भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 166, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 166

यहाँ प्रस्तुत पृष्ठ का देवनागरी लिपि में पंक्ति-दर-पंक्ति लिप्यन्तरण है:

१३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [११ कारिकावतरणिकायां कत्वमिति चेत् तदेतदभिमन्त्रणादिष्वपि तुल्यम् । तस्माद्भावभूतमतिशयं जन- बोधनी । स्येति । स्वगुणाकृष्टत्वं नाम स्वगुणोत्पादितत्वं विवक्षितं तथा न सिद्धसाधनं पश्वादीनामिच्छायनु- त्या॑यत्वादित्याशङ्कयाह-नापि-इति । मनो हि नित्यत्वान्न केन चिदुत्पाद्यतेऽथ च भोगसाधनमिति तेनानौकान्तिकमिति । तर्हि कार्यत्वे सति भोगसाधनत्वादिति हेतुं विशेषयिष्याम इत्यत्राह-मापि- इति । अस्माभिरुपलक्षणत्वेनापादिता यागादयो ह्यात्मगुणस्तत्तत्संकल्पप्रयत्नाद्यात्मकत्वात् तेषा- म् । अतस्तैरेव जन्मान्तरीयैरैहिकैर्वा पश्वाद्युत्पत्तिसिद्धेर्न तदतिरिक्तजन्यापूर्वसिद्धिरिति । ननु चिरविनष्टा यागादयः कथं कालान्तरभाविनः पश्वादेः साधनं यतस्तैः सिद्धसाधनं स्यादित्याह- असताम्-इति । तर्हि अभिमन्त्रणादिष्वपि कालान्तरभाविने फलाय संस्कारमभ्युपगच्छेदित्याह- तत् इति । उक्तमर्थमुपसंहरन् प्रमाणयति-तस्मात्-इति । प्रध्वंसेन सिद्धसाधनं मा भूदि- प्रकाशः । तस्मादिति । यद्यपि पुरुषनिष्ठातिशयेन सिद्धसाधनम्, तथापि व्रीह्यादिगतेति साध्ये विशेषणी- यम् । यो यदुद्देशेनोपादीयते स तत्रातिशयजनक इति व्याप्तेरिति संप्रदायविदः । अस्मत्पितृचरणास्तु-सोऽतिशयो लाघवात् फलसमानाधिकरण इति व्रीहिनिष्ठ एव । तेन :टिप्पणी । मिति भावः । मतिशयेन सिद्धसाधनमिति । अथ विप्रतिपक्षस्य व्रीहिनिष्ठातिशयस्य प्रोक्षण- जन्यस्य यथोक्तानुमानासिद्धेरुच्यत इत्यादि ग्रन्थेन प्रोक्षणजन्यातिशये व्रीहिनिष्ठत्वखण्डनं ग्रन्थकृतो विरुद्धमित्याशङ्कां निरसितुमुपक्रमते । यद्यपीत्यादि माहुरित्यन्तेन । न च मन्त्रादीनेवे- त्यादितुल्यमित्यन्त मूलग्रन्थेन प्रोक्षणजन्यसंस्कार एव तर्कोभिसन्धिः तदुपकार्य्यमेव मानं तस्मादि- त्यादिना दर्शितं तथा च प्रोक्षणेऽतिशयजनकत्वस्यैवासिद्धेः कुतः सिद्धसाधनावकाश इति वाच्यम् । अत्रापि सिद्धसाधनपदस्येष्टहानिपरत्वात् व्रीहिनिष्ठातिशयस्यैवेष्टत्वात् । अथ व्रीहिगतत्वस्य सा- ध्यविशेषणत्वे व्रीहिनिष्ठातिशयजनकत्वप्रयोज्यकालान्तरभाविफलजनकत्वरूपसाध्याप्रसिद्धिः । अव- घातजनकीभूतक्रियान्तरमादाय कालान्तरभाविसुखार्थयोपादीयमानयागादिकमादाय च व्यभि- चारप्रसङ्गः दृष्टान्तासङ्गतिश्चेति चेन्न । यो यदुद्देशेनोपादीयते स तत्रातिशयजनक इति सामा- न्यव्याप्तौ गृहीतायां प्रोक्षणं व्रीह्याद्युद्देश्यकमिति पक्षधर्मताज्ञानसहकारात् शुद्धातिशयजनक- त्वघटितधर्मावच्छिन्ननिरूपितव्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानादेव व्यापकतानवच्छेदकीभूतेन विधेयतानवच्छेदकेन व्रीहिनिष्ठातिशयजनकताघटितधर्मे विधेयानुमितिरितरबाधादिसहकृतयो- गज्ञानजन्यानुमितिवद् इतरबाधादिर्यांस्तु विशेषः , अत्र व्रीह्यादिनिष्ठत्वविषयताया पक्ष- धर्मज्ञानप्रयोज्यत्वेन विधेयरूपत्वादिति, एवञ्च नोक्तदोषावकाशः । अनुमितेरेवाक्षेपे शुद्धाति- शयघटितधर्मावच्छिन्नमतिशये व्रीहिनिष्ठत्वमित्येवं रीतिकत्वस्वीकारो लाघवज्ञानादिसहकृतप्र- माजन्यविशिष्टवैशिष्ट्यबोधस्थले विशेषणतावच्छेदकप्रकारकज्ञानस्य विलक्षणकार्यकारणभावस्वी- कारान्न व्रीहिनिष्ठत्वविशेषितधर्मावच्छिन्नज्ञानस्य पूर्वमभावेऽपि नानुमानम् । अत एव विशे- ष्यविशेषणविशिष्टवैशिष्टयरीत्यासिद्धयेऽपि साध्यघटकातिशये व्रीहिनिष्ठत्वस्य विशेषणाद् व्रीह्यादी- त्यादिग्रन्थसङ्गतिः । साध्यतावच्छेदकावच्छिन्नाभाववद् वृत्तित्वस्यैव व्यभिचारत्वेन साध्यतावच्छेद- कशुद्धातिशयघटितधर्मावच्छिन्नाभावस्य तत्र विरहान्न व्यभिचारः । दृष्टान्ते साध्यतावच्छेदका- वच्छिन्नस्यैवापेक्षितत्वेन नापि दृष्टान्तासिद्धिरिति विभावनीयम् । सम्प्रदाय इत्यस्वरसेन- सहकारित्वात् । अधिकम् = इच्छादितो भिन्नमपूर्वमित्यर्थः । उपलक्षणैरिति । अविद्यमाने- र्जन्मान्तरीयैरित्यर्थः । तैरिति शेषः । तदेतत् = असतामुत्पादकत्वम् । अभिमन्त्रणादीति ।