वगुणसह- कारित्वार्थकत्वं मन्वान आह इच्छेति । यथाक्रमं कश्चिदिच्छायाः क्वचित्प्रयत्नस्य कचिज्ज्ञानस्य
यहाँ प्रस्तुत पृष्ठ का देवनागरी लिपि में पंक्ति-दर-पंक्ति लिप्यन्तरण है:
१३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां कत्वमिति चेत् तदेतदभिमन्त्रणादिष्वपि तुल्यम् । तस्माद्भावभूतमतिशयं जन- बोधनी । स्येति । स्वगुणाकृष्टत्वं नाम स्वगुणोत्पादितत्वं विवक्षितं तथा न सिद्धसाधनं पश्वादीनामिच्छायनु- त्या॑यत्वादित्याशङ्कयाह-नापि-इति । मनो हि नित्यत्वान्न केन चिदुत्पाद्यतेऽथ च भोगसाधनमिति तेनानौकान्तिकमिति । तर्हि कार्यत्वे सति भोगसाधनत्वादिति हेतुं विशेषयिष्याम इत्यत्राह-मापि- इति । अस्माभिरुपलक्षणत्वेनापादिता यागादयो ह्यात्मगुणस्तत्तत्संकल्पप्रयत्नाद्यात्मकत्वात् तेषा- म् । अतस्तैरेव जन्मान्तरीयैरैहिकैर्वा पश्वाद्युत्पत्तिसिद्धेर्न तदतिरिक्तजन्यापूर्वसिद्धिरिति । ननु चिरविनष्टा यागादयः कथं कालान्तरभाविनः पश्वादेः साधनं यतस्तैः सिद्धसाधनं स्यादित्याह- असताम्-इति । तर्हि अभिमन्त्रणादिष्वपि कालान्तरभाविने फलाय संस्कारमभ्युपगच्छेदित्याह- तत् इति । उक्तमर्थमुपसंहरन् प्रमाणयति-तस्मात्-इति । प्रध्वंसेन सिद्धसाधनं मा भूदि- प्रकाशः । तस्मादिति । यद्यपि पुरुषनिष्ठातिशयेन सिद्धसाधनम्, तथापि व्रीह्यादिगतेति साध्ये विशेषणी- यम् । यो यदुद्देशेनोपादीयते स तत्रातिशयजनक इति व्याप्तेरिति संप्रदायविदः । अस्मत्पितृचरणास्तु-सोऽतिशयो लाघवात् फलसमानाधिकरण इति व्रीहिनिष्ठ एव । तेन :टिप्पणी । मिति भावः । मतिशयेन सिद्धसाधनमिति । अथ विप्रतिपक्षस्य व्रीहिनिष्ठातिशयस्य प्रोक्षण- जन्यस्य यथोक्तानुमानासिद्धेरुच्यत इत्यादि ग्रन्थेन प्रोक्षणजन्यातिशये व्रीहिनिष्ठत्वखण्डनं ग्रन्थकृतो विरुद्धमित्याशङ्कां निरसितुमुपक्रमते । यद्यपीत्यादि माहुरित्यन्तेन । न च मन्त्रादीनेवे- त्यादितुल्यमित्यन्त मूलग्रन्थेन प्रोक्षणजन्यसंस्कार एव तर्कोभिसन्धिः तदुपकार्य्यमेव मानं तस्मादि- त्यादिना दर्शितं तथा च प्रोक्षणेऽतिशयजनकत्वस्यैवासिद्धेः कुतः सिद्धसाधनावकाश इति वाच्यम् । अत्रापि सिद्धसाधनपदस्येष्टहानिपरत्वात् व्रीहिनिष्ठातिशयस्यैवेष्टत्वात् । अथ व्रीहिगतत्वस्य सा- ध्यविशेषणत्वे व्रीहिनिष्ठातिशयजनकत्वप्रयोज्यकालान्तरभाविफलजनकत्वरूपसाध्याप्रसिद्धिः । अव- घातजनकीभूतक्रियान्तरमादाय कालान्तरभाविसुखार्थयोपादीयमानयागादिकमादाय च व्यभि- चारप्रसङ्गः दृष्टान्तासङ्गतिश्चेति चेन्न । यो यदुद्देशेनोपादीयते स तत्रातिशयजनक इति सामा- न्यव्याप्तौ गृहीतायां प्रोक्षणं व्रीह्याद्युद्देश्यकमिति पक्षधर्मताज्ञानसहकारात् शुद्धातिशयजनक- त्वघटितधर्मावच्छिन्ननिरूपितव्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानादेव व्यापकतानवच्छेदकीभूतेन विधेयतानवच्छेदकेन व्रीहिनिष्ठातिशयजनकताघटितधर्मे विधेयानुमितिरितरबाधादिसहकृतयो- गज्ञानजन्यानुमितिवद् इतरबाधादिर्यांस्तु विशेषः , अत्र व्रीह्यादिनिष्ठत्वविषयताया पक्ष- धर्मज्ञानप्रयोज्यत्वेन विधेयरूपत्वादिति, एवञ्च नोक्तदोषावकाशः । अनुमितेरेवाक्षेपे शुद्धाति- शयघटितधर्मावच्छिन्नमतिशये व्रीहिनिष्ठत्वमित्येवं रीतिकत्वस्वीकारो लाघवज्ञानादिसहकृतप्र- माजन्यविशिष्टवैशिष्ट्यबोधस्थले विशेषणतावच्छेदकप्रकारकज्ञानस्य विलक्षणकार्यकारणभावस्वी- कारान्न व्रीहिनिष्ठत्वविशेषितधर्मावच्छिन्नज्ञानस्य पूर्वमभावेऽपि नानुमानम् । अत एव विशे- ष्यविशेषणविशिष्टवैशिष्टयरीत्यासिद्धयेऽपि साध्यघटकातिशये व्रीहिनिष्ठत्वस्य विशेषणाद् व्रीह्यादी- त्यादिग्रन्थसङ्गतिः । साध्यतावच्छेदकावच्छिन्नाभाववद् वृत्तित्वस्यैव व्यभिचारत्वेन साध्यतावच्छेद- कशुद्धातिशयघटितधर्मावच्छिन्नाभावस्य तत्र विरहान्न व्यभिचारः । दृष्टान्ते साध्यतावच्छेदका- वच्छिन्नस्यैवापेक्षितत्वेन नापि दृष्टान्तासिद्धिरिति विभावनीयम् । सम्प्रदाय इत्यस्वरसेन- सहकारित्वात् । अधिकम् = इच्छादितो भिन्नमपूर्वमित्यर्थः । उपलक्षणैरिति । अविद्यमाने- र्जन्मान्तरीयैरित्यर्थः । तैरिति शेषः । तदेतत् = असतामुत्पादकत्वम् । अभिमन्त्रणादीति ।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३३ यन्त एव प्रोक्षणादयः कालान्तरभाविने फलाय कल्पन्ते प्रमाणतस्तदर्थमुपादी- यमानत्वात् , यागकृषिविकित्सार्थादार्त । अन्यथा कृष्यादयो दुर्घटाः प्रसज्ये- रन् । वीजादीनामापरमाण्वन्तभङ्गात् तेषु चावान्तरजातेरभावान्नियतजातीय- कार्यारम्भानुपपत्तेः । अत्रोच्यते-- संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥ बोधनी । त्युक्तं-भाव-इति । भ्रमादिकृतेनोपादानेनानकान्तिकं मा भूदित्याह-प्रमाणत-इति । श्रुति प्रमाणादित्यर्थः । न च कृष्यादौ साध्यवैकल्यमित्याह-अन्यथा-इति । कथमित्याह- बीजादीनाम्-इति । परिकर्षितायामुर्व्वर्यामुप्तं बीजावयवि पाथःपवनसंयोगात् क्रियोत्पत्तावव- प्रकाशः । तत्समवहितत्वं व्रीहेः साक्षात् सम्बन्धात् । पुरुषनिष्ठत्वे व्रीहीणां साक्षात् सम्बन्धाभावात् परम्परा- सम्बन्धे गौरवं च, न च