न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 165, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] अपूर्व्वस्य चेतनधर्म्मत्वाक्षेपः । १३१ कश्चिदिच्छति, अतिप्रसङ्गात् । व्यवहारमात्रन्तु तज्ज्ञानसाध्यं, न तु तत्साध्यम् । तज्ज्ञानमपि स्वकारणाधीनं, न तु तेन निरन्वयध्वस्तेन जन्यते । अस्तु वा तत्रा प्यतिशयकल्पना किन्नश्छिन्नम् ! । यद्वा, यागादेरप्युपलक्षणत्वमस्तु तदुपलक्षितः कालो यज्वा वा स्वर्गादि साधयिष्यति, कृतमपूर्वेण । न च देवदत्तस्य स्वगुणा- ऽऽकृष्टः शरीरादयो भोगाय, तद्भोगसाधनत्वात्, स्रगादिवदित्यन्वयबलादपू- र्व्वसिद्धेर्नाविशेष इति साम्प्रतम् । इच्छाप्रयत्नज्ञानैर्नार्थायोगं सिद्धसाधनात् । न च तद्रहितानामपि भोग इति युक्तिमद्, येन ततोऽप्यधिकं सिद्ध्येत् । नापि स्व- गुणोत्पादिता इति साध्यार्थः, मनसाऽनैकान्तिकत्वात् । नापि कार्य्यत्वे सतीति विशेषणान्न हेतुः, तथासत्युपलक्षणैरेव सिद्धसाधनात् । असतां तेषां कथमुत्पाद- बोधनी । णत्वमित्यत्राह—व्यवहार-इति । न तावद् गुर्वादिनो टीकादौ किञ्चित्कार्यं क्रियते किन्तु तदी- यत्वेन व्यवहारमात्रमेव तत्रास्ति, तदपि तेन न क्रियते किन्तु गुर्वादिज्ञानेन, तज्ज्ञानमप्याप्तवादि- कारणाधीनं न त्वनुत्पादितव्यापारध्वस्तेन गुर्वादिना जन्यते; प्रत्यक्षज्ञान एव ह्यर्थः कारणं नान्य- त्रेति भावः । अथ गुर्वादिनापि टीकादौ तत्तत्कार्योपयुगुणः कश्चिदाधीयतामतिशयः, न तेन संस्का- रवादिनामस्माकं काचित् क्षतिः, भवतस्तु साध्यविकलो दृष्टान्तः स्यादित्यभिप्रेत्याह—अस्तु वा-इति । यदि वा प्रोक्षणादीनामतिशय मन्तरेणोपलक्षणत्वेन कारणत्वं स्यात् चेत् तदा यागादी- नामपि सत्वात्प्रसङ्गादपूर्व दत्तजलाञ्जलि स्यादित्याह—यद्वा-इति । ननूपलक्षणत्वेन यागादीनां फलसाधनत्वोपपत्तावपि प्रमाणवलादेव तत्रापूर्वसिद्धिरित्यत्राह—न च इति । स्रगादयो हि स्व- गुणेन प्रयत्नादिना सन्निधापिता भोगाय भवन्ति, तथा पश्चादयोऽप्यपूर्वाख्येन गुणविशेषेण सन्नि- धापिता इत्यपूर्वसिद्धेः प्रोक्षणादिभ्यो यागादीनां नाविशेषः । इच्छा-इति । कचिद् ज्ञानेच्छाप्रयत्नैः समुदितैरुपगृहीताः पश्वादयो भोगाय भवन्ति । कचित् त्वन्यतमेन यथा निदाघतप्तस्य मेघच्छा- याद्यः, न तेन तदतिरिक्तापूर्वसिद्धिरिति । यदीच्छादेर्व्यतिरेकेऽपि भोगः स्यात् ततस्तदतिरिक्तं सिध्येत् । न त्वेवमस्तीत्याह-न च-इति । इच्छाभावे भोगत्वमेव न स्यात्, इष्टत्वलक्षणात् सुख- प्रकाशः । दित्यत आह । तज्ज्ञानमपीति । ननु स्वकारणमपि तदेवेत्यत आह । न त्विति । निरन्वयध्व- स्तेन=अनुत्पादितव्यापारध्वस्तेनेत्यर्थः । तत्रापीति । उपलक्षणाभिमतेऽपीत्यर्थः । स्रगादिस्त- न्निर्मितो दृष्टान्तः । स्वगुणाकृष्ट इति । स्वगुणसहकारिण इत्यर्थः, स्वगुणोत्पादितां इति वा, आद्ये, इच्छेति । अन्त्यमाशङ्क्य निराचष्टे । नापीति । उपलक्षणैरिति । जन्मान्तरी- यज्ञानेच्छाप्रयत्नैरिर्यर्थः । सिद्धसाधनपदमत्रेष्टहानिपरम् । यथाश्रुतेऽपसिद्धान्तापातात् । प्रकाशिका । जन्मान्तरीयेति । निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः । मकरन्दः । जन्मान्तरीयेति । निरन्वयध्वस्तस्यापि जनकत्वाभ्युपगमादिति भावः । टिप्पणी । सिद्धः उपलक्षणाभिमतेऽपीति । कुरुक्षेत्रादावित्यर्थः । सिद्धसाधनपदमत्रेष्टहानिपरमिति । सिद्धसाधनस्य यथार्थतार्थत्वेऽविद्यमानसयोत्पादकत्वस्य सर्वैरस्वीकृततया तस्य सिद्धत्व एव तेन सिद्धसाधनसम्भवेनापसिद्धान्त इति भावः । अपसिद्धान्तप्रसङ्गादिति । तथा चार्थान्तर- मित्यादिना । व्यवहारमात्रमित्यादि । तदेतदभिमन्त्रणादिष्वित्यादिग्रन्थदर्शनात् । कुरोः पूर्वमपि तादृशक्षेत्रस्य सद्भावात् तदानीमतादृशत्वेनावश्यं तत्र कुरुजनितातिशयः स्वीकरणीयः । एवमविद्यमानस्य कस्यापि न जनकत्वमिति नियमात् तत्रापि तत्कल्प्यमेवेति दृष्टान्तासङ्गतिरित्याह । अस्तु चेति । अभ्युपगमे त्वाह । यद्वेति । देवदत्तस्येति । अत्र शरीरं पक्षः, देवदत्तस्वगुणाकृष्टत्वं साध्यम् । साध्यस्य स्वगुणसह- कारित्वार्थकत्वं मन्वान आह इच्छेति । यथाक्रमं कश्चिदिच्छायाः क्वचित्प्रयत्नस्य कचिज्ज्ञानस्य