न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८३ किन्तु सादृश्यतिरस्कृतत्वाद् द्रागेव न विकल्प्यते, कार्यदर्शनादध्यवसीयते ऽन्- त्यातिशयवत् । तथा च भूतान्येव तथा तथोत्पद्यन्ते, यथा यथा प्रतिसन्धान- नियमाद्योऽप्युपपद्यन्ते । क्षणिकत्वसिद्ध्यावेवमेतत्, तदेव त्वन्यत्र विस्तरेण प्रतिषिद्धम् । अपि च— न वैजात्यं विना तत् स्यान्न तस्मिन्नलुमा भवेत् । बोधनी । त्वप्रसङ्गात् न व्यतिरिच्यत इति वक्तव्यम्, तदा च सहकारिसमवधानाद्भावान्तरमेव जायत इति स्यादित्यन क्षणभङ्गसिद्धिरिति । एवं तर्हि पूर्वबीजवैलक्षण्येनोत्तरं बीजमनुभूयेतेत्यत आह- किन्त्विति । भिन्नो भावः सादृश्यतिरस्कृतभेदत्वादापातः तथा न विकल्प्यते न निश्चीयते वर्तमानक्षणावगाहिना तु निर्विकल्पकेनानुभूयत एवेत्यर्थः । पश्चाद्वा निश्चयः कुतस्त्य इत्यत्राह- कार्यदर्शनात्-इति । कुसूलस्थाद्विलक्षणभावानुत्पादे तद्वदेवानारम्भप्रसङ्गात् क्षित्यादिभिरङ्- कुरसमर्थं भावान्तरं जायत इति निश्चिनुमः । अन्त्यातिशयवत्-इति । यथा स्थिरवादि- नोऽपि जनकावस्थायाामजनकावस्थातोऽतिशय कार्यदर्शनावसीयते । यद्वा अन्त्योऽतिशयः सामग्री, सा यथा कार्यैकसमधिगम्या तथातिशयोऽपीति । यद्वा, अन्त्यातिशयो घटादेरन्यो विजातीयः कपालादिसंतानः, स यथा प्रत्यक्षेणावसीयते तथा प्रतिक्षणभङ्गोऽपि विलक्षणकार्यदर्श- नान्निन्नीयत इति । अस्तु क्षणभङ्गः, प्रकृते किमायात मित्यत्राह—तथा च-इति । भूतानामुपादा- नोपादेयभावनियमेन प्रतिसंधानभोगनियमोपपत्तिरिति । सिद्धान्त्याह क्षणिकत्व इति । अन्यत्र- इति । अन्यत्र=आत्मतत्त्वविवेके । न तावता श्रोतॄणां सन्तोष इत्यत्रापि किञ्चिदाह-अपि-इति । यद्यङ्कुरानारम्भकाद् बीजात्तदारम्भकस्य वैजात्यं कुर्वद्रूपं नाङ्गीक्रियेत तर्हि क्षणिकत्वं न सिद्ध्येत् । एकजातीयत्वे हि तयोः सहकारिलाभालाभाभ्यामेवारम्भाणारम्भनियमो वक्तव्यः, तस्य चैकस्यामेव व्यक्तौ सुवचत्वान्न क्षणिकत्वसिद्धिरिति भावः । अस्तु तर्हि वैजात्यमित्यत्राह—न तस्मिन्-इति । तस्मिन्नप्रामाणिक एव वैजात्येऽङ्गीक्रियमाणे कारणवत् कार्येऽपि वैजात्यसंभाव- प्रकाशः। स्वभावादित्यर्थः । किं त्विति । सादृश्यवशात् तथाभूतोऽपि न तथात्वेनापाततो निश्चीयत इत्यर्थः । तत् किमनिश्चय एव, नेत्याह । कार्येति । स्थैर्ये सहकार्यपेक्षणानुपपत्तेः पूर्वापरकालयोः कार्यदर्शनादर्शनाभ्यामतिशयोऽवसीयत इत्यर्थः । अन्त्यातिशयः=सामग्री । सामग्रीवत् कार्यैकसमधिगम्यत्वान्नानुपलम्भमात्रेण निराक्रियत इति भावः। प्रकृतेन सङ्गमयति । तथा चेति । न वैजात्यमिति । असमर्थव्यावृत्तकुर्वद्रूपत्वं विना, न तत्=क्षणिकत्वम् । अन्यथा सम- प्रकाशिका। स्येति ध्येयम् । यतिरिच्यत इति मूलस्य विविच्य न गृह्यत इति व्याख्या विवेकावधिमाह । असमर्थेति । एवं च विविच्य न गृह्यत इत्यत्र न चेत्यस्य सम्बन्धे विविच्य गृह्यते एवे- त्यर्थपर्यवसाने पूर्वोक्तापादने इष्टापत्तिरिति भावः । आपातत इति । निश्चायकाभावादिति भावः । सादृश्यस्या निश्चयहेतोरग्रेऽपि सत्त्वात् कथं निश्चय इत्याशयेनाह । तत्किमिति । मकरन्दः । केति । यद्यपि क्रमयौगपद्ययोः प्रत्येकं मिलिततया वा नार्थक्रियाव्यापकत्वं, तथापि तदन्यतर- त्वेन व्यापकत्वम् । अर्थक्रियाकारिणि क्रमकारित्वयुगपत्कारित्वान्यतरनियमादिति बोध्यम् । अति- रिच्यत इत्यस्यैव विविच्य न गृह्यत इत्यर्थः । तत्र, न चेति सम्बन्धे विविच्य गृह्यत एवातिशय इत्यर्थपर्यवसाने सातिशयव्यक्त्युत्पादौ गृह्येतेत्यत्रेष्टापत्तिरिति भावः । आपातत इति । निश्चायका- भावादिति भावः । सादृश्यस्याग्रेऽपि सत्त्वान्निश्चायकाभावस्तुल्य इत्याशयेनाह । तत्किमिति ।
१८४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां विना तेन न तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥१६॥ न हि करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्य- भ्युपगमे क्षणिकत्वसिद्धिः। तथैकव्यक्तावप्यविरोधात्, तद्वा तादृग्वेति न क- श्चिद्विशेष इति न्यायात्। ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेयम्। एवञ्च कारणवत् कार्येऽपि किञ्चिद् वैजात्यं स्याद् यस्य कारणापेक्षा, न तु बोधनी। नया कार्यादिलिङ्गकमनुमानमेवोच्छिद्येत। नन्वनुमानोच्छेदोऽस्माकं चार्वाकाणामिष्ट एवेत्यत आह-विना तेन-इति । न ह्यनुमानेन विना क्षणिकत्वसिद्धिः प्रमाणान्तराभावात्। नन्वस्ति प्रत्यक्षमित्यत्राह-नाध्यक्षम्-इति । कुत इत्यत्राह-निश्चयं विना-इति । निश्चयो विकल्प- स्तेन विना न निर्विकल्पमात्रं क्वचिदपि प्रमाणं, निश्चयश्चात्र नास्तीति । व्याचष्टे-न हि-इति । तन्त्रं = प्रधानम् प्रयोजकमिति यावत् । कथं न सिद्धिर्यावता साजात्येऽपि करणाकरणलक्षणविरुद्धधर्मसंसर्गाद् व्यक्तिभेदः सिध्यतीत्यत्राह-तथा-इति । एकजातीयवदेकस्यामपि व्यक्तौ सहकारिवशेन करणाकरणयोरविरोधादिति । तद्वा इति । तत् = पूर्वकालवर्तिबीजं, तादृक् = तज्जातीयव्यक्त्यन्तरम् , यथा तज्जातीयस्यैव सतः करणाकरणे तथैकस्या एव व्यक्तीर्भविष्यत इत्यर्थः । उपसंहरति-ततः इति । तौ = प्रामाणिकौ सहकारिलाभालाभौ, अप्रामाणिकमिति वक्ष्यमाणोपयोगितयोक्तम् , अभ्युपग- न्तव्यं क्षणिकत्वसिद्धय इति शेषः । अस्तु वैजात्यमिष्टमेव हि नस्तदित्यत्र न तस्मिन्ननुमा भवेदित्येतदुपपादयितुमुपक्रमते - एवम्-इति । यदि कारणेऽनुपलभ्यमानस्यैव वैजात्यस्य प्रकाशः। र्थस्यैव सतः कार्यजननाजननयोः सहकारिसाहित्याभावाभ्यामेवोपपत्तेः। तस्मिन्=वैजात्ये व सति क्वाप्यनुमितिर्न स्यात्, उपस्थितं कारणगतरूपं परित्यज्यानुपलभ्यमानरूपान्तरेण कारणत्वे कार्येऽ- प्युपस्थितरूपमपहायानुपलभ्यमानरूपान्तरेण कार्यत्वशङ्कया कार्यकारणभावाग्रहात्। तेन चानु- मानेन विना न तत्सिद्धिः, क्षणिकत्वसिद्धिरित्यर्थः । न च प्रत्यक्षादेव क्षणिकत्वसिद्धिरित्याह । नाध्यक्षमिति । अध्यक्षं = निर्विकल्पकम् । निश्चयः = सविकल्पकम् । क्षणिकत्वनिश्चयाभावान्न तदुन्नेयं क्षणिकत्वनिर्विकल्पकमित्यर्थः । तज्जातीस्येति । पूर्वविशिष्टतज्जातीयस्यैवेत्यर्थः । तथैकेति । यैव पूर्वव्यक्तिः सहकारिवैधुर्यात् कार्यं मा कार्षीत् सैव तत्प्राप्तौ करोतीत्यत्र विरो- धाभावादित्यर्थः । ननु दृष्टसज्जातीयाऽपि व्यक्तिस्तदन्यैवेत्यत आह । तद्वेति । तत् = यदेव पूर्वकालवृत्ति तदेवोत्तरकालवृत्ति । तादृग्वैजात्यशून्यमन्यदित्यर्थः । ननु दृष्टजातीयस्य कारणं विना करणाकरणयोः = कार्यजनकत्वाजनकत्वप्रयुक्ततयाऽभ्युपगतयोः कार्योत्पादनानुत्पादनयोः । तज्जातीयस्य = बीजत्वेन जनककुर्वद्रूपजातीयस्य, अनेन स्वरूपजनकत्वं प्रदर्शितम् । अर्थ- क्रियाकारिणः अर्थक्रियाकारितास्वरूपयोग्यतात्मिका कुसूलस्थस्य कुर्वद्रूपस्य चाविशिष्टैव तथापि न काचित् क्षतिः, स्वरूपयोग्यत्वेऽपि कार्यप्रसङ्गस्य सहकारिविरहादुपपत्तेरित्याशयः। क्षणि- कत्वसिद्धिरिति । कुसूलावस्थितिमन्त्याङ्कुरावयवहितपूर्वपर्यन्तमेकबीजव्यक्त्यभ्युपगमे कार्य- प्रसङ्गविपर्ययौ स्यातामिति क्षणिकत्वं सिध्यति ती चेत् सहकारिलाभालाभाभ्यामुपपन्नौ कुतः क्षणि- कत्वमित्याशयः । तथेति । यथैकजातीयस्य स्वरूपयोग्यत्वेऽपि कार्यजननाजननयोर्विरोधः सह- कारिलाभालाभाभ्याम् तथेत्यर्थः । एकव्यक्तौ = कुसूलस्थाभिन्नायामपि कुर्वद्रूपव्यक्तौ । अविरो- धात् = कार्योत्पादकत्वानुत्पादकत्वयोरविरोधात् । कश्चिद्विशेष इति । भेदेऽप्येकजातीयत्वापगमे
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८५ दृष्टजातीयस्येतिशङ्कया न तदुत्पत्तिसिद्धिः । दृष्टजातीयमाकस्मिकं स्यादिति चेन्न । तत्राऽपि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरोधात् । न कार्यस्य विशेषस्तत्प्रयुक्ततयोपलभ्यते, नापि कार्यसामान्यस्यान्यत् प्रयोजकं दृश्यत इति चेत् । तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः ? कारणसा- बोधनी । कार्यप्रयोजकत्वेनाभ्युपगमः, तर्हि तद्देव कार्येऽप्यनुपलभ्यमान एव कश्चिज्जातिभेदः स्यात् यस्य वह्न्यादिकारणापेक्षा, न तु दृष्टधूमादिजातीयस्य वह्न्याद्यपेक्षेति शङ्कावकाशात् न प्रतिबन्धनिवन्धनं तदुत्पत्तिः सिध्यति, तत्=कार्यलिङ्गकानुमानेनेति भावः । दृष्ट-इति । यदि धूमाद्यवान्तरजातिभेदे वह्न्यादेरुपयोगः, तर्हि दृश्यमानं धूमादिजातीयमहेतुकं स्यात्, ततः कार्येऽवान्तरजातिशङ्कानवकाशेति । न इति । वह्नयादेर्धमावान्तरजातिभेदोपयोगेऽपि न धूमा- दिजातीयस्याकस्मिकत्वविरोधः, तत्रापि वह्न्यादेरन्यदेव किञ्चिदनुपलभ्यमानं प्रयोजकं भविष्य- तीत्यप्रामाणिकमेवाभ्युपगच्छतः किं नाम दुर्लभमिति भावः । न कार्यस्य विशेषः- इति । धू- मादिगतविशेषो न वह्न्यादिप्रयुक्ततयोपलभ्यते, नापि कार्यमात्रस्य धूमादिजातीयस्यान्यत् प्रयोजकं दृश्यते, तेनानुपलभ्यमानयोः प्रयोज्यप्रयोजकत्वकल्पनमेव विरोध इति । तत्किम्-इति । वह्न्यादिकारणगतो विशेषो धूमादिसामान्यप्रयोजको नोपलभ्यते । वह्नयादिविशेषस्य धूमादिप्र- योजकत्वे वह्न्यादिसामान्यस्यान्यत्प्रयोजनं वक्तव्यमर्थक्रियाविरहिणः सत्त्वानुपपत्तेः । तच्च नोपलभ्यते, तेन