न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 177, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४३ वस्थाभयाच्च अदृष्टानि कर्म्माणि दृष्टकर्म्मव्यवस्थयैव भोगसाधनानीत्युन्नीयंते । तस्मात् , पाकजविशेषैः संस्थानविशेषैश्च विशिष्टाः, परमाणवः कार्यविशेषमार- बोधनी । मिति । दृष्टकर्मव्यवस्थयैवादृष्टानि भोगसाधनानीत्युपसंहरति-तस्मात्-इति । पाकजादय इत्या- दिशब्दव्याख्यानं संस्थानविशेषैरिति । अत्र पाकजविशेषः पूर्वबीजादिसजातीयाङ्कुरारम्भे हेतुः । संस्थानविशेषः कार्यसन्निवेशविशेषहेतुरिति । तेषु पाकजविशेषेषु तत्कारणपरम्परायां च न प्रकाशः । बलात् कृष्यादिहेत्वदृष्टस्यैव तत्प्रतिबन्धकत्वमुन्नीयते। यद्वा, सर्गाद्यङ्कुरविजातीय एवेदानीमङ्कुरो यस्य कृष्याद्यपेक्षा । अत एव वैजात्याभावे दूषणमाह । अव्यवस्था इति । व्यभिचारेण कृष्यादीनां कारणत्वव्यवस्थैव न स्यादित्यर्थः । यद्वा भोगानियमप्रसङ्गाच्चेत्यर्थः । अदृष्टानीति । कृष्यादि- जन्याङ्कुरजनकमदृष्टं दृष्टकृष्यादिद्वारैव हेतुरित्यर्थः । संस्थानेति । संस्थानपदं संयोगमात्रपरम् । परमाणववयवसंयोगाभावादित्येके । क्वचित् पाकविशेषं, क्वचित्परम्पराजन्ये समानजातीयरूपादौ शरीरादौ संस्थानविशेषमपेक्षन्ते परमाणव इत्यन्ये । एतच्च उभयमुपलक्षणम् । तुल्यपाकजसंस्थाने प्रकाशिका । रो भटानामप्यतीतादिस्थले ज्ञाततानुत्पत्तेः । तत्प्रतिबन्धकत्वमिति । तथा च कृष्यादिसाध्य- भोगेन तददृष्टनाशे प्रतिबन्धकाभावादङ्कुरोत्पत्तिरित्यर्थः । नन्वेवमपि कृष्यादेरनुपयोगे बीजं वि- नाप्यङ्कुरः स्यादित्याक्षेपस्तदवस्थ एवेत्यरुचेराह । यद्वा सर्गादीति । न चैवमपि सर्गादिस- जातीय एवाङ्कुर इदानीमुत्पद्यतां बीजादिकं विनापीति वाच्यम् । तज्जातीयं प्रति सर्गादिकालस्य कारणत्वादिदानीं च तदभावात् । अत एवेति । यत एव वैजात्ये तात्पर्यमित्यर्थः । ननु मूले न वैजात्यवार्तेति तत्परतया व्याख्यानमयुक्तमत आह यद्वेति । तत्कृत्यजन्यत्वे तेनाङ्कुरेण तस्यैव भोग इत्यत्र नियामकाभावादित्यर्थः । यद्यपि तददृष्टोत्पादितत्वमेव नियामकं, तथापि तस्यापि दृष्टमेव कृष्यादिकं द्वारमित्याशयः । एवं च प्रथमव्याख्यानपक्षेरव्यवस्थाभयादेवमुन्नीयत इति मकरन्दः । यद्वा सर्गादीति । तत्सामग्रीसत्त्वात् सर्गाद्यङ्कुरजातीयोऽपीदानीमुत्पद्यतामित्यत्र नेदं बाधकम् । तथापीदानीन्तनाङ्कुरत्वावच्छेदेनैव कृष्यादिहेतुत्वान्न तथेति भावः ॥ ननु मूले वैजा- त्यवार्त्ताऽपि नेति तत्परतया व्याख्यानमलग्नकमित्यपरितुष्यन्नाह । यद्वेति । कृष्यादिकं विना टिप्पणी । तत्प्रतिबन्धकत्वमुन्नीयत इति । इदानीन्तस्याङ्कुरादिप्रतिबन्धकत्वमित्यर्थः । तथा च कृष्या- दिकरणे कृष्यादिजन्यभोगेन तद्धेतुभूतादृष्टनाशे प्रतिबन्धकाभावादङ्कुरोत्पत्तिर्भवतीति भावः ॥ यद्वा-सर्गाद्यङ्कुरेति । कृष्यादेस्तूपयोगो बीजं विनाप्यङ्कुरः स्यादित्याक्षेपस्तदवस्थ एवेत्यरुचे- राह । यद्वेति । सर्गादिसजातीयाङ्कुरस्य तत्प्रतिकारणीभूतकालविशेषस्याभावान्नेदानीमापत्ति- सम्भवः । अत एव वैजात्याभाव इति । अत एव वैजात्ये तात्पर्य्यमिति भावः । व्यभि- चारेण कृष्यादीनां कारणत्वव्यवस्थैवेति । कारणत्वव्यवस्थापिका चाङ्कुरार्थिनां सर्वेषां कृष्यादि- प्रवृत्तिरेवेति ॥ यद्वा भोगानियमप्रसङ्गाञ्चेति । तत्कृत्यजन्यत्वे तेनाङ्कुरेणास्यैव भोगो नान्यस्येति नियमो न स्यादित्यर्थः । ननु सुखादाविरतददृष्टोत्पादितत्वमेव नियामक मित्याश- ङ्क्याह । मूले दृष्टानीति । तद्व्याकरोति कृष्यादीति । तथा च तददृष्टजत्वेन तदी- यत्वादि व्यवहारः, तद्भोगसाधनत्वादि व्यवहारो वा, न तददृष्टजत्वमज्ञात्वा, तज्ज्ञानञ्च न भोग-