न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 156, कुल 608 में से
संदर्भ में पढ़ें१२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १० कारिकाव्याख्यायां • प्रकाशः । ब्दध्वंसकारणकालाकाशयोः साध्याव्यापकत्वात्, तत्रान्यशब्दस्यैव तथात्वादिति सामान्यतः । विशिष्य तु, पिण्डोभूतो वह्निः कार्यानुकूलादृष्टातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत् । न- चात्मत्वं नित्यत्वं वोपाधिः, स्पर्शैकत्वादिमिति द्व्यणुके साध्याव्यापकत्वात् । करवहिसंयोगे वा पक्षः । नचात्मत्वं द्रव्यत्वं वोपाधिः, द्व्यणुकैकत्वस्पर्शादौ साध्याव्यापकत्वात् । मण्यादिसमवहि- प्रकाशिका । करणत्वेन कालादिवादाकाशस्यापि शब्दध्वंसकारणत्वादिति भावः । पिण्डीभूत इति । वह्नि- मात्रपक्षत्वे द्व्यणुकेऽशतः सिद्धसाधनमिति तद्वारणाय पिण्डीभूत इति विशेषणम्-तस्य च प्रत्य- क्षस्पर्शाश्रयत्वमर्थः । कार्यानुकूलत्वं च दाहानुकूलत्वं तदपि ताद्रूप्यसिद्धये, स्थितिस्थापकस्य च वह्नावभावेन व्यावर्तनीयाभावात् । यदि च तत्रापि स्थितिस्थापको मास्तु वा तथापि तमादा- यैवार्थान्तरमिति तद्वारणार्य कार्यानुकूलत्वं विशेषणम् । तदापि दाहानुकूलत्वपरमेव तत् । अ- न्यथा तज्जन्यं कर्मादाय दोषतादवस्थ्यात् अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिबन्धकाभावैः सिद्ध- साधनवारणायादृष्टेत्यादिविशेषणत्रयम् । न च प्रभाकरमतेऽभावस्याधिकरणत्मकतया समवा- यिपदं व्यर्थमेवेति वाच्यम् । भट्टमतेऽर्थान्तरवारकत्वात् । प्राभाकरमतेऽपि अतिरिक्ताभावसि- द्ध्यैव प्रकृतानुमानपर्यवसानेनार्थान्तरवारकत्वात् । वस्तुतोऽन्वयार्थसम्बन्धवाचकपदोपादाने प्राप्ते समवायिपदस्यैवाखण्डार्थकस्योपादानादिति । द्व्यणुकैकत्वेति । समवायिपदस्य तन्निरूप्य- समवायाश्रयत्वमात्रमर्थ इति द्व्यणुकमादाय साध्यसत्त्वं तत्र द्रष्टव्यम् । मण्यादीति । दाह- जनकवह्नौ हेत्वसिद्धिव्याध्योः वारणाय मण्यादिसमवहित इति । आदिपदात् प्रतिबन्धकाभावेतर- सकलदाहकारणलाभोऽतो न तद्व्यतिरेकमादायांशतः सिद्धसाधनम् । कारणान्तरवर्तिकारणताव- मकरन्दः । पिण्डीभूत इति । कार्यानुकूलत्वं स्वकार्यानुकूलत्वम् । तदपि स्वनिमित्तकारणानुकूलत्वम् । तेन कर्मानुकूलस्थितिस्थापकेन नार्थान्तरम् । कर्मणि तु वह्निः समवायिकारणमिति नोक्तदोषः । वह्नौ स्थितिस्थापकानभ्युपगमे उद्देश्यसिद्ध्यर्थं तदिति ध्येयम् । अदृष्टवदात्मसंयोगोष्णस्पर्शप्रतिब- न्धकाभावादिनाऽर्थान्तरवारणायादृष्टादिपदम् । यद्यपि गुरुमतेऽभावोऽधिको नास्त्येवेति समवा- यिपदं व्यर्थं, तथापि परस्यार्थान्तरं स्यादिति तदुपात्तम् । करवह्नौति । अत्र चादृष्टपदं साध्ये त्याज्यम् । द्व्यणुकैकत्वेति । तत्समवायित्वस्य तन्निरूप्यसमवायाश्रयत्वार्थकतया समवायिद्व्यणुकमादाय तत्र साध्यवत्त्वं बोध्यम् । मण्यादि- समवहित इति । आदिपदात् प्रतिबन्धकाभावेतरसकलदाहकारणमभिमतमिति न तद्व्यतिरेके टिप्पणी । धर्माभावात् इति । विशिष्टाभावस्यातिरिक्तविशेषणाद्यभाव एवाभ्युपगतोऽन्यस्य कादाचित्कत्व- स्वाभावात् । विशेषाणाभावविशेष्याभावनिष्ठप्रत्यासत्तित्वस्येत्यर्थः । तथा च विशेषणाद्यभावसम्ब- न्धेन प्रत्येकेन विशिष्टाभावस्य कारणत्वादिकं वक्तुमशक्यमिति भावः ॥ स्पर्शैकत्वादिमिति- द्व्यणुक इति । त्रसरेणुपरिमाणे द्व्यणुकैकत्वस्य तत्स्पर्शे द्व्यणुकस्पर्शस्य जनकत्वात् तस्य कार्या- नुकूलत्वम् स्वकार्यानुकूलेति विवक्षायां यद्यपि तयोर्न साक्षात् द्व्यणुककार्यत्वं तथापि द्व्यणुक- स्पर्शादिद्वारा तदस्ति । द्व्यणुकैकत्वस्पर्शादौ साध्याव्यापत्वात् इति । वह्नित्रसरेणु- रूपकार्यानुकूलादृष्टातीन्द्रियत्रसरेणुरूपधर्म्मसमवायसम्बन्धित्वरूपस्य साध्यस्यास्ति सत्वन्तत्रेति भावः । वस्तुतस्तु तत्समवायित्वं तन्निरूपितसमवायनिरूपकत्वमेव तथा च त्रसरेणुपरिमाणस्प-