विहितत्वेन पुरुषनिष्ठातिशयजनकत्वमनुमेयम् । अप्रयोजकत्वात् । चिकि- त्सादिना व्यभिचाराच्चेत्याहुः । दृष्टान्तस्य साध्यवैकल्यमपाकरोति । अन्यथेति । प्रोक्षणादिज- न्यातिशयसिद्धावपि तस्य व्रीहिनिष्ठत्वं न सिद्ध्यतीत्याह- संस्कार इति । अतिशयधर्मिग्राहकमानादेव लाघवसहकृतात् स एक एव सिद्ध्यति, पु- रुषनिष्ठश्च । तथाहि, व्रीहिगतत्वे न तावत्सकलव्रीहिनिष्ठ एक एव, एकव्रीहिनाशे तन्नाशापत्तेः । न च यावदाश्रयनाशात्तन्नाशः, लाघवादाश्रयनाशस्यैव तन्त्रत्वात् । वृक्षादौ किञ्चिदाश्रयनाशात्तन्नाशे- ऽपि खण्डपटन्यायेन पुनरुत्पत्तिरित्यनेको वाच्यः । न चैवमेकव्रीहिनाशे फलानुदयः, तावत्संस्कारा- णामभावादिति वाच्यम् । संस्कारत्वेनैव प्रयोजकत्वात् । किञ्चित्तत्समवधानेऽपि दण्डादिवत् कार्य- सत्त्वादिति गौरवम् । न च विनिगमकाभावः । प्रोक्षणमपूर्वजनकं, दृष्टद्वाराभावे सति प्रकाशिका । संस्कारत्वेनेति । न चैवं तावतां व्रीहीणां किमित्युपादानमिति वाच्यम् । होमनिर्वाहाय तावदुपादानात् । यद्यपि विनिगमकं लाघवमेव, तथाप्यपूर्वं तदित्यत्र विनिगमकं नास्तीत्याशङ्क्य निराकरोति न चेति । वस्तुतो लाघवोपकार्यमानाभाव इति शब्दार्थः । दृष्टद्वाराभाव इति । मकरन्दः । संस्कारत्वेनेति । न चैवमनेकव्रीह्युपादानानुपपत्तिः । होमादिनिर्वाहार्थं तदुपगमात् । यद्यपि विनि- गमकमुक्तमेव, तथाप्यपूर्वं तदित्यत्र विनिगमकाभावमाशङ्क्य निराकरोति । न चेति । दृष्टद्वारेति । मङ्गलादौ व्यभिचारवारणाय सत्यन्तम् । दृष्टत्वं-क्लृप्तत्वम् । तत्तद्दृष्टत्वं विशिष्यैव वक्तव्यमिति टिप्पणी । नाय । पक्षधर्मताज्ञानस्य प्रमाणान्तरसहकारित्वस्य यथोक्तरूपेण कुत्राप्यस्वीकारात् उक्तव्याप्तौ मीमांसकानामनिर्भरत्वाच्चेति भावः । इत्यनेको वाच्य इति । न च छिन्नायामपि शाखायां सोऽयं वृक्ष इति व्यवहाराद् यावदाश्रयनाशस्य हेतुत्वं वाच्यमिति वाच्यम् । साजात्यावलम्बनेनैव तादृशव्यवहारोपपत्तेरिति । संस्कारत्वेनैवेति । प्रोक्षणजन्यसंस्कारत्वेनेत्यर्थः । इति गौरव- मिति । इति हेतोरतिशयोऽनेको वाच्यस्तथा च तस्यानेकस्य कल्पने कारणत्वे चातीव गौरवम् तदपे क्षया परम्परासम्बन्धकल्पन एव लाघवमिति भावः । आपत्तेरिति । कथञ्चित् व्रीहावेकसंस्कारक- आदिपदात् प्रोक्षणादिपरिग्रहः । उपादीयमानत्वादिति । अनेनानुमानेन तथाभूतातिशये सिद्धे यो यदुद्देशेनेत्यादिन्याप्त्या व्रीहितिष्ठत्वसिद्धिः स्यात् ।
१२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां स्वगुणाः परमाणूनां विशेषाः पाकजादयः ॥११॥ बोधनी । यवानां विभागेनासमवायिकारणतत्संयोगविनाशाद् विनश्यति । एवमापरमाण्वन्तं विभागात्, तेषु च यवकलमादिविजातीयाङ्कुरारम्भकनियामिकाया जातेरभावात्, कलमबीजावापे कलमाङ्कुर एव यवबीजावापे यवाङ्कुर एवेत्येवं कार्यजातिनियमस्यानुपपत्तिः । अतिशयाङ्गीकारे कृष्याद्याहितातिश- यास्ते ते परमाणवस्तं तं कार्यविशेषमारभन्त इति नियमोपपत्तिरिति भावः । तदेवं प्रोक्षणादिजन्यातिशयवद् यागादिजन्यमपूर्वं भूतधर्मोऽस्त्विति पूर्वपक्षिते सिद्धान्तमार- भते-अत्र-इति । यदि तावत् प्रोक्षणादयः कञ्चिदतिशयमादधतीति साध्येत ततः सिद्धसाधनम् , अथोद्देश्यगतमादधतीति, ततोऽनैकान्तिकता; ततः पुंस एव संस्कार इष्यताम्, कृष्यादावपि क्लृप्तैरेव पाकजादिगुणविशेषैः कार्यनियमोपपत्तौ नाप्रसिद्धातिशयकल्पनेति साध्यवैकल्यमिति भावः। प्रकाशः । कालान्तरभाविकफलजनकतया विहितत्वात्, यागवत् । न चाऽप्रयोजकत्वम्, यागादीनामपूर्वजनकता- यामुक्तसूपस्यैव प्रयोजकत्वात्, अन्यस्याननुगतत्वादिति भावः। कृष्यादिना व्यभिचाराभावं परोक्त- दृष्टान्तस्यासिद्धिं चाह । स्वगुणा इति । तत्र दृष्टद्वारस्यैव सम्भवान्न व्यभिचारः । न वा तत्र परमाणौ अतिशय इति दृष्टान्तः साध्यविकल इत्यर्थः । यद्यपि पाकजा रूपादद्योऽपि तन्निष्ठाति- शया एवेति न साध्यवैकल्यं, तथाप्याधेयशक्त्यभावमात्रे तात्पर्यम् । न ह्याधेयशक्तिपाकजयोरती- न्द्रियत्वाविशेषात् कल्पनायामविशेषः । परमाण्ववयविरूपादिसजातीयपाकजरूपायुत्पत्तेरावश्यक- त्वात् । तत एव नियतकार्यजनननोपपत्तौ शक्त्याधानकल्पने गौरवादिति भावः । प्रकाशिका । चिकित्सायां व्यभिचार इति सत्यन्तम् । दृष्टत्वं च क्लृप्तत्वं न त्वदृष्टान्यत्वमन्यतरासिद्धेः। पापध्वंस- फलकप्रायश्चित्ते व्यभिचार इति । कालान्तरेति । कालान्तरत्वं च स्वोत्पत्त्यव्यवहितक्षणान्यत्वं न तु स्वानधिकरणकालत्वं विहितपदवैयर्थ्यात् यथाविवक्षिते त्वपूर्व एव व्यभिचार इति तत्पदम्। अपूर्वं च तन्मते कल्प्यमिति भावः । केचित्तु धर्मजनकत्वं साध्यमिति निषिद्धकर्मणि व्यभिचारवा- रणाय विहितपदमिति कालान्तरत्वं स्वानधिकरणकालत्वमेवेत्याहुः । कृष्यादिनेति । यद्यपि मद्युक्त्यानुमाने व्यभिचाराभावं मूलकृदाहेत्यनन्वितं मूले चैतादृशानुमानं नोक्तमेव । तथापि मूलकृ- त्तातपर्यस्यैवानुमानं प्रकाशकृता प्रकाशितमिति स्वतात्पर्यानुमाने कृष्यादिना व्यभिचाराभावमाहे- त्यर्थः । परोक्तेति । परेण ग्रन्थ-उक्तस्येत्यर्थः । तत्र दृष्टद्वारस्यैवेति । यद्यपि