भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 210, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 210

(न्या० ३अ० १आ० २५सू०) इति न्यायादनादितैव सिद्धयति । यद् यच्च कार्ये रूपं- दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् । स्थूलतामपहाय सूक्ष्ममया ते तत्र स- न्तीति चेत्, चैतन्यमपि तथा भविष्यति । तथाप्यसिद्धो हेतुः, तथा सति घटादी- नामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेद् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः । सौ क्ष्म्यं च समानमिति । तस्माद्, यज्जातीयात् कारणाद् यज्जातीयं कार्यं दृश्यते, तथाभूतात् तथाभूतमात्रमनुमातव्यं, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यं व्य-

बोधनी । चं जायमानस्यास्मिन् जन्मनि न सम्भवतीति तदर्थं भावान्तरमाश्रेयम् । एवं पूर्वेष्वपि भावे- ष्वित्यनादित्वमेव कर्तुः सिध्यति । तदाह सूत्रकारो 'वीतरागजन्मादर्शनात्' (न्या० सू० ३.१.२५) इति । अस्त्वचेतनकार्यत्वं बुद्धेः, तथापि तस्याश्चैतन्यं, तच्चैतन्ये कारणचैतन्यं च न प्रसज्यत इत्यनिष्टप्रसङ्गमुखेन दर्शयति-यद्यत्-इति । यदि यावद्धर्मकं कारणं तावद्धर्मकं कार्यमिति स्यात्तर्हि बुद्धेश्चैतन्यवद्रागादयोऽपि न स्युः, भावे वा प्रकृतावपि स्युः ; तत्र कार- णात्मकत्वमिति कारणधर्मत्वं विवक्षितमिति सन्तु रागादयः प्रकृतावित्यत आह-तथा च- इति । एवकारो भिन्नक्रमः । सा प्रकृतिर्बुद्धिरेव स्यात्, न तु प्रकृतिः । भावाष्टकसम्पन्नत्वं हि बुद्धिलक्षणमिति । स्थूलरूपताम्-इति । प्रतीयमानभावाष्टकसंपत्तिर्बुद्धेर्लक्षणम् । प्रकृतौ तु रागादयः सूक्ष्मरूपाः, ततो नोक्तदोष इति । तर्हि रागादिवच्चैतन्यमपि प्रकृतौ सूक्ष्मरूपमभ्यु- पगभ्यतामित्याह-चैतन्यमपि-इति । ततः किमित्यत आह-तथापि-इति । एवमप्यचेतन- कार्यत्वादिति हेतुविशेषणासिद्धः, सूक्ष्मचैतन्ययोगिप्रकृतिकार्यत्वादिति । ननु प्रकृतेश्चैतन्याभ्यु- पगमे तत्कार्याणां घटादीनामपि तथात्वप्रसङ्गः कार्यकारणयोस्तादात्म्यात् तथा चाचेतनकार्यत्वं सिद्धमित्याह-तथा सति-इति । तर्हि प्रकृतौ रागाद्यङ्गीकारे घटादीनामपि तथात्वप्रसङ्ग इत्याह-रागादिमत्त्व-इति । घटादिष्वपि रागादयः सन्त्येव, सूक्ष्मत्वान्नोपलभ्यन्त इत्य- नाह-सौक्ष्म्यं च-इति । तर्हि चैतन्यमपि घटादिषु सदैव सूक्ष्मत्वान्नोपलभ्यत इति वक्तुं शक्यत इति । यद्वा, प्रकृतौ रागादेः सूक्ष्मत्वान्न घटादौ तत्प्रसङ्ग इत्याशङ्क्य तत्र सूक्ष्मचैतन्या- भ्युपगमेऽपि न घटादौ चैतन्यप्रसङ्ग इत्याह-सौक्ष्म्यम्-इति । यत एवं प्रसङ्गः तस्मात् कार्यकारणयोरेवं व्यवस्था न स्वेनेवमित्याह-तस्मात्-इति । व्यभिचारात् कारणेष्वसतामेव धर्माणां कार्येषु दर्शनात् सतामेव चादर्शनादिति । प्रकृतमनुसरामः, किमनेन कार्यकारणयोः

प्रकाशः । त्ती रागजनकैष्टसाधनताज्ञानाधीनेति तदनुमानार्थं जन्मान्तरानुभूतव्याप्तिस्मरणमावश्यकमेवं तत्पू- र्वजन्मनीत्यनादितेत्यर्थः । यद्यदिति । यथा प्रकृतौ रागाद्यभावेऽपि तत्कार्यबुद्धौ रागादिस्तथा प्रकृतेरचैतन्येऽपि सा चेतना स्यादित्यर्थः । तथाचेति । प्रकृतौ रागादिस्वीकारे तल्लिङ्गबुद्धितरत्व एव मानाभावाद् इत्यर्थः । तथेति । प्रकृतावपि सूक्ष्मं चैतन्यमित्यर्थः । असिद्ध इति । अचे- तनकार्यत्वादित्यत्र विशेषणासिद्धेरित्यर्थः । तथा सतीति । बुद्धेश्चैतन्ये तज्जन्यघटादेरपि तत् स्यादित्यर्थः । रागादीति । घटादे रागादिमद्बुद्धिजन्यत्वादित्यर्थः । सौक्ष्म्यं चेति । घटादौ रागादेरिव चैतन्यस्यापि सूक्ष्मत्वा दित्यर्थः । कारणात्मकत्वम् । धर्मधर्मिणोस्तादात्म्यात् ।