न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 205, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] अपूर्व्वस्य चेतनधर्मत्वाक्षेपः । १७१ नित्यत्वेनानिर्मोक्षप्रसङ्गात् । नापि घटादिरेवाहृत्य तदीयः, दृष्टादृष्टत्वानुपपत्तेः । नापीन्द्रियमात्रप्रणाडिकया, व्यासङ्गयोगात् । नापीन्द्रियमनोद्वारा, स्वप्नदशायां व- राहव्याघ्राद्यभिमानिनो नरस्यापि नरत्वेनात्मोपधानायोगात् । नाप्यहङ्कारपर्य्यन्तव्या- बोधनी । म्बन्धिस्वस्वभावोऽस्त्वित्यत्राह-नापि-इति । विषयस्यैवाव्यवधानेन तदीयत्वं चेतनीयत्वं चैतन्य- सम्बन्धित्वं स्वभाव इत्यभ्युपगमे यावत्सत्त्वं सर्व्वस्याप्यवभासप्रसङ्गात् कस्यचिद् दृष्टत्वं कस्य- चिददृष्टत्वं कस्यचिन्नोपपद्येतेति । अस्तु तर्हि बाह्येन्द्रियपरिणामः, ततो दृष्टादृष्टव्यवस्थासिद्धेः कृतमन्तःकरणैरित्यत्राह-नापीन्द्रिय-इति । बाह्येन्द्रियमात्रद्वारा घटादेश्चैतन्यसम्बन्धाभ्युपगमे त्विन्द्रियसम्बद्धेऽपि कचिद् विषये कदाचिञ् ज्ञानोत्पत्तेर्व्यासङ्गो विलम्बो दृश्यते, स न घटत इति । तर्हि तदर्थं मनोऽप्यङ्गीक्रियतां किमहङ्कारकल्पनयेत्यत्राह-नापीन्द्रियमनोद्वारा-इति । पूर्व्ववदत्रा- पि घटादिस्तदीय इत्यनुषञ्जनीयम् । कश्चिद्धि नरः स्वप्ने वराहोऽहं व्याघ्रोऽहमिति चात्मानं मनु- ते । तस्य नरस्यापि सतः, नरत्वे विद्यमानेऽपीति यावत् । नरत्वेनात्मोपधानं=नरोऽहमित्यमि- मानो न दृश्यते । न तावदत्र बाह्येन्द्रियवृत्त्यभावान्नारत्वाभिमानानुदयः, जाग्रदवस्थायामपि तस्य प्रकाशः । षयस्यैव चैतन्यसम्बन्धित्वं स्वभावः, तथा च विषयनाशे पुंसो मोक्षः स्यादित्यत आह । नापी- ति । विषयस्य परम्परया चैतन्यसम्बन्धित्वे द्वारीभूतस्येन्द्रियादेरङ्गीकारापत्तिरिति साक्षात् तद्वा- च्यम्, तथाचेदं दृष्टमिदमदृष्टमिति न स्यात् , व्यवहितस्यापि विषयस्य यावत्सत्त्वमवभासप्रसङ्गा- दित्यर्थः । नन्विन्द्रियमात्रद्वारा विषयस्तदीयः स्यात्, किं मनःकल्पनयेत्यत आह । नापीति । व्यासङ्गेति । इन्द्रियसम्बन्धेऽपि व्यासङ्गेन दर्शनाभावादित्यर्थः । ननु व्यासङ्गानुरोधान्मनःसं- युक्तेन्द्रियसम्बद्धविषयस्य चैतन्यावच्छेदकत्वमस्तु, किमहङ्कारेणेत्यत आह । नापोति । यदी- न्द्रियमनोभ्यामेव विषयाः सम्बद्ध्यन्ते, तदा शयानो नरो यथा वराहोऽहमिदं प्रत्येमीति अभिम- न्यते, तथा नरोऽहमिदं प्रत्येमीति नरत्वेनाप्यात्मोपधानं स्यात् । अस्ति हि तत्र नरत्वं सन्निहितम्, अस्ति चेन्द्रियमनयोरपि व्यापारः, अन्यथाऽऽलोचनविकल्पयोरनुत्पादप्रसङ्ग इति तद्विन्नोऽहङ्कारो- ऽनियतविषयाभिमानव्यापारो मन्तव्य इत्यर्थः । बुद्धितत्त्वं साधयति । नाऽपीति । पूर्वेषां प्रकाशिका । कार्यकारणयोस्तादात्म्यात् । द्वितीयन्त्वेकादश इन्द्रियाणि पञ्च महाभूतानि, तृतीयन्तु महदादयः सप्त, चतुर्थे तु पुरुषः । महत्तत्त्वमेव चान्तःकरणं बुद्ध्यख्यं तस्य च सत्त्वप्रधानस्य धर्म्माः धर्म्मज्ञानवैराग्यैश्वर्य्यरूपः तमःप्रधानस्य तद्विपरीताश्चत्वार इत्यष्टौ धर्म्माः । रजसस्तु सत्त्व- तमःप्रेरकत्वमात्रेणोपयोगः । तत्र धर्म्मो यागादिसाध्यः, ज्ञानं सत्त्वपुरुषान्यताज्ञानम्, ऐहिकामुष्मिक- सुखविरक्तस्य परमो वशीकारो वैराग्यम् , ऐश्वर्य्यमणिमादिसम्पत्तिः, एवमहङ्कारादपि त्रिगुणात्मका दन्तःकरणात् सत्त्वप्राधान्येनेन्द्रियाणि, तमःप्राधान्येन पञ्चतन्मात्रा रजसस्तु पूर्व्वदेवोपयोगः । इन्द्रियाणि तु षड् बुद्धीन्द्रियाणि प्रसिद्धान्येव तत्रापि मनो द्विरूपमन्तःकरणमिन्द्रियं च, अन्तःकर- णस्य मनोबुद्धयहङ्कारभेदेन त्रैविध्यात् , कर्मेन्द्रियाण्यपि वाक्पाणिपादपायूपस्थरूपाणि पञ्च इत्यादि मकरन्दः । कारणयोस्तादात्म्यादिति भावः । अन्यथेति । आलोचनं व्यापार इन्द्रियाणाम् । विकल्पस्तु मनस इत्युपगमादिति भावः । माहृत्य=साक्षात् । तदीयः=चैतन्यसम्बन्धी । दृष्टादृष्टत्वानुपपत्तेः = इदं दृष्टमिदञ्च दृष्टमित्यस्यानुपपत्तेः । प्रणाडिकया घटादिस्तदीय इति योजना ।