विहितत्वाभा- वादेव न तत्र व्यभिचारः, तथापि वर्णोपायविभागावसरे कृष्यादेरपि विहितत्वमेवेत्यनेनाभिप्रायेणे मकरन्दः । नान्यतरासिद्धिरित्यप्याहुः । मदुक्तमनुमानप्रकाशे द्रष्टव्यम् । साक्षात् पापध्वंससाधने प्रायश्चित्ते व्यभिचारवारणाय कालान्तरेति । कालान्तरत्वञ्च स्वानन्तरक्षणान्यत्वम् । अन्यथा विहितपद- वैयर्थ्यापत्तेः । एवंवापूर्व एव व्यभिचारवारणाय तत् । तच्च मन्मते कल्प्यमिति भावः । वस्तुतो धर्मजनकत्वमत्र साध्यम् । तथा च निषिद्धकर्मणि व्यभिचारवारणाय । तदिति । कृष्यादिनेति । टिप्पणी । ल्पनासम्भवेऽप्यनेकव्रीहौ तत्सम्बन्धकल्पनापेक्षयाप्यात्मनिष्ठत्वे लाघवं द्रष्टव्यम् । फलजन- कतया विहितत्वादिति । चिकित्सादौ व्यभिचारवारणाय सत्यन्तम् । कालान्तरत्वं चोत्पत्त्य- व्यवहितक्षणान्यत्वं न त्वन्यवहितोत्तरत्वसम्बन्धेन स्वाधिकरणत्वं तथा सति विहितत्वपदवैयर्थ्यात् । जातेरभावादिति । तथा च व्रीह्यादिकिष्कुपरमाणूनां विशेषाभावेन व्रीहिनिर्वपने कलावि-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३५ यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुष- मभिसंस्कुर्वते, न वह्निं नापि देवताम् । तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः बोधनी। कथं व्रीह्याद्युद्देशेन तत्र प्रयुज्यमानः प्रोक्षणादिः पुरुषं संस्करोतीत्याशङ्कां निराकुर्वन्नैकान्ति- कतामेव स्फोरयति-यथा हि-इति । व्रीह्याद्युद्देशेन तत्रैव प्रयुज्यमान इत्युपस्कारः कथं पुरुष- प्रकाशः। यो यदुद्देशेनोपादीयते इत्यत्र परोक्तानुमाने व्यभिचारमाह । यथा हीति । देवतायाः सि- द्धत्वे यथा प्रीतिभागितयोद्देश्यत्वं तथा व्यापारभागितया व्रीहेरपीत्यर्थः । न च यद्गतफलार्थि- तया यत्क्रियते तत् तद्गतमेव तदनुकूलमतिशयं जनयतीति व्याप्तेरनुमानं स्यादिति वाच्यम् । शत्रु- वधमुद्दिश्य प्रवर्तितेन श्येनयागेन व्यभिचारादिति भावः । अथात्मनिष्ठसंस्कारस्य व्रीहिणा सम्ब- प्रकाशिका। दम् । शत्रुवधमिति । तत्र शत्रोरेव वधाश्रयत्वेनोद्देश्यत्वादिति भावः । न च वैरिणि तदपूर्वमिति पञ्चमटीकाविरोधः । तस्या एकदेशिमतारूव्यानपरत्वात् तस्य धर्मरूपत्वे वैरिमरणजनकत्वानुपप मकरन्दः। न च विहितत्वाभावादेव न तत्र व्यभिचार इति वाच्यम् । प्रत्येकवर्णोपायविभागविधिना वैश्यस्य कृषिविधानादिति भावः । शत्रुवधमिति । यद्यपि शत्रुवधो न शत्रुगत उद्देश्यः । तथा सति स्ववध एवोद्देश्यः प्रस- टिप्पणी। यथा व्याख्यातार्थे त्वपूर्वमादायैव व्यभिचारात् तदुपादानम् । न चैककर्तृकानेकपितॄनुद्देश्यकगया- श्राद्धस्थलेऽपि लाघवबलात् कर्त्तव्यैवादृष्टस्वीकारापत्तिः, उद्देश्यस्यानेकत्वेनानेकादृष्टकल्पनायां गौरवात् । न चास्तु तथैव, तथा सति पितृष्वदृष्टसिद्धान्तभङ्गप्रसङ्गादिति वाच्यम् । अनेकपुत्रादि- कर्तृकैकैकोद्देश्यकगयाश्राद्धस्थलीयादृष्टेन दत्तोत्तरत्वात् तत्र कर्तरि कल्पनायां गौरवात् । तस्मात्- पितृष्वेव साक्षात्सम्बन्धेनादृष्टं स्वीकार्यं लाघवात्, फलसामान्यानुरोधेन परम्परासम्बन्धे गौरवा- दिति भावः । देवताया इति । उद्देश्यत्वम् = इच्छाविषयत्वम् । तथा हि सिद्ध इच्छाविर- हात्कथं देवतादीनामुद्देश्यत्वमित्याकाङ्क्षायामाह । तथा व्यापारभागितयेति । अवघातादि- रूपव्यापारेत्यर्थः । यथा प्रीतिभागितयोद्देश्यमिति । ननु प्रीतिभागित्वेन देवताया उद्दे- श्यत्वे यागादः प्रीतिरेव व्यापारोऽस्तु, अलमदृष्टेन, न च फलपूर्वं कथं तस्या स्थितिः । संस्काररूप- स्ववासनया स्वजनकवासनया तत्र स्थितिसम्भवादिति चेन्न । बहुकालव्यापकस्वर्गजनकयाग- स्थले प्रीतेर्व्यापारत्वे स्वर्गस्य सुखरूपत्वेन क्षणिकतयाऽनन्तत्वेनानन्तानां तेषां नियतपूर्वत्वानन्य- थासिद्धत्वयोः कल्पनायामतीव गौरवात् प्रीतेर्ज्ञानस्वरूपाया इच्छादिस्वरूपाया वा तावत्कालपर्यन्तं स्थित्यसम्भवादिति । शत्रुवधमुद्दिश्येति । शत्रोरेव वधाश्रयत्वेनोद्देश्यतया श्रुतेः शत्रुवध- स्यैव फलत्वेन तज्जनकीभूतश्येनयागजन्यापूर्वस्य कर्तरि स्वीकारात् । ननु तादृशापूर्वस्य कथं न- शत्रुनिष्ठतेति चेत्तस्य धर्मत्वे स्वसमानाधिकरणवधादिरूपफलजनकत्वानुपपत्तिः । अधर्मरूपत्वे विहितश्येनसाध्यत्वानुपपत्तिरिति शत्रुवधसाध्यसुखनिष्पादकमपूर्वं धर्मरूपं कर्तर्येवोत्पद्यते, स एव पूर्वोपार्जितशत्रुनिष्ठाधर्मस्य शत्रुवधे जननीये सहकारी भवतीति विभाव्यम्॥ ०॥ सम्वन्धा- च्छाल्यङ्कुरः स्यात् शालिनिर्वपणे व्रीह्यङ्कुरः स्यादिति शङ्कया व्रीह्याद्यर्थिनां विशेषदर्शिनां कृष्यादौ प्रवृत्तिर्न स्यादिति भावः । हुताशन इति । आहुतिरित्यदिना परमापूर्वस्य जननात् तस्य देवतायां स्वीकारे फलव्यधिक-
पुरुषमेव संस्करुते, न तम्। यथा च कारीरीजनितसंस्काराधारपुरुषसंयोगा- ज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया, तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशे- षाः। यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात् फलाभावस्तथा परत्रापि। भागमि-
