न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 168, कुल 608 में से
संदर्भ में पढ़ें१२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां स्वगुणाः परमाणूनां विशेषाः पाकजादयः ॥११॥ बोधनी । यवानां विभागेनासमवायिकारणतत्संयोगविनाशाद् विनश्यति । एवमापरमाण्वन्तं विभागात्, तेषु च यवकलमादिविजातीयाङ्कुरारम्भकनियामिकाया जातेरभावात्, कलमबीजावापे कलमाङ्कुर एव यवबीजावापे यवाङ्कुर एवेत्येवं कार्यजातिनियमस्यानुपपत्तिः । अतिशयाङ्गीकारे कृष्याद्याहितातिश- यास्ते ते परमाणवस्तं तं कार्यविशेषमारभन्त इति नियमोपपत्तिरिति भावः । तदेवं प्रोक्षणादिजन्यातिशयवद् यागादिजन्यमपूर्वं भूतधर्मोऽस्त्विति पूर्वपक्षिते सिद्धान्तमार- भते-अत्र-इति । यदि तावत् प्रोक्षणादयः कञ्चिदतिशयमादधतीति साध्येत ततः सिद्धसाधनम् , अथोद्देश्यगतमादधतीति, ततोऽनैकान्तिकता; ततः पुंस एव संस्कार इष्यताम्, कृष्यादावपि क्लृप्तैरेव पाकजादिगुणविशेषैः कार्यनियमोपपत्तौ नाप्रसिद्धातिशयकल्पनेति साध्यवैकल्यमिति भावः। प्रकाशः । कालान्तरभाविकफलजनकतया विहितत्वात्, यागवत् । न चाऽप्रयोजकत्वम्, यागादीनामपूर्वजनकता- यामुक्तसूपस्यैव प्रयोजकत्वात्, अन्यस्याननुगतत्वादिति भावः। कृष्यादिना व्यभिचाराभावं परोक्त- दृष्टान्तस्यासिद्धिं चाह । स्वगुणा इति । तत्र दृष्टद्वारस्यैव सम्भवान्न व्यभिचारः । न वा तत्र परमाणौ अतिशय इति दृष्टान्तः साध्यविकल इत्यर्थः । यद्यपि पाकजा रूपादद्योऽपि तन्निष्ठाति- शया एवेति न साध्यवैकल्यं, तथाप्याधेयशक्त्यभावमात्रे तात्पर्यम् । न ह्याधेयशक्तिपाकजयोरती- न्द्रियत्वाविशेषात् कल्पनायामविशेषः । परमाण्ववयविरूपादिसजातीयपाकजरूपायुत्पत्तेरावश्यक- त्वात् । तत एव नियतकार्यजनननोपपत्तौ शक्त्याधानकल्पने गौरवादिति भावः । प्रकाशिका । चिकित्सायां व्यभिचार इति सत्यन्तम् । दृष्टत्वं च क्लृप्तत्वं न त्वदृष्टान्यत्वमन्यतरासिद्धेः। पापध्वंस- फलकप्रायश्चित्ते व्यभिचार इति । कालान्तरेति । कालान्तरत्वं च स्वोत्पत्त्यव्यवहितक्षणान्यत्वं न तु स्वानधिकरणकालत्वं विहितपदवैयर्थ्यात् यथाविवक्षिते त्वपूर्व एव व्यभिचार इति तत्पदम्। अपूर्वं च तन्मते कल्प्यमिति भावः । केचित्तु धर्मजनकत्वं साध्यमिति निषिद्धकर्मणि व्यभिचारवा- रणाय विहितपदमिति कालान्तरत्वं स्वानधिकरणकालत्वमेवेत्याहुः । कृष्यादिनेति । यद्यपि मद्युक्त्यानुमाने व्यभिचाराभावं मूलकृदाहेत्यनन्वितं मूले चैतादृशानुमानं नोक्तमेव । तथापि मूलकृ- त्तातपर्यस्यैवानुमानं प्रकाशकृता प्रकाशितमिति स्वतात्पर्यानुमाने कृष्यादिना व्यभिचाराभावमाहे- त्यर्थः । परोक्तेति । परेण ग्रन्थ-उक्तस्येत्यर्थः । तत्र दृष्टद्वारस्यैवेति । यद्यपि विहितत्वाभा- वादेव न तत्र व्यभिचारः, तथापि वर्णोपायविभागावसरे कृष्यादेरपि विहितत्वमेवेत्यनेनाभिप्रायेणे मकरन्दः । नान्यतरासिद्धिरित्यप्याहुः । मदुक्तमनुमानप्रकाशे द्रष्टव्यम् । साक्षात् पापध्वंससाधने प्रायश्चित्ते व्यभिचारवारणाय कालान्तरेति । कालान्तरत्वञ्च स्वानन्तरक्षणान्यत्वम् । अन्यथा विहितपद- वैयर्थ्यापत्तेः । एवंवापूर्व एव व्यभिचारवारणाय तत् । तच्च मन्मते कल्प्यमिति भावः । वस्तुतो धर्मजनकत्वमत्र साध्यम् । तथा च निषिद्धकर्मणि व्यभिचारवारणाय । तदिति । कृष्यादिनेति । टिप्पणी । ल्पनासम्भवेऽप्यनेकव्रीहौ तत्सम्बन्धकल्पनापेक्षयाप्यात्मनिष्ठत्वे लाघवं द्रष्टव्यम् । फलजन- कतया विहितत्वादिति । चिकित्सादौ व्यभिचारवारणाय सत्यन्तम् । कालान्तरत्वं चोत्पत्त्य- व्यवहितक्षणान्यत्वं न त्वन्यवहितोत्तरत्वसम्बन्धेन स्वाधिकरणत्वं तथा सति विहितत्वपदवैयर्थ्यात् । जातेरभावादिति । तथा च व्रीह्यादिकिष्कुपरमाणूनां विशेषाभावेन व्रीहिनिर्वपने कलावि-