न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 186, कुल 608 में से
संदर्भ में पढ़ें१५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकान्याख्यायो प्रकाशः । इति चेन्न । परस्पराश्रयात् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकसामयिकया- वत्परत्वाश्रयसमानकालीनकादाचित्काभावः । प्रलयकालीनपरमाणुक्रियाप्राग्भावाव्याप्तेः । न च तदाऽपि ब्रह्माण्डान्तरवर्तिद्रव्येणापरत्वाश्रयेण परत्वनिरूपणम् । तस्य विशिष्टाज्ञानात् । प्रकाशिका । चिदुत्पत्तिः कस्यचिद् विनाश इति मतानुसारेणेदम् । न च महाप्रलयोत्पत्तावव्याप्तिः, तत्र समानकालपदार्थध्वंसाप्रसिद्धेरिति वाच्यम् । स्ववृत्तिध्वंसप्रतियोगियावत्समानकाल पदार्थसमयसम्बन्धस्य तदुत्पत्तित्वात् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणप्रा- गभावाव्याप्तिरपरत्वाश्रयस्यैव परत्वावधित्वादित्यन्यूनतिरिक्तकालीनपदम् । एवं च तादृशं द्रव्य- मादायैव गुणप्राग्भावेऽपि लक्षणं नेयम् । तदन्यूनतिरिक्तकालत्वं च तद्व्यापककालकत्वमतोऽन्त्य- शब्दस्यैव क्षणिकतया तदन्यूनारिक्तकालीनद्रव्याप्रसिद्धेः, तत्प्राग्भावाव्याप्तिरपास्ता, प्रतिक्षणं कस्य चिद् द्रव्यस्य उत्पत्तिः कस्य चिद् विनाश इति मतेनेदम् । प्रतियोगिकालीनेत्येतावति कृते प्राग्- भावस्य प्रतियोग्युत्पत्त्यनन्तरोत्पत्तिकावधिकपरत्वाश्रयप्रतियोग्यसमानकालत्वाद्यावदर्थाभावादव्या- प्तिरिति व्यापकत्वपर्यन्तम् । अत्र केचित् प्रतियोगिकालीनत्वमेव सम्यक् । न चोक्तदोषः, प्रतियोगि- कालीनयत्किञ्चित्पदार्थावधिकयावत्परत्वाश्रयगर्भमेव हि तल्लक्षणम् न तु प्रतियोगिकालीनेऽपि यावत्त्वं विशेषणम् तथा च तत्प्रतियोग्युत्पत्तिकालीनद्रव्यमादायैव सर्वत्र लक्षणमित्याशयादिति । ते भ्रान्ताः, मकरन्दः । तत्समयसम्बन्ध उत्पत्तिरिति भावः । प्रतिक्षणं कस्य चिदुत्पत्तिः कस्य चिन्नाश इति मतानुसारेणे- दम् । प्रतियोग्यन्यूनेति । प्रतियोग्यवधिकेति कृते गुणादिप्राग्भावाव्याप्तिः । तदवधिकपर- त्वाभावात् । अपरत्वाश्रयस्यैव तथात्वादित्यत उक्तमन्यूननातिरिक्तति । तथा च तादृशं द्रव्य- मादाय तत्र लक्षणगमनमिति नोक्तदोषः । प्रतियोगिकालीनेत्येतावति कृते घटध्वंसाव्यवहितपूर्व- क्षणोत्पन्नं प्रतियोगिकालीनं द्रव्यान्तरमादाय तद्घटध्वंसेऽतिव्याप्तिः । तस्य तदवधिकयावत्पर- त्वाश्रयसमानकालीनत्वात्, परत्वापरत्वयोः परस्पराश्रयावधिकत्वस्वीकारेण तत्कालविद्यमानस्यैव टिप्पणी । स्यादिति ध्येयम् । नापि प्रतियोग्यन्यूनतिरिक्तकालीनावधिकेति । अत्र प्रतियोग्यव- धिकेति कृते गुणादिप्राग्भावेऽव्याप्तिः, अपरत्वाश्रयस्यैव परत्वनिरूपकत्वात्, प्रतियोगिकालीनेत्यु- क्तावपि न सामञ्जस्यम् प्रतियोग्यनन्तरोत्पन्नावधिकपरत्वाश्रयप्रतियोग्यसमानकालीनत्वात् प्राग्भाव- स्येत्यव्याप्तेः। नापि प्रतियोगिकालीनयत्किञ्चिदवधिकत्वोक्तावपि । प्रतियोगिक्षणोत्पन्नपदार्थमादाय लक्षणसम्भवेऽपि प्रतियोगिनाशाव्यवहितपूर्वक्षणोत्पन्नावधिकपरत्वस्य नाशकालोत्पत्तिकतया तदानीं तदाश्रयस्यावश्यम्भावनियमेन तत्त्कालीनत्वाद् ध्वंसस्यातिव्याप्तिः। नापि प्रतियोगिकालीनयाव- दवधिकपरत्वाश्रयकालीनत्वम् । यत्किञ्चित्प्रतियोगिकालीनं वस्तु प्रतियोग्याद्याश्रयकमेव परत्वमु- त्पाद्य नष्टं तमादायाव्याप्तेः । सामयिकव्यापकत्वार्थकं प्रतियोग्यन्यूनतिरिक्तकालीनत्वानुधाव- नम् । व्यापकत्वव्यापकव्याप्यत्वयोर्विवक्षणे प्रयोजनाभावः । क्षणिकान्यशब्दप्राग्भावेऽव्याप्तिश्च, प्रतियोगिनस्तथाविधद्रव्याभावात् यावत्त्वाविवक्षायां ध्वंसपर्यन्तस्थायिप्रतियोगिज्येष्ठपदार्थमादाय ध्वंसेऽतिव्यप्तिः। अत्र सर्गीयकालीनपदार्थप्रतियोगिकप्राग्भावाव्याप्तिः, तद्व्यापकं हि द्रव्यं नित्य- मनित्यं वा तत्कालोत्पत्तिकं तस्य परत्वनिरूपकत्वाभावादिति चेत् । तस्य प्रन्योक्तदोषतुल्य- त्वात्तत्रापि ब्रह्माण्डान्तरवर्तिद्रव्यमादाय समाधानस्य सम्भवात्, तदस्वीकारे दोषः, अत्र वदन्ति । नानासर्गस्थायिन्यदृष्टप्राग्भावेऽव्याप्तिः, तादृशादृष्टव्यापकद्रव्याप्रसिद्धेः, एवं