न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 206, कुल 608 में से
संदर्भ में पढ़ें१७२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १४ कारिकावतरणिकायां पारेण, सुषुप्त्यवस्थायां तद्व्यापारविरमेऽपि श्वासप्रयत्नसन्तानावस्थानात् । तद् यदेतास्ववस्थासु संव्यापारमेकमनुवर्त्तते, यदाश्रया चानुभववासना, तदन्तः- करणमुपारूढोऽर्थः पुरुषस्योपधानीभवति । भेदाग्रहाच्च निष्क्रियेऽपि तस्मिन् बोधनी । तन्निरपेक्षतद्दर्शनात् । न च स्वप्नदशायां मनो न व्याप्रियते, तस्माद्विद्यमानेऽपि नरत्वे तदभिमाने च बाह्येन्द्रियनिरपेक्षे मनसि व्याप्रियमाणे च तस्मिन् यद्व्यापारविरही नरत्वाभि- मानानुदयो भवति सोऽपीन्द्रियमनोऽतिरिक्तो नरत्वाभिमानहेतुरङ्गीकार्यः, स एवास्माकमहङ्कार- पदाभिधेय इति । यद्वा, स्वप्नदशायां वराहाद्यभिमानविषयः कश्चिदभ्युपगन्तव्य इत्यर्थः । अन्येषां व्याख्या-यदीन्द्रियं मनक्षोभयं द्वारं तर्हि यदा स्वप्ने मनोद्वारा विषयसम्बन्धः तदैवे- न्द्रियद्वारेणापि स्यात्, ततश्च यथा तत्र वराहोऽहमिति मनसाभिमानः तथेन्द्रियेण नरोऽहमित्य- मानोऽपि भवेत् । न चासावस्ति, तस्मान्नोभयं द्वारमिति । सेयमसमञ्जसत्वादनादर्त्तव्येति । नरत्वे- नार्थोपधानाभावादिति केचित् पठन्ति । तत्र यथा वराहोऽहमिममर्थं जानामीत्यभिमन्यते तथा नरोऽहमिममर्थं जानामीत्यर्थोपधानं नास्ति । तस्मान्नियतविषयाभिमानव्यापारवानन्यः स्वीकर्त्तव्य इत्यर्थः । तर्ह्यहङ्कारोऽप्यस्तु कृतं महतेत्यत्राह-नापि-इति । पूर्ववदनुषङ्गः सुषुप्त्यवस्थाया- महङ्कारपर्यन्तेन्द्रियव्यापारविरामेऽपि शरीरधारणनिमित्तश्वासप्रश्वासहेतोः प्रयत्नसन्तानस्यानुवृत्ते- स्तदतिरिक्तं किञ्चिदस्ति यत् प्रयतमानं शरीरं बिभर्त्ति, स महानिति । तस्य महतः स्वरूपमुप- संहारव्याजेन दर्शयति-तद् देतासु-इति। तत्=तस्मान्न केवलं सुषुप्तौ किन्तु जाग्रत्स्वप्नसुषु- प्त्यवस्थासु सप्रयत्नं यदनुवर्त्तते यदाश्रयश्च स्मृतिहेतुः संस्कारस्तदन्तःकरणमुपारूढ इन्द्रियमनो- ऽहङ्कारव्यापारपरम्परया तत्र प्रतिफलित इति यावत् । तदाहुः- एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ (सां० का० ३६) इति । गुणविशेषा=इन्द्रियाणि । गुणविकारत्वात् पुरुषस्य कृते विषयं परम्परया बुद्धौ प्रयच्छन्ती त्यर्थः । सोऽर्थः स्वच्छस्येवं स्फटिकस्य लाक्षादिश्चैतन्यमात्रस्यात्मन उपरञ्जको भवति । अन्तःक- रणसन्निधानात्तदारूढैः स भिन्न इव भातीति यावदिति यदि बुद्धेरेव व्यापारो न चात्मनश्चेत् तस्य कथं तर्हि चेतने कर्तृत्वाभिमानः योऽहं जानामि स एव करोमीति, कथं वा कर्तरि चैतन्याभिमानः योऽहं करोमि स एव जानामीति, तत्राह-भेदाग्रहात्-इति । कर्तृचेतनयोर्भेदाग्रहादन्यतरस्मि- न्नन्याभिमानः । यथा नैयायिकानां शरीरात्मनोरिति । तच्चोक्तम् - प्रकाशः । व्यापाराभावेऽपि यद्यापारादुच्छ्वासादि तद्बुद्धितत्त्वं कल्प्यमित्यर्थः । उपसंहरति । तद्यदिति । अवस्थासु=जाग्रत्स्वप्नसुषुप्तिषु । अनुभवरूपा वासना संस्कारोऽनुभववासना सांख्यैस्तथाऽङ्गीकारात् । तदन्तःकरणमिति । तस्मिन्नन्तःकरणे बुद्धिरूपे । अर्थो=घटादिः, उपारूढो=ज्ञानरूपतत्परिणामविष- यतया सम्बद्धः पुरुषस्यात्मन उपधानीभवति । उपधायको व्यवधायकः स्वरूपतिरोधायक इति यावत् । यत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गौ व्यवह्रियेते इत्यर्थः । तर्हि कर्ता चेतन इति कृतिचैतन्ययोः कथं सामानाधिकरण्योनुभव इत्यत आह । भेदाग्रहाच्चेति । निष्क्रिये=अकर्त्तरि ॥ तस्मिन्=बुद्धित- प्रकाशिका । तन्मतसंक्षेपः । जाग्रदिति । भावप्रधाननिर्देशः, अन्यथा शन्नन्तस्य धर्म्मिवाचकत्वेनावस्था- मनुवर्त्तते । बुद्धितत्त्वाख्यं तदिति शेषः ।