बोधनी। संस्काराणां व्रीह्याद्यसम्बन्धानामेव तत्सहकारित्वमित्यत आह—यथा च-इति। यथा हि कारीरीजनितसंस्कारानाधारा एव जलधरास्तदाधारयजमानात्मसंयोगादेव गगनं संचरन्ति वर्षन्ति च, तथा व्रीह्यादयोऽपि संस्कृतात्मसम्बद्धाः कार्योपयोगिन इति। ननु पुरुषसंस्कारपक्षे यदा तस्य पातकादिदोषस्तदा तस्मिन् संस्काराधानायोगाद् वैफल्यमेव प्रोक्षणादेः स्यात्। व्रीहिसंस्कारत्वे तेषामदुष्टत्वान्नायं दोष इत्यत्राह—यथा च-इति। कर्तृदोषे यथैकत्र कर्त्तरि फलस्य संस्कारस्या- भावः, तथापरत्र व्रीह्यादिष्वपि कर्तृत्ववैगुण्ये क्वचिदपि न संस्कार उत्पद्यत इत्यर्थः। यद्वा, एकत्र कारीर्यामपरत्र प्रोक्षणादावपि उभयत्र पक्षद्वये कर्मद्वये वाप्यागमिकत्वस्य तुल्यत्वाददुष्टानामेवाधि- कारः। अत्र कर्मसाधनयोरुपादानं दृष्टान्तार्थम्। यद्वा, कृमिकीटाद्युपहतेष्वपि व्रीहिषु व्रीह्यन्त- रोपादानं न स्यादसंस्कृतत्वाविशेषादित्यत आह—यथा-इति। कर्मादिवैगुण्य इव व्रीह्यादिदोषे ऽपि फलाभावश्रुतेस्तुल्यत्वेन व्रीह्यन्तरोपादानमुपपद्यत इत्यन्या व्याख्या। ननु पुरुषसंस्कारपक्षे प्रोक्षणादीनां कारीर्यादिवदनियतफलत्वं प्राप्नोतीत्यत्राह—यथा च-इति। कर्मादिवैगुण्यनिमित्तं हि
प्रकाशः। न्धाभावान्न मिथः सहकारित्वं स्यादित्यत आह। यथा चेति। संस्कारवदात्मसंयोगो मेघस्येव व्रीहेरपि तुल्य इत्यर्थः। न च परम्परासम्बन्धे गौरवम्, प्रामाणिकत्वादिति भावः। नन्वात्मनोऽनधिकृतस्यापि सम्भ- वान्न तन्निष्ठः संस्कारः सम्भवतीति व्रीहिनिष्ठ एव स स्यादित्यत आह। यथा चेति। कर्तृवै- गुण्ये संस्कारो नोत्पद्यते। तत्साद्गुण्यस्यापि हेतुत्वादित्यर्थः। न चायं प्रधानयागाभावाद् यत्र
प्रकाशिका। तेरधर्म्मरूपत्वे च विहितश्येनसाध्यत्वानुपपत्तेः, तस्मात् शत्रुवधसाध्यसुखादिनिष्पादकमपूर्व्वं कर्त्त- र्य्येव धर्मरूपं स च धर्म्मः पूर्व्वकृतशत्रुनिष्ठाधर्मस्य शत्रुमरणे जननीये सहकारीत्येव रमणीयम्।
मकरन्दः। ज्ज्येत। तस्यैव तच्छत्रुत्वात्। किन्तु स्वगतशत्रुवधमुद्दिश्य श्येनः क्रियते। तथापि वधस्य सं- योगध्वंसात्मक मरणरूपस्य शत्रुनिष्ठतया तथोक्तम्। एतदपि परमते। अस्मन्मते श्येनापूर्व्वस्य शत्रुनिष्ठत्वमेव, फलोपपादकमपूर्व्वं फलाश्रये कल्प्यते इति वक्ष्यमाणयुक्तेरिति बोध्यम्। अस्म- न्मते त्वप्रयोजकत्वे तात्पर्य्यम्।
टिप्पणी। भावादिति। अवघातादिरूपकार्य्यजनन इति शेषः। प्रामाणिकत्वादिति। अतिशयस्य साक्षात्सम्बन्धेन व्रीहिनिष्ठत्वापेक्षया उक्तयुक्त्या आत्मनिष्ठत्व एव लाघवेन तादृशसम्बन्धस्य प्रमाणसिद्धत्वेन गौरवस्याकिञ्चित्करत्वाद्वि भावः ॥०॥ व्रीहितिष्ट एवं सं स्यादिति। अनधि- कृतात्मस्थले व्रीहेर्वैगुण्यात्प्रोक्षणजन्यस्यावघातजनकस्योत्पादो भवत्येवेति शङ्कयितुरभिप्रायः ॥०॥ कर्त्तृवैगुण्ये संस्कार इति। कर्तृवैगुण्यस्थले परमापूर्व्वजननस्योभयसिद्धत्वेन तत्र तद्धेतुभूत- संस्कारादेरपि मानाभावः प्रयोजनाभावात्। तथाचाङ्गापूर्वादावपि कर्तृकर्मसाधनवैगुण्याद्यभाव- रणस्य स्वीकारापत्तेः, देवतायां तस्यास्वीकारात्। एवं फलव्यधिकरणस्य परमापूर्व्वस्य सर्वैरस्वी- काराद् देवतायां नातिशयसम्भव इति यो यदुद्देशेनेत्यादिव्याप्तौ व्यभिचार इति भावः। तथा = संस्कारवदात्मसंयोगादिरित्यर्थः। क्रियाविशेषाः = प्रोक्षणाभ्युक्षणादयः। एकत्र = परमापूर्व्वस्थले, अथवाऽऽत्मनिष्ठत्वपक्षे। परत्रापि = अङ्गापूर्व्वस्थलेऽपि व्रीहिनिष्ठत्वपक्षेऽपीति वा।
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३७ कत्वस्योभयत्रापि तुल्यत्वात् । न तर्हि बर्हिष इव व्रीह्यादेः पुनरुपयोगान्तरं स्यात् , उपयोगे वा तज्जातीया- न्तरमप्युपादीयेत, अविशेषात् । न । विचित्रा ह्यभिसंस्काराः केचिद्व्याप्रियमाणे- द्देश्यसहकारिण एव कार्ये उपयुज्यन्ते । किमत्र क्रियतां, विधेर्दुर्लङ्घ्यत्वात् । बोधनी । कारीर्यामनियतफलत्वं, तच्चाविशिष्टं प्रोक्षणादिष्वपि । उभयं ह्यागमेन फलाय विधीयत इति । अतः प्रोक्षणादिष्वपि वैगुण्यनिबन्धनः फलाभावोऽविशिष्ट इति । ननु यदि भाविप्रयोजनार्थं व्रीहयः संस्क्रियेन्ते तदा तेषां स्वकार्यान्तरोपयोगो युज्यते । यदि तु पुरुषः संस्क्रियेत, तदा न यदैकस्मादपूर्व तदेतरत्तदर्थमिति न्यायात् सक्तुवद् विनियोगभङ्गेन व्रीह्यादेः प्रोक्षणादिशेषतैव स्यात्, तत्र च प्रोक्षणादिनिर्वृत्त्यैव कृतार्थानां व्रीह्यादीनां कार्यान्तरोप- योगो न स्यात् । "बर्हिषि हवींष्यासादयती"ति हविरासादने विनियुक्तस्य बर्हिष इवेत्याह-न तर्हि- इति । अथ व्रीहिभिर्यजेतेति व्रीहीणां यागसाधनत्वेन विधानात् कृतकार्याणामपि यागार्थमुपादान- मिति चेत् तत्राह-उपयोगे वा-इति । तदा हि प्रोक्षितैर्यागव्यमिति नियमाभावाद्व्रीहिजातीयं व्यक्तन्तरमुपादीयेत प्रोक्षिताप्रोक्षितयोर्व्रीहिबर्हिषोर्वा विशेषाभावादिति । सिद्धान्त्याह-न- इति । वैचित्र्यमेवाह-केचित्-इति । कस्मैचित् कार्याय यल्लक्षीकृत्य या क्रिया प्रयुक्ता तज्जनितः संस्कारः कश्चित्पुरुषाधारोऽपि तदुद्देश्यव्यापारसहकार्येव कार्यं करोति, कश्चित्तु तन्निरपेक्षः । तत्र प्रकाशः । प्रधानापूर्वाभावस्तत्र