न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 185, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १५१ निषेधे का वार्त्ता ? । न का चित् । तत् किं विधिरेव ? सोऽपि नास्ति प्रमाणा- भावात् । सन्देहस्तर्हि ? । कथमेवं भविष्यति, अनुपलब्धचरत्वात् । विवाद- स्तर्हि ? कुत्र ? । अनुग्राहकत्वसाम्यात् सहकारिष्वपि शक्तिपदप्रयोगात् । सह- कारिभेदे तत्रापि दहनादेरनुग्राहकोऽधिकोऽस्त्येव, यः प्रतिबन्धकैरपनीयत इति बोधनी । प्रयुक्तः, यः सहकारिषु सत्सु करोत्येवेत्यर्थः । न त्वभावादकारणत्वमिति । तर्हि कारणत्वा- तिरिक्तमदभिमतातीन्द्रियशक्तिनिषेधः किंप्रमाण इत्याह-तत इति । एकत्र हि सिद्धस्यान्यत्र निषेधः न त्वत्यन्तानुपलब्धस्येत्याशयेनाह-न काचित्-इति । अविदितपराशयः पृच्छति- तत् किम्-इति । विधिः=अस्तित्वम् । यदि निषेधो नास्ति तर्हि विधिरेव स्यात् भावाभावयोरितरे- तराभावात्मकत्वादिति । न हि निषेधवद् विधिरपि निष्प्रमाणः सिध्यतीत्युत्तरमाह-सोऽपि-इति । निषेधे प्रमाणं नास्तीत्युक्तं न तु निषेधो नास्तीति भावः । तर्हि साधकबाधकयोरभावान्नच्छक्तेरस्तित्व नास्तित्वयोः सन्देह एव स्यात्, एवमपि भवदभिमतं न सिध्येदित्यभिप्रायवानाह-तर्हि-इति । उत्तरं कथमेवम्-इति । न तावानेव सन्देहहेतुरपि तर्हि धर्म्युपलब्धिरपि, ततश्चानुपलब्धे शक्तिरूपे धर्मिणि कथं सन्देह इति । यदि शक्तेर्बुद्धावनारोह एव तर्हि तत्सत्त्वासत्त्वविषयो विवादः कथमावयोर्भवेत् तस्यापि सामान्यतो ज्ञाते धर्मिणि विशेषविषयत्वादित्याह-विवादः-इति । सुहृद्भावेनोत्तरमाह-अनुग्राहकत्व इति । अत्रोभयसिद्धसहकारिपदार्थमधिकृत्य तद्विशेषवि प्रकाशः । प्रागभावश्च न प्रतियोगिजनकोऽभावः । अन्योन्याश्रयात् । नापि विनाश्यभावः । नाशस्य प्राग- भावनिरूप्यत्वात् । उत्पत्तिमानभावो ध्वंस इति चेत् । काऽसावुत्पत्तिः । आद्यसमयसम्बन्धः सेति चेत् । किमाद्यत्वम् । स्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारसमयसम्बन्ध प्रकाशिका । प्रतियोग्यभावत्वस्यैव नाश लक्षणत्वादित्यर्थः । तथा चान्योन्याश्रय इति भावः । किमाद्य- त्वमिति । क आद्यसमयसम्बन्ध इत्यर्थः, तेन नोत्तरविरोधः । श्वेति । प्रतिक्षणं कस्य मकरन्दः । तथा च परीक्षाविधिजन्यावगमनस्यैव भङ्गहेतुत्वम् । तस्य चाशुविनाशित्वेनाध ॑व्यापारकत्वमिति भावः । अगम्यागमनादिजन्याधर्माणामपि नरकफलश्रवणात् पराजयहेतुत्वे मानाभावाच्चे- त्यपि द्रष्टव्यम् । नाशस्येति । प्रागभावप्रतियोग्यभावस्यैव नाशत्वादित्यर्थः । किमाद्यत्वमिति । किमा- द्यसमयसम्बन्धत्वमित्यर्थः । तेन नोत्तरविरोधः । स्वेति । तथा च तादृशध्वंसानाधारत्वमात्रर्थ, टिप्पणी । पृच्छा विजिगीषुकथारूपे जल्प उभयसाधनोपन्यासनियमादिति । प्रागभावनिरूप्यत्वादिति । प्रागभावप्रतियोग्यभावरूपत्वात् तथा चान्योन्याश्रय इति भावः । किमाद्यत्वमिति । क आ- द्यसमयसम्बन्ध इत्यर्थः । तेन सम्बन्धपर्यन्तविवक्षणे न दोषः । स्वसमानकालीनपदार्थेति । स्थितिक्षणस्यापि स्वप्रतियोगिकध्वंसानाधारत्वात् तदानीमुत्पन्नत्ववारणाय स्वसमानकालीनेति । अत्र समानत्वमविवक्षितम्, वैयर्थ्यादुक्तदोषाच्च । इदन्तु प्रतिक्षणं कस्य चिदुत्पादः कस्य चिद् विनाश इति मतानुसारेणैव, अन्यथा कल्पान्तरस्थितिक्षणस्य ? ध्वंसानाधारत्वे तदुपादानेऽपि तद्दोषतादवस्थ्यं सन्देहस्तर्हि साधकबाधकमानाभावे तस्य तत्कारणत्वात् । कथमेवं भविष्यतीति । को ट्युपस्थितेरभावात् । मनुंपलब्धचरत्वादिति संदेह इति शेषः ।