समानस्तादृशो विरोध इत्यनुपलभ्यमानोऽपि कारणगतो विशेषः शङ्किष्यते प्रकाशः । भवत आकस्मिकत्वं स्यात् । तथा च कादाचित्कत्वव्याघात इत्यत आह । दृष्टेति । कारणं विना कार्यस्योक्तदोषो, न तु दृष्टजातीयं विनेति तत्र कारणान्तरं स्यादित्याह । तत्रापीति । न कार्यस्येति । कारणविशेषप्रयोज्यं कार्यस्य वैजात्यं, दृष्टजातीयस्य च प्रयोजकान्तरं योग्यानुपलब्धिबाधितमित्यर्थः । तत्किमिति । कुर्वद्रूपत्वमपि न कार्यं प्रति कारणतावच्छेदकं दृष्टम् , न चोपस्थितकारणतावच्छेदकरूपस्य प्रयोज्यान्तरमिति तदपि तथेत्यर्थः । न चेष्टा- पत्तिः । तेन रूपेणार्थक्रियारहितत्वात् त्वन्मते प्रामाणिकत्वं न स्यादित्यर्थः । अथ निश्चयेन प्रकाशिका । तदपि तथेति ! कुर्वद्रूपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः । ननु यदि बीजत्वावच्छिन्नस्य न प्रयोज्यान्तरं दृश्यते तदा मास्तु, अस्माकमिष्टमेव तदित्याशङ्कयाह । न चेष्टापत्तिरिति । कश्चितु अस्तु बीजत्वमेवाङ्कुरप्रयोजकमित्याशङ्कायां न चेष्टापत्तिरिति पक्तिक्का तथा सति तेन रूपेण कुर्वत्त्वेन प्रामाणिकत्वं न स्यादित्युत्तरप्रतीकार्थ इत्याह । विरोधोऽसामानाधिकरण्यम् । न च जातिसङ्कर- मकरन्दः । तदपि तथेति । कुर्वद्रूपत्वमपि योग्यानुपलब्धिबाधितमित्यर्थः । न चेष्टापत्तिरिति । उपस्थितबीजत्वाद्येवाङ्कुरादिप्रयोजकमस्त्वित्यर्थः । तेनेति । बीजत्वादिनेत्यर्थः । तथा च ताह- प्रवृत्त्योपयिकस्वरूपयोग्यात्मकाकारणतायां कार्यप्रसङ्गवारणे यथा • न विशेषस्तथाऽभेदेऽपि न विशेष इत्यर्थः । न तदुत्पत्तिसिद्धिरिति । कारणत्वेन निर्णीतदृष्टजातीयकार्योत्पत्तिनिर्णय इत्यर्थः । तथा च धूमसामान्यलिङ्गेन वह्नयनुमितेरपलापः । विशेषस्त्वनिर्णीत एवेति, न लिङ्गताव- च्छेदकत्वयोग्य इति भावः । तत्प्रयुक्ततयेति । दृष्टजातीयकार्यप्रयोजकतया गृहीतस्य कल्पित- वैजात्यवतः सकारणस्य प्रयुक्ततयेत्यर्थः । अन्यदिति । कल्पितविशेषवतः कारणादन्यदित्यर्थः । २४ न्या० कु०
१९६ व्याख्यात्रयोपेतप्रकाशबोधनीयुतन्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां मानस्य वान्यत् प्रयोज्यान्तरं दृश्यते ? यतो विवक्षितसिद्धिः स्यात् । शङ्का तू- भयत्रापि सुलभेति । कार्यजन्म-जन्माभ्यामुन्नीयत इति चेत् । न । सहकारिला- भालाभाभ्यामेवोपपत्तेः । उन्नीयतां वा, कार्येषु शङ्किष्यते, निषेधकाभावात् । न हि धूमस्य विशेषं दहनप्रयोज्यं प्रतिषेद्धुं स्वभावानुपलब्धिः प्रभवति, कार्यै- कनिश्चयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः । कार्यस्य चातीन्द्रियस्यापि सम्भवात् । अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति । बोधनी । निषेधकाभावादित्याशङ्क्य सा तर्हि कार्यगतविशेषे सुलभेत्याह— शङ्का तु-इति । यद्वा, कार्य- गतविशेषे शङ्कामात्रमेव न तु निश्चयोऽनुपलम्भादित्याशङ्क्य कारणगतेऽपि शङ्कामात्रमेवेत्याह- शङ्का तु-इति । कार्य- इति । ननु मा भूत्कारणगतो विशेषः प्रत्यक्षः, तथापि न तत्र शङ्का- मात्रं, किं तर्हि कुसूलस्थत्वालस्थयोः कार्यारम्भाणारम्भाभ्यामनुमीयतेऽस्ति वैजात्यमिति । न-इति । कार्यजन्माजन्मनोरन्यथासिद्धत्वान्न ताभ्यां वैजात्यं सिद्ध्यतीत्यभ्युपेत्याह—उन्नीय- ताम्-इति । निश्चीयतां कारणगतो विशेषः, कार्यगतविशेषस्तु निश्चयाभावेऽपि शङ्क्योत्पद्यते, साधकवत् बाधकस्याप्यभावाद् । अनुपलब्धस्यैव कारणगतस्य कल्पनादर्शनाच्च शङ्कोत्पपत्तेः शङ्कामात्रेणापि प्रतिबन्धमूलं तदुत्पत्तिर्न सिध्यतीति भावः । कार्यगतविशेषं स्वरूपानुपलब्धिरेव निषेत्स्यतीत्यत आह—न हि इति । किमिति न प्रभवति तत्राह—कार्य-इति । शङ्क्यमानस्य कार्यगतविशेषस्यातीन्द्रियत्वेन कार्यलिङ्गेन निश्चेतव्यत्वात् कार्यानुपलब्ध्यैवानिश्चयोपपत्ते- रिति । अस्तु तर्हि कार्यानुपलब्ध्या तत्प्रतिषेधोऽत आह—कार्यस्य इति । कार्यगतविशेषव- तत्कार्यमपि किञ्चिदतीन्द्रियमस्तीति संभावनायां कार्यानुपलब्धिः, तं प्रतिषेधति—अत इति । अत एव, यत एव स्वभावानुपलब्धिर्न प्रभवति अत एवेत्यर्थः । सन्ति हि षोडशानुपलब्धयः— स्वभावानुपलब्धिः स्वभावविरुद्धकार्यानुपलब्धिः स्वभावविरुद्धव्याप्तोपलब्धिरिति चतस्रः, कार्या- नुपलब्धितद्विरुद्धकार्यविरुद्धव्याप्तोपलब्धयश्चेति चतस्रः, तथा व्यापकनुपलब्धिस्तद्विरुद्धविरुद्ध- प्रकाशः । नोच्यते, अपि तु शङ्क्यते तत्राह । शङ्का त्विति । ननु न कारणवैजात्यं शङ्क्यते, येन तत्कार्येऽपि वैजात्यशङ्का स्यात् । किं त्वनुमानसिद्धम् । तथा हि यदि यः प्रागजनकः स एवोत्तरकालमनुवर्तते तदा कथं ततः कार्यजन्म । जनकस्य वा तत्पूर्वं सत्त्वे कथं पूर्वमजनन- मिति कार्यजननाजननाभ्यां पूर्वोत्तरयोर्वैजात्यमनुमीयत इति शङ्कते । कार्येति । जननाजन- नयोरन्यथाऽप्युपपत्तेर्नोपलभ्यमानवैजात्यानुमानमिति परिहरति । सहकारीति । निषेध- केति । साधकस्येव बाधकस्याप्यभावादित्यर्थः । नन्वनुपलब्धिरेव बाधिकेत्याह । न हीति । स्वभावानुपलब्धिः = योग्यानुपलब्धिः । वैजात्यस्यायोग्यत्वादित्यर्थः । कार्यैकेति । सतोऽपि वैजात्यस्य व्यञ्जकतत्कार्यानुपलब्धौ वाऽनुपलब्ध्युपपत्तेः । कार्यानुपलब्ध्या हि कारणं न निश्चीयते, न तु तदभावो निश्चीयते व्यभिचारादिति भावः । ननु धूमकार्यदर्शनेऽपि न धूम- वैजात्यं दृश्यत इत्यत आह । कार्यस्य चेति । धूमकार्यमैन्द्रियकमेवेत्यत्र नियामकाभावादती- न्द्रियमपि तदस्तीति तत्प्रयोजकधर्मवैजात्यशङ्का स्यादित्यर्थः । अत एवेति । व्यापकानुपल- ब्धिरपि न तन्निषेधिकेत्यर्थः । उक्तशङ्कया तदुत्तरस्याप्यनिश्चयेन व्यापकत्वानिश्चयादिति भावः । मकरन्दः दोषापत्तौ तवापसिद्धान्त इति भावः । यद्वा कुर्वद्रूपत्वेनेत्यर्थः । तथा चानेन रूपेणार्थक्रियार- हितत्वमभ्युपगमात् तव कुर्वद्रूपत्वं प्रामाणिकं न स्यादिति भावः । ननु शालिश्चकुर्वद्रूपपरयो-
प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८७ एवं, विधिरूपयोर्व्यावृत्तिरूपयोर्वा जात्योर्विरोधे सति न समावेशः, समा- विष्टयोश्च परापरभावनियमः, ऽन्यूनानतिरिक्तवृत्तिजातिद्वयकल्पनायां प्रमाणा- बोधनी । कार्यविरुद्धव्याप्तोपलब्धयश्चेति चतस्रः । तत्र चानुपलब्धिकार्यप्रतिषेधसामर्थ्यादुपलब्धीनामप्य- नुपलब्धिव्यवहारः । सर्वासामसां न कार्यगतातीन्द्रियविशेषनिषेधे सामर्थ्यम् । अतीन्द्रियेण सह विरोधित्वकार्यकारणत्वव्याप्यव्यापकत्वानामाशक्यनिश्चयत्वादित्यर्थः । एवं वैजात्याङ्गीकारे कार्य- लिङ्गकमनुमानं न सिध्यतीत्युक्तम् । इदानीमनुपलब्धिलिङ्गकं स्वभावहेतुकं च यथा न सिध्यति तथा दर्शयितुं भूमिकामारचयन् वैजात्याभ्युपगमे बाधकान्तरमाह—एवम्-इति । यथातथा वा भवतु जातिस्वरूपं, सर्वथा तु तस्य कुर्वत्त्वजातिभेदस्य बीजत्वेन सहैकस्यां व्यक्तौ न समावेशः संभवति । कुर्वत्त्वाकुर्वत्त्व- योर्विरोधाद् यदि समावेशः स्यात्ततस्तस्य शालित्वं प्रति परत्वं वा स्याद् वृक्षत्ववत्, अपरत्वं वा स्याच्छिंशपात्ववदिति । न चोभयमपि संभवति, परत्वे शालिजातीयं सर्वमपि कार्यं कुर्यात्, अपरत्वे स्वशालिजातीयमङ्कुरं न कुर्यादिति भावः । अत्र परापरभूतयोर्जात्योरसमावेश एव साध्यः, समाविष्टयोस्तु परापरभावः प्रसङ्गादुक्त इति । उत्तरस्मिन्साध्ये हेतुमाह-अन्यून- इति । अनुवृत्ताकारावभासिनी हि प्रतीतिर्जातिसद्भावे प्रमाणम् । तस्याश्चैकयैव जात्योपपत्तौ न तावत्स्वेव पिण्डेषु जात्यन्तरे प्रमाणमस्तीति । व्यावृत्तिरूपयोरपि जात्योः समावेशे परापरभाव प्रकाशः । वैजात्ये जातिसङ्करं बाधकान्तरमाह— एवमिति । विधिरूपयोरिति स्वमते, व्यावृत्तिरूपयोरिति परमते । विरोधः=परस्पराभा- वसद्वृत्तित्वम् । कुर्वद्रूपत्वस्य शालित्वव्याप्यत्वे यवबीजे तदभावः । व्यापकत्वे कुशूलस्थशालौ तदभावः स्यादिति परस्परव्यभिचारे तयोरेकत्र समावेशो न स्यादित्यर्थः । अन्यूनेति । पर्याय- प्रकाशिका । स्थले तच्छङ्कितमत आह । विरोधः परस्परति । कुर्वद्रूपत्वस्येति । अङ्कुरकुर्वद्रूपत्वस्येत्यर्थः। एकत्र समावेश इति । क्षेत्रपतितशालिबीज इत्यर्थः । ननु समाविष्टयोः परापरभावनियम इति मूलमयुक्तं घटत्वकलशत्वयोर्व्यभिचारात् परापरभावस्य न्यूनाधिकवृत्तित्वरूपत्वादित्या- शङ्कायां मानाभावेन तादृशजात्यभावप्रतिपादकं मूलमन्यूनेत्यादितत्र बाधकमपि हेतुत्वेन समुच्चि मकरन्दः । विरोध एव नास्ति, सामानाधिकरण्यादित्यत आह । विरोध इति । पर्यायेति । सर्वत्र प्रवृत्ति- निमित्तभेदसम्भवेनैकप्रवृत्तिनिमित्तकत्वाभावादिति भावः । अनुगतबुद्धिवलात्तेषु नियामकं सिद्धय- ल्लाघवादेकमेव सिध्यतीति नान्यूननातिरिक्तव्यक्तिकजातिद्वयस्वीकार इत्यपि द्रष्टव्यम् । विरोध इति । यद्यप्यत्र विरोधो न सामानाधिकरण्याभावो, नापि परस्परात्यन्ताभाववद्वृत्ति- त्वं, तयोर्व्याप्यव्यापकभावाभ्युपगमात् । तथाप्यन्यूननातिरिक्तव्यक्तिकव्यतिरिक्तत्वाभाव एव स जात्योरिति । अनुगतप्रत्ययानु रोधेनाखण्डतया कल्पितयोरित्यर्थः । तेन तेषां जातिपरि- भाषाऽभावेऽपि न क्षतिः । उपाधिश्च नाखण्डोऽनुगतः सप्तपदार्थवादिनामपि हीष्ट, इत्याशयः । विरोधे=परस्परपरिहारेण वृत्तौ सत्याम् ।
