न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 218, कुल 608 में से
संदर्भ में पढ़ें१८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥१६॥ न हि करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्य- भ्युपगमे क्षणिकत्वसिद्धिः। तथैकव्यक्तावप्यविरोधात्, तद्वा तादृग्वेति न क- श्चिद्विशेष इति न्यायात्। ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेयम्। एवञ्च कारणवत् कार्येऽपि किञ्चिद् वैजात्यं स्याद् यस्य कारणापेक्षा, न तु बोधनी। नया कार्यादिलिङ्गकमनुमानमेवोच्छिद्येत। नन्वनुमानोच्छेदोऽस्माकं चार्वाकाणामिष्ट एवेत्यत आह-विना तेन-इति । न ह्यनुमानेन विना क्षणिकत्वसिद्धिः प्रमाणान्तराभावात्। नन्वस्ति प्रत्यक्षमित्यत्राह-नाध्यक्षम्-इति । कुत इत्यत्राह-निश्चयं विना-इति । निश्चयो विकल्प- स्तेन विना न निर्विकल्पमात्रं क्वचिदपि प्रमाणं, निश्चयश्चात्र नास्तीति । व्याचष्टे-न हि-इति । तन्त्रं = प्रधानम् प्रयोजकमिति यावत् । कथं न सिद्धिर्यावता साजात्येऽपि करणाकरणलक्षणविरुद्धधर्मसंसर्गाद् व्यक्तिभेदः सिध्यतीत्यत्राह-तथा-इति । एकजातीयवदेकस्यामपि व्यक्तौ सहकारिवशेन करणाकरणयोरविरोधादिति । तद्वा इति । तत् = पूर्वकालवर्तिबीजं, तादृक् = तज्जातीयव्यक्त्यन्तरम् , यथा तज्जातीयस्यैव सतः करणाकरणे तथैकस्या एव व्यक्तीर्भविष्यत इत्यर्थः । उपसंहरति-ततः इति । तौ = प्रामाणिकौ सहकारिलाभालाभौ, अप्रामाणिकमिति वक्ष्यमाणोपयोगितयोक्तम् , अभ्युपग- न्तव्यं क्षणिकत्वसिद्धय इति शेषः । अस्तु वैजात्यमिष्टमेव हि नस्तदित्यत्र न तस्मिन्ननुमा भवेदित्येतदुपपादयितुमुपक्रमते - एवम्-इति । यदि कारणेऽनुपलभ्यमानस्यैव वैजात्यस्य प्रकाशः। र्थस्यैव सतः कार्यजननाजननयोः सहकारिसाहित्याभावाभ्यामेवोपपत्तेः। तस्मिन्=वैजात्ये व सति क्वाप्यनुमितिर्न स्यात्, उपस्थितं कारणगतरूपं परित्यज्यानुपलभ्यमानरूपान्तरेण कारणत्वे कार्येऽ- प्युपस्थितरूपमपहायानुपलभ्यमानरूपान्तरेण कार्यत्वशङ्कया कार्यकारणभावाग्रहात्। तेन चानु- मानेन विना न तत्सिद्धिः, क्षणिकत्वसिद्धिरित्यर्थः । न च प्रत्यक्षादेव क्षणिकत्वसिद्धिरित्याह । नाध्यक्षमिति । अध्यक्षं = निर्विकल्पकम् । निश्चयः = सविकल्पकम् । क्षणिकत्वनिश्चयाभावान्न तदुन्नेयं क्षणिकत्वनिर्विकल्पकमित्यर्थः । तज्जातीस्येति । पूर्वविशिष्टतज्जातीयस्यैवेत्यर्थः । तथैकेति । यैव पूर्वव्यक्तिः सहकारिवैधुर्यात् कार्यं मा कार्षीत् सैव तत्प्राप्तौ करोतीत्यत्र विरो- धाभावादित्यर्थः । ननु दृष्टसज्जातीयाऽपि व्यक्तिस्तदन्यैवेत्यत आह । तद्वेति । तत् = यदेव पूर्वकालवृत्ति तदेवोत्तरकालवृत्ति । तादृग्वैजात्यशून्यमन्यदित्यर्थः । ननु दृष्टजातीयस्य कारणं विना करणाकरणयोः = कार्यजनकत्वाजनकत्वप्रयुक्ततयाऽभ्युपगतयोः कार्योत्पादनानुत्पादनयोः । तज्जातीयस्य = बीजत्वेन जनककुर्वद्रूपजातीयस्य, अनेन स्वरूपजनकत्वं प्रदर्शितम् । अर्थ- क्रियाकारिणः अर्थक्रियाकारितास्वरूपयोग्यतात्मिका कुसूलस्थस्य कुर्वद्रूपस्य चाविशिष्टैव तथापि न काचित् क्षतिः, स्वरूपयोग्यत्वेऽपि कार्यप्रसङ्गस्य सहकारिविरहादुपपत्तेरित्याशयः। क्षणि- कत्वसिद्धिरिति । कुसूलावस्थितिमन्त्याङ्कुरावयवहितपूर्वपर्यन्तमेकबीजव्यक्त्यभ्युपगमे कार्य- प्रसङ्गविपर्ययौ स्यातामिति क्षणिकत्वं सिध्यति ती चेत् सहकारिलाभालाभाभ्यामुपपन्नौ कुतः क्षणि- कत्वमित्याशयः । तथेति । यथैकजातीयस्य स्वरूपयोग्यत्वेऽपि कार्यजननाजननयोर्विरोधः सह- कारिलाभालाभाभ्याम् तथेत्यर्थः । एकव्यक्तौ = कुसूलस्थाभिन्नायामपि कुर्वद्रूपव्यक्तौ । अविरो- धात् = कार्योत्पादकत्वानुत्पादकत्वयोरविरोधात् । कश्चिद्विशेष इति । भेदेऽप्येकजातीयत्वापगमे