भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 184, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 184

Here is the line-by-line transcription of the Sanskrit text provided in the image:

१५० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां अथ शक्तिनिषेधे किं प्रमाणम् ? । न किञ्चित् । तत् किमस्त्येव ? बाढम् । न हि नो दर्शने शक्तिपदार्थ एव नास्ति । कोऽसौ तर्हि ? कारणत्वम् । किं तत् ? पूर्वकालनियतजातीयत्वं, सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वं वेति । ततोऽधिक- बोधनी । निषेधः कल्प्यते, अविशुद्धं प्रत्यारोहणस्यानिष्टहेतुत्वान्निषिद्धस्यैव च तथात्वादिति । तदेवम्भूतसमवायिनी शक्तिः सहजा आधेया वास्तीति न किञ्चित्प्रमाणमस्तीत्युक्तम् । इतरस्तु वादजल्पयोरन्यतरेण कथाप्रवृत्तिं कृत्वा तयोर्न स्वपक्षसाधनमन्तरेण परसाधनस्य दूषणमात्रेण पर्य- वसानमिति मन्वानः पृच्छति-अथ इति । गूढाभिसन्धिः प्रतिब्रूते-न किञ्चित् इति । अज्ञात- पराभिसन्धिः पुनः । पृच्छति-तत् किमस्त्येव - इति । निषेधकाभावे त्वस्तित्वमेवावशिष्यत इति । गूढाभिसन्धिरेव सम्प्रतिपत्तिमूत्तरमाह-बाढम् इति । यद्येवमपसिद्धान्तप्रसङ्ग इत्यत्र स्वा- भिसन्धिमुद्घाटयितुमाह-न हि-इति । अस्मत्सिद्धान्तानभिज्ञो भवानिति भावः । पुनरप्यनभिज्ञः पृच्छति-कोऽसौ-इति । आशयमाविष्करोति-कारणत्वम्-इति । शक्तिमत्तैव कारणत्वमिति मन्वानः पृच्छति-किं तत्-इति । ज्ञातपराभिसन्धिराह-पूर्वकाल-इति । पूर्वकालनियत त्वमित्येव वक्तव्ये नियतजातीयत्वाभिधाने जात्यपेक्षयैव नियम इति स्मारयितुमिति । अन्यथा कारणत्वं निरूपयति-सहकारि-इति । यस्य सहकारिवैकल्यप्रयुक्तः कार्यप्रागभावो न तु स्वरूप- प्रकाशः । फलसाधनत्वेन निषेधविधेरेन्मयनाङ्गफलश्रुतेश्चाधर्मजनकत्वं कल्प्यत इत्यर्थः । यद्यपि तुलारो- हणादेरधर्मजनकत्वे मानाभावः । पूर्वाधर्मादेवावनमनोपपत्तेः । तथापि परीक्षाविधिं विनाऽवनमने- ऽपि भङ्गाभावानियमेन तस्याधर्महेतुत्वम् । जल्पकथामारित्य पृच्छति- अथेति । उत्तरं नेति । शक्तिपदार्थमेव न निषेधाम इत्यर्थः । तर्हि स्वीकार एव शक्तेः स्या दित्यभिप्रेत्याह । कोऽसाविति । पूर्वकालेति । ननु पूर्वत्वं प्रागभावावच्छिन्नकालत्वम् , प्रकाशिका । यद्यपि नैमित्तिकत्वे तदकरणे प्रत्यवायापत्तिः । तथापि निमित्ते सति कर्तव्यत्वमित्येवात्र नैमित्तिकत्वम् । तन्मात्रकरणेऽपि न प्रत्यवायो जातेष्ट्याद्यकरणे प्रत्यवायाभावात् देवतासन्निधान एव तात्पर्य्य- मत एव मूलमित्यस्माकं सिद्धान्त इति कश्चित् । अधर्म्मजनकत्वे मानाभाव इति । जयपक्षे भवतु धर्मजनकता अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेनोन्मन्नकारणस्य तस्य स्वीकरणीय- त्वादिति भावः । तथापीति । परीक्षाविधिजन्याधर्मेणावनमनस्यैव भङ्गहेतुत्वमिति परीक्षाया आशु बिनाशिन्याः कारणतानिर्वाहाय व्यापारत्वेनाधर्म्मः कल्पनीय इति भावः । वस्तुतोऽ- गम्यागमनजन्याधर्म्मस्यावनमनहेतुत्वे मानाभावो नरकफलत्वेन तस्य श्रुतेरिति ध्येयम् । जल्पेति । तत्रैवोभयसाधनोपन्यासनियमादिति भावः । नाशस्येति । प्रागभाव- मकरन्दः । श्रुतेः परीक्षाविधेरभिशापनिमित्तकत्वाभावान्न विधिकल्पनं, न वा भङ्गलक्षणाऽनिष्टसाधनत्वेन नि- षेधविध्युन्नयनम् । व्यभिचारादप्रयोजकत्वाच्च । तथापि देवतासन्निधिपक्षे तात्पर्य्यम् । अत एवो- क्तं मूले, इत्यस्माकं सिद्धान्त इति । अधर्मजनकत्वे मानाभाव इति । विजयपक्षे धर्मज- ननं भवतु । अगम्यागमनाद्यनाचरणस्य धर्महेतुत्वेन प्राक्तनधर्माभावादिति भावः । तथापीति । टिप्पणी । जल्पकथामारित्येति । उक्तरीत्या शक्तिनिराये शक्तिसाधकस्य मीमांसकस्य तदेतो