न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 176, कुल 608 में से
संदर्भ में पढ़ेंAn exact line-by-line transcription of the Sanskrit text provided in the image:
१४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां पाकजैरैव व्यावर्त्तन्ते । न ह्यस्ति सम्भवो गोक्षीरं सुरभि मधुरं शीतं, तत्परमाण- वश्च विपरीताः । तस्मात्तथाभूताः पाकजा एव परमाणवो यथाभूतैरेव आद्याति- शयोऽन्त्यातिशयोऽङ्कुरादिर्वेति किमत्र शक्तिकल्पनया ? । कल्पादावप्येवमेव । इदानीं बीजादिसन्निदिष्टानाम्मस्मदादिभिरुपसंपादनं तदानीन्तु विभक्तानामदृष्टा- देव केवलान्मियः संसर्ग इति विशेषः । न च वाच्यमिदानीमपि तथैव किं न स्यात् ? यतः कृष्यादिकर्मोच्छेदे तत्साध्यानां भोगानामुच्छेदप्रसङ्गात् । अन्व- बोधनी। न्तमात्रेणापरितुष्यन् प्रमाणमाह-न हि-इति । तत्तदवयविषु दृश्यमानविलक्षणगुणा एव तत्तदार- म्भकपरमाणुषु गुणविशेषमावेदयन्ति । अन्यथा कार्येऽपि न स्युः कारणविशेषगुणपूर्वकत्वात् कार्यविशेषगुणानामिति । उपसंहरति-तस्मात्-इति । भूमावुप्तबीजस्याङ्कुरजननानुकूलगणा- न्तरकार्यमतिशयः, तत्रोच्छूनत्वमोध्यातिशयः, उच्छूनतमत्वमन्त्यः यतोऽङ्कुरो जातः, उच्छूनत- रत्वलक्षणस्तु मध्यमः सम्पातगृहीत इति । ननु महाप्रलये सकलकार्यविनाशाम्युपगमात्-पाकजवि- शेषा अपि विनश्येयुः, कथं तदानीं परमाणवो नियतजातीयकार्यारम्भे रन्नित्यत्राह-कल्पपादौ- इति । कार्यदर्शनीयस्य पाकजविशेषस्यादृष्टसंस्कारवत् प्रलयेऽप्यविनाशः । यद्वा, तदानीमप्या ग्रेयादिपरमाणुसंयोगात् पाकविशेषोत्पत्तिरिति भावः । यद्युभयत्राविशेषः, तर्हीदानीमपि कृषी- वलापेक्षा न स्यादित्यत्राह-इदानीम्-इति । बीजादिरूपेण संन्निदिष्टानामारब्धबीजमृत्सलि- लायवयविनां परमाणूनां यथाङ्कुराद्यारम्भकभावस्तथोपसर्पणमस्मदादिभिरिदानीमिति । कथं तर्हि कल्पादौ कृषीवलाद्यभावे बीजादिसमवधानमित्यत्राह-तदानीम्-इति । यथोक्तम् "अणुमनसो- श्चाद्यं कर्मादृष्टकारितम्" इति । इदानीमप्यदृष्टादेवोपपत्तेः किं कृषीवलेनेत्यत्राह-न च- इति । हेतुमाह-कृष्यादि-इति । तत्र कृषीबलस्य कायसंक्षोमसाध्यानां दुःखत्मकानां भोगानां कृष्यादिकर्मलभ्यमृत्त्यादिभोगानां चोच्छेदः स्यात् । अन्यवस्थानामाप्रसङ्गातिप्रसङ्गौ, सा च स्यात् । कृतकृषेरपि सस्याधिगमो न स्यात्, स्याच्चेतरस्येत्यर्थः । यद्वा, अदृष्टस्यैव हेतुत्वे केवलं कृषी- वलभोग एव न स्याद् यस्य ब्रीहितण्डुलादयोऽपि दृष्टहेतवो न स्युरिति । अयमत्र भावः, यत्र दृष्टकारणानि सन्ति, तत्र तदुपहारेणैवादृष्टस्योपयोगः न स्वतन्त्रस्य, तेन हेतुत्वमवश्यमाश्रयेय- प्रकाशः। श्यकमिति न तत्कल्पनं, येन कल्पनायामविशेषः स्यादित्याह । न ह्यस्तीति । शीतमुत्युपष्टम्भ- कजलाभिपप्रायम् । सौरभशैत्ययोरेकाधारत्वाभावात् । आद्यातिशयो द्व्यणुकम्, अन्त्यातिशयोऽ- ङ्कुरादिरित्यभेदेनान्वयः । अन्त्यातिशयो वाऽङ्कुरादिरिति पाठेऽन्त्यातिशयोऽङ्कुरादिसमवायिकारण- मित्यर्थः । यद्वा आद्यातिशयो बीजस्योच्छूनत्वम् । अन्त्यातिशय उच्छूनतरत्वम् । प्रलये कार्यद्र- व्याभावेऽपि परमाणुषु नियतकार्योचितस्वभावानां पाकजानामात्मन्यदृष्टस्येव सद्भावातत एव सर्गा- दावपि नियम इत्याह । कल्पादाविति । उपसंपादनं सहकारिसमवधानोत्पादनम् । न चेति । यद्यस्मदादिव्यापारं विना सर्गादावङ्कुरोत्पत्तिरिति शेषः । यत इति । यद्यपि कृष्यादिसाध्यभोग- हेत्वदृष्टबलात् कृषिसंभवेऽपि सर्गादाविवेदानीमपि कृष्यादि विनाऽङ्कुरः स्यादेव, तथापि तथादर्शन- बीजपूरेऽतिशयः कल्प्यते लाक्षारसावसेकसहित्योत्पन्नपाकजादेव निर्वाहादित्यर्थः । कल्पादाव- प्येवमेवेति । प्रलये कार्यद्रव्याभावेऽपि नियतकार्योचितस्वभावानां पाकजानामात्मन्यदृष्टस्येव सद्भावात् तेन यथेदानीं नियमस्तथा तत एव सर्गादावपि । उपसम्पादनम् =सहकारिसमधानोत्पादनम् । तथैव यथाऽस्मदादेव्यापारं विनापि केव- लाददृष्टादेव कार्यनियमः सर्गादौ तथेत्यर्थः ।