१८८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां भावात् । व्यावत्र्त्यभेदाभावेन विरोधानवकाशे भेदानुपपत्तेः । बोधनी । एवेत्याह—व्यावर्त्त्य-इति । अपोह्यभेदेनापोहानां विरोधस्ततश्च तेषां भेद इत्यपोहवादः । तन्न शब्दोच्छेदप्रसङ्गाद् बाधकाच्चेति भावः । प्रमाणाभावमेवाह । व्यावत्र्त्येति । यथा प्रकाशः । वृक्षत्वशिंशपात्वयोर्व्यावर्त्त्यभेदाद्विरोधः, एकस्य ह्यवृक्षमात्रं व्यावर्त्त्यम्, अन्यस्य वृक्षविशेषोऽ- पि पनसादिः । न तथा बुद्धित्वज्ञानत्वयोर्व्यावर्त्त्यभेद इत्यर्थः । ननु समाविष्टयोर्जात्योर्न परापरभावनियमः । घटत्वसुवर्णत्वयोर्व्यभिचारात् । न चोपष्ट- म्भकपार्थिवभागवृत्त्येव घटत्वं, न सुवर्णवृत्तीति वाच्यम् । एवमपि काष्ठपाषाणघटादावप्रतीका- रात् । नाऽपि मार्द्द एव घटे घटत्वम् , अन्यत्र तु तथाविधसंस्थानवत्त्वगुणयोगाद् गौणो घट- व्यवहारः । मुख्यत्वस्य विनियन्तुमशक्यत्वात् । अथ संस्थानवृत्त्येव घटत्वं, न द्रव्यवृत्तीति न तयोः समावेशः, संस्थानं हि अवयववृत्तिः संयोग एव । युक्तं चैतत् । कथमन्यथा तस्मिन्नेव सुवर्णे तत्संस्थानसत्त्वासत्त्वाभ्यां घटतदभावव्यवहार इति । तन्न । तत्राप्यन्यतरकर्मजत्त्वादिना सङ्करप्रसङ्गात् । गुणगतजातौ न साङ्कर्य्यदोष इति मतन्निर्बीजमेव । अत्राहुः । सुवर्णत्वादिव्याप्यं नानैव घटत्वम् । न चैवं सुवर्णादिघटेष्वनुगतव्यवहारो न स्याद् , घटत्वस्य प्रत्येकविश्रान्तत्वेन व्यक्तिस्थानीयत्वादिति वाच्यम् । भिन्नजातीयघटेषु तादृ- शसंस्थानवत्त्वेनोपाधिना तथा व्यवहारात् । तर्हि संस्थानवृत्त्येवान्यतरकर्मजत्वादिव्याप्यं नानैव प्रकाशिका । नोति । पर्यायेति । व्यावर्त्त्यभेदाद्दु विरोध इति । व्यापकजातिसंगृहीतस्य कस्यचित् प्रतिक्षेप एव व्याप्यजात्या तयोर्विरोध इति ध्येयम् । मुख्यत्वस्येति । मार्द्दघटमध्यस्थिते सौ- वर्णघटमानयेति व्यवहारवत् सौवर्णघटमध्यस्थिते मार्द्दं घटमानयेति विशेषादिति भावः । तत्रा- प्यन्यतरेति । संयोगकर्मजन्यतावच्छेदकजात्या सङ्कर इति भावः । गवाश्वाकारकरभितरतद्वस्तू- पलम्भापत्तिर्जातिसङ्करे बाधिका न च रूपरसयोः साकारत्वं अवयवसंस्थानस्याकारत्वा- दित्याशयेन गुणगतजातौ न साङ्कर्य्यदोष इति प्रवादस्तं निषेधति । इति मतं निर्बीजमे- वेति । रूपरसात्मकवस्तुपलम्भापत्तेर्गुणगतजातावपि बाधकत्वादिति भावः । तादृशसंस्था- नवत्त्वेनेति । संस्थानञ्च घटसमानाधिकरणमेकजातीयमेव, अन्यतरकर्मजत्वादिकन्तु तद्- व्याप्यं नाना । तत्रानुगतव्यवहारस्यान्यतरकर्मजत्वादिन। संभवात् । न च संस्थानवृत्त्येकजातौ मानाभावः घटोऽयं घटोऽयमिति नानाजातीयघटीयपरम्परासम्बन्धेनानुगतव्यवहारोपपादक- त्वात् । न च तथा सति द्रव्यवृत्तिनानाजातेः सुवर्णत्वादिव्याप्यायाः स्वीकारे किं प्रमाणमिति वाच्यम् । महाशीलो घट इति प्रयोगस्य साक्षात्सम्बन्धधर्मेणोपपत्तौ परम्परासम्बन्धनिमित्तक- त्वाकल्पनात् । अत एव च घटपदस्य नानार्थत्वमप्यनन्यगतिकत्वात् । अन्यथाक्षादिपदेऽप्यन्या न्यत्वं निमित्तमादायैकार्थत्वं किं न कल्प्यते तादृशी न प्रतीतिरिति तु प्रकृतेऽपि तुल्यम् । तर्हीति । यद्यपि संस्थानवृत्त्येकैव जातिरित्युक्तम् । तथापि जातित्रयस्वीकारेऽपि सुवर्णत्वादि- मकरन्दः । इह विवक्षित इति बोध्यम् । न चोपष्टम्भकेति । समाविष्टत्वमेव नानयोरिति भावः । ननु संस्थानवृत्तित्वेऽपि कथं न द्रव्यवृत्तित्वमत आह । संस्थानं हीति । संस्थानवृत्तित्वे युक्तिमाह । युक्तञ्चैतदिति । गुणगतजाताविति । तद्दोपताप्रयोजकस्य बीजस्य तुल्यत्वादिति भावः । तादृशेति । यद्यप्यवयवसंयोगात्मकसंस्थानं नावयवनि, तथापि परम्परासम्बन्धेन तद्वत्त्वं बोध्यम् । अत एव तदेकार्यसमवायिद्रव्यत्वं तत्त्वमिति वक्ष्यतीति भावः । एवञ्च घटपदप्रवृ-
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८६ परस्परपरिहारवत्योश्च समावेशे गोत्वाश्वत्वयोरपि तथाभावप्रसङ्गात् । बोधनी । तावत्स्वेव पिण्डेषु अपोहद्वयानाधारेषु सत्सु कुतोऽपोहभेदः कुतस्तरां तन्निबन्धनो विरोधः कुतस्तमां वापोहभेद इति । पूर्वसाध्यसिद्ध्यर्थमनिष्टप्रसङ्गमाह—परस्पर-इति । तथा भावः=समावेशस्तस्माद्भिन्नायोरपरापरभूतयोः परस्पराभावाविनाभाविनोरेकत्र न समावेशः, प्रकाशः । घटत्वमस्तु, तन्नानात्वस्यावश्यकल्प्यत्वात्, एतावता संस्थानविशेषान्वयव्यतिरेकानुविधानमपि घटव्यवहारस्य सङ्गच्छत इति चेत् । न । महान् नीलो घटश्चलतीति परिमाणरूपविशेषकर्म- सामानाधिकरण्यप्रतीतेः । न च संस्थाने गुणे तत्सम्भवः । यद्वा, संस्थानविशेषैकार्थसमवायिद्रव्य- त्वमुपाधिर्घटत्वम् । ननु क्वचिदसमाशदर्शनादस्त्वनयोर्विरोध इत्याह । परस्परेति । विरोधे क्वचित्समावेशो प्रकाशिका । व्याप्यनानाजातिस्वीकारापेक्षया लाघवमेवेति तथैवाशङ्कितम् । घटत्वमस्त्विति । साक्षात्स- म्बन्धेनैव घट इति प्रतीतौ प्रकारोऽस्त्वित्यर्थः । महान्नील इति । तथा च महत्त्वादिसामाना- धिकरण्यप्रतीत्यनुरोधेन द्रव्यवृत्त्येव घटत्वं नाना च, यदि च मार्त्तंसौवर्णघटसाधारणी प्रतीतिः, तदा संस्थानवृत्त्येकजात्येति प्रथमपक्षाशयः, लाघवादुपाधेरेकस्यैव प्रवृत्तितिमित्तत्वं प्रतीतिप्रकारत्व- ञ्चेत्याशयेन द्वितीयकल्पमाह । यद्वेति । अत्रापि दण्डादिजन्यतावच्छेदकत्वेन सिद्धानां जाती- नां नापलापः, विजातीयसंस्थानस्यानुगमकत्वं प्रतीतौ प्रयोगे चेति परं भेदः । तत्रापि कपाल- रूपादावतिप्रसक्तिरिति द्रव्यपदं तत्संस्थानोपरमानन्तरमुत्पन्ने तत्रैव द्रव्यान्तरेऽतिव्याप्तिवार- णाय स्वसमानकालीनत्वं संस्थाने विशेषणं प्रवेशनीयमिति दिक् । नवीनास्तु मार्त्त एव घटे घट- त्वमन्यत्र तादृक्संस्थानवत्त्वेन गौणः प्रयोग इति न जातिसङ्करनानार्थतादिः । न च विनिगमका भावः । घटमानयेति निरुपपदघटपदप्रयोगान्मार्त्तस्यैव प्रतीतेः । अत एव पिष्टकमय्यो गाव इत्यत्र लक्षणेति चिन्तामणिकृतः । न च प्रतीतिः सौवर्णादिसाधारणी कथमनुगतेति वाच्यम् । पिष्टकगवादावपि तुल्यत्वात् । यदि च साधारणी प्रतीतिरसिद्धैव सिद्धौ वा तत्तुल्यसंस्थानवत्त्वेनो- पाधिनेति तदा प्रकृतेऽपि तुल्यं सौवर्णघटत्वान्वसत्त्वे मार्त्तं घटमानयेति विशेषणोपादानं लाक्षणिकोयधशङ्कानिराशाय । पिष्टकादिगवादिसत्त्वे तद्व्यावर्त्तकविशेषणोपादानवत् । विनिगमकं च भूयः प्रयोगः पूर्वनिरुक्तं चेति वदन्ति । अस्त्वनयोर्विरोध इति । मकरन्दः । त्तिनिमित्तमपि स एवोपाधिरन्यथा नानार्थतापत्तेरिति ध्येयम् । नन्वेवं घटत्वस्य जातित्व एव मानाभावः, कुतो नानात्वम् । अनुगतमत्यादिना हि तत् सिद्ध्यति, तद्विषयश्चोपाधिरेवेति कथं तत्सिद्धिः । न चैवं तारत्वादिकमपि नानाजातिर्न स्यादिति वाच्यम् । उत्कर्षादेर्जातित्वनियमे जातिसङ्करादनन्यगत्या नानात्वाभ्युपगमात् । तत्रानुगतोपाधेरपि तज्जातिघटितत्वाञ्चेत्यनुश- यात्तथैव सिद्धान्तमाह । यद्वेति । संस्थानविशेषवत्त्वं नावयविनीति तदेकार्थसमवायित्व- समावेशे इति । नन्वस्तु पृथिवीत्वघटत्वादिकमिव शालित्वयवत्वादिव्याप्यं नानैव विजातीयाङ्कुरकुर्वद्रूपत्वं तत्र नोक्तदोषः परस्परपरिहारवत्त्वाभावात् । न चाङ्कुरकुर्वद्रूपत्वमेकं प्रामाणिकमङ्कुरसामान्यार्थं बीजसामान्ये प्रवृत्त्यदर्शनेन तत्र सामान्याभावादिति चेन्न । शालीनां वैजात्यस्य प्रत्यक्षसिद्धतया शाल्यङ्कुरार्थे शालिषु प्रवृत्तिदर्शनात् शाल्यङ्कुरकुर्वद्रूपत्वस्य शालित्वै- जात्येन साङ्कर्यदोषान् । न च शालिवैजात्यव्याप्यं नानैव विजातीयशाल्यङ्कुरकुर्वद्रूपत्वमङ्कुरवै-
१६० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां सामग्रीविरोधान्नैवमिति चेत् , कुत एतत् ? परस्परपरिहारेण बोधनी । समावेशे वा जगति विरोधोच्छेद एव स्यादिति भावः । शङ्कते—सामग्री इति । न हि गोत्वा- श्वत्वयोरसमावेशे परस्परपरिहारवत्त्वं प्रयोजकं किन्तु तदभिव्यञ्जकव्यक्त्युत्पादकसामग्रीविरोधः, तस्माद्विरुद्धयोः समावेशे नातिप्रसङ्ग इति भावः । गूढाभिसन्धिः सिद्धान्ती पृच्छति—कुत एतत् इति । गवाश्वयोर्विरुद्धसामग्रीकत्वं कुतः प्रमाणादवगम्यत इति । इतर आह—परस्पर-इति । प्रकाशः । न स्यादन्यथाऽतिप्रसङ्ग इत्यर्थः । सामग्रीति । गोत्वाश्वत्वव्यञ्जकव्यक्तिसामग्र्योर्विरोधात- योरसमावेश इत्यर्थः । कुत इति । एतद्=विरोधस्वरूपम् । सामग्र्योरेव विरोधः कुतो मानात् सिद्ध इत्यर्थः । परस्तत्र मानमाह । परस्परेति । अतीन्द्रियसामग्र्योरन्योन्यं सहानवस्थान- प्रकाशिका । शालित्वकुर्वद्रूपतयोरित्यर्थः । जिज्ञासाङ्गतिम्पाकरोति । विरोधस्वरूपमिति । मकरन्दः । मुक्तम् । कपालरूपादावतिप्रसङ्गवारणाय द्रव्यत्वम् । ननु संस्थानविशेषस्यानुगतत्वात् कथं तद्घटितोपाध्यनुगमः ? । तद्विशेषत्वं हि घटावयवसंयोगत्वं वा, कपालद्वयसंयोगत्वं वा अन्यद्वा ? नाद्यः । घटत्वस्याननुगमात् । उक्तोपाधिनेव तदनुगमेऽन्योन्याश्रयात् । नापि द्वितीयः । घट- त्ववत् कपालत्वस्याप्यभावात् । तत्र तत्राप्येवमनुगमकोपाधिगवेषणे घटत्वधीस्तावद्विषयशत- भारमन्थरा स्यात् । नान्त्यः । तदनिरुक्तेः । न च जातिविशेष एव तथेति वाच्यम् । अन्य- तरकर्मजत्त्वादिना