प्रोक्षणजन्यापूर्वस्य कथं नाशः, तस्य भोगेतरानश्यत्वादिति वाच्यम् । इत- राङ्गापूर्वतुल्यत्वादिति भावः । बर्हिष इवेति । उत्पादिताङ्गापूर्वस्य बर्हिर्यागस्येव विनियुक्तविनि- योगविरोधादित्यर्थः । यद्वा बर्हिस्तृणाति, बर्हिषि हविरासादयतीति वचनाद्यथा बर्हिषः पुनरुप- योगो, न तथा व्रीहेरिति व्यतिरेके दृष्टान्तः । ननु व्रीहिभिर्यजेतेति यागसाधनत्वेन व्रीहीणां विधा- नात्तत् स्यादित्यत आह । उपयोगे चेति । विचित्रा हीति । संस्कारमाहात्म्यमेवेदं यन्निष्ठ- व्यापारेण पुरुषसंस्कारो जनितस्तस्य व्रीह्यादेः संस्कारः सहकारी, नान्यस्येत्यर्थः । विधेरिति । व्रीहीनवहन्तीति विधेः पूर्वोक्तन्यायेन प्रोक्षितव्रीहिष्वेव तात्पर्यादित्यर्थः । प्रोक्षिता व्रीहयोऽवघा- ताय कल्पन्त इति वाक्यशेषसहितस्यैव विधेर्दुर्लङ्घ्यत्वादित्यर्थः । व्याप्रीयमाणोद्देश्यसहकारित्वं प्रकाशिका । वस्तुतोऽप्रयोजकत्वे तात्पर्यमिति । भोगेतेरेति । फलेतरेत्यर्थः । तेनाङ्गापूर्वस्य प्रधानापूर्वना- टिप्पणी । समुदायस्य हेतुत्वं तथा च न दोष इत्युत्तरयितुराशयः । अनाश्यत्वादिति । तस्माद् व्रीहिनिष्ठ एव स स्वीकर्तव्य इति शेषः । उत्पादिताङ्गापूर्वस्येति । उत्पादिताङ्गापूर्वत्तत्तद्व्यक्तीनां पुनर्वि- नियोगस्यासांदृष्टिकत्वेन व्रीहेरुपतादिताङ्गापूर्वत्वेन पुनर्विनियोगो न स्यादिति प्रोक्षितव्रीहेः संस्कार एवाभ्युपेतन्य इति भावः । बर्हिःशब्दस्य यागार्थकत्वे हेतुमाह विनियुक्तेति । तस्यैवेति शेषः, तर्हि=प्रोक्षणेन व्रीह्यादीनामात्मन्यपूर्वस्वीकारे । उपयोगान्तरम् , अपूर्वजनकव्यक्तीनां पुनर्विनियोगादर्शनात् । अविशेषात्=प्रोक्षणजन्यसंस्काराणां स्वाश्रयसंयुक्तत्वरूपसम्बन्धस्य प्रोक्षितव्रीहिष्वदन्यत्रापि सत्त्वाविशेषादित्यर्थः । दुलङ्घ्यत्वात्=व्रीहीनवहन्तीत्यादिविधेस्तथाविधव्रीहितापर्यकत्वादित्यर्थः । १८ = न्या० कु०
१३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्या- यथा चाभिचारसंस्कारो यं देहमुद्दिश्य प्रयुक्तस्तदपेक्ष एव तत्संबद्धस्यैव दुःख- मुपजनयति, नान्यस्य । न वा तदनपेक्षः । एवमभिमन्त्रणादिसंस्कारा अपि भव- न्तो न मनागपि नोपयुज्यन्ते । कथं तर्हि व्रीह्यादीनां संस्कार्यकर्मतेत चेत्, प्रो- क्षणादिफलसम्बन्धादेव । बोधनी । न विधिरेव प्रमाणमिति । अत्रोभयसिद्धं निरूपयति - यथा हि-इति । श्येनेष्वेकद्वित्रिकायभि- चारकर्मजनितसंस्कारो हि कर्तृगतसमवेतत्वेन भ्रातृव्यदेहानाधारोऽपि उद्देश्यदेहापेक्षस्तत्सम्बद्धस्य तस्यैवात्मनो मरणादिदुःखं जनयति नान्यस्य, नापि तस्यैव भवान्तरीयसम्बद्धस्येति । दार्ष्टान्तिके- ऽतिदिशति-एवम्-इति । एवं भवन्तः=उद्देश्यसहकारिणो भवन्त इत्यर्थः । कथं तर्हि-इति । व्रीहीनिति द्वितीया तावत् कर्मत्वमवगम्यते, तच्च प्रोक्षणादिक्रियाजन्यफलभागित्वमन्तरेण नोप- पद्यत इति । प्रोक्षणादि-इति । प्रोक्षणक्रियायास्तावज्जलसंयोगः फलं, तत्फलं च संस्कारः, प्रकाशः । संस्कारस्य नासां दृष्टिकमित्याह । यथा चेति । ननु, व्रीहीन् प्रोक्षतीति द्वितीयाश्रुतेः क्रियाजन्ये- ष्टफलभागित्वं व्रीहीणां प्रतीयते । न चापूर्वस्य व्रीहिवृत्तित्वं, साक्षात्सम्बन्धस्योत्सर्गिकत्वादित्याहं । कथमिति । प्रोक्षणक्रियाजन्यजलसंयोगेन धात्वर्थावच्छेदकफलेन साक्षात्सम्बन्धाद् व्रीहेः कर्मत्व- मित्याह । प्रोक्षणादीति । न च जलसंयोगस्य कृत्स्नव्रीहिष्वभावः, कपिञ्जलन्यायेन व्रीहित्रय- जलसंयोगेनैव बहुवचनोपपत्तेः । कालान्तरे कृत्स्नोपादानस्य च कृत्स्नोद्देश्यतामात्रप्रयुक्तत्वात् । अन्यथा शक्त्याधानपक्षेऽपि तुल्यत्वात् । न च विध्यपेक्षितफलभागित्वं द्वितीयाऽर्थः, तदव्युत्पत्तेः ग्रामं गच्छतीत्यादौ तदभावात् , संयोगस्यापि विध्यपेक्षितत्वाच्च । अन्यथा तदनुपयोगापत्तेः । न प्रकाशिका । श्यतया सङ्गतिरपास्ता । पूर्वोक्तन्यायेन । व्यक्तिवचनन्यायेन । अन्यथा शक्त्याधानेति । सकलव्रीहिजन्यसंयोगाभावेन शक्त्याधानानुपपत्तेरित्यर्थः । उक्तं हि द्वितीयामात्रार्थो वा वैदिक- द्वितीयार्थो वा । आद्ये दोषमाह ग्राममिति । अन्त्ये दोषमाह । संयोगस्यापीति । विधिविष- यक्रियाजन्यफलस्यैव विध्यपेक्षितपदार्थत्वादिति भावः । संयोगस्येति प्रतीतौ विशेषणत्वमेव, अन्यथा त्यजिगम्योः पर्यायता स्यात् , संयोगस्य प्रोक्षणसाध्यत्वान्वये च संयोगोपलक्षितकर्मणः साधनत्वेनान्वय इति प्रकाशार्थः, इष्टसाधनताविधिपक्षे क्रियोपलक्षणस्यापीष्टस्य प्रतीतिविशेषण- तावदविरोधात्, चिन्तामणौ तु त्यजेः स्पन्दमात्रं शक्यं गमेः स्पन्दविशेष इति वस्तुतो लेखनाद् भिन्नयोः स्पन्दत्वगमनत्वयोः फलानवच्छिन्नयोरेवोभयत्र शक्यतावच्छेदकत्वमिति न पर्यायता- मकरन्दः । विध्यपेक्षितेति । जलसंयोगश्चावघातविरोधितया न तथेति भावः । संयोगस्यापीति । टिप्पणी । तथा च बर्हिःशब्दस्य यथाश्रुतार्थकत्वे तस्य विनियुक्तस्य विनियोगादर्शनादसङ्गत्यापत्तेः॥ अन्यथा शक्त्याधानेति । अन्यथा कृत्स्नोद्देश्यत्वस्याप्रयोजकत्वे सकलव्रीहिषु जलसंयोगाभावेन शक्त्या- धानानुपपत्तेः कृत्स्नानुपपत्तिरिति । फलभागित्वं द्वितीयार्थ इति । यजेतेत्यादौ यागजन्यस्व- संस्कार्यकर्मेति । अत्र संस्कार्यपदोपादानं दोषसंघटनाय तथा हि प्रोक्षणजन्येष्टफलवत्त्व- स्यैव तादृशकर्मतात्वेन संस्कारस्य तत्रास्वीकारानुपपत्तिः । स्यादेतत् यदि क्रियाजन्येष्टफलशालित्वं कर्मत्वं तदेव न । धात्वर्थतावच्छेदकफलवत्त्वस्यैव तत्त्वात् तस्य संयोगादिरूपस्य सत्त्वान्न कर्मत्वहानिरित्याह । प्रोक्षणेति ।
