भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 180, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 180

१४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १२ कारिकाव्याख्या० ] देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा ॥१२॥ उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते। तेषां वि- शेषादुद्भवविशेषाः प्रादुर्भवन्ति। यथा स्वभावद्रवा अप्यापो निमित्तभेदप्रति- बद्धद्रवत्वाः कठिनं करकाद्यमारभन्त इत्यादि स्वयमूहनीयम् । प्रतिमाऽऽदय- स्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राद्यभिमानिदेवताभेदास्तत्र तत्रा- ऽऽराधनोयतामासादयन्ति, माशीविषद्दष्टमूर्च्छितं राजशरीरमिव विषापनयन- बोधनी । देवोद्भावादिविशेषोपपत्तिः प्रतिष्ठादिनिजातापूर्ववदात्मसंयोगादेव देवतानां सन्निधानादाराधनीयाः- प्रतिमादय इति स्वमतेन परिहारः। परमतेन तु तत्र देवतासदृशप्रतिमादर्शनजनितेन प्रत्यभिज्ञाने- न, पूर्वैः प्रतिष्ठापिता सेयं प्रतिमेति वा प्रत्यभिज्ञानेन सहकारिभेदेनार्थक्रियाविशेषः संभवतीति ॥ पूर्वाद्धं तावद् विवृणोति-उपनायक-इति । दृष्टकारणसंयोजनद्वारेणादृष्टस्योपकारकत्वात् परमाणूनां परस्परसंयोजकक्रियाहेतुरदृष्टमुपनायकादृष्टमुच्यत इति। ततः किमित्यत आह-तेषाम् इति । पाकविशेषाभावेऽपि तत्तद्विशेषसहकृतानां परमाणूनां विशेषादेव कार्यविशेषप्रादुर्भाव इति अतिशयान्तरकल्पनातः कृतादेवाद्दष्टविशेषात् कार्यविशेषकल्पना साधीयसी, दृष्टं च केवलाद- दृष्टस्यैव सांमर्थ्यमग्न्यूर्ध्वज्वलनादिष्विति भावः । तथापि चेदपरितोषस्तन्नाह-यथा इति । दृष्ट एव वैद्युताग्निसंयोगादिनिमित्तभेदस्तत्र तत्रानेक इति । उत्तरमर्द्धं व्याचष्टे-प्रतिमादयस्तु-इति । तेन तेनेति तत्तच्छास्त्रोक्तेनेत्यर्थः । पूर्वमनाराधनीयस्यैव पश्चादाराधनीयत्वे दृष्टान्तः-विषद्द- ष्टेति । मूर्च्छामूषितचैतन्ये द्विपुषि व्युत्क्रमेण प्रत्यवायाभावेऽपि पश्चादाराधनीयो राजेति । ननु प्रकाशः। ऽवयविरूपवृत्तिजातिः सा परमाणुरूपवृत्तिरिति व्याप्तिः । चित्रत्वजातौ व्यभिचारात् । उद्भववाद्बु- द्भवादय इत्यतद्गुणसंविज्ञानबहुव्रीहिणा कठिनकरकाविद्युदादीनां संग्रह इत्यप्याहुः । देवता इत्य- त्राराधनीयतामासादयन्तीत्यध्याहार्यम् । उपनायकेति । परमाणुक्रियाजनकमदृष्टमित्यर्थः । प्रकाशिका । द्रष्टव्यम् । अनुद्भूतरूपाद्= द्व्यणुकनिष्ठात् । उद्भूतरूपं त्र्यणुकगतम् । मतद्गुणेति । न चैव- मुद्भूतानुद्भूतभेदाः प्रादुर्भवन्तीत्येतन्मूलेन तयोरुपसंग्रहविरोध इति वाच्यम् । ताभ्यां भेदो येषां विद्युदादीनामिति तदर्थात्, अग्रेतनमूले व्यधिकरणबहुव्रीहिकल्पनं परमाण्वादौ च निष्प्रमाण- कोद्भूतरूपस्वीकर्तृमतावलम्बनं चायुक्तमित्यरुचेराह । इत्यप्याहुरिति । न चैवं महत्त्वस्य चा- टिप्पणी । स्य साक्षात्कारहेतुत्वं न स्यात्, उद्भूतरूपमात्रस्यैवानतिप्रसक्तत्वादिति वाच्यम् । द्रव्यसामान्य- साक्षात्कार एवात्मादिस्थले महत्त्वस्य कारणत्वात् तदुत्कर्षेण चाक्षुषोत्कर्षाच्चेति भावः । परमाणौ उद्भूतरूपं स्वीकृत्य यद्यपीत्यादिशङ्कामुद्धरति । उद्भवानुद्भववादय इति । तथा च तत्र परमाणुरूपा नियमसम्भवेऽपि करकाविद्युदादिकाठिन्ये निमित्तभेदं विनाऽगतिरेवेति भावः। अपीत्यस्वरससूचनाय । स चोद्भूतत्वानुद्भूतत्वे हि प्रत्यक्षाप्रत्यक्षाभ्यां कल्पनीये देवताः आराधनीयतामासादयन्तीति शेषः । उपनायकादृष्टेति । उपनायकं परमाण्वादिक्रियाजनकम् तेन चावश्यकता तत्र दर्शिता तथाचावश्यकात् तस्मादुद्भवानुद्भावांदिर्निर्वाह आघेयशकिर्न कल्प्येति भावः । निमित्तभेदात् = अदृष्टविशेषात् भयञ्च प्रतिरोध हेतुः ।