न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 204, कुल 608 में से
संदर्भ में पढ़ें१७० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकावतरणिकायां आदिकारणं प्रकृतिरचेतना परिणामिनी, ततो महदादिसर्गः। न हि चितिरेव विष- यबन्धनस्वभावा, मनिर्मोक्षप्रसङ्गात्। नापि प्रकृतिरेव तदीयस्वभावा, तस्या अपि बोधनी। भ्यां विधर्मेत्यर्थः। "अपरिणामिन्यप्रतिसङ्क्रमा चितिशक्तिरिति कथं तस्याकारणत्वे सर्ग इत्यत्र कारणं तत्स्वरूपं चाह-आदिकारणम्-इति। सर्वमपि तया क्रियते, न तु सा केन चित्। तदा- हुः-'मूलप्रकृतिरविकृतिः' (सां० का० ३) इति। अचैतन्यादेव परिणामित्वम्। तच्चाहुः- त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानम्' (सां का० ११) इति। केन रूपेण तस्याः परिणाम इत्याह-ततः-इति। ततः=प्रकृतेः। महदहङ्कारेन्द्रियतन्मात्रम- हाभूतात्मनां त्रयोविंशतेस्तत्त्वानां सर्गः। यद्यपि प्रकृतेर्महान् महतोऽहङ्कार इत्यादिक्रमात् परिणामः, तथापि प्रकृतेर्मूलकारणत्वात् तत इत्युक्तम्। ननु पुरुषार्थाय हि प्रवर्तते प्रकृतिः, पुरुषार्थश्च भोगे ऽपवर्गश्च, भोगो विषयानुषङ्गस्तद्वियोगश्च यैः पुरुष उपयुज्यते विभज्यते च त एव शब्दादयः परि- णामभेदाः सन्तु, कृतमितरेण महदादिपरिणामेन। न च विषयसम्बन्धार्थः तत्संसर्गः, नित्यचैतन्यरू- पस्य पुरुषस्य स्वभावतः तत्सम्बन्धोपपत्तेरित्याशङ्कयाह-न हि-इति। चितिश्चैतन्यमात्ररूपः पुरुषः, यदि पुरुषस्वभावानुबन्धी विषयानुषङ्गो भवेत् ततः स्वभावस्यानुच्छेद्यत्वेनानिर्मोक्षः स्या- दिति। तर्हि प्रकृतेरेवैष स्वभावोऽस्तु यद्विषयपाशैः पुरुषं बध्नाति तत्राह-नापि-इति। तदीयत्वं तदर्थ्यं, तदीयभोगोपकरणसम्पादकत्वमिति यावत्। तत्स्वभावत्वे प्रकृतेर्नित्यत्वेन कदाचिदपि निरुपाधित्वानुपपत्तेरनिर्मोक्ष एव पुंस इति। तर्ह्यनित्यस्य घटादेर्विषयस्यैव चैतन्यस- प्रकाशः। नुपपत्त्या तत्कल्पनादिति भावः। आत्मनोऽकारणत्वेऽपि सर्गमुपपादयति। आदीति। आदि- पदाद् महदादिव्यवच्छेदः, तस्य प्रकृत्यनन्तरमुत्पादात्। कारणमिति पुरुषव्यव- च्छेदः। पुरुषाद्भेदकमाह। अचेतनेति। तत्र हेतुमाह। परिणामिनीति। अनित्यध- र्माश्रयस्ततः कार्यधर्मात्मतया नश्यति। ततो घटादिवदचेतनेत्यर्थः। तत इति। प्रकृतेर्महत्तत्त्व- मन्तःकरणं बुद्ध्याख्यम्। "प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात्पञ्चतन्मात्राणी"ति सांख्याः। ननु किमर्थं महदादिसर्गो मन्तव्यो नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्वित्यत आह। न ही- ति। चितिः=पुरुषचैतन्यम्। विषयबन्धनम्=विषयावच्छेदः। चैतन्यविषयावच्छेदस्येष्टानिष्टोप- लब्धिरूपस्य हेतुसापेक्षत्वे हेतोरिन्द्रियादेरङ्गीकारापत्तिः। निरपेक्षतायां सर्वदा तस्य भावादनर्मोक्षः पुंसः स्यादित्यर्थः। तर्हि प्रकृतिरेव साक्षाद्विषयबन्धनस्वभावाऽस्त्वित्यत आह। नापीति। प्रकृ- तेः साक्षाद्विषयप्रकाशकस्वभावत्वे तस्याः सदातनत्वे पुनरप्यनिर्मोक्षः पुंसः स्यादित्यर्थः। ननु वि- प्रकाशिका। पुरुषाद्भेदकमिति। भेदकान्तरमित्यर्थः। अनित्यधर्मेति। तिरोभाव एव तन्मतेऽनित्यत्वम्। कार्यधर्मेति। कार्यकारणयोस्तादात्म्यादिति भावः। कार्यत्वं चावि- र्भावमात्रं तन्मत इति। सांख्या इति। चतुर्विधं जगत् केवलप्रकृत्यात्मकं, केवल- विकृत्यात्मकं, प्रकृतिविकृत्युभयात्मकम्, अनुभयात्मकं चेति। तत्राद्यं मूलप्रकृतिरित्यु- च्यते, सा च सत्त्वरजस्तमसां साम्यावस्था, सत्त्वं सुखं, रजो दुःखं, तमो मोहः, सर्वं कार्यं सुख- दुःखमोहात्मकं तज्जनकत्वात् भोक्तृभेदेन कालभेदेन च तथात्वात्, एवं तत्कारणं प्रकृतिरपि तथा, मकरन्दः। भेदकमिति। भेदकान्तरमित्यर्थः। अनित्येति। यद्यपि सर्वानित्यतावादिनस्तस्य नानित्यं, न वा कार्यम्। तथाप्याविर्भावतिरोभावौ उत्पादविनाशाविति भावः। कार्यधर्मेति। कार्य- विषयबन्धनेति। इष्टानिष्टोपलब्धिरित्यर्थः।