न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 178, कुल 608 में से
संदर्भ में पढ़ें१४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकाव्याख्यायां भन्ते । ते च तेजोऽनिलतोयसंसर्गविशेषाः, ते च क्रियया, सा च नोदनाभिघातगु- रुत्ववेगद्रवत्वाद्दृष्टवदात्मसंयोगेभ्यो यथायथमिति न किञ्चिदनुपपन्नम् । निमित्त- भेदाश्च पाके भवन्ति । तद्यथा हारीतमांसं हरिद्राजलावसिक्तं हरिद्राग्निप्लुष्ट- मुपयोगात् सद्यो व्यापादयति, दशरात्रोषितं कांस्ये घृतञ्चापि विषायते, ताम्र- पात्रे पर्युषितं क्षीरमपि तिक्तायते इत्यादि ॥ ११ ॥ यत्र तर्हि तोये तेजसि वायौ वा न पाकजो विशेषस्तत्र कथमुद्भवानुद्भव- बोधनी । क्वचिद् दृष्टकारणव्यतिरेकेण शक्तिरङ्गीकार्यैत्याह- ते च-इति । नोदनादीनां परस्परनिरपेक्षाणा- मेव क्रियाहेतुत्वमिति दर्शितम् । यथायथम्-इति । क्वचित्तु पाकजविशेषस्याविशेषेऽपि मरणा- दिरूपकार्यविशेषदर्शनात् तदतिरिक्तशक्तिभेदोऽङ्गीकार्य इत्याह-निमित्तभेदाश्च-इति । पाक- जानां निमित्तकारणानि भिन्नानि दृश्यन्ते, तेन निमित्तभेदहेतुकः पाजजेष्वपि विशेषोऽस्ति यतः कार्यविशेष इति भावः । निमित्तभेदं कार्यविशेषं च निदर्शयति। तद्यथा-इति । यदाह बाहटः- हारीतमांसं हारिद्रशूलकप्रोतपाचितम् । हरिद्रावह्निना सद्यो व्यापादयति चर्वितम् ॥ इति । सर्पिःक्षीरयोश्च पार्थिवत्वात् पाकजोत्पत्तिः सम्भवतीति ॥ ११ ॥ अस्तु पार्थिवेषु पाकजविशेषादेव कार्यविशेषः, अबादिषु तदभावाच्छक्तिरङ्गीकार्यैत्याह- यत्र तर्हि-इति । केचिदाप्याः परमाणव उद्भूतद्रवत्वं कार्यमारभन्ते, केचित्त्वनुद्भूतद्रवत्वं करकादिकम् । तैजसाश्चोद्भूतस्पर्शमुद्भूतरूपमनुद्भूतस्पर्शमुद्भूतरूपं च प्रदीपं चक्षुर्दर्शनं चारभन्ते । वायवीयाश्च स्तिमितादीति । किञ्च, पार्थिवेष्वपि केषुचित् पाकजाभावेऽपि कार्यविशेषः प्रकाशः । ब्राह्म्यादावदृष्टविशेषस्यापि तैरपेक्षणात् । तर्हि पाकजोत्पत्त्यर्थमप्याधेयशक्तिरभ्युपेयेत्यत आह । ते चेति । ननु हारीतमांसं हरिद्राजलावसिक्तं हरिद्रानलप्लुष्टं सद्यो भोक्तारं व्यापादयतीत्युभयवा- दिसिद्धम् । तत्रावश्यं तेन शक्तिराधेया । न चावश्यकात् पाकजादेवोत्पत्तिः । तस्य पलालानल- साधितस्याव्यापादनेनानैकान्त्यादियत आह । निमित्तेति । पाकजभेदमात्रं न हेतुः, किं तु नि- मित्तभेदेनासादितः पाकजविशेष इत्यर्थः । अग्नौ सहकारित्वमुक्त्वा सौरालोके तदाह । दशरात्रे- ति । ताम्रपात्र इत्यनेन पाकजविशेषस्य प्रत्यक्षत्वं वदता शक्त्यपेक्षया तत्र विनिगमकमुक्तम् ।११। उद्भवानुद्भवौ विशेषगुणप्रत्यक्षत्वाप्रत्यक्षत्वप्रयोजकौ तद्वृत्तिजातिभेदौ । पाकजवत्यवान्तर प्रकाशिका । मूलयोजना । द्वितीयव्याख्यानपक्षे चादृष्टस्यैव भोगनियामकत्वमस्त्वित्याशङ्काया "मदृष्टानीति" मूलमित्यवधेयम् ॥ ११ ॥ उद्भवानुद्भवाविति । इदं च मतभेदेन । एकमत उभयोर्जात्योरनङ्गीकारादिति। मकरन्दः। उत्पन्नशङ्कुरेणास्यैव भोगो जननीय इत्यत्र नियामकाभावादित्यर्थः । यद्यपि तददृष्टोत्पादितत्वमेव नियामकमन्यथा सर्गाद्यङ्कुरे का गतिः । तथापि पूर्वोक्ते तात्पर्यम् ॥ ११ ॥ जातिभेदाविति । मतभेदेन । एकमते उभयजात्यनङ्गीकारात् । टिप्पणी । मन्तरेणेति भोगात् पूर्वं तादृशव्यवहारो न स्यात् । एवं प्रेक्षावतां बहूनां भोगात् पूर्वं तत्तद्वस्त्व- पादानव्ययादौ कलहमापद्येत । इदानीमदृष्टस्य दृष्टद्वारैव हेतुत्वं स्वीकरणीयमिति भावः ॥११॥ तद्वृत्तिजातिभेदाविति । व्यापकजातिमति व्याप्यैकजातिशून्ये तद्विरुद्धजातिनियमा-