न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 182, कुल 608 में से
संदर्भ में पढ़ें१४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां घटादिषु का वार्त्ता ? कुशलैवेति चेन्न । न हि सामग्री दृष्टं विघटयति, नाप्यदृष्टं, ज्ञापकत्वात्, नाप्यदृष्टमुत्पादयति, धर्मजनने सर्वदा विजयप्रसङ्गात् । विपर्यये सर्वदा भङ्गप्रसङ्गात् । मत्रोच्यते— जयेतरनिमित्तस्य वृत्तिलाभाय केवलम् ॥ परीक्ष्यसमवेतस्य परीक्षाविधयो मताः ॥१३॥ यद्यपि धर्माद्यभिमानिदेवतासन्निधिरत्रापि क्रियते, ताश्च कर्मविभवानुरूपं- लिङ्गमभिव्यञ्जयन्तीत्यस्माकं सिद्धान्तः, तथापि परविप्रतिपत्तेरन्यथोच्यते । ते- नापि हि विधिना तदेव जयस्य पराजयस्य वा निमित्तमभिव्यक्तं कार्यमुन्मोल- 'बोधनी । वदभिमन्त्रणसहकाराद्योपपत्तिरिति गूढाभिसन्धिः पृच्छति—घटादिषु—इति । तुलातसमाषा- दिष्वित्यर्थः । गूढाभिसन्धिरेवोत्तरमाह–कुशला–इति । इतरः स्वाभिप्रायमुद्घाटयति–न हि सामग्री इति । तुलारोहणाङ्गत्वेन विहिताभिमन्त्रणादिसामग्री न तावदभिशस्तसमवेतं जयस्य पराजयस्य वा निमित्तं किञ्चिद् दृष्टं लघुत्वं गुरुत्वं वा विघटयति ज्ञापकत्वेनाकारकत्वात् तस्यादर्श- नाच्चेति भावः । नाप्यदृष्टम्-इति । विघटयतीत्यनुषङ्गो ज्ञापकत्वादेव । किञ्च, धर्मविघटने सदा भङ्गप्रसङ्गः, अधर्मविघटने सदा विजयप्रसङ्गः, उभयविघटनं त्वेकस्याः सामग्र्या न सम्भ- वतीति वक्ष्यमाणन्यायोऽत्राप्यनुसन्धेय इति । नन्वभिशस्तसमवेतमर्थतथात्वज्ञापकं किञ्चिददृष्टमु- त्पादयति, तेन तद्द्वारा ज्ञापकोऽयं विधिर्भविष्यतीत्याशङ्कयाह–नाप्यदृष्टमुत्पादयतीति-इति । न चैकस्मिन् धर्ममितरस्मिन्नधर्ममिति सम्भवति, सामग्र्यभेदे कार्यभेदानुपपत्तेरिति भावः । प्रतिमादौ तत्तद्देवतासन्निधानादिसम्भवात् पूजातिक्रमलक्षणसामग्रीभेदेन धर्माधर्मजनन सम्भवाच्च सम्भवेपि परिहारस्तुलायामिमानिकदेवताभावात् सामग्र्याश्चैकरूपत्वेन धर्माधर्म हेतुत्वायोगात् संस्काराधानमेवाङ्गीकार्यमिति पुनः प्रत्यवस्थानमिति । सिद्धान्ती स्वाभिप्रायमुद्घाटयति – जयेतर–इति । वृत्तिः=अभिव्यक्तिः, सा च सहकारि लाभ इति स्वयमेव व्याख्यास्यति । अभिशस्तसमवेतयोर्जयेतरनिमित्तधर्माधर्मयोरभिव्यक्तिद्वारे- णार्थतथात्वं ज्ञापयति परीक्षाविधिः, अतोऽत्रापि न संस्कारकल्पनेत्यत्रापि पूर्वोक्तमेव परिहारं स्मा- रयति – यद्यपि-इति । परीक्षाविधिनापि धर्मसत्यादिषु शरीरवदभिमानिनीनां सन्निधिः क्रियते । सन्निहिताश्चाभिशस्तस्तेयादिकर्मविभवानुरूपं तुलानमनोन्नमनादिकं लिङ्गमभिव्यञ्जन्ति । ततो जयः पराजयो वेति । यद्यप्यभ्युपगमः सिद्धस्तथाप्यत्र मीमांसकस्यासम्प्रतिपत्तेरभ्युपगम्यैवान्यथा परिहार उच्यत इति श्लोकं व्याचक्षाणस्तमेव परिहारमाह-तेनापि-इति । तद्विधानामिव्यक्तमभि- शस्तकृतस्तेयाद्यनुमापकं कार्यं नमनोन्नमनादि जनयति । कथमनेन धर्माधर्माभिव्यक्तिरित्यत्राह- प्रकाशः । घटः=तुला । न हीति । सामग्री=परीक्षासामग्री । अवनतिहेतोर्दृष्टस्यादृष्टस्य वा विघटने सदैवोन्नमनप्रसङ्गादित्यर्थः । तस्माद् भूतार्थपरिच्छेदिका शक्तिस्तुलादिसामग्रीजन्येत्यभ्युपेय- मिति भावः । जयेतरेति । जयभङ्गनिमित्तस्य परीक्ष्यात्मसमवेतस्यादृष्टस्य वृत्तिः स्वकार्यजननाभिमुख्यं तल्लाभायैवेत्यर्थः । यद्यपीति । पापवान् पुण्यवान् वाऽयमनेन विधिना तुलामारूढ इति यद्देव- ताज्ञानं, स एव देवतासन्निधिरतः परीक्षाविधेरविधेयेऽपि कर्मोन्नायकं नमनादिकं लिङ्गमभिव्यञ्ज- यन्ति । तादृशञ्च ज्ञानं न परीक्षाविधिं विनेति सोऽपि प्रयोजक इत्यर्थः । परविप्रतिपत्तिर्देवता-