न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 217, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८३ किन्तु सादृश्यतिरस्कृतत्वाद् द्रागेव न विकल्प्यते, कार्यदर्शनादध्यवसीयते ऽन्- त्यातिशयवत् । तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धान- नियमाद्योऽप्युपपद्यन्ते । क्षणिकत्वसिद्ध्यावेवमेतत्, तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् । अपि च— न वैजात्यं विना तत् स्यान्न तस्मिन्नलुमा भवेत् । बोधनी । त्वप्रसङ्गात् न व्यतिरिच्यत इति वक्तव्यम्, तदा च सहकारिसमवधानाद्भावान्तरमेव जायत इति स्यादित्यन क्षणभङ्गसिद्धिरिति । एवं तर्हि पूर्वबीजवैलक्षण्येनोत्तरं बीजमनुभूयेतेत्यत आह- किन्त्विति । भिन्नो भावः सादृश्यतिरस्कृतभेदत्वादापातः तथा न विकल्प्यते न निश्चीयते वर्तमानक्षणावगाहिना तु निर्विकल्पकेनानुभूयत एवेत्यर्थः । पश्चाद्वा निश्चयः कुतस्त्य इत्यत्राह- कार्यदर्शनात्-इति । कुसूलस्थाद्विलक्षणभावानुत्पादे तद्वदेवानारम्भप्रसङ्गात् क्षित्यादिभिरङ्- कुरसमर्थं भावान्तरं जायत इति निश्चिनुमः । अन्त्यातिशयवत्-इति । यथा स्थिरवादि- नोऽपि जनकावस्थायाामजनकावस्थातोऽतिशय कार्यदर्शनावसीयते । यद्वा अन्त्योऽतिशयः सामग्री, सा यथा कार्यैकसमधिगम्या तथातिशयोऽपीति । यद्वा, अन्त्यातिशयो घटादेरन्यो विजातीयः कपालादिसंतानः, स यथा प्रत्यक्षेणावसीयते तथा प्रतिक्षणभङ्गोऽपि विलक्षणकार्यदर्श- नान्निन्नीयत इति । अस्तु क्षणभङ्गः, प्रकृते किमायात मित्यत्राह—तथा च-इति । भूतानामुपादा- नोपादेयभावनियमेन प्रतिसंधानभोगनियमोपपत्तिरिति । सिद्धान्त्याह क्षणिकत्व इति । अन्यत्र- इति । अन्यत्र=आत्मतत्त्वविवेके । न तावता श्रोतॄणां सन्तोष इत्यत्रापि किञ्चिदाह-अपि-इति । यद्यङ्कुरानारम्भकाद् बीजात्तदारम्भकस्य वैजात्यं कुर्वद्रूपं नाङ्गीक्रियेत तर्हि क्षणिकत्वं न सिद्ध्येत् । एकजातीयत्वे हि तयोः सहकारिलाभालाभाभ्यामेवारम्भाणारम्भनियमो वक्तव्यः, तस्य चैकस्यामेव व्यक्तौ सुवचत्वान्न क्षणिकत्वसिद्धिरिति भावः । अस्तु तर्हि वैजात्यमित्यत्राह—न तस्मिन्-इति । तस्मिन्नप्रामाणिक एव वैजात्येऽङ्गीक्रियमाणे कारणवत् कार्येऽपि वैजात्यसंभाव- प्रकाशः। स्वभावादित्यर्थः । किं त्विति । सादृश्यवशात् तथाभूतोऽपि न तथात्वेनापाततो निश्चीयत इत्यर्थः । तत् किमनिश्चय एव, नेत्याह । कार्येति । स्थैर्ये सहकार्यपेक्षणानुपपत्तेः पूर्वापरकालयोः कार्यदर्शनादर्शनाभ्यामतिशयोऽवसीयत इत्यर्थः । अन्त्यातिशयः=सामग्री । सामग्रीवत् कार्यैकसमधिगम्यत्वान्नानुपलम्भमात्रेण निराक्रियत इति भावः। प्रकृतेन सङ्गमयति । तथा चेति । न वैजात्यमिति । असमर्थव्यावृत्तकुर्वद्रूपत्वं विना, न तत्=क्षणिकत्वम् । अन्यथा सम- प्रकाशिका। स्येति ध्येयम् । यतिरिच्यत इति मूलस्य विविच्य न गृह्यत इति व्याख्या विवेकावधिमाह । असमर्थेति । एवं च विविच्य न गृह्यत इत्यत्र न चेत्यस्य सम्बन्धे विविच्य गृह्यते एवे- त्यर्थपर्यवसाने पूर्वोक्तापादने इष्टापत्तिरिति भावः । आपातत इति । निश्चायकाभावादिति भावः । सादृश्यस्या निश्चयहेतोरग्रेऽपि सत्त्वात् कथं निश्चय इत्याशयेनाह । तत्किमिति । मकरन्दः । केति । यद्यपि क्रमयौगपद्ययोः प्रत्येकं मिलिततया वा नार्थक्रियाव्यापकत्वं, तथापि तदन्यतर- त्वेन व्यापकत्वम् । अर्थक्रियाकारिणि क्रमकारित्वयुगपत्कारित्वान्यतरनियमादिति बोध्यम् । अति- रिच्यत इत्यस्यैव विविच्य न गृह्यत इत्यर्थः । तत्र, न चेति सम्बन्धे विविच्य गृह्यत एवातिशय इत्यर्थपर्यवसाने सातिशयव्यक्त्युत्पादौ गृह्येतेत्यत्रेष्टापत्तिरिति भावः । आपातत इति । निश्चायका- भावादिति भावः । सादृश्यस्याग्रेऽपि सत्त्वान्निश्चायकाभावस्तुल्य इत्याशयेनाह । तत्किमिति ।