सङ्करप्रसङ्गात् । एवञ्चाथकल्पेऽपि तादृक्संस्थानवत्त्वेन कथमनुगम इति । न चैकव्यक्तिसंस्थानसदृशसंस्थानवत्त्वेनानुगम इति वाच्यम् । कस्य चित् का चिद्व्यक्तिर्बुद्धिवि- षयः, कस्य चित् का चिदिति सकलानुगतबुद्धिविषयानुगतोपाध्यभावात् । अत एवाथकल्पे एक- जातीयघटसंस्थानसदृशसंस्थानवत्त्वेनानुगम इत्यपास्तम् । अत्राहुः । आद्यकल्प एव साधुः । अनन्यगत्या घटपदस्य नानार्थत्वम् , अक्षादिपदवत् । उक्तोपाधेरनुगतत्वेऽपि तत्प्रकारकप्रतीतेः शाब्द्याः सन्दिग्धत्वेन नानार्थत्वस्यैवोचितत्वात् । अन्यथा तावदन्यतमत्वस्यानुगतोपाधिसत्त्वेऽ- क्षादिपदेऽपि तथात्वं न स्यात् । मार्त्तसौवर्णादिसाधारणी यद्यनुगतधीरस्ति, तदा तद्वेव तत्पदवा- च्यतयाऽस्तु । तद्धटजातीयसदृशसंस्थानवत्त्वेनैव वा तस्यानेकस्यानुगतत्वसम्भवात् , विनि- गमकाभावात् , तत्प्रकारकप्रतीत्यभावाच्च तन्न तत्प्रवृत्तिनिमित्तमिति नानार्थत्वमिति । केचित्तु मार्त्त एव घटे घटत्वमन्यत्र तथाविधसंस्थानगुणयोगाद् गौणस्तद्व्यवहारः । मुख्यत्वे विनिगमक- स्तु निष्पाधिप्रयोग एव, घटमानयेत्युक्ते मार्त्तव्यवहारात् , सुवर्णादिपदसमभिव्याहारात् सौव- र्णादिव्यवहारः । अन्यथा प्रयोगस्य शक्याशक्यसाधारणत्वेन मुख्यत्वनिर्णयः क्वापि न स्यात् । अत एव सौवर्णादिगवादौ गोपदमुख्यम् । तदुक्तं, विष्टकमय्यो गाव इत्यत्र गवाकृतिग्रह- शाक्तौ लक्षणेति । ननु शाब्दो व्यवहारो यथातथाऽस्तु । सौवर्णादिसाधारणी प्रत्यक्षाऽनुगतधीः कथमिति चेन्न । सौवर्णादिगवादावपि तुल्यत्वात् । यदि च तत्र तत्साधारणी गवाकारानुगत- मतिरसिद्धा, सिद्धौ वा तत्तुल्यसंस्थानवत्त्वोपाधिविषया, तदा प्रकृतेऽपि तुल्यम् । अन्यथा घटं दद्यादित्यत्र वेदे सौवर्णामार्त्तादिविषयतयाऽनध्यवसायः स्यात् । सौवर्णादिसत्त्वे मार्त्तं घटमानयेति तद्व्यावर्त्तकविशेषणोपादानं लाक्षणिकान्वयबोधशङ्कानिराशाय । सौवर्णादिगवादिसत्त्वे गवि तद्व्या- वर्त्तकविशेषणोपादानवदिति वदन्ति । जिज्ञासाङ्गतिम्पाकरोति, विरोधस्वरूपमिति । जात्यं फलवैजात्यानुमेयं प्रत्यक्षञ्चेति वाच्यम् । शालिजाजादिकार्यवैजात्यस्य प्रामाणिकतया तत्कु-
प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १६१ सर्वदा व्यवस्थितरिति चेद् , नेदमप्यध्यक्षम् । एकदेशसमावेशेन तु सामग्रीस- मावेशोऽप्युन्नीयते । यावत्तत्कार्ययोः परस्परपरिहृतस्वभावत्वादिति चेत् । तर्हि कम्पशिशपयोः बोधनी । सामग्र्योः परस्परपरिहारस्थितेर्विरोधोऽवगम्यत इति । नेदम्-इति । सामग्र्योः परस्प- रपरिहारेणावस्थानम् । इदं न प्रत्यक्षं सामग्र्योर्नित्यं कार्यकल्पत्वादिति, प्रत्युत सामग्रीसमावेश एवानुमातुं शक्यत इत्याह । एकदेश-इति । त्वन्मते गोत्वाश्वत्वयोरेकस्यां व्यक्तौ समावेशात् सामग्र्योरपि समावेशसंभवोऽनुमीयेत यावद् बाधकदर्शनं तावदिति । यद्वा, विरुद्धयोरसमावेशः सामग्रीविरोधादिति वदता विरुद्धयोरेकदेशसमावेशाङ्गीकाराद् विरुद्धयोरपि सामग्र्योः समावेशसंभवोऽनुमीयत इत्यर्थः । शङ्कते-तत्कार्ययोः-इति । न वयं कार्ययोः परस्परपरिहारेण स्थितेः सामग्र्योः परस्परपरिहारस्थितिं कल्पयामः, येन कार्ययोः समावेशसं- भवात् सामग्रीसमागमोऽपि कल्प्येत, किन्तु सामग्रीद्वयकार्ययोर्गवाश्वयोः परस्परपरिहृतस्वभा- वत्वादितरेतराभावत्वादिति यावत्, अस्ति ह्येकदेशसमाविष्टयोरपि परस्परपरिहृतस्वभावत्वमिति भावः । गूढामिसन्धिमुद्घाटयन्नाह-तर्हि=इति । यदीतरेतराभाववत्त्वेन गवाश्वयोः सामग्रीवि- रोधादसद्भावेश इति कल्प्यते तर्हि कम्पशिशपयोरप्यसमावेशः स्यात् । कम्पशब्दश्चात्र कम्प- रूपार्थक्रियाकारिणं शिशपावान्तरजातिविशेषमाह, तेनायमर्थः कारणवैजात्यमभ्युपगच्छता ह्यक- प्रकाशः । नियमो नासर्वज्ञाध्यक्षगम्य इत्याह । नेदमिति । प्रत्युत सामग्र्येकदेशकालदिगादिरूपसमावेशेन यदेव गोरश्वस्य च कारणं दृष्टं, तस्यैव पशुजनकत्वमिति स्वरूपेण गवाश्वसामग्र्योरप्येककार्य- जनकत्वरूपः समावेश एव कल्प्यत इत्याह । एकदेशेति । कार्ययोरिति । कार्ययोर्विरोधा- तत्सामग्र्योर्विरोधः कल्प्यत इत्यर्थः । कम्पेति । सौगतैः कर्म्मण आश्रयभिन्नस्यास्वीकारात् कम्पत्वशिशपात्वजात्योर्न समावेशः स्यात् । चलपिप्पले निश्चलशिशपायाञ्च परस्परपरिहारेण प्रकाशिका । गरश्वस्यो च कारणमिति । एवञ्च कालादिदृष्टान्तेन गोकारणत्वेन हेतुना गवासाधारणकारणस्याप श्वजनकत्वमनुमेयमिति भावः । पशुजनकत्वम् = गोरूपपशुजनकत्वमित्यर्थः । यद्वा पशुजनकत्वम् = पशुजातीयजनकत्वम् । तथा चैकजातीयकार्यजनकत्वेनैककार्यजनकत्वमपि कल्प्यमिति भावः । मकरन्दः । प्रत्युतेति । उभयसामग्र्येकदेशासाधारणकारणकालदिगादेः समावेशेन परस्परसाहित्येनैक कार्यजनकत्वेन दृष्टान्तेन तदुभयासाधारणकारणयोरप्येकपशुजनकत्वं स्यात् । तथा च तदुभयसा- मग्र्या अप्युक्तः समावेशः स्यात् । सामग्र्याः साधारणसाधारणकारणत्मकत्वादित्यर्थः । यद्वा, पशुजनकत्वं पशुजातीयजनकत्वम् । तथा च यथा एकजातीयजनकत्वं तथैककार्यजनक- त्वमपि स्यादित्यर्थः । गोत्वाश्वत्वयोरिति । एवमुपाधिसान्कर्यमपि न दोषः स्यात् । परस्प- रात्यन्ताभावसमानाधिकरणोपाध्योः समावेशे विरुद्धोपाध्योरपि सङ्करशङ्कयाऽन्यतरेणाऽन्यतरा- भावानुमानं न स्यादिति तुल्यत्वादिति प्रत्यक्षप्रकाशे विपश्चितमनुसन्धेयम् ॥ १६ ॥ र्वद्रूपत्वस्य शालिवैजात्येन साङ्कर्यस्य दुर्वारत्वादिति भावः । सर्वदेति । सामग्रीति शेषः । नेदमप्यध्यक्षमिति । व्यवहितदेशकालादेरप्रत्यक्षत्वेनोक्तनियमस्याग्राह्यत्वादित्यर्थः । ए- कदेशसमावेशेनेति । सामग्र्येकदेशकालादृष्टेश्वरादिसमावेशेनेत्यर्थः । तथा चाश्वज- निका सामग्री गोजनिका अश्वकारणत्वात् कालादृष्टादिवदित्यनुमानात् समावेशसिद्धिः स्यादिति भावः । कार्ययोः = गवाश्वाद्योः । परस्परेति । गोः स्वभाव एवायं यदश्वत्वपरित्यागेनैव
१६२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां परस्परपरिहारवत्योर्न समावेशः स्यात् । दृश्यते तावदिदमिति चेत् । गोत्वाश्वत्व- योरपि न दृश्यते इति का प्रत्याशा ? तथा च गतमनुपलब्धिलिङ्गेनाऽपि । क्वचिदपि बोधनी । म्पकारिणः शिंशपात्वात् कम्पकारिणो वैजात्यमभ्युपगन्तव्यम् , ततश्च कम्पजनकजनकयोः शिंशपातदवान्तरविशेषयोरसमावेशप्रसङ्गः । तयोरपि परस्पराभावत्वादिति । यद्वा, कार्ययोः परस्परपरिहारेण स्थितेः सामग्रीविरोध इति तत्कार्ययोरित्यनेनाशङ्कय यदि क्वचित्परस्परपरिहार- दर्शनेन सामग्रीविरोधमुच्चीय कार्ययोः सर्वदा सर्वत्रासमावेशः कल्प्येत तर्हि कम्पशिंशपयोः कदा- चिदसमावेशदर्शनात् सर्वदा सर्वत्रासमावेशप्रसङ्ग इति परिहारमाह-तर्हि-इति । दृश्यत इति । परस्परपरिहारेऽपि कम्पशिंशपयोः समावेशो दृश्यते न तु गोत्वाश्वत्वयोरिति नाप्रसङ्गाति- प्रसङ्गाविति । गोत्वाश्वत्वयोरिति । परस्परपरिहारवतोरपि क्वचित्समावेशदर्शनादत्रापि तत्सं- भावना दुष्परिहरेति । एवं तावज्जनकजनकयोः समावेशाङ्गीकारे सर्वत्र गवाश्वादिविरुद्धसमा- वेशसंभावना निष्प्रत्यूहं प्रवर्तेत इति स्थितम् । एवं भूमिकामारचय्य तत्र विवक्षितमनुमाना- भावं निवेशयति-तथा च-इति । कार्यलिङ्गवदनुपलब्धिलिङ्गेनापि गतमिति । तथा चेति परामृष्टं हेतुं स्पष्टयति-क्वचिदपि-इति । एषा हि बौद्धपरिभाषा अनुपलब्धिरसद्व्यवहारयो- ग्यत्वं प्रतिबन्धबलेनानुमापयति । प्रतिबन्धश्चानुपलब्धेः सद्ब्यवहारविरोधात्सिद्ध्यति यथाह न गोत्वमस्ति अश्वत्वादिति गोत्वविरुद्धाश्वत्वोपलब्धिरूपा गोत्वानुपलब्धिर्गोत्वाभावं गमयतीति । तत्र यदि विरुद्धयोरपि समावेशः स्यात् तदानुपलब्धेरपि सद्ब्यवहारयोग्यत्वसमावेशसंभवेना- सद्ब्यवहारयोग्यतया प्रतिबन्धासिद्धेर्गतमनुपलब्धिलिङ्गकमिति । अत एव स्वभावहेतुरपि निरस्त' प्रकाशः । स्थितेरितिमर्थः । दर्शनादर्शनकृत एव समावेशासमावेश इत्याह । दृश्यत इति । यथा तयोर- न्योन्यपरीहारस्थितयोरपि क्वचित्समावेशस्तथा तादृशयोर्गोत्वाश्वत्वयोरपि समावेशः स्यादित्या- शङ्क्येतेत्याह । गोत्वेति । गोत्वाश्वतवयोः समावेशे दूषणमाह । तथा चेति । गोत्वाश्व- त्वयोः समावेशेन विरोधासिद्धौ गोत्वस्याश्वत्वविरुद्धस्योपलब्ध्याऽश्वत्वाभावानुमानं न स्यात् । तथा च कार्यलिङ्गकमनुमानं गतमिति प्रागुक्तं, सम्प्रत्यनेनापि गतमित्यर्थः । क्वचिदपीति । अन्यत्र समावेशसंशयादिति भावः । एवं च वृक्षं विना शिंशपाऽनुपलब्धिरूपविपक्षबाधकनिश्चयं शिंशपाया वृक्षस्वभावत्वमपि न निश्चीयेत । शिंशपात्वमपि वृक्षत्वं व्यभिचरेदिति शङ्कायाः स- जायते । अश्वस्याप्ययं स्वभावो यद्गोत्वपरिहारेणैव जायत इति स्वभावादेव यावत्कार्ययोर्धर्मपरि- हारनियम इति कुतो धर्मयोः समावेशसम्भव इति भावः । परिहारवत्योरिति । परिहारः परस्परधर्मयोः कम्पत्वशिंशपात्वयोर्बोध्यः । समावेशः स्यादिति । न च तयोरसमावेशः कम्प त्वस्य क्रियाधर्मत्वादिष्ट इति वाच्यम् । गुणक्रियाद्रव्याणां भेदस्य तैरनभ्युपगमेन कम्पात्मकशिं- शपालक्षणक्षणिकव्यक्तौ समावेशस्य सम्भवादिष्टापत्तेरयोगात् । कम्पत्वशिंशपात्वयोः समावेशदर्शनात् परस्परपरिहारो न स्वभावः कम्पशिंशपयोः किं तु सामग्रीसमावेशासमावेशनिबन्धनः । गवाश्वयोस्तु स्वभाव एव समावेशदर्शनात् स्वभावत्यागो न कस्यापीष्ट इति शङ्कते । दृश्यत इति । मनुपलब्धिलिङ्गेनापीति । अनुपलब्धिलिङ्गज्ञापकं यन्न तथा चानुपलब्धिमूलकेनेत्यर्थः । गोत्वेनाश्वत्वाभावानुमाने विरोधग्रहो मूलम् तत्रापि गोत्ववत्यश्वत्वानुपलब्धिर्मूलमिति भावः ।
