भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६३ प्रकाशः । थासिद्धम् , यथा कुम्भकारेण कुम्भं प्रति तत्पिता । यमादायैव यस्यान्यवयव्यतिरेकौ तेन तदन्यथासिद्धम् , यथा दण्डेन दण्डत्वम् । एतावदन्यथासिद्ध्यभावे सति यस्य नियतपूर्ववर्त्ति- त्वं, तत् कारणम् । (पृ० १५०) सहकारीति । नन्वत्रात्माश्रयः सहकारित्वस्य कारणत्वात् , प्रकाशिका । तज्जन्यं यत्कार्यप्रयोजकत्वं, न यस्य गृह्यते तत्कार्यं प्रति तदन्यथासिद्धमित्यर्थात् । श्रवणस्य श्रोतव्य इत्यादिशब्देन मनन पूर्ववर्त्तित्वामगृहीतवापि मुक्तिप्रयोजकताग्रहात् , अत एव परामर्शजनक- त्वेन व्याप्तिग्रहादीनां कारणत्वेऽपि नान्यथासिद्धिः । अनुमितेः करणजन्यत्वानुमानेनैव परामर्शपूर्व- वर्त्तित्वमगृहीत्वाप्यनुमितिप्रयोजकत्वग्रहात् । कुम्भकारपितुः कुम्भकारपितृत्वमगृहीत्वा मानाभावे- न घटप्रयोजकत्वाग्रहाद् घटं प्रति सोऽन्यथासिद्ध इति दिक् । यमादायैवेति । यं पृथगन्वयाद्यन- नुविधायिनमवच्छेदकीकृत्य यस्यान्यवयव्यतिरेकौ तेनान्वयव्यतिरेकवतावच्छेदकमन्यथासिद्धमित्यर्थः । पृथगित्यादिविशेषणेन न दण्डरूपेण दण्डेऽन्यथासिद्धिः । प्रथमान्यथासिद्धिरवच्छेदकेनावच्छेद्यस्ये यन्त्ववच्छेद्येनावच्छेदकस्येति ततो भेदः । यमित्यत्र कार्येण सहावच्छेद्यापेक्षयाऽव्यवहितसम्बन्ध मिति वा विशेषणम् । तेन दण्डावच्छिन्नस्य दण्डत्वस्यान्यवयव्यतिरेकग्रहेऽपिन दण्डत्वेन दण्डेऽन्यथा सिद्धिः । अत एव नोद्भूतरूपतेजसोः परस्परमन्यथासिद्धिः । विषयतया साक्षात्कारेण तुल्यवदुभयोः सम्बन्धत्वात् । अत एव नेन्द्रियसंयोगेनेन्द्रियान्यथासिद्धिः । विषयद्वारा तुल्यवदुभयोः साक्षा- त्कारसम्बन्धात् यथा च न दण्डत्वस्य पूर्वत्रान्तर्भावः, तथा तत्रैव व्याख्यातमिति । नियतेति । यद्धर्मावच्छिन्नकार्याव्यवहितक्षणत्वव्यापकाधिकरणताप्रतियोगित्वं यद्धर्मावच्छिन्नस्य तद्धर्माव- च्छिन्नं प्रति तद्धर्मावच्छिन्नं कारणमित्यर्थः । अधिकरणता च स्वस्वप्रागभावव्यापकप्रागभाव- प्रतियोग्यन्यतरस्य तेन यागादेः स्वर्गकारणत्वाविरोधः । अधिकरणता च कार्यदेशावच्छिन्ना बो- द्धव्या, तेन रासभस्य नियतघटानव्यवहितपूर्वकालत्वेऽपि न तत्कारणत्वम् । ननु तद्देशाधिकरणता साक्षात्सम्बन्धेन वा साक्षात्परम्परासाधारणसम्बन्धेन वा, आद्ये अदृष्टस्य घटकारणत्वं न स्यात् , अन्त्ये रासभस्यापि घटकारणतापत्तिरितिचेन्न । एकजातीयतानियतेन सम्बन्धेन साक्षादेव वा पर मकरन्दः । क्तमेव । मननव्यापारकश्रवणत्वेन हेतुत्वमिति द्रव्यप्रकाशविरोधश्च । यदि मननपूर्ववर्त्तित्वमज्ञा- त्वाऽपि, श्रोतव्य. इत्यादिशब्दादिना श्रवणपूर्ववर्त्तित्वग्रहसम्भवे भिन्नग्रहसामग्रीकत्वादिति नैर्षं, तदा प्रकृतेऽपि तुल्यमिति । यमादायति । न च येन सहेत्यनेनाभेद इति वाच्यम् । तत्र साहित्यप्रतियोगिना दण्डेनान्वयादिप्रतियोगि रूपमन्यथासिद्धमिति हि विवक्षितम् । अत्र च साहित्यप्रतियोगिदण्डत्वमेव दण्डेनान्यथासिद्धमिति भेदात् । अत्रापीदं चिन्त्यम् । पूर्वत्रैवास्या- न्तर्भावे वैयर्थ्यम् । उद्भूतरूपतेजसोः परस्परमन्यथासिद्ध्यापत्तिः । इन्द्रियादेरिन्द्रियसंयोगा- दिनाऽन्यथासिद्ध्यापत्तिश्च । किञ्च दण्डत्वावच्छेदकसमियतधर्म्मान्तरमादायापि शब्दादिना- ऽन्वयादिग्रहसम्भवान्नियमसिद्धिः । प्रत्यक्षपरत्वेऽतीन्द्रियावच्छेदकाऽव्याप्तिः । अन्यथा दण्ड- मादाय दण्डत्वेन तद्व्यान्वयादिग्रहात्तेन दण्डान्यथासिद्ध्यापत्तेरिति । नियतेति । ननु नियतत्वं देशमपेक्ष्य कालमपेक्ष्य वा ? । नाद्यः । रासभेऽपि गतत्वात् । घटपटादिपूर्वकाले रासभजातीयस्य नियमेन सत्त्वात् । नान्त्यः । साक्षात्सम्बन्धेनादृष्टादेर्घटा- दिदेशेऽनियतत्वात् । साक्षात्परम्परासाधारणसम्बन्धमात्रापेक्षया रासभे घटादिदेशनियतत्वेना- तिप्रसङ्गादिति चेत् । मैवम् । साक्षात्परम्परासाधारणैकजातीयसम्बन्धेन देशनियतत्वस्य विवक्षि- तत्वात् । रासभादेरेकजातीयसम्बन्धेन घटादिदेशनियतत्वाभावाद् घटादेरेकजातीयसम्बन्धेना-

१६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायां प्रकाशः । प्रयुक्तत्वं च न जन्यत्वं, प्रागभावस्याजन्यत्वात् । नापि जनकत्वम् , असम्भवात् । नापि व्या- पकत्वम् । शिलाशकलेऽपि तादृशाभावस्य सत्त्वेन तत्रातिव्याप्तेः । नाऽपि व्याप्यत्वम् । कार्य- संसर्गाभावमात्रस्य सहकार्याभावाव्याप्यत्वात् । शिलाशकलादौ कार्याभावे सत्यपि सहकार्याभाव- स्याऽसत्त्वात् । न च कार्यप्रागभावस्तद्व्याप्यः । निमित्तसमवायिनोः कार्यप्रागभावाभावेन तद- व्याप्तेः । उच्यते । यस्य कार्याभावव्याप्यत्वमितराभावावच्छिन्नं, तत् कारणम् । बीजेऽङ्कुरा- भावव्याप्यता न बीजत्वेनावच्छिद्यते, इतरसमवधाने सति बीजादङ्कुरसत्त्वात् । किन्त्वितराभावे प्रकाशिका । म्परया वा तद्देशाधिकरणत्वस्य विवक्षितत्वात् । न च कियत्सु घटेष्वपि रासभस्यापि नियतः सम्बन्धोऽस्त्येवेति कार्यतावच्छेदकावच्छिन्न एकजातीयः सम्बन्धो नादृष्टस्यापि द्रव्यगुणादौ तस्य- नानाजातीयतद्देशसम्बन्धादिति वाच्यम् । कारणता हि प्रतिकार्यं प्रतिकारणं च भिन्नेति तत्र तत्र कार्येऽदृष्टस्य नियतजातीयदेशसम्बन्धात् । न च कार्यत्वावच्छिन्नेऽदृष्टत्वेन कारणतायां नैकजातीयसम्बन्ध इति वाच्यम् । तस्याः कारणतायाः साक्षात्परम्परासाधारणनानाजातीय सम्बन्धमात्रघटितत्वात् । न चैसैव कारणता रासभेऽतिव्याप्तेति वाच्यम् । तस्यां कारणतायामुक्त रूपविशेषकारणताश्रयत्वस्