न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 210, कुल 608 में से
संदर्भ में पढ़ें(न्या० ३अ० १आ० २५सू०) इति न्यायादनादितैव सिद्धयति । यद् यच्च कार्ये रूपं- दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् । स्थूलतामपहाय सूक्ष्ममया ते तत्र स- न्तीति चेत्, चैतन्यमपि तथा भविष्यति । तथाप्यसिद्धो हेतुः, तथा सति घटादी- नामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेद् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः । सौ क्ष्म्यं च समानमिति । तस्माद्, यज्जातीयात् कारणाद् यज्जातीयं कार्यं दृश्यते, तथाभूतात् तथाभूतमात्रमनुमातव्यं, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यं व्य-
बोधनी । चं जायमानस्यास्मिन् जन्मनि न सम्भवतीति तदर्थं भावान्तरमाश्रेयम् । एवं पूर्वेष्वपि भावे- ष्वित्यनादित्वमेव कर्तुः सिध्यति । तदाह सूत्रकारो 'वीतरागजन्मादर्शनात्' (न्या० सू० ३.१.२५) इति । अस्त्वचेतनकार्यत्वं बुद्धेः, तथापि तस्याश्चैतन्यं, तच्चैतन्ये कारणचैतन्यं च न प्रसज्यत इत्यनिष्टप्रसङ्गमुखेन दर्शयति-यद्यत्-इति । यदि यावद्धर्मकं कारणं तावद्धर्मकं कार्यमिति स्यात्तर्हि बुद्धेश्चैतन्यवद्रागादयोऽपि न स्युः, भावे वा प्रकृतावपि स्युः ; तत्र कार- णात्मकत्वमिति कारणधर्मत्वं विवक्षितमिति सन्तु रागादयः प्रकृतावित्यत आह-तथा च- इति । एवकारो भिन्नक्रमः । सा प्रकृतिर्बुद्धिरेव स्यात्, न तु प्रकृतिः । भावाष्टकसम्पन्नत्वं हि बुद्धिलक्षणमिति । स्थूलरूपताम्-इति । प्रतीयमानभावाष्टकसंपत्तिर्बुद्धेर्लक्षणम् । प्रकृतौ तु रागादयः सूक्ष्मरूपाः, ततो नोक्तदोष इति । तर्हि रागादिवच्चैतन्यमपि प्रकृतौ सूक्ष्मरूपमभ्यु- पगभ्यतामित्याह-चैतन्यमपि-इति । ततः किमित्यत आह-तथापि-इति । एवमप्यचेतन- कार्यत्वादिति हेतुविशेषणासिद्धः, सूक्ष्मचैतन्ययोगिप्रकृतिकार्यत्वादिति । ननु प्रकृतेश्चैतन्याभ्यु- पगमे तत्कार्याणां घटादीनामपि तथात्वप्रसङ्गः कार्यकारणयोस्तादात्म्यात् तथा चाचेतनकार्यत्वं सिद्धमित्याह-तथा सति-इति । तर्हि प्रकृतौ रागाद्यङ्गीकारे घटादीनामपि तथात्वप्रसङ्ग इत्याह-रागादिमत्त्व-इति । घटादिष्वपि रागादयः सन्त्येव, सूक्ष्मत्वान्नोपलभ्यन्त इत्य- नाह-सौक्ष्म्यं च-इति । तर्हि चैतन्यमपि घटादिषु सदैव सूक्ष्मत्वान्नोपलभ्यत इति वक्तुं शक्यत इति । यद्वा, प्रकृतौ रागादेः सूक्ष्मत्वान्न घटादौ तत्प्रसङ्ग इत्याशङ्क्य तत्र सूक्ष्मचैतन्या- भ्युपगमेऽपि न घटादौ चैतन्यप्रसङ्ग इत्याह-सौक्ष्म्यम्-इति । यत एवं प्रसङ्गः तस्मात् कार्यकारणयोरेवं व्यवस्था न स्वेनेवमित्याह-तस्मात्-इति । व्यभिचारात् कारणेष्वसतामेव धर्माणां कार्येषु दर्शनात् सतामेव चादर्शनादिति । प्रकृतमनुसरामः, किमनेन कार्यकारणयोः
प्रकाशः । त्ती रागजनकैष्टसाधनताज्ञानाधीनेति तदनुमानार्थं जन्मान्तरानुभूतव्याप्तिस्मरणमावश्यकमेवं तत्पू- र्वजन्मनीत्यनादितेत्यर्थः । यद्यदिति । यथा प्रकृतौ रागाद्यभावेऽपि तत्कार्यबुद्धौ रागादिस्तथा प्रकृतेरचैतन्येऽपि सा चेतना स्यादित्यर्थः । तथाचेति । प्रकृतौ रागादिस्वीकारे तल्लिङ्गबुद्धितरत्व एव मानाभावाद् इत्यर्थः । तथेति । प्रकृतावपि सूक्ष्मं चैतन्यमित्यर्थः । असिद्ध इति । अचे- तनकार्यत्वादित्यत्र विशेषणासिद्धेरित्यर्थः । तथा सतीति । बुद्धेश्चैतन्ये तज्जन्यघटादेरपि तत् स्यादित्यर्थः । रागादीति । घटादे रागादिमद्बुद्धिजन्यत्वादित्यर्थः । सौक्ष्म्यं चेति । घटादौ रागादेरिव चैतन्यस्यापि सूक्ष्मत्वा दित्यर्थः । कारणात्मकत्वम् । धर्मधर्मिणोस्तादात्म्यात् ।