प्रथमस्तबके ] क्षणभङ्गनिरकरणम् । १६३ विरोधासिद्धेः । ततो विपक्षे बाधकाभावात् स्वभावहेतुरप्यपास्तः । नन्वस्ति तत् । तथा हि । वृक्षजनकपत्रकाण्डाद्यन्तर्भूता शिंशपासामग्री, सा, वृक्षमतिपत्य भवन्ती स्वकारणमेवातिपतेत् । एवं, शाखादिमन्मात्रानुबन्धी वृक्ष- व्यवहारः तद्विशेषानुबन्धी च शिंशपाव्यवहारः, स कथं तमतिपत्याऽऽत्मानमा- सादयेदिति चेत् । एवं तर्हि शिंशपासामग्र्यन्तर्भूता चलनसामग्री, ततस्तामति- पत्य चलनादिरूपता भवन्ती स्वकारणमेवातिपतेत् । तथा, शाखादिमद्विशेषानु- बन्धो शिंशपाव्यवहारस्तद्विशेषानुबन्धी च चलनव्यवहारः । स कथं तमतिपत्या- त्मानमासादयेदिति तुल्यम् । बोधनी । इत्याह-ततः-इति । तादात्म्येन प्रतिबद्घो हेतुः स्वभावः, यथा शिंशपात्वं वृक्षत्वस्य । कचिदपि विरोधासिद्धाव- वृक्षेऽपि शिंशपात्वसमावेशसम्भवात्तस्य प्रतिबन्धो नास्तीति । स्वभावहेतोर्विपक्षे बाधकमशङ्कते- ननु-इति । वृक्षसामग्र्यन्तर्भूता शिंशपासामग्री तदविनाभूता तत्कारणिकेति यावत् । ततश्चा- वृक्षे वृक्षसामग्र्यभावेन स्वभावसामग्र्यभावाच्छिंशपा न भवति । तेनावृक्षलक्षणे विपक्षेऽपि शिंशपात्वस्य सामग्र्यभावो बाधकमित्यर्थः । शिंशपाव्यवहारेण वृक्षव्यवहारे साध्येऽप्येतदेव विपक्षे बाधकमित्याह-एवम्-इति । यदि च शिंशपाव्यवहारो वृक्षव्यवहारमतिपतेत् तत- स्तयोः सामान्यविशेषभावो न स्यादिति भावः । यद्यप्यत्र कचिदपि विरोधासिद्धौ शिंशपातद्व्य- वहारयोर्वृक्षतद्व्यवहारातिपातेऽपि न विरोध इत्यपि परिहारः संभवो तथापि परिहारवैभवाद- न्यथा परिहरति-एवं तर्हि-इति । एवंविधस्य विपक्षे बाधकस्य तुल्यत्वाच्छिंशपात्वावान्तरजा- तिविशेषेण कम्पकारित्वेन शिंशपात्वानुमानं तद्व्यवहारेण शिंशपाव्यवहारानुमानं प्रसज्येत । न च तच्छक्यं शिंशपात्वानन्तर्भूतस्य पलाशादेरपि कम्पजनकत्वादिति । प्रकाशः । स्त्वादित्याह । तत इति । विपक्षे बाधकान्तरमाह । नन्वस्तीति । तद् = विपक्षे बाधकम् । शिंशपात्वेन वृक्षत्वं साध्यं, वृक्षव्यवहारो वा ? उभयत्र कार्यकारणभावो विपक्षे बाधक इत्यर्थः । तथा च चलपत्रता शिंशपात्वं, तद्व्यवहारश्च शिंशपाव्यवहारं न व्यभिचरेदित्याह । एवं तर्हीति । न च शिंशपासामग्र्यन्तर्वर्त्तिन्येव चल- पत्रतासामग्री, किन्तु तद्भिन्नैवेत्याह । ततो विपक्षे बाधकादिति । यद्वान्वयव्यतिरेकेण कार्यकारणभावः शिंशपावृक्षसामग्र्यो र्गृहीतः, स च सहकारिनियमानादरेण त्वया तिरस्कृतः कुर्वद्रूपत्वेनातीन्द्रियेण कार्यदर्शनैक- समधिगम्येन कारणता चावृक्षसामग्र्याः कदाचित् क्वचिच्छिंशपोत्पत्तिदर्शनसम्भावनयाऽवृक्षसामग्री साधारणतया सम्भाविता सत्यवृक्षमूलभूतामपि शिंशपां सम्भावयतीत्यत इति ततः शब्दार्थः । उक्तयुक्त्या विरुद्धजातीनां समावेशशङ्कायां कार्यकारणभावमात्रोच्छेदसम्भावनात् इति चार्थः । स्वभावहेतुरिति । वृक्षत्वानुमापकत्वेन सम्प्रतिपन्नस्य वृक्षस्वभावशिंशपात्वस्य व्यभिचार- शङ्कयाऽनुमापकत्वासम्भवात् । शिंशपेति । शिंशपादीत्यर्थः । चलनादिसामग्रीति । त्वन्मतप्रसिद्धेति शेषः । अति- पत्येति । शिंशपात्मकचलनस्थले प्लक्षसामग्र्या प्लक्षात्मकचलनस्थले शिंशपासामग्र्या अति- पतनेऽपि यथा चलनरूपताया आत्मलाभः, तथा वृक्षसामाग्र्यतिपातेऽपि शिंशपाया आत्मलाभः २५ न्या० कु०
१६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां नोदनाद्यागन्तुकनिबन्धनं चलनत्वं, न तु तद्विशेषमात्राधीनमिति चेत् । यदि नोदनादयः स्वभावभूतास्ततस्तद्विशेषा एव, अथास्वभावभूतास्ततः सहका- रिण एव, ततस्तानासाद्य निर्विशेषैव शिंशपा चलनस्वभावानारभते इति, तथा च कुतः क्षणिकत्वसिद्धिः ? । स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भव- न्तीति चेत् । एवन्तर्हि वृक्षसामग्र्यामागन्तुकसहकार्यनुप्रवेशादेव शिंशपाऽपि जायते इति न कश्चिद्विशेषः । एवमेतत्, किन्तु शिंशपाजनकास्तरुसामग्रीमुपा- दायैव, चलनजनकास्तु न तामेव किन्तु मूर्त्तमात्रम्, तथा दर्शनादिति चेत् । बोधनी । नोदनादि-इति । यथा वृक्षसामग्रीविशेषः शिंशपासामग्री, नैवं शिंशपासामग्र्यन्तर्भूता कम्प- सामग्री, किन्तु नोदनाभिघाताद्यागन्तुकहेतुकत्वाच्चलत्वस्य शिंशपात्वातिपातेऽपि न कश्चिद्विरोध इति । एतद्विकल्प्य निराचष्टे-यदी-इति । किं नोदनादयो भवन्मतानुरोधेन शिंशपास्वभावभूता भवेयुः, अस्मन्मतानुरोधेनास्वभावभूता वा ? पूर्वत्र शिंशपाविशेषा एव नोदनादयः, अशिशपायाः शिंशपास्वभावत्वायोगात्; तत्र च पूर्वोक्तं शिंशपातुल्यत्वं तदवस्थमेव । उत्तरत्र कम्पजनने शिंशपायाः सहकारिणो नोदनादयः स्युरिति । सन्तु सहकारिणः का नो हानिरित्यत्राह-ततः- इति । निर्विशेषैव जातिभेदं व्यक्तिभेदं विनेति यावत् ; चलस्वभावान्=चलनात्मकान् स्वभा- वान् धर्मान्, चलनात्मिकाः क्रिया इत्यर्थः । पुनः शङ्कते-स्वभावभूताः-इति । स्वभावभूताः= शिंशपायाः स्वभावभूता एव नोदनादयः ते चागन्तुकनोदकादिसहकारिसंनिधानाधीनजन्मानः, ततश्चागन्तुकसहकार्यनुप्रवेशाच्चलनजननस्वभावं शिंशपान्तरं जायत इति क्षणिकत्वं सिद्ध्यति, सिद्ध्यति चाशिंशपाया अपि चलद्रूपत्वं नोदनाद्यागन्तुकसहकारिणां पलाश्यादावपि संभवादिति । तर्हि शिंशपाया अपि वृक्षातिपातः स्यादित्याह-एवं तर्हि-इति । शङ्कते-एवम्-इति । एव- मविशेषे सत्येतत्त्वदुक्तं स्यात् , किंतु विशेषोऽस्तीत्यर्थः । यथा वृक्षसामग्र्यामागन्तुकशिंश- पाबीजत्वादिसहकार्यनुप्रवेशात् शिंशपोत्पत्तिरित्येतत्सत्यं, तथाप्ययं विशेषोऽस्तीति तमेव विशे- षमाह-शिंशपा-इति । उपादायैव शिंशपा जनयन्तीति शेषः । न तामेव शिंशपासामग्री- मुपादायैव चलत्वं जनयन्ति किन्तु मूर्त्तमात्रमुपादाय, पलाशादीनामपि कम्पदर्शनात् । शिंश- पासामग्री तरुसामग्रीं न व्यभिचरति, चलसामग्री तु शिंशपासामग्रीं व्यभिचरतीति विशेष प्रकाशः। नोदनेति । नोदनादयः किं {शिंशपाविशेषा एव, तद्विशेषजनका वा ? द्वयमपि नास्ती- त्याह । यदीति । तथा च तेषां तथाभूतानामेव शिंशपान्व्यभिचारे शिंशपा वृक्षं व्यभि- चरेदिति भावः । ननु सदृशरूपेषु उपादानकारणेषु सत्सु सम्भूयमात्रकारिणो नोदनादय इत्यत आह । अथेति । भावस्य समर्थैकस्वभावत्वेऽपि कार्यकारणकरणयोः सहकारिलाभा- लाभप्रयुक्तत्वात् प्रसङ्गतद्विपर्यययोरभावे प्रतिबन्धासिद्धेरनुमानात् कुतः क्षणिकत्वमित्याह । तथा चेति । शिंशपायाः स्वभावभूता अपि नोदनादय आगन्तुकसहकार्यनुप्रवेशाज्जाय- मानाः शिंशपां विना भविष्यन्तीत्याह । स्वभावति । एवं वृक्षस्वभावभूता शिंशपाऽऽ- गन्तुकसहकारिवशेन जायमाना वृक्षं विनाऽपि स्यादिति गूढाशय आह । एवं तर्हीति । आश- यमविद्वान् शङ्कते । एवमिति । किन्विति । आगन्तुका अपि तद्व्याप्या एवेत्यर्थः । प्रकाशिका। नोदनादय इति । संयोगस्यानङ्गीकारात् सकम्पशिंशपापूर्ववर्त्तिशिंशपा नोदनपदेनोच्यते ।
प्रथमस्तवके ] क्षणभङ्गनिराकरणम् । १६५ मैवम्। कम्पजनकाः शिंशपाजनकविशेषा अपि सन्तस्तानतिपतन्ति, न तु वृक्षजनकविशेषाः शिंशपाजकास्तानिति नियामकाभावात् । शिंशपाजनकास्त- द्विशेषा एव कम्पकारिणस्तु न तथा, किन्त्वागन्तवः सहकारिण इति चेत् । एवं तर्हि तानासाद्य सदृशरूपा अपि केचित् कम्पकारिणोऽनासादितसहकारि- णस्तु न तथा, तथा च तद्वा तादृग्वेति न कश्चिद्विशेषः स्यात् । तस्माद्विरुद्धयो- बोधनी । इत्यर्थः । निराकरोति—मैवम्-इति । विशेषा एव केचित्स्वपरसामान्यं व्यभिचरन्ति केचि- न्नेति न नियमहेतुरस्तीति । दर्शनं त्वन्यत्र नोदनादीनामस्वभावभूतानामेव सहकारित्वादुपप- न्नमिति भावः । एवं नोदनादीनां स्वभावत्वे दूषिते प्रामाणिकं सहकारिवादमगत्यावलम्बते— शिंशपा-इति । तद्विशेषा एव=वृक्षजनकविशेषा एव, तथा=शिंशपाया एव जनकविशेषाः, ततश्च सिद्धः कम्पशिंशपयोर्विशेष इति पूर्वोक्तमेव निराकरणं स्मारयति—एवं तर्हि-इति । सदृश- रूपा=जातिभेदसामर्थ्यविरहिण इत्यर्थः । न तथा-न कम्पकारिण इत्यर्थः । जात्यभेदेऽपि व्य- क्तिभेदादेव सिध्यति क्षणिकत्वमित्यत्राह—तथा च-इति । एकजातीयस्यैव सहकारिलाभात् कार्य- जनकत्वाङ्गीकारे सति पूर्वैव शिंशपाव्यक्तिः सहकारिसंनिधानात् कम्पहेतुर्वा भवेत् , स्वोत्पत्त्य- नन्तरमेव न दृष्टा पूर्वव्यक्तिः, तज्जातीया तत्संतानान्तःपातिनी त्वन्या सहकारिसमवधानात् कार्यजननीह भवेदित्यत्र न कश्चिद्विशेषः उभयत्रापि सहकार्यायत्तत्वात्कार्यकारणस्य; तथा च न क्षणिकत्वसिद्धिरिति । तदेवं विरुद्धयोरेव क्वचित्समावेशे क्वचिदपि विरोधासिद्धेर्विपक्षे बाधका- भावात् स्वभावहेतुर्न सिध्यतीत्युक्ते तस्य विपक्षे बाधकाशङ्कथ यया तन्न सिध्यति तथोक्तम् । इदानीं प्रकृतमुपसंहरति-तस्मात्-इति । ननु नीलमुत्पलं चलतीत्यादौ विरुद्धानामपरापरभूता- नामेव नीलत्वादिसामान्यादीनां समावेशो दृश्यते । न च तत्र परापरभावः, नीलस्य परत्वे रक्त- मुत्पलं न स्यात् , उत्पलस्य परत्वे नीलं नीलीपुष्पं न स्यात् , न च नास्ति विरोधः ? कुर्वत्त्व- प्रकाशः । तामेव=शिंशपासामग्रीमेवेत्यर्थः । आशयमुद्घाटयति । कम्पजनका इति । शिंशपाजन- कानां कारणानां विशेषाः । तान्=शिंशपाजनकान् , वृक्षजनकानां कारणानां विशेषाः । तान् = वृक्षजनकानित्यर्थः । तद्विशेषाः=वृक्षजनकविशेषा इत्यर्थः । एवं तहीति । तजातीय एव सह- कारिलाभालाभाभ्यां कार्यजननाजनने इतिकुतः क्षणिकत्वमित्यर्थः । वैजात्यनिराकरणमुपसंहरति । स्यादिति भावः । कम्पजनका इति । अस्मन्मते चलनं नोदनं मूर्त्तद्रव्यं च परस्परं भिन्नं सह- कारिषादश्वास्तीति शिंशपासामान्यन्तर्भूता चलनसामग्री सम्भवति । तव तु मते शिंशपैव चलनात्मिका उत्तरव्यक्तिः, शिंशपैव नोदनात्मिका पूर्वव्यक्तिरिति चलनकार्य प्रति कुर्वद्रूपत्वविशे- षापन्ना नोदनात्मिका शिंशपैव कारणमिति चलनसामग्री शिंशपासामान्यन्तर्भूतैव भवतीति कम्पजनकाः शिंशपाजनकविशेषतया केनचित् प्लक्षादिजनकविशेषतया शिंशपादिकम्पमात्रदर्शि- ना गृहीता अपि कार्ये शिंशपाद्यात्मककम्पे वैजात्यस्य त्वयानङ्गीकारात् । कम्पसामान्यजनकाः प्लक्षात्मककम्पकार्यजननस्थले पश्चाद् दृष्टे शिंशपाजनकविशेषानतिपतन्तीत्यभ्युपेयम् । तथा वृक्षशिंशपास्थले कुतो न स्यात् दर्शनं नियामकमिति चेत् , तत्र न द्रक्ष्यते इत्यत्र का प्रत्याशे- त्यस्योक्तप्रायत्वादिति भावः । अथ न्यायमते कथमेवं न शङ्केति चेन्न । व्यभिचारादर्शनसहकृ- तेनान्वयव्यतिरेकेण दृष्टजात्यवच्छेदेन कार्यकारणभावे परिच्छिन्ने तज्जातिविरहानिबन्धनत्वाद-
१६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां रसमावेश एव, समाविष्टयोश्च परापरभाव एव । अनेवम्भूतानां द्रव्यगुणकर्म्म- दिभावेन उपाधित्वमात्रम् । तेषान्तु विरुद्धानां न समावेशो व्यक्तिभेदात् । जाती- बोधनी । बीजत्वयोर्विरोधप्रसङ्गात्, तत्कथमयं नियम इत्याह - अनेवम्-इति । अनेवंभूतानां विरोधे सति समाविष्टानां समावेशे सत्यपरापरभूतानां च द्रव्यगुणकर्म्मस्वरूपेणोपाधित्वमात्रं, न सामा- न्यरूपेण समाविष्टत्वम् । तथा हि नीलगुणयोगात् नीलमुत्पलं न तु नीलत्वयोगात्, तथा द्रव्य- सम्बन्धाद् द्रव्यं नीलं न तु द्रव्यत्वयोगादिति । एवं चलनयोगात् चलं न तु चलत्वयोगादिति । जात्यात्मकानां तु सामान्यानां विरोधे सति न समावेश इतोमं तात्पर्यगोचरमर्थं पृथक्कृत्याह- तेषां तु-इति । कुत इत्यत आह-व्यक्तिभेदात्-इति । सामान्यव्यञ्जकानामाश्रयाणां भेदा- दिति । मियन्तां व्यञ्जकानि किमायातमसमावेशस्य तत्राह-जातीनाम्-इति । व्यक्त्याश्रय- त्वाज्जातीनां तद्भेदेन तदाश्रयाणां जातीनां च न समावेशः । तस्माद्विरुद्धानां नीलत्वोत्पलत्व- चलत्वादीनां गुणद्रव्यकर्म्मव्यक्तिसमवेतत्वेन नैकव्यक्तिसमावेशः, समाविष्टानां गुणादिव्यक्तीनां न विरोध इत्यर्थः । मा भूत्तर्हि कुर्व्वत्त्वबीजत्वयोः समावेश इत्यत्र न वैजात्यं विनेत्येतदेव स्मा- प्रकाशः तस्मादिति । अनेवमिति । येषां न विरोधो न वा परापरभावः, तेषां सहभावमात्राद् व्यवस्थितानां भूतत्वकार्य्यत्वमूर्त्तत्वानां द्रव्यादिभावेन द्रव्यादिरूपतया उपाधिमात्रत्वं, न तु जातिरूपत्वमित्यर्थः । ननु द्रव्यत्वगुणत्वादीनां कथमित्यत आह । तेषामिति । तेषां द्रव्यत्वादीनां कुतो न समावेश इत्यत आह । व्यक्तिभेदात्=व्यञ्जकाश्रयभेदादित्यर्थः । एतदेव स्पष्टयति । जातीनां प्रकाशिका । कम्पभिन्नशिंशपाजनककारणं वेत्यर्थः । न जातिरूपत्वमिति । ननु परस्परात्यन्ताभाव- समानाधिकरणयोरेकत्र समावेशे तदतज्जातीयताविरोधभङ्ग एव विपक्षबाधकः । साध्योपा- ध्योरपि तादृशयोः समावेशे समान एवेति कथं नोपाधिसङ्कर्य्यं दोषाय । अत्राहुः । उपाधिः पर- म्परासम्बन्धेन जातिरेवेत्युपाधिविरोधः परम्परासम्बन्धेन जातिविरोध एव पर्य्यवसितः स चा- संभवी परम्परासम्बन्धेन सर्वजातीनां सर्वत्र वृत्त्या विरोषोदाहरणाभावात् । एवञ्च साक्षात्सम्ब- न्धेनैव तदतज्जातीयत्वं विरुद्धत्वं न तु परम्परासम्बन्धेनापीति जात्योरेव तादृशयोन सहभावो न तूपाध्योरपीति । न चैवं घटाभावत्वपटाभावत्वयोरपि समावेशः स्यादिति वाच्यम् । केनचित् सम्बन्धेन विरोधसिद्धावपि सामान्यतः परम्परासम्बन्धेन विरोधासिद्धेः । स च विरोधप्रयोजकी- भूतः सम्बन्धः प्रतीतिबलकल्पनीय इति । जात्योस्तु तादृशयोः समवायेन सामान्यत एव विरोध कारणत्वस्यान्यत्र परिच्छेदसम्भवात् । अधिकाशङ्काया व्याघातेन प्रागेव निरस्तत्वात् । तव तु मते सहकारिवादानभ्युपगमात् , जातेः कारणतायामिव तद्विरहस्याकारणतायामप्यप्रयोजकत्व- प्रसङ्गात् । प्रयोजकतया कल्पितस्य कुर्व्वद्रूपत्वस्याभावोऽन्यजातीये प्रत्यक्षेण न हि निश्चयः कार्य्या- भावेनैव तन्निर्णये परस्पराश्रयप्रसङ्गात् । अन्यजातीयात् कार्य्योत्पत्तिसम्भामनाया दुर्वारत्वादिति । अनेवम्भूतानाम् = भूतत्वमूर्त्तत्वकार्य्यत्वादीनामित्यर्थः । विरुद्धानाम् = परस्परपरि- हारवताम् । व्यक्तिभेदात् = व्यञ्जकाश्रयभेदात् ।
प्रथमस्तबके ] क्षणभङ्गनिराकरणम् । १६७ नाञ्च भिन्नाश्रयत्वात् । तथा च कुतः क्षणिकत्वम् ? । वैजात्याभ्युपगमे च कुतोऽ- नुमानवार्त्ता ? । मा भूदनुमानमिति चेन्न । तेन हि विना न तत् सिद्ध्येत् । न हि क्षणिकत्वे प्रत्यक्षमस्ति । तथा निश्चयाभावात्, गृहीतनिश्चित एवार्थे तस्य प्रामा- ण्यात्, अन्यथाऽतिप्रसङ्गात् । ननु वर्त्तमानः क्षणोऽध्यक्षगोचरः । न चाऽसौ पूर्वापरवर्त्तमानक्षणात्मा । ततो वर्त्तमानत्वनिश्चय एव भेदनिश्चय इति चेत् । किमत्र तदभिमतमायुष्मतः ? यदि धर्म्येव नीलादिर्न किञ्चिदनुपपन्नम् । तस्य स्थैर्य्याऽस्थैर्य्यसाधारण्यात् । अथ धर्मः । तद्भेदूनिश्चयेऽपि धर्मिणः किमायातम् ? तस्य ततोऽन्यत्वात् । वर्त्तमाना- बोधनी । रयति-तथा च-इति । अस्तु तर्हि समावेश इत्याशङ्क्य महता प्रबन्धेनोपपादितमनुमानभ- ङ्गमपसंहरति-वैजात्य-इति । विना तेन न तत्सिद्धिरित्येतच्छङ्कापूर्वकं व्याचष्टे-मा भूत्- इति । कुतः प्रमाणान्तरात् तस्य क्षणिकत्वसिद्धिरिति । ननु प्रत्यक्षमेव तत्र प्रमाणमित्यत्र नाध्यक्षं निश्चयं विनेत्येतदुत्तरयति-न हि-इति । क्षणिकमेतदिति निश्चयस्य विकल्पस्याभावादिति । मा भूद्विकल्पः, निर्विकल्पकमध्यक्षं तत्र प्रमाणमित्यत्राह-गृहीत-इति । निर्विकल्पकेन गृहीते विकल्पिते चार्थे तस्य प्रत्यक्षस्य प्रामाण्यादिति विपर्यये बाधकमाह-अन्यथा-इति । यद्यनिश्चित एवार्थे प्रत्यक्षं प्रमाणं स्यात् किमिति वह्निक्षणिकत्व एव तत्प्रमाणं न स्यात् इति चोदयति-ननु-इति । द्वितीयप्रत्यक्षं तावद्धर्मिणं घटोऽयमिति वर्त्तमानत्वविशिष्टमेवाव- गाहते, वर्त्तमानस्य चातीतानागतात्मकत्वविरोधात् । तेन वर्त्तमानत्वं निश्चाययदेव प्रत्यक्षं धर्मिणः पूर्वापराभ्यां भेदं निश्चाययतीति क्षणिकत्वे प्रमाणमिति विकल्पं दूषयितुं पृच्छति- तत्त्-इति । तद् वर्त्तमानत्वं किमित्यभिमतं, किं नीलादिधर्मिस्वरूपमेव, अथवा तद्धर्म कालविशेष- संबन्ध इति भावः । द्वितीये दूषणमाह-अथ-इति । तस्य वर्त्तमानत्वधर्मस्यातीतानागतत्वाभ्यां भेदनिश्चयेऽपि धर्मिणो नीलादेर्न भेदः सिध्यति । तस्य धर्मिणस्ततो धर्मादन्यत्वादिति । बौद्धः स्वाभिसन्धिमुद्घाटयति । वर्त्तमान-इति । न वयं धर्मिमात्रनिश्चयाद्धर्मभेदनिश्चयाद्वा धर्मिणो प्रकाशः । चेति । द्रव्यादिव्यक्तिगतत्वेनैकाश्रयत्वाभावादित्यर्थः । तथा चेति । परापरभावाभावेन वैजा- त्याभावादित्यर्थः । तथापि तत्स्वीकारे दण्डमाह । वैजात्येति । तथेति । नीलमिदमितिवत् क्षणिकमिति निश्चयाभावादित्यर्थः । तथाप्यध्यक्षं निर्विकल्पकं तथा स्यात् तत एव प्रकृतसिद्धेरि- त्यत आह । गृहीतेति । निर्विकल्पकस्य सविकल्पकोन्नेयत्वात् तदसिद्धौ निर्विकल्पकसत्तायां मानाभावादित्यर्थः । नन्वयं घट इत्यनुभवोऽस्ति । स च घट इति धर्मिणम्, अयमिति वर्त्तमानत्वं विषयीक- रोतीति वर्त्तमानत्वनिश्चय एव क्षणिकत्वनिश्चय इति तद्गृह्णीतमध्यक्षमस्त्येवेत्यत आह । नन्विति । वर्त्तमानत्वं किं घट एव, तद्धर्मो वा ? आद्ये तदवच्छिन्न एव कालस्तस्य वर्त्त- मानः कालः स च तस्य स्थैर्येऽपि सम्भवति, एकक्षणात्मकत्वं तस्य घटस्यासिद्धमेव । अन्त्ये, प्रकाशिका । इति । वर्त्तमानत्वनिश्चय एवेति । अतीतानागतक्षणागोचरं क्षणगोचरं प्रत्यक्षमेव क्षणिकत्वे मानमिति भावः । एकक्षणात्मकत्वमिति । परमसूक्ष्माणां क्षणानामप्रत्यक्षत्वात् स्थूल एव कालोपाधिर्वर्त्तमानतया प्रत्यक्षे भासत इत्युपेयम् । तादृशी च सा स्थैर्य्येऽसाधारणीति भावः । ननु गृहीतेति । निर्विकल्पकविषयेत्यर्थः । निश्चितेति = सविकल्पकविषयेत्यर्थः ।
