भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 169, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 169

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १३५ यथा हि देवताविशेषोद्देशेन हुताशने हविराहुतयः समन्त्राः प्रयुक्ताः पुरुष- मभिसंस्कुर्वते, न वह्निं नापि देवताम् । तथा व्रीह्याद्युद्देशेन प्रयुज्यमानः प्रोक्षणादिः बोधनी। कथं व्रीह्याद्युद्देशेन तत्र प्रयुज्यमानः प्रोक्षणादिः पुरुषं संस्करोतीत्याशङ्कां निराकुर्वन्नैकान्ति- कतामेव स्फोरयति-यथा हि-इति । व्रीह्याद्युद्देशेन तत्रैव प्रयुज्यमान इत्युपस्कारः कथं पुरुष- प्रकाशः। यो यदुद्देशेनोपादीयते इत्यत्र परोक्तानुमाने व्यभिचारमाह । यथा हीति । देवतायाः सि- द्धत्वे यथा प्रीतिभागितयोद्देश्यत्वं तथा व्यापारभागितया व्रीहेरपीत्यर्थः । न च यद्गतफलार्थि- तया यत्क्रियते तत् तद्गतमेव तदनुकूलमतिशयं जनयतीति व्याप्तेरनुमानं स्यादिति वाच्यम् । शत्रु- वधमुद्दिश्य प्रवर्तितेन श्येनयागेन व्यभिचारादिति भावः । अथात्मनिष्ठसंस्कारस्य व्रीहिणा सम्ब- प्रकाशिका। दम् । शत्रुवधमिति । तत्र शत्रोरेव वधाश्रयत्वेनोद्देश्यत्वादिति भावः । न च वैरिणि तदपूर्वमिति पञ्चमटीकाविरोधः । तस्या एकदेशिमतारूव्यानपरत्वात् तस्य धर्मरूपत्वे वैरिमरणजनकत्वानुपप मकरन्दः। न च विहितत्वाभावादेव न तत्र व्यभिचार इति वाच्यम् । प्रत्येकवर्णोपायविभागविधिना वैश्यस्य कृषिविधानादिति भावः । शत्रुवधमिति । यद्यपि शत्रुवधो न शत्रुगत उद्देश्यः । तथा सति स्ववध एवोद्देश्यः प्रस- टिप्पणी। यथा व्याख्यातार्थे त्वपूर्वमादायैव व्यभिचारात् तदुपादानम् । न चैककर्तृकानेकपितॄनुद्देश्यकगया- श्राद्धस्थलेऽपि लाघवबलात् कर्त्तव्यैवादृष्टस्वीकारापत्तिः, उद्देश्यस्यानेकत्वेनानेकादृष्टकल्पनायां गौरवात् । न चास्तु तथैव, तथा सति पितृष्वदृष्टसिद्धान्तभङ्गप्रसङ्गादिति वाच्यम् । अनेकपुत्रादि- कर्तृकैकैकोद्देश्यकगयाश्राद्धस्थलीयादृष्टेन दत्तोत्तरत्वात् तत्र कर्तरि कल्पनायां गौरवात् । तस्मात्- पितृष्वेव साक्षात्सम्बन्धेनादृष्टं स्वीकार्यं लाघवात्, फलसामान्यानुरोधेन परम्परासम्बन्धे गौरवा- दिति भावः । देवताया इति । उद्देश्यत्वम् = इच्छाविषयत्वम् । तथा हि सिद्ध इच्छाविर- हात्कथं देवतादीनामुद्देश्यत्वमित्याकाङ्क्षायामाह । तथा व्यापारभागितयेति । अवघातादि- रूपव्यापारेत्यर्थः । यथा प्रीतिभागितयोद्देश्यमिति । ननु प्रीतिभागित्वेन देवताया उद्दे- श्यत्वे यागादः प्रीतिरेव व्यापारोऽस्तु, अलमदृष्टेन, न च फलपूर्वं कथं तस्या स्थितिः । संस्काररूप- स्ववासनया स्वजनकवासनया तत्र स्थितिसम्भवादिति चेन्न । बहुकालव्यापकस्वर्गजनकयाग- स्थले प्रीतेर्व्यापारत्वे स्वर्गस्य सुखरूपत्वेन क्षणिकतयाऽनन्तत्वेनानन्तानां तेषां नियतपूर्वत्वानन्य- थासिद्धत्वयोः कल्पनायामतीव गौरवात् प्रीतेर्ज्ञानस्वरूपाया इच्छादिस्वरूपाया वा तावत्कालपर्यन्तं स्थित्यसम्भवादिति । शत्रुवधमुद्दिश्येति । शत्रोरेव वधाश्रयत्वेनोद्देश्यतया श्रुतेः शत्रुवध- स्यैव फलत्वेन तज्जनकीभूतश्येनयागजन्यापूर्वस्य कर्तरि स्वीकारात् । ननु तादृशापूर्वस्य कथं न- शत्रुनिष्ठतेति चेत्तस्य धर्मत्वे स्वसमानाधिकरणवधादिरूपफलजनकत्वानुपपत्तिः । अधर्मरूपत्वे विहितश्येनसाध्यत्वानुपपत्तिरिति शत्रुवधसाध्यसुखनिष्पादकमपूर्वं धर्मरूपं कर्तर्येवोत्पद्यते, स एव पूर्वोपार्जितशत्रुनिष्ठाधर्मस्य शत्रुवधे जननीये सहकारी भवतीति विभाव्यम्॥ ०॥ सम्वन्धा- च्छाल्यङ्कुरः स्यात् शालिनिर्वपणे व्रीह्यङ्कुरः स्यादिति शङ्कया व्रीह्याद्यर्थिनां विशेषदर्शिनां कृष्यादौ प्रवृत्तिर्न स्यादिति भावः । हुताशन इति । आहुतिरित्यदिना परमापूर्वस्य जननात् तस्य देवतायां स्वीकारे फलव्यधिक-