न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 170, कुल 608 में से
संदर्भ में पढ़ेंपुरुषमेव संस्करुते, न तम्। यथा च कारीरीजनितसंस्काराधारपुरुषसंयोगा- ज्जलमुचां सञ्चरणजलक्षरणरूपा क्रिया, तथा व्रीह्यादीनां तत्तदुत्तरक्रियाविशे- षाः। यथा चैकत्र कर्तृकर्मसाधनवैगुण्यात् फलाभावस्तथा परत्रापि। भागमि-
बोधनी। संस्काराणां व्रीह्याद्यसम्बन्धानामेव तत्सहकारित्वमित्यत आह—यथा च-इति। यथा हि कारीरीजनितसंस्कारानाधारा एव जलधरास्तदाधारयजमानात्मसंयोगादेव गगनं संचरन्ति वर्षन्ति च, तथा व्रीह्यादयोऽपि संस्कृतात्मसम्बद्धाः कार्योपयोगिन इति। ननु पुरुषसंस्कारपक्षे यदा तस्य पातकादिदोषस्तदा तस्मिन् संस्काराधानायोगाद् वैफल्यमेव प्रोक्षणादेः स्यात्। व्रीहिसंस्कारत्वे तेषामदुष्टत्वान्नायं दोष इत्यत्राह—यथा च-इति। कर्तृदोषे यथैकत्र कर्त्तरि फलस्य संस्कारस्या- भावः, तथापरत्र व्रीह्यादिष्वपि कर्तृत्ववैगुण्ये क्वचिदपि न संस्कार उत्पद्यत इत्यर्थः। यद्वा, एकत्र कारीर्यामपरत्र प्रोक्षणादावपि उभयत्र पक्षद्वये कर्मद्वये वाप्यागमिकत्वस्य तुल्यत्वाददुष्टानामेवाधि- कारः। अत्र कर्मसाधनयोरुपादानं दृष्टान्तार्थम्। यद्वा, कृमिकीटाद्युपहतेष्वपि व्रीहिषु व्रीह्यन्त- रोपादानं न स्यादसंस्कृतत्वाविशेषादित्यत आह—यथा-इति। कर्मादिवैगुण्य इव व्रीह्यादिदोषे ऽपि फलाभावश्रुतेस्तुल्यत्वेन व्रीह्यन्तरोपादानमुपपद्यत इत्यन्या व्याख्या। ननु पुरुषसंस्कारपक्षे प्रोक्षणादीनां कारीर्यादिवदनियतफलत्वं प्राप्नोतीत्यत्राह—यथा च-इति। कर्मादिवैगुण्यनिमित्तं हि
प्रकाशः। न्धाभावान्न मिथः सहकारित्वं स्यादित्यत आह। यथा चेति। संस्कारवदात्मसंयोगो मेघस्येव व्रीहेरपि तुल्य इत्यर्थः। न च परम्परासम्बन्धे गौरवम्, प्रामाणिकत्वादिति भावः। नन्वात्मनोऽनधिकृतस्यापि सम्भ- वान्न तन्निष्ठः संस्कारः सम्भवतीति व्रीहिनिष्ठ एव स स्यादित्यत आह। यथा चेति। कर्तृवै- गुण्ये संस्कारो नोत्पद्यते। तत्साद्गुण्यस्यापि हेतुत्वादित्यर्थः। न चायं प्रधानयागाभावाद् यत्र
प्रकाशिका। तेरधर्म्मरूपत्वे च विहितश्येनसाध्यत्वानुपपत्तेः, तस्मात् शत्रुवधसाध्यसुखादिनिष्पादकमपूर्व्वं कर्त्त- र्य्येव धर्मरूपं स च धर्म्मः पूर्व्वकृतशत्रुनिष्ठाधर्मस्य शत्रुमरणे जननीये सहकारीत्येव रमणीयम्।
मकरन्दः। ज्ज्येत। तस्यैव तच्छत्रुत्वात्। किन्तु स्वगतशत्रुवधमुद्दिश्य श्येनः क्रियते। तथापि वधस्य सं- योगध्वंसात्मक मरणरूपस्य शत्रुनिष्ठतया तथोक्तम्। एतदपि परमते। अस्मन्मते श्येनापूर्व्वस्य शत्रुनिष्ठत्वमेव, फलोपपादकमपूर्व्वं फलाश्रये कल्प्यते इति वक्ष्यमाणयुक्तेरिति बोध्यम्। अस्म- न्मते त्वप्रयोजकत्वे तात्पर्य्यम्।
टिप्पणी। भावादिति। अवघातादिरूपकार्य्यजनन इति शेषः। प्रामाणिकत्वादिति। अतिशयस्य साक्षात्सम्बन्धेन व्रीहिनिष्ठत्वापेक्षया उक्तयुक्त्या आत्मनिष्ठत्व एव लाघवेन तादृशसम्बन्धस्य प्रमाणसिद्धत्वेन गौरवस्याकिञ्चित्करत्वाद्वि भावः ॥०॥ व्रीहितिष्ट एवं सं स्यादिति। अनधि- कृतात्मस्थले व्रीहेर्वैगुण्यात्प्रोक्षणजन्यस्यावघातजनकस्योत्पादो भवत्येवेति शङ्कयितुरभिप्रायः ॥०॥ कर्त्तृवैगुण्ये संस्कार इति। कर्तृवैगुण्यस्थले परमापूर्व्वजननस्योभयसिद्धत्वेन तत्र तद्धेतुभूत- संस्कारादेरपि मानाभावः प्रयोजनाभावात्। तथाचाङ्गापूर्वादावपि कर्तृकर्मसाधनवैगुण्याद्यभाव- रणस्य स्वीकारापत्तेः, देवतायां तस्यास्वीकारात्। एवं फलव्यधिकरणस्य परमापूर्व्वस्य सर्वैरस्वी- काराद् देवतायां नातिशयसम्भव इति यो यदुद्देशेनेत्यादिव्याप्तौ व्यभिचार इति भावः। तथा = संस्कारवदात्मसंयोगादिरित्यर्थः। क्रियाविशेषाः = प्रोक्षणाभ्युक्षणादयः। एकत्र = परमापूर्व्वस्थले, अथवाऽऽत्मनिष्ठत्वपक्षे। परत्रापि = अङ्गापूर्व्वस्थलेऽपि व्रीहिनिष्ठत्वपक्षेऽपीति वा।