भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 179, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 179

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४५ द्रवत्वकठिनत्वादयो विशेषाः ? कथं वा पार्थिवे प्रतिमाऽऽदौ प्रतिष्ठाऽऽदिना संस्कृतेऽपि विशेषाभावात् पूजनादिना धर्मो, व्यतिक्रमे त्वधर्मोऽप्रतिष्ठिते तु न किञ्चित् ? । न च तत्र यजमानधर्मेणान्यस्य साहायकमाचरणीयम् । अन्य- धर्मस्यान्यं प्रत्यनुपयोगात् , उपयोगे वा साधारण्यप्रसङ्गात् ॥ अत्रोच्यते- निमित्तभेदसंसर्गादुद्भवानुद्भवादयः ॥ बोधनी । प्रतिमादिषु दृश्यत इत्याह-कथं वा-इति । विशेषाभावात्=पाकजदृष्टरूपादिविशेषाभावादित्यर्थः । ननु प्रतिष्ठादिजनितेन प्रतिष्ठापकात्मसमवेतेनैव धर्मेण सहकृतः पूजादिर्धर्मं तद्व्यतिरेकश्चाधर्मं प्रसूते, ततश्च न प्रतिमादावतिशयोऽङ्गीकार्य इत्याशङ्कयाह-न च-इति । साहायकं=सहायकारित्वं यजमानः=प्रतिष्ठापकः, अन्यः = पूजकादिः । उपयोगे वा-इति । कचिदन्यधर्मस्यान्यधर्मं प्रत्युपयोगाङ्गीकारे नियामकाभावात् सर्वस्य धर्माधर्मजातस्य सर्वपुरुषसाधारण्यप्रसङ्ग इति । अर्द्धद्वयेन शङ्काद्वयं परिहरति-निमित्तभेद-इति । निमित्तभेदः=सहकारिभेदः, तस्मा- प्रकाशः । विशेषानुपपत्त्या शक्तिरास्थेयेत्यत आह । पार्थिवेति । नन्वन्यधर्मस्यान्यत्र सहकारित्वम् , यथा पात्राय दानेऽधिकपुण्यम् , धर्मविशेषवत्त्वस्य पात्रत्वादित्यत आह । उपयोगे वेति । यजमानधर्मस्य भोगादिना क्षये पूजकस्य धर्मानुत्पादप्रसङ्गात् । तत्सत्त्वेऽपि चण्डालादिस्पर्शेने- नापूज्यत्वाच्चेति । निमित्तभेदेति । यद्यप्युद्भूतानुद्भूतपरमाणुरूपादेव तत्कार्य्यमुद्भूतमनुद्भूतं वोत्पद्यते इति निमित्तभेदस्तत्राप्रयोजकस्तथापि साक्षात्कारप्रयोजकतयोद्भूतत्वकल्पनात् परमाणुगुणेषु तदभावात् तन्नास्तीत्यदृष्टविशेषादेवानुद्भूतरूपादप्युद्भूतरूपं जायते इत्यभ्युपेयम् । न च या- प्रकाशिका । केचित् । वस्तुतो व्यापकजातिमत्तितद्व्याप्यैकजातिशून्ये गुणे तद्विरुद्धजातिनियमाद् द्वे अपि जा- ती साक्षात्कारेऽननुगतत्वादनुद्भूतत्वाभाव एव कारणम् । मिश्रा अपि प्रत्यक्षालाके चिन्तामणि तथैव व्याख्यातवन्त इति यथाश्रुतमेव सम्यक् । उपयोगे चेतीति । प्रतिष्ठिताप्रतिष्ठितयोश्चण्डालस्पृष्टा- स्पृष्टयोश्च तददृष्टवदात्मसंयोगाविशेषादविशेषप्रसङ्ग इति मूलार्थः । तत्सत्त्वेऽपीति । मन्मते तु समानाधिकरणेन तेन शक्तिरेव नाश्यत इति भावः । परमाणुगुणेवित्यपलक्षणं व्यणुकगुणेष्वपीति मकरन्दः । यजमानेति । तथा च प्रतिष्ठिताप्रतिष्ठितयोः साधारण्यप्रसङ्गः । चण्डालस्पृष्टास्पृष्टयोरपि स एव प्रसङ्ग इति मूलार्थः । तत्सत्त्वेऽपोति । तथा च तत्स्पर्शस्य तन्निष्ठाधेयशक्तिनाशकत्वमिति भावः । परमाणुगुणेष्वित्युपलक्षणं, द्यणुकगुणेष्वपीति द्रष्टव्यम् । अनुद्भूतरूपादपीति । द्यणु- टिप्पणी । दू द्वे अपि जाती प्रत्यक्षे त्वनुगमानुरोधादनुद्भूतत्वाभावकूटस्यैव कारणत्वमिति भावः । पाक- जवत्ववान्तरेति । शक्तिभिश्रविशेषाानुपपत्येत्यर्थः । परमाणुरूपादेव तत्कार्य्यमिति । तस्मात् प्रतिमायामेव शक्तिकल्पनमुचितम्, तथा सति समानाधिकरणेनास्पृश्यस्पर्शन सैव नाश्यत इमपूज्यत्वनिर्वाह इति भावः । उद्भूतरूपं जायत इत्यभ्युपेयमिति । तथा चात्र निमित्तभेदस्यैव प्रयोजकत्वं निमित्तभेदस्य मूलेऽदृष्टविशेषे परिगणनात् । नचैवं महत्त्व- साधारण्यप्रसङ्गात् । तत्राधेयशक्तिः कल्प्येति शेषः । १४ न्या० कु०