१६८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ १७ कारिकावतरणिकायो वर्त्तमानत्वमेकस्य विरुद्धमिति चेत् । यदि सदसत्त्वं तत् , तन्न । अनभ्युपगमात् । ताद्रूप्येणैव प्रत्यभिज्ञानात् । सदसत्संबन्धश्चेत्, किमसंगतं ? ज्ञानवत्तदुपपत्तेः । क्रमेणानेकसंबन्ध एकस्यानुपपन्न इति चेत् । न । उपसर्पणप्रत्ययक्रमेणैव तस्याऽ- प्युपपत्तेः । प्रत्यभिज्ञानमप्रमाणमिति चेत् । अस्ति तावदतो निरूपणीयं, क्षण- प्रत्ययस्तु भ्रान्तोऽपि नास्तीति विशेषः ॥ १६ ॥ स्यादेतत् । मा भूदध्यक्षमनुमानं वा क्षणिकत्वे, तथापि सन्देहोऽस्तु । एतो- बोधनी । भेदं ब्रूमः, किन्तु वर्त्तमानत्वावर्त्तमानत्वलक्षणविरुद्धधर्मसंसर्गादिति दूषयति-यदि-इति । सद- सत्त्वरूपं तावद्वर्त्तमानत्वावर्त्तमानत्वमेकस्य धर्मिणो नाभ्युपगच्छाम इति । कुत इत्याह- ताद्रूप्येण-इति । शङ्कते-सदसत्-इति । सता वर्त्तमानेन कालेन संबन्धो वर्त्तमानत्वम् , असताऽतीतेनानागतेन वाऽवर्त्तमानत्वमिति किमसंगतमिति । यथा प्रत्यभिज्ञानमेकमेव वर्त्तमा- नत्वं सच्च विषयीकरोति असच्चातीतत्वम् , यथा वा अघटं भूतलमिति ज्ञानं भावाभावौ, तथैक एव धर्मो सदसद्भ्यां संभन्त्स्यते, को विरोध इति । नन्वस्तु युगपदेकस्यानेकसंबन्धो न तु क्रमेण, तथा हि यद्येकसम्बन्धक्षणे भावः संबन्धन्तरेणापि संबद्धुं समर्थः, तर्हि तदानीमेव तेनापि संबध्येत, समर्थस्य क्षेपायोगात् । असमर्थश्चेन्न पश्चादपि । तदन्यदेव पश्चात्संबध्यत इति सिद्धः क्षणभङ्ग इत्याशयेन शङ्कते क्रमेण-इति । प्रत्यभिज्ञया तावदेकत्वं प्रतीयत इत्युक्तं, न चैकस्यानेकसंबन्धोऽनुपपन्न इति केवलमत्र सम्बन्धक्रमे कारणं वक्तव्यं, तच्च संबन्धिसन्नि- धापकानां क्रम एवेत्याह-उपसर्पण-इति । ननु प्रत्यभिज्ञायाः प्रामाण्ये सति सर्वमेतदेवं स्यात् , तदेवासिद्धमित्याह-प्रत्यभिज्ञानम्-इति । मा भूत् प्रामाण्यसिद्धिस्तथापि भवन्तं वि- जयामह इत्याह-अस्ति तावत्-इति । स्थैर्यसाधकं प्रत्यभिज्ञानं तावदस्ति, अन्यथा धर्मिण एवासिद्धौ तत्राप्रामाण्यविधानायोगात् । तेन धर्ममात्रप्रामाण्यमेव तस्य निरूपणीयम् । क्षणि- कत्वे तु प्रमाणाभासोऽपि नास्तीति ॥ १६ ॥ एवं सौगतसमयसिद्धक्षणिकत्वावलम्बिनि चार्वाकस्य प्रत्यवस्थाने दूषिते स एवान्यथा प्रत्य- वतिष्ठते-स्यादेतत्-इति । न खलु क्षणिकत्वे प्रमाणाभावमात्रेण स्थिरत्वं सिद्ध्यति किन्तु संदेह एव, तथापि भूतचैतन्यसंभावनया न तद्व्यतिरिक्तश्चेतनः सिद्ध्यतीत्युच्यत इति । किमयं सन्देहः प्रकाशः । धर्मभेदेऽपि न तद्धर्मिभेद इत्याह । किमत्रेति । ताद्रूप्येणैवेति । द्वितीयादिक्षणेऽपि प्रत्य- भिज्ञानाद् वर्त्तमानत्वमेवेत्यर्थः । ननु पूर्व्वापराभ्यां सदसत्क्षणाभ्यां सम्बन्ध ॰एकस्य विरुद्ध इत्याह । सदसदिति । सदसदद्विषयकज्ञाने तदुभयसम्बन्धो यथा न विरुद्ध्यते तथा बाह्येऽ- पीत्याह । ज्ञानवदिति । ज्ञाने तदुभयसम्बन्ध एकदैवेति न विरुद्धः । क्रमिकस्तु विरुद्ध इत्या- ह । क्रमेणेति । तत्सम्बन्धकारणक्रमादेव सोऽप्यविरुद्ध इत्याह । उपसर्पणेति । प्रत्ययः=कार- णम् । ताद्रूप्येणैव प्रत्यभिज्ञानादित्याक्षिपति । प्रत्यभिज्ञानमिति । विरुद्धधर्मवद्विषयत्वादिति भावः । परिहरति । अस्तीति । प्रमाणत्वाप्रमाणत्वाभ्यामिति शेषः । वस्तुतो विरुद्धधर्माध्यासा- भावात् प्रमाणत्वमपि निरूपितमेवेति भावः । तदनेन स्थैर्ये प्रमाणमुक्तम् ॥ १६ ॥ प्रकाशिका । सम्बन्धकारणेति व्याख्यानं प्रत्ययेति मूलविरुद्धमत आह । प्रत्ययः कारणमिति । प्रत्यभिज्ञा- नमप्रमाणमित्यत्र हेतुं पूरयति । विरुद्धेति । सन्देहेऽपि स्थैर्यसिद्धिरित्येत आह * वस्तुत इति । विरुद्धयोरसंसर्गात् संशयोश्चाविरोधादिति भावः ॥१६॥
प्रथमस्तबके ] क्षणभङ्गनिराकरणम् । १६४ वताऽपि सिद्धं समीहितं चार्वाकस्येति चेत् । उच्यते— स्थैर्येदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोघतः ॥ एकतानिश्चयो येन क्षणे तेन स्थिरे मतः ॥ १७ ॥ न हि स्थिरे तद्दर्शने वा स्वरसवाही सन्देहः । प्रत्यभिज्ञानस्य दुरपह्नव- त्वात् । नापि तत्प्रामाण्ये, स हि न तावत् सार्वत्रिको, व्याघातात् । तथा हि । प्रामाण्यासद्धौ सन्देहोऽपि न सिद्ध्येत्, तत्सिद्धौ वा तदपि सिद्ध्येत् । निश्चय- बोधनी । स्थैर्य्ये ? तद्दर्शने वा दर्शनप्रामाण्ये वा ? तत्रापि प्रामाण्यमात्रे किं वा प्रत्यभिज्ञानप्रामाण्ये ? तत्रापि सर्वत्र प्रकृते वेति ? तत्र न प्रथमद्वितीयावित्याह—स्थैर्येदृष्ट्योरिति । प्रत्यभिज्ञा- नस्य दुरपह्नवत्वादिति भावः । न तृतीय इत्याह—न प्रामाण्ये-इति । अनेकप्रमाणाधीन- त्वात् सन्देहस्य प्रामाण्यमात्रासिद्धौ संदेहो न सिद्ध्येत् । तत्सिद्धौ न प्रामाण्यमात्रासिद्धिरिति संदेहसिद्धिप्रामाण्यमात्रासिद्धयोः परस्परव्याघातात् । नापि चतुर्थपञ्चमावित्याह—एकता-इति । येन विरुद्धधर्मसंसर्गविरहेण क्षणैकत्वग्राहिणः प्रत्ययस्य प्रामाण्यं निश्चित्य क्षणिकस्य भावस्यैकत्वं निश्चितोषि तेनैव स्थिरमपि भावं निश्चिनुया इति व्याचष्टे—न हि-इति । यद्यपि वादिविप्रति- पत्तेराहार्य्यः संदेहः, तथापि न स्वरूपतः स्थैर्य्ये तद्दर्शनसद्भावे वा सन्देहोऽस्ति । प्रत्यभिज्ञानस्य विषयतः स्वरूपतश्च दुरपह्नवत्वादिति । सामान्यतो विशेषतश्च ज्ञानात् प्रामाण्यसंदेह इत्यपि नास्तीत्याह—नापि-इति । तत्र सामान्यसंदेहनिराकरणहेतुतया विरोध इत्येतद्व्याचष्टे— स हि-इति । सर्वज्ञानप्रामाण्यविषयस्तावन्न संदेहः संभवतीति व्याघातमेवाह-तथाहि- इति । संदेहग्राहकज्ञानस्य प्रामाण्यसिद्धेः सन्देहोऽपि सिद्ध्येत् तस्य सन्देहस्य सिद्धौ तदपि प्रामाण्यमपि सिद्ध्येदिति कृत इत्यत आह—निश्चयस्य-इति । सन्देहस्वरूपनिश्चयस्य सन्दे- हग्राहिज्ञानप्रामाण्याधीनत्वादिति निश्चयवत्तस्य तदधीनत्वादिति केचित्पठन्ति । तत्रायमर्थः- प्रकाशः । सिद्धमिति । क्षणिकत्वसन्देहेऽपि चार्वाकमतसिद्धेरित्यर्थः । अत्र सन्देहः स्थैर्ये, तद्दर्शने वा, प्रामाण्ये वा ? तृतीयेऽपि प्रामाण्यमात्रे, प्रत्यभिज्ञानप्रामाण्ये वा ? । नाद्यावित्याह । स्थैर्येति । प्रत्यभिज्ञानानुव्यवसायाभ्यां स्थैर्यतज्ज्ञाननिश्चयादित्यर्थः । वादिविप्रतिपत्त्या सन्देहो न स्वारसिक इति भावः । न तृतीयः । कचिदपि प्रामाण्याप्रसिद्ध्या तत्कोटिकसंशयस्याप्यभावादित्याह । न प्रामाण्य इति । न चतुर्थः । एकत्र क्षणे येन विरुद्धधर्मसंसर्गाभावेनैकत्वनिश्चयस्तेनैव स्थिरेऽपि तन्निश्चयादित्याह । एकतेति । तथा हीति । सन्देहीत्यनुव्यवसायमानकत्वात् तस्येत्यर्थः । तत्सि- द्धौ=सन्देहसिद्धौ । तदपि=प्रामाण्यम् । निश्चयस्येति । निश्चयस्य सन्देहाधीनत्वात् सन्देहव्या प्रकाशिका । यथार्थुतमूलावष्टम्भेनाह । क्षणिकत्वसन्देह इति । ननु यदि स्थैर्य्ये न सन्देहः तदा विचारप्रवृत्तिरेव कथमित्यत आह । वादेति । तथा च विप्रतिपत्तिजन्मा आहार्य्य एव संशयो विचाराइम् । अत एव मूले न स्वरसवाही सन्देह इत्युक्तमिति भावः । संशयस्यापीति । अनुव्यवसायप्रामाण्ये च न प्रामाण्यमात्रे सन्देह इति भावः । निश्चयस्य निधायकप्रामाण्यनिश्च- मकरन्दः । क्षणिकत्वसन्देहेऽपीति । स्थैर्यासिद्ध्या चार्वाकाऽऽकाङ्क्षितसिद्धेरित्यर्थः । वादीति । स्वारसिकस्यैवात्र निषेध्यत्वात् । अत एवोक्तं मूले, "न स्वरसवाही सन्देह" इति ॥ १७-१८॥ न सिद्ध्येत् । सिद्धिमात्रस्य प्रमाणाधीनत्वात् ।
२०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १७ कारिकाव्याख्यायां स्य तदधीनत्वात् । कोटिद्वयस्य चाङ्गत्वस्यानुपस्थाने कः सन्देहार्थः ? तद्दर्शने च कथं सर्वथा तदसिद्धिः ? । एतेनाप्रामाणिकस्तद्व्यवहार इति निरस्तम् । सर्वथा प्रामाण्यासद्धौ तस्याप्य- सिद्धेः । प्रकृते प्रामाण्यसन्देहो लूनपुनर्जातकेशादौ व्यभिचारदर्शनादिति चेत्। न एकत्वनिश्चयस्य त्वयाऽपीष्टत्वात् । अनिष्टौ वा न किञ्चित् सिद्धयेत् । सिद्धयतु यत्र विरुद्धधर्मविरह इति चेत्, तेनैव स्थिरत्वमपि निश्चीयते । स इह सन्दि- द्यत इति चेत्, तुल्यमेतत् क्वचिन्निश्चयोऽपि कथञ्चिदिति चेत्, समः समाधिः॥१७॥ बोधनी । यथा निश्चयः प्रामाणाधीनस्तथा संदेहोऽपीति । इतश्च सर्वथा प्रामाण्यासद्धौ सन्देहो न सिद्ध्ये- दित्याह—कोटिद्वयस्य-इति । निदर्शनं निश्चयः भवतु दर्शनं, तेन चोपस्थाप्यतां कोटिद्वयं, को विरोध इत्याह-तद्दर्शने च इति । कोटिद्वयनिश्चयार्थमपि संदेहः प्रामाण्यमपेक्षत इत्यर्थः । यद्वा, कासांचिज् ज्ञानव्यक्तीनां प्रामाण्यं कासांचित्त्वाप्राण्यं दृष्टवतः कस्यचित्प्रमाण- मप्रमाणं वेति संदेहः स्यात् । सर्वथा प्रामाण्यासद्धौ कोटिद्वयानुपस्थानात्संदेहो न सिध्यतीति कथं प्रामाण्यमात्रस्य सन्देहग्रस्तत्वे प्रमाणव्यवहारो लौकिकानामित्यत्र यत्प्रतिविधानं चार्वाकस्य, अप्रा- माणिकः प्रमाणव्यवहार इति । तदपि पूर्वोक्तव्याघातेन निरस्तमित्याह-एतेन-इति । व्याघातमेव स्फुटयति - सर्वथा-इति । अप्रामाणिकोऽयं व्यवहार इत्यस्यापि प्रमाणसिद्धत्वादिति । एवम्- 'सन्देहगोचरः सर्वं कस्य चिन्न कथंचन । प्रतिष्ठामिति वादोऽयं चार्वाकस्य निराकृतः' ॥ इति । अथोत्तरमर्थं व्याख्यास्यंस्तं निराकरणीयं विशेषतः प्रामाण्यसन्देहं सहेतुकमाशङ्कते- प्रकृते-इति । व्याचष्टे-न-इति । तथाप्येकस्मिन्क्षणे भावस्यैकत्वनिश्चयोऽस्ति । तत्रैकोऽय- मित्यबाधिताकारं ज्ञानमेव शरणं, तच्च कालभेदेऽपि समानमिति भावः । विपक्षे दण्डमाह- अनिष्टौ-इति । एकस्तावन्न सिध्यति, तदसिद्धौ नानेकोऽपीति शङ्कते—सिद्धयतु-इति । यत्रैकस्मिन् क्षणिके भावे विरुद्धधर्मसंसर्गो नास्ति स एकः सिद्धयतु विरुद्धधर्मसंसृष्टविषयं प्रत्य- भिज्ञानं प्रमाणं, न प्रत्यभिज्ञानमात्रम् । स्थिरे तु विरुद्धधर्मसंसर्गोऽस्तीति भावः । तेनैव-इति । तेन विरुद्धधर्मसंसर्गविरहेण पूर्वमुपपादितेनेति शङ्कते-सः-इति । विरुद्धधर्मविरहः स्थिरेऽपि संदिग्ध इति त्वयोपपादितेऽपि मया संसर्गस्यापायमानत्वाद्विप्रतिपत्तेः संशयगोचरः स्यादिति भावः । यदि निश्चितेऽपि संदेहस्तर्हि क्षणेऽपि विरुद्धधर्मासंसर्गः संदिग्धः स्यादित्याह- तुल्यम्-इति । यदि क्षणिकस्यैक्यानिश्चये न किंचित्सिध्येदिति तर्केण तत्र निश्चयः, तर्हि स्थिर- स्याप्यभावे सर्वस्यादृष्टगोचरत्वात् क्वचित्प्रवृत्तिः कुतश्चिन्निवृत्तिश्च न स्यादिति सर्वलोकयात्रो- च्छेदप्रसङ्गोऽत्रापि सम इत्याह-क्वचित्-इति ॥ १७ ॥ प्रकाशः । पक्त्वात् तेन विना सन्देहानुपपत्तेरित्यर्थः । यद्वा, सन्देहनिश्चयस्याऽपि तदनुव्यवसायप्रामाण्य- निश्चयाधीनत्वादित्यर्थः । तद्दर्शने चेति । प्रामाण्यदर्शने चेत्यर्थः । प्रकृते स्थैर्यसाधकप्रत्यभिज्ञाने । न किञ्चिदिति । क्षणिकोऽप्येको न स्यादित्यर्थः । तुल्य- मिति । क्षणिकस्याप्येकत्वे सन्देह इत्यर्थः । क्वचिदिति । यत्र न विरुद्धधर्मसंसर्ग इत्यर्थः । सम इति । स्थिरेऽपि तदभाव एवेत्यर्थः ॥ १७ ॥ प्रकाशिका । षाधीनत्वादिव् । इति सन्मुखव्याख्याने सुगमे वक्रव्याख्याने निर्बीजमित्यरुचेराह । यद्वेति ॥१७॥ तदधीनत्वात् = सन्देहव्यापकत्वात् । व्यापकाभावे व्याप्य स्यसंदेस्याप्यभावात् । यद्वा संदेहनिश्चयस्यापि तदनुव्यवसायप्रामाण्यनिश्चयाधीनत्वादित्यर्थः । तस्याप्यसिद्धेरिति । उक्तव्यवहारे प्रामाणिकत्वस्यापीत्यर्थः ।
प्रथमस्तबके ] कारणत्वस्य स्वाभाविकत्वव्यवस्थापनम् । २०१ नन्वेतत् कारणत्वं यदि स्वभावो भावस्य नीलादिवत् तदा सर्वसाधारणं स्या- त् । न हि नीलं किञ्चित् प्रत्यनीलम् । अथौपाधिकं, तदा उपाधेरपि स्वाभावि- कत्वे तथात्वप्रसङ्गः । औपाधिकत्वे त्वनवस्था । अथाऽसाधारणत्वमप्यस्य स्व- भाव एव, तत उत्पत्तेरारभ्य कुर्यात् , स्थिरस्यैकस्वभावत्वादिति चेत् । उच्यते- हेतुशक्तिमनादृत्य नीलाद्यपि न वस्तु सत् ॥ तद्युक्तं तत्र तच्छक्तमिति साधारणं न किम् ॥१८॥ बोधनी । संप्रति चार्वाकः स्थिरपक्षे कारणत्वानुपपत्त्या प्रत्यवतिष्ठते—नन्विति । स्थिरस्य भाव- स्य कारणत्वं यदि स्वभावतः स्वतःसिद्धं यथा नीलस्य नीलत्वं तर्हि तद्वत्साधारणं स्यात् , तत्र चैकस्मात्कारणात्सर्वकार्योत्पत्तिः प्रसज्यत इति नीलादीनां साधारण्यं दर्शयति—न हि—इति । शङ्कते-अथ-इति । औपाधिकत्वे ह्यसाधारण्यमुपपद्यते यथा तस्यैव नीलस्य प्रत्यक्षत्वादेरिति । विकल्प्य निराचष्टे-तदा उपाधेः-इति । येनोपाधिना भावः कारणं भवति स चौपाधिर्मा- वस्य स्वभावो वा स्यादौपाधिको वा ? पूर्वत्र पूर्ववत्तस्यापि तथात्वं साधारण्यं प्रसज्येत, उत्तरत्र तस्यापि तथात्वप्रसङ्गादनवस्था, तस्मात्पारमार्थिकनीलादिवैधर्म्यात्काल्पनिकोऽयं कार्यकार- णभाव इति । अथेति । यथा कारणत्वमस्य स्वभावः तथा किंचिदेव कार्यं प्रति न सर्वमिति कारणत्ववदसाधारण्यमप्यस्य स्वभावः, ततश्च नोक्तप्रसङ्ग इति । तर्हि यं यं कार्यविशेषं प्रति कारणत्वमस्य स्वतः सिद्धं तं तं सर्वदा कुर्यात्स्थिरस्यैकस्वभावत्वात्कालभेदेन स्वभावभेदा- नुपपत्तेरित्याशयेनाह-उत्पत्तेः-इति । उच्यत-इति । हेतुशक्तिं कारणत्वमनादृत्य पारमार्थि- कत्वेनाभ्युपगम्यमानं नीलाद्यपि वस्तु न पारमार्थिकं सद्भवति कुतश्चित्कारणाल्लब्धस्वरूपं पार- मार्थिकं स्यात् । इतरथा नित्यत्वेनासत्त्वप्रसङ्गात् । तेन नीलादेः पारमार्थिकत्वं वदता कारण- स्यापि पारमार्थिकत्वं वक्तव्यम् , अन्यथा नीलादेरप्यपारमार्थिकत्वापत्तेः, तथा च कथं तद्वैधर्म्येण कारणत्वस्यापारमार्थिकत्वं सिध्येदिति । प्रतिनियतमेव कारणत्वं भावानां स्वभावः । न च तत्र कार्यविशेषाणां सततोत्पादकत्वप्रसङ्ग इत्याह—तद्युक्तम्-इति । तैस्तैः सहकारिभिर्युक्तं तत्त- त्कारणं तत्र तत्रान्वयव्यतिरेकवस्तु कार्यविशेषेषु शक्तं, तस्मात्कार्यविशेषाणामेव सहकारिक्रम- वशात् क्रमेणैवोत्पत्तिरुपपन्नेति । कथं तर्हि पारमार्थिकत्वे कारणत्वस्य नीलादिवैधर्म्यं तत्राह- इति-इति । कार्यविशेषनियतं सहकार्याधीनं च कारणत्वं किं न साधारणं, साधारणमेव सर्वैस्त- थोपलम्भनियमात् । न हि नीलादेरन्यत्साधारण्यम् । अतो न नीलादिवैधर्म्यं कारणत्वस्येति । प्रकाशः । तदेवमलौकिकं परलोकसाधनं सिद्धम् । तत्र शङ्कते— नन्विति । यथा नीलं सर्वेण निरूप्यमाणं नीलं, तथा सर्वेण निरूप्यमाणं कारणं स्यादित्यर्थः । तथात्वे=सर्वसाधारण्यम् । औपाधिकत्व इत्यत्रोपाधेरित्यनुषजनीयम् । अथेति । नियतकार्यप्र- तियोगिककारणत्वमेव स्वभाव इत्यर्थः । तत इति । यस्य स्वाभाविकं तत्तदुत्पत्तित एवारभ्येति बीजस्य बीजत्वमिवाङ्कुरकारित्वमप्युत्पत्तित एव स्यादित्यर्थः । ततः कार्यत्वमस्य न साधारण- मसारणं वेति भावः ॥ परस्य कार्यकारणभावस्य साधारणत्वापादनेन हेतुशक्तिरेव निरस्तत्वेन मता । तथा च नीलाद्यपि परमार्थसन्न स्यात् । नित्यत्वप्रसङ्गात् । ततो वैधर्म्यदृष्टान्ताभावात्स्वपक्षो न सिद्ध्य- तीत्याह-हेतुशक्तिमिति । तद्युक्तमिति । सहकारियुक्तम् । तत्र=कार्ये तत्तत्=कारणं शक्तं= निर्वर्तकमिति सर्वैरेव प्रतीयत इति सर्वसाधारण्यमस्त्येव । नीलादेरपि तदेव सर्वसाधारण्यमित्यर्थः । प्रकाशिका । कारणं स्यादिति । तथा च सर्वं सर्वत्र कारणं स्यादित्यर्थः । ततः कारणत्वमिति । २६ न्या० कु०
सर्वसाधारणनीलादिवैधर्म्येण काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम् । अन्यथा, तद्वैधर्म्येण हेतुफलभावस्या- पारमार्थिकत्वानुपपत्तेः । न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पार- मार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् । तस्मादस्य पारमार्थिकत्वेऽपरमपि तथा, न वोभयमपीति । कथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात्, तत्स्वभावत्वादिति यदि, तदोत्पत्तेरारभ्य कुर्यादविशेषादित्यपि न युक्तम् । तत्तत्सहकारिसाचिव्ये त- त्त्कार्यं करोतीति स्वभावव्यवस्थापनात् । इदञ्च साधारणमेव, सर्वैरेव तथोप- लम्भात् । न हि नीलादेरन्यत् साधारण्यमिति ॥१८॥ स्यादेतत् । अस्तु स्थिरं, तथापि नित्यविभोर्न कारणत्वमुपपद्यते । तथा ह्यन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण । अतिप्रसङ्गात् । न च नित्यविभूनां व्यतिरेकसम्भवः । न च सोपाधेरसावस्त्येवेति साम्प्रतम्, तथाभू-
बोधनी ।
तत्र पूर्वार्द्धं व्याख्यातुं तावद्वस्तुसत्त्वं नीलादेरवश्याङ्गीकार्यं यथा तथाह- सर्व-इति । अनुपन्न- स्तस्यापि कार्यभावस्य कारणत्वमतुल्ययोगक्षेमत्वाद्वा कारणत्वस्य संबन्धिरूपत्वेन तत्स्वरूपा- न्तर्गतत्वाद्बोपादानमित्यस्तु पारमार्थिको नीलादिस्ततः किमित्यत आह-न च-इति । किमित्ये- वमित्यत्राह- नित्यत्व-इति । नित्यस्यार्थक्रियाविरहादसत्त्वमेव स्यात्, न च नित्यत्वं कादा- चित्कत्वादिति भावः । अत्रार्थतः सिद्धमुपसंहरति-तस्मात्-इति । अस्य=नीलादेः अपरमपि= कारणत्वमपि । तथा = पारमार्थिकम् । न चोभयमपि पारमार्थिकं स्यादिति तृतीयपादं व्याचि- ख्यासंस्तन्निराकरणीयां शङ्कामुत्थाप्य निराकरणं प्रतिजानीते कथमित्यादिना न युक्तमित्यन्तेन । अन्तरा पूर्वपक्ष्यैव सिद्धान्तिनो मतमाशङ्क्य निराकरोति-तत्स्वभावत्वादित्यादिना । अवि- शेषात्कार्यकारणस्वभावस्योत्पत्तिप्रभृत्यविशेषात्तथैव व्याचष्टे-तत्तत्-इति । तुरीयपादं व्याचष्टे- इदं च-इति । 'इतिशब्दव्याख्यानम् । नन्वस्तु सर्वैरुपलम्भः, न तन्नीलादीनां साधारण्यं किन्तु सर्वान् प्रति तत्त्वं, कारणत्वस्य तु नैवंविधं साधारण्यमस्ति नियमस्योक्तत्वादित्यत्राह-न हि-इति । न तावन्नीलादेः सर्वदेशकालव्यापित्वं साधारण्यमस्त्यव्यापकत्वादनित्यत्वाच्च । न च सर्वान्प्रत्यपि नीलरूपमित्यपि संभवति । नीलत्वस्य कारणत्ववत्प्रतियोग्यपेक्षनिरूपणीयत्वाभावात् । ततः सर्वैः सर्वदा तथोपलम्भादेव साधारण्यम्, इदं च कारणत्वेऽप्यविशिष्टमिति ॥ १८ ॥ एवं तावत् क्षणिकत्वप्रतिक्षेपेण स्थिरत्वसमर्थनम् । न च गत्यन्तरं स्थिर इत्येतस्मिन्नन्वय- स्थिते भूतचैतन्यासम्भवात्तद्व्यतिरिक्तश्चेतन इति सिद्धम् । तत्राह-स्यादेतत्-इति । भवतु भूतं स्थिरं मा भूच्चैतन्यं तथापि भवदभिमतस्य नित्यविभोरात्मनः कारणत्वं नोपपद्यते, येनास्य ज्ञातृत्वं भोक्तृत्वमित्यादिकं सर्वमुपपद्येतेति भावः । किमिति नोपपद्य इत्यत्राह-तथा हि-इति । अतिप्रसङ्गात्कार्यमात्रं प्रत्येव नित्यविभूनां कारणत्वप्रसङ्गादिति भावः । ततः किमित्यत्राह-न च-इति । व्यतिरेको हि देशतः कालतो वा स्यादिति केवलस्यासम्भवेऽपि शरीराद्युपाधिविशि-
प्रकाशः ।
अस्य=नीलादेः । अपरमपि-कार्यकारणस्वरूपमपि । इदञ्चेति। तथा चेष्टापादनमिति भावः॥१८॥ नन्वेवमदृष्टस्यात्मवृत्तित्वेऽपि नात्मा समवायिकारणं, नाप्यन्यदिति तदभावादसमवाय्या- द्यपि न कारणमिति तन्नित्यत्वेन न यागादिजन्यत्वं, नाऽपि भोगनियामकत्वमित्यभिप्रेत्याह- स्यादेतदिति । न चेति । नित्यत्वेन न कालतो व्यतिरेको, विभुत्वेन न देशत इत्यर्थः ।
प्रकाशिका ।
तथा च कारणत्वमसदेवेति भावः ॥ १८ ॥