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३६ बोधनी । तेन संस्कारानाधारत्वेऽपि क्रियाफलजलसंयोगभाजां व्रीहीणां कर्मत्वोपपत्तिः, नाप्यनीप्सितकर्मत्वम्, आग्नेयाद्यपूर्वेषु उपयोक्ष्यमाणत्वादित्यर्थः । प्रकाशः । न जलसंयोगावच्छिन्नक्रियाविशेषः प्रोक्षणमिति कथं तदेकदेशस्य तत्साध्यतान्वय इति वाच्यम् । संयोगस्योपलक्षणत्वेनापदार्थत्वात् । अन्यथा यत्र नाधेयशक्तिः सक्तून् प्रोक्षतीत्यादौ, तत्र का गतिः । वस्तुतो ज्ञानविषययोरिव व्रीहिपुरुषसंस्कारयोः स्वरूपमेव साक्षात्सम्बन्धो, न तु सम- वाय इति भावः ॥ प्रकाशिका । प्रसङ्ग इत्यपि प्रतिभाति । वस्तुत इति । तथा च न परम्परासम्बन्धकल्पनागौरवमपीति भावः । न चैवमदृष्टान्तरस्यापि कपालेन साक्षात् सम्बन्धे प्रत्यासत्तितयाऽऽत्मसंयोगकारणत्वस्वीकारो मकरन्दः । तथा च प्रकृताववघातविशेषे तस्य न विरोधित्वं नियमतस्तदनन्तरमेव तद्भावादिति भावः । सं- योगस्येति । ननु फलस्योपलक्षणत्वे तत्तद्व्यापारमात्रस्यैव धात्वर्थत्वे त्यजिगम्योः पर्यायताऽऽ- पत्तिः । अवच्छेदकीभूतफलयोर्विभागसंयोगयोर्धात्वर्थाप्रवेशे स्पन्दमात्रस्यैव धात्वर्थत्वादिति चेन्न । व्यापारे ह्युपलक्षणीभूतस्यापि फलस्य प्रतीतौ विशेषणत्वमेव, इष्टसाधनताविधिपक्षे क्रियोपलक्षण- स्यापीष्टस्य ज्ञानविशेषणतावत् । तदत्र फलविशिष्टो व्यापारो यदि वाच्यस्तदा शब्दात् फलविशि- ष्टव्यापारप्रतीतिः । अपरथा फलोपलक्षितव्यापारधीरित्यभयथाऽपि फलांशेऽपि शक्तेः क प्रतीत्य- विशेषो येन पर्यायता । विशेषणत्वे प्रकृते कर्मत्वानुपपत्तिरिति । वस्तुतस्तु त्यजेः स्पन्दमात्रं शक्यं, गमेः स्पन्दविशेष इति चिन्तामणिश्वरसात् स्पन्दत्वगमनत्वयोर्भेदे पर्यायत्वशङ्काऽपि न । गमनत्वं कर्मत्वव्याप्यसामान्यमिति लीलावतीस्वरसोऽपि तथा । अन्यथा उत्क्षेपणादेरपि गमनत्वे विभागव्याघातादिति । वस्तुत इति । तथा च परम्परासम्बन्धगौरवमपि नेति भावः । न चैवं- मदृष्टान्तरस्यापि तथात्वे अदृष्टवदात्मसंयोगो हेतुरिति न स्यादिति वाच्यम् । प्रोक्षणानन्तरं टिप्पणी । गोत्पादकफलभावनाया एव प्रतीतेरन्यत्रापि विध्यपेक्षितत्वमपूर्वस्यैवेति तस्यात्मनिष्ठत्वे व्रीहिपदो त्तरं द्वितीयानुपपत्तेरिति भावः । तद्व्युत्पत्तेरिति । विध्यपेक्षितफलस्य द्वितीयार्थत्वबोधकशास्त्र- स्याभावादित्यर्थः । संयोगस्यापि विध्यपेक्षितत्वादिति । विध्यपेक्षितत्वञ्च विधिविषयक्रिया जन्यत्वं मीमांसकनये फलभावनाया एव विध्यर्थत्वेन तस्य विधिवाक्यजज्ञानविषयत्वे विधिविषय- त्वमस्त्येवेति संयोगस्य विध्यनापेक्षितत्वे व्रीहिमुद्दिश्य भूम्यादावपि जलादिसेकेनापूर्वोत्पादाद् व्रीहौ जलसंयोगकरणस्य वैफल्यापत्तेरिति । तत्साध्यतान्वय इति । तत्साध्यतेति यदुक्तं तदुत्तरमान- सबोधाभिप्रायेण, शाब्दे तु द्वितीयार्थस्य धात्वर्थे एवान्वयेन साधनत्वस्यैव प्रतीयमानत्वादिति बो- ध्यम् । अपदार्थत्वादिति । संयोगादिफलानवच्छिन्नव्यापारस्य धात्वर्थत्वे त्यजिगम्यादीनां पर्या- यता स्यादिति वाच्यम् । त्यजेः स्पन्दमात्रं शक्यं गमेः स्पन्दविशेष इति चिन्तामणिकारलेखात् , वि भिज्ञयोः स्पन्दनत्वगमनत्वयोः फलानवच्छिन्नयोरुभयत्र शक्यतावच्छेदकमिति न पर्यायताप्रसङ्गः, अन्यथा फलस्य विशेषणत्व इत्यर्थः । वस्तुतो ज्ञानविषययोरिति । ज्ञानविषययोरिव व्रीहि- पुरुषसंस्कारयोरपि साक्षादेव सम्बन्ध, एवञ्च परम्परासम्बन्धकल्पनमपि नास्माकम्, अस्तु वि- ध्यपेक्षितफलमेव द्वितीयार्थः, संयोगादिविशेषितव्यापारोऽपि धात्वर्थः, तथापि न किमप्यनुपपन्नमि- त्याह । वस्तुतित्वस्वरूपमेव साक्षात्सम्बन्ध इति । न चैवमदृष्टान्तरस्यापि फलेन साक्षादेव
१४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ११ कारिकाव्याख्यायो ननु यदुद्देशेन यत् क्रियते तत्तत्र किञ्चित्करम्, यथा पुत्रेष्टिपितृयज्ञौ। तथा चाभिमन्त्रणादयो व्रीह्याद्युद्देशेन प्रवृत्ता इत्यनुमानमिति चेत्, तन्न। हवि- बोधनी । पूर्वपक्षी स्वाभिप्रायमुद्घाटयति-ननु-इति। तत्र किञ्चित्करमित्यत्र संयोगादिकरत्वात् सिद्ध- साधनतां निराकर्त्तुं कालान्तरभाविफलानुकूलं किञ्चिदित्युपस्कर्त्तव्यम्। अत एवानैकान्तिकं प्रद- र्शयन् वक्ष्यति "न हि ते कालान्तरभाविफलानुगुणम्” इति । वैश्वानरेष्टिर्हि पुत्रे तेजस्वितां क- रोति, पितृयज्ञश्च पितरि तृप्तिमिति । न-इति । अनैकान्तिकतामेव लौकिकोदाहरणेन विशदयति- प्रकाशः । पराभिप्रेतमनुमानमुद्भाव्यानैकान्तिकत्वं स्फुटयति- नन्विति । पुत्रेति । “वैश्वानरं द्वादशकपालं चरुं निर्वपेत् पुत्रे जाते" इति पुत्रजन्मनिमि- त्तो यागो यस्यायमर्थवादो "यस्मिञ्जात एतामिष्टिं निर्वपति स पूत एव तेजस्वी अन्नादः पशु- मान् भवती"ति । पितृयज्ञः = पितृश्राद्धादि । ननु ताभ्यां पितृपुत्रगतमेवापूर्वं जन्यते, विहित- क्रियाया यागस्येव कर्तृगतापूर्वजनकत्वात् । न च मुक्ते कर्तरि तददृष्टनाशात् पुत्रादौ फलाभावोप- पत्तिरिति वाच्यम् । अदृष्टस्य फलनाश्यतया पुत्रादिफलाभावेनादृष्टनाशात् । अत्राहुः । फलोप- पादकमदृष्टं फलाश्रये कल्प्यते, तस्य प्रथमोपस्थितत्वात्, साक्षादुपपादकत्वाच्च । मुक्ते च पितरि श्राद्धेन दोषाभावान्नादृष्टं जन्यते । न चैवं साङ्गश्राद्धस्य निष्फलत्वापत्तिः, अदृष्टोत्पत्तौ स्वरूपसतो दोषस्याङ्गस्य वैकल्यात् । अत्र किञ्चित्करत्वमात्रं साध्यम्, अतीन्द्रियत्वेन विशेषितं वा ? । आद्ये संयोजननेन सिद्धसाधनम्, अन्त्ये च वह्नावपूर्वहेतुहविःसंयोगेन हविस्त्यागेनाने- कान्तिकमित्याह । हविरिति । प्रकाशिका । विरुद्ध इति वाच्यम् । संस्कृतो व्रीहिरितिवत् तत्र स्वरूपसम्बन्धकल्पकप्रतीत्यभावात् । अत एवोपनयनादिजन्यादृष्टरूपसंस्कारस्यापि माणवकशरीरवृत्तित्वं संस्कृतो माणवक इति प्रतीतेः। पुत्रे ष्टिपदस्य पुत्रजन्मार्थकेष्टिपरत्वे न प्रकृतसङ्गतिरिति पुत्रेष्टिपदं जातेष्टिपरमित्याह । वैश्वानर- मिति । तस्य प्रथमेति । भोगनियामकत्वेन सामान्यतो भोगसमानाधिकरणापूर्वसिद्धौ तद- पूर्वं कुतो जायतामित्यपेक्षायां जातेष्ट्यादिविधिप्रवृत्त्या भोगाधिकरणस्य प्रथमोपस्थितत्वात् तदा कर्तुरनुपस्थितेरित्यर्थः । साक्षादिति । साक्षात्सम्बन्धेनेत्यर्थः । दोषस्येति । फलाश्रयगतस्ये- मकरन्दः । संस्कृतो व्रीहिरिति व्यवहारात् संस्काररूपादृष्टस्य तथात्वेऽपि अदृष्टान्तरस्य साक्षात् सम्बन्धत्वे मानाभावादिति भावः । अत एवोपनयनादिसंस्कारस्य माणवकशरीरनिष्ठत्वं, संस्कृत इति व्यवहा- रादिति बोध्यम् । प्रकृतसंलग्नतया पुत्रेष्टिपदं जातेष्टिपरमित्याह । वैश्वानरमिति । तस्येति । पितृस्वर्गकाम इत्यादिना पित्रादेः प्रथमोपस्थितत्वादिति भावः । साक्षादिति । साक्षात् सम्ब- न्धेतोपपादकत्वादित्यर्थः । टिप्पणी । सम्बन्धोऽस्माकं प्रत्यासत्तितयाऽऽत्मसंयोगकल्पनमिति वाच्यम् । संस्कृतो व्रीहिरितिवत् संस्कृतः स्वर्ग इत्यादि प्रत्ययादर्शनात् नान्यत्र स्वरूपकल्पनम् । संस्कृतो माणवक इत्यादिदर्शनात्तत्रोपनय- नादिना संस्कारादीनां माणवकशरीरवृत्तित्व कल्पत एवेति आत्मना तु समवाय एवेति बोध्यम् । वैश्वानरं द्वादशकपालमिति पुत्रेष्टिपदस्य पुत्रजन्मनिमित्तेष्टिपरत्वे प्रकृतासङ्गतेः, पुत्रजन्मजन्यसु- खादिरूपफलस्य कर्तृगतत्वेन तन्नेष्ट्रिजनितापूर्वस्य कर्त्तर्येव सिद्धान्तितत्वात्-अतस्तद् व्याचष्टे वैश्वानरमिति । साक्षादुपपादकत्वाच्चेति । साक्षात्सम्बन्धेन फलोपपादकत्वादित्यर्थः ।
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४१ स्त्यागादिभिरनैकान्तिकत्वात् । न हि ते कालान्तरभाविफलानुगुणं किञ्चिद् हुताशनादौ जनयन्ति । किं वा न दृष्टमिन्द्रियलिङ्गशब्दव्यापाराः प्रमेयोद्देशेन प्र- वृत्ताः प्रमातर्येव किञ्चिज्जनयन्ति, न प्रमेय इति । कृषिचिकित्से अप्येवमेव स्या- तामिति चेन्न । दृष्टेनैव पाकरूपादिभेदेनोपपत्तावदृष्टकल्पनायां प्रमाणाभा- वात् । तथा च लाक्षारसावसेको व्याख्यातः । अत एव बीजविशेषस्याऽऽपरमा- ण्वन्तभङ्गेऽपि परमाणूनामवान्तरजात्यभावेऽपि प्राचीनपाकजविशेषादेव विशि- ष्टाः परमाणवः, तं तं कार्यविशेषमारभन्ते । यथा हि कलमबीजं यवादेः, नरबीजं वानरादेः, गोक्षीरं माहिषादेर्जात्या व्यावर्तते, तथा तत्परमाणवोऽपि मूलभूतः बोधनी । किञ्चित्-इति । प्रमेयगतं तु प्राकट्यं निराकरिष्यत इति भावः । कृषिः-इति । ते अपि हि प्रोक्षणादिवददृष्टरूपसंस्काराधानद्वारेण कार्यकरे स्यातामिति । न इति । परिणतिर्निष्पत्तिः सह- कारीति वा । इममेव प्रकारमुदाहरणान्तरेष्वप्यतिदिशति-तथा च-इति । लाक्षारसावसिक्तबी- जपूरादिवीजजनिततत्कुसुमारुणिमापि न संस्काराधानतद्द्वारा लाक्षारसावसेकेन जायते । किन्तु दृष्टेनैव रूपविशेषजननद्वारेणेति व्याख्यातमिति । तेनैतन्निरस्तं यदाह महाव्रतः— कुसुमे बीजपूरादेर्यल्लाक्षाद्यवसिच्यते । शक्तिराधीयते तेन काचित्तां किं न पश्यसि ॥ यदुक्तमन्यथा कृष्यादयो दुर्घटाः प्रसज्येरन्निति तदुत्तरमुत्तरमर्धं संगृहस्य व्याचष्टे-अत एव- इति । यत एव दृष्टे सत्यदृष्टकल्पना न न्याय्या अत एव यवबीजारम्भकाः परमाणवः पूर्वं कल- मबीजारम्भकपरमाणुव्यावृत्तैर्यैः पाकजविशेषैः कलमबीजविलक्षणं यवबीजमारब्धवन्तः 'प्राचीनै- स्तैरेव तज्जातीयैरेव वा विशिष्टाः परमाणवो यवाङ्कुरमेवारभन्ते नान्यमिति । ननु व्यावर्तकगुण- विशेषसिद्धौ हि त एव विशेषका भवेयुः, तत्सिद्धिरेव कुतस्त्येत्यत आह-यथा हि-इति । यथा हि तदवयविनां जात्या व्यावृत्तिस्तथा तदारम्भकपरमाणूनां गुणविशेषैर्व्यावृत्तिरिति । दृष्टा प्रकाशः । किं वा नेति । प्राभाकरं प्रत्यनैकान्तिकत्वम् , भाट्टानां प्रमेये ज्ञातताजननात् । कृषीति । प्रोक्षणवदपूर्वद्वारेवानागतकार्यहेतू स्यातामित्यर्थः । दृष्टेनैवेति । पाकजानामावश्यकतया तत एव नियतकार्योपपत्तेरित्यर्थः । ननु बीजपूरलाक्षारसावसेकस्याशुतरविनाशिनः कालान्तरीयारुण- पुष्पजनकत्वं तदाधेयशक्त्या विना न निर्वहतीत्यत आह । तथा चेति । तत्रापि तत्साहित्येनो- त्पन्नपाकजादेरावश्यकत्वात् तथेत्यर्थः । अत एव शाल्यादिनियतकार्यारम्भान्यथानुपपत्त्या परमाण्वापि न तत्कल्पनमित्याह । अत एवेति । कार्यसजातीयपाकजवत्त्वं परमाणूनामप्याव- प्रकाशिका । ति शेषः । प्राभाकरं प्रतीति । इदं च तन्निष्ठकिञ्चिज्जनकमित्यत्र यदि जनकत्वं प्रयोजकत्वमात्रं तदा भट्टानामपि प्रमाज्ञानेन ज्ञातताजननात् यथाश्रुताऽसंगतेः । वस्तुतः सामान्यत एव व्यभिचा- टिप्पणी । तस्य प्रथमोपस्थितत्वादिति । फलनियामकतया सामान्यतो फलसमानाधिकरणे दृष्टसिद्धौ कथन्तदित्याकाङ्क्षायां जातेष्टथविविधिप्रवृत्तेः, तत्र तेन विधिनाऽपूर्वं बोधिते फलाश्रयस्य कर्त्रपेक्षया प्रथमोपस्थितत्वात्तद्गतापूर्वमेव सिध्यति । दोषाभावादिति । मिथ्याज्ञानादिरूपदोषाभावादित्यर्थः ॥ एवमेव । प्रोक्षितवदपूर्वद्वारेवानागतकार्यहेतू । दृष्टेनैव = अवश्यक्लृप्तेनैव । लाक्षा- रसावसेक इति । आशुविनाशिलाक्षारसावसिक्तबीजपूरेण कालान्तरारुणापुष्पजननस्थलेऽपि न
An exact line-by-line transcription of the Sanskrit text provided in the image:
१४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां पाकजैरैव व्यावर्त्तन्ते । न ह्यस्ति सम्भवो गोक्षीरं सुरभि मधुरं शीतं, तत्परमाण- वश्च विपरीताः । तस्मात्तथाभूताः पाकजा एव परमाणवो यथाभूतैरेव आद्याति- शयोऽन्त्यातिशयोऽङ्कुरादिर्वेति किमत्र शक्तिकल्पनया ? । कल्पादावप्येवमेव । इदानीं बीजादिसन्निदिष्टानाम्मस्मदादिभिरुपसंपादनं तदानीन्तु विभक्तानामदृष्टा- देव केवलान्मियः संसर्ग इति विशेषः । न च वाच्यमिदानीमपि तथैव किं न स्यात् ? यतः कृष्यादिकर्मोच्छेदे तत्साध्यानां भोगानामुच्छेदप्रसङ्गात् । अन्व- बोधनी। न्तमात्रेणापरितुष्यन् प्रमाणमाह-न हि-इति । तत्तदवयविषु दृश्यमानविलक्षणगुणा एव तत्तदार- म्भकपरमाणुषु गुणविशेषमावेदयन्ति । अन्यथा कार्येऽपि न स्युः कारणविशेषगुणपूर्वकत्वात् कार्यविशेषगुणानामिति । उपसंहरति-तस्मात्-इति । भूमावुप्तबीजस्याङ्कुरजननानुकूलगणा- न्तरकार्यमतिशयः, तत्रोच्छूनत्वमोध्यातिशयः, उच्छूनतमत्वमन्त्यः यतोऽङ्कुरो जातः, उच्छूनत- रत्वलक्षणस्तु मध्यमः सम्पातगृहीत इति । ननु महाप्रलये सकलकार्यविनाशाम्युपगमात्-पाकजवि- शेषा अपि विनश्येयुः, कथं तदानीं परमाणवो नियतजातीयकार्यारम्भे रन्नित्यत्राह-कल्पपादौ- इति । कार्यदर्शनीयस्य पाकजविशेषस्यादृष्टसंस्कारवत् प्रलयेऽप्यविनाशः । यद्वा, तदानीमप्या ग्रेयादिपरमाणुसंयोगात् पाकविशेषोत्पत्तिरिति भावः । यद्युभयत्राविशेषः, तर्हीदानीमपि कृषी- वलापेक्षा न स्यादित्यत्राह-इदानीम्-इति । बीजादिरूपेण संन्निदिष्टानामारब्धबीजमृत्सलि- लायवयविनां परमाणूनां यथाङ्कुराद्यारम्भकभावस्तथोपसर्पणमस्मदादिभिरिदानीमिति । कथं तर्हि कल्पादौ कृषीवलाद्यभावे बीजादिसमवधानमित्यत्राह-तदानीम्-इति । यथोक्तम् "अणुमनसो- श्चाद्यं कर्मादृष्टकारितम्" इति । इदानीमप्यदृष्टादेवोपपत्तेः किं कृषीवलेनेत्यत्राह-न च- इति । हेतुमाह-कृष्यादि-इति । तत्र कृषीबलस्य कायसंक्षोमसाध्यानां दुःखत्मकानां भोगानां कृष्यादिकर्मलभ्यमृत्त्यादिभोगानां चोच्छेदः स्यात् । अन्यवस्थानामाप्रसङ्गातिप्रसङ्गौ, सा च स्यात् । कृतकृषेरपि सस्याधिगमो न स्यात्, स्याच्चेतरस्येत्यर्थः । यद्वा, अदृष्टस्यैव हेतुत्वे केवलं कृषी- वलभोग एव न स्याद् यस्य ब्रीहितण्डुलादयोऽपि दृष्टहेतवो न स्युरिति । अयमत्र भावः, यत्र दृष्टकारणानि सन्ति, तत्र तदुपहारेणैवादृष्टस्योपयोगः न स्वतन्त्रस्य, तेन हेतुत्वमवश्यमाश्रयेय- प्रकाशः। श्यकमिति न तत्कल्पनं, येन कल्पनायामविशेषः स्यादित्याह । न ह्यस्तीति । शीतमुत्युपष्टम्भ- कजलाभिपप्रायम् । सौरभशैत्ययोरेकाधारत्वाभावात् । आद्यातिशयो द्व्यणुकम्, अन्त्यातिशयोऽ- ङ्कुरादिरित्यभेदेनान्वयः । अन्त्यातिशयो वाऽङ्कुरादिरिति पाठेऽन्त्यातिशयोऽङ्कुरादिसमवायिकारण- मित्यर्थः । यद्वा आद्यातिशयो बीजस्योच्छूनत्वम् । अन्त्यातिशय उच्छूनतरत्वम् । प्रलये कार्यद्र- व्याभावेऽपि परमाणुषु नियतकार्योचितस्वभावानां पाकजानामात्मन्यदृष्टस्येव सद्भावातत एव सर्गा- दावपि नियम इत्याह । कल्पादाविति । उपसंपादनं सहकारिसमवधानोत्पादनम् । न चेति । यद्यस्मदादिव्यापारं विना सर्गादावङ्कुरोत्पत्तिरिति शेषः । यत इति । यद्यपि कृष्यादिसाध्यभोग- हेत्वदृष्टबलात् कृषिसंभवेऽपि सर्गादाविवेदानीमपि कृष्यादि विनाऽङ्कुरः स्यादेव, तथापि तथादर्शन- बीजपूरेऽतिशयः कल्प्यते लाक्षारसावसेकसहित्योत्पन्नपाकजादेव निर्वाहादित्यर्थः । कल्पादाव- प्येवमेवेति । प्रलये कार्यद्रव्याभावेऽपि नियतकार्योचितस्वभावानां पाकजानामात्मन्यदृष्टस्येव सद्भावात् तेन यथेदानीं नियमस्तथा तत एव सर्गादावपि । उपसम्पादनम् =सहकारिसमधानोत्पादनम् । तथैव यथाऽस्मदादेव्यापारं विनापि केव- लाददृष्टादेव कार्यनियमः सर्गादौ तथेत्यर्थः ।