न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 181, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १४७ विधिनाऽऽपादितचैतन्यम् । सन्निधानञ्च तत्र तेषामहङ्कारममकारौ, चित्रादा- विव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् । अन्येषान्तु पूर्वपूर्वपूजितप्रत्य- भिज्ञानविषयस्य प्रतिष्ठितप्रत्यभिज्ञानविषयस्य च तथात्वमवसेयम् । एतेनाभि- मन्त्रितपयःपल्लवादयो व्याख्याताः ॥ १२ ॥ बोधनी । सर्वगतत्वाद् देवतानां नित्यमेव सन्निधानं किं प्रतिष्ठाविधिना तत्राह—सन्निधानं च-इति । नो दर्शनं देवतावादिनामास्तिकानामित्यर्थः । कथमिदं नास्तिकस्य मीमांसकस्योत्तरं स्यादित्या- शङ्क्य प्रत्यभिज्ञानतोऽपि वेत्येतदुत्तरतया व्याचष्टे--अन्येषामिति । यो नामुनेयं प्रतिष्ठापि- तेति प्रतिष्ठायामनुसन्धामुष्टे तस्य प्रतिष्ठा प्रत्यभिज्ञासहकारिणी, इतरस्य तु पूर्वपूर्वपूजितप्रत्य- भिज्ञा । तथात्वम्=पूजातिक्रमाभ्यां धर्माधर्मजनकत्वमिति । अभिमन्त्रितस्य पयःपल्लवादेर्विश्वरोग- विप्रतीकारान्यथानुपपत्त्या शक्तिकल्पनमाशङ्क्य तत्राप्युक्तमेव प्रकारमतिदिशति-एतेन इति ॥ १३ ॥ तत्रापि हि तत्तन्मन्त्रप्रतिपाद्यगरुडादिदेवतापरिग्रहादभिमन्त्रितत्वप्रत्यभिज्ञानाद्वा प्रोक्षणादि- प्रकाशः । अहङ्कारेति । न च देवतानां विशेषदर्शनवत्त्वान्न भ्रम इति वाच्यम् । अभिमानीत्यनेना- हार्यारोपरूपत्वस्य दर्शितत्वात् । ज्ञानस्य नष्टेऽपि तज्जन्यसंस्कारस्य सत्त्वात् । अस्पृश्यस्पर्शा- दिना च तन्नाशात् । अचेतनदेवतापक्षे त्वाह । अन्येषान्वित्वति । आद्यपूजायां न पूजितप्रत्य- भिज्ञानमित्यत उक्तम् । प्रतिष्ठितेति । अत्रापि प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शानादिसंसर्गाभा- वसहकृतस्येति द्रष्टव्यम् । "प्रतिष्ठितं पूजये"दिति विधिवलात् तज्ज्ञानस्यावश्यकत्वात् । अत एव तदभावे पूजा निष्फलैवेति भावः ॥ १२ ॥ प्रकाशिका । क्षुपसाक्षात्कारे जनकत्वं न स्यात् उद्भूतरूपमात्रस्यैवानतिप्रसङ्गादिति वाच्यम् । द्रव्यसाक्षात्का- रसामान्य एवात्मादिस्थले तस्य कारणत्वकल्पनात् , तदुत्कर्षेण चाक्षुषोत्कर्षाच्च । अत्रापीति । अपिशब्दः पूजितत्वप्रत्यभिज्ञानसमुच्चयपरः । अस्पृश्येति । प्रतिष्ठाकालीनत्वमनाद्यभावे विशे- षणं, यावत्पदं समसंख्यापरम्, एवं च प्रतिष्ठोत्तरमस्पृश्यस्पर्शे प्रागभावनाशोऽपि स्पर्शध्वंसान- न्तरं तमादाय समसंख्यत्वादतिप्रसङ्ग इत्यानादिपदम् । अपूज्यतापयोजकपरम्परासम्बन्धावच्छि- न्नास्पृश्यस्पर्शे प्रतिष्ठोत्तरं जाते पूज्यता न स्यादिति संसर्गपदं संसर्गविशेषावच्छिन्नाभावलाभा- येति दिक् ॥ १२ ॥ मकरन्दः । कानुद्भूतरूपादपि त्र्यणुकोद्भूतरूपं जायते इत्यर्थः । अत्रापीति । प्रतिष्ठाकालीनयावदस्पृश्य- स्पर्शादीत्यर्थः । अत्र विस्तरोऽनुमानप्रकाशे ॥ १२ ॥ टिप्पणी । परमाणुरूपस्याप्रत्यक्षत्वे किमर्थमुद्भूतत्वसिद्धिः, तद्गुणसर्वविज्ञानबहूत्रीहिकल्पनं च निर्युक्तिक- मिति । अत्रापीति । प्रतिष्ठाकालीनत्वमनादिसंसर्गाभावस्य विशेषणं वाच्यम्, यावदिति- समसंख्येत्यर्थः, तथा च प्रतिष्ठाकालीनास्पृश्यस्पर्शाभावसमसंख्यकास्पृश्यस्पर्शाद्यनादिसंसर्गा- भावः सहकारोत्यर्थः । प्रतिष्ठोत्तरमस्पृश्यस्पर्शनाशकाले विद्यमानोऽप्यभावो न तादृशाभावसमसं- ख्यकानादिसंसर्गाभावः, ध्वंसस्यानादित्वाभावात् प्रागभावस्याविद्यमानत्वादिति विशेषणद्वयस्य सार्थक्यम् । पुनः प्रतिष्ठायां द्वितीयप्रतिष्ठामादायैव तादृशाभावसम्पत्तिः कार्येति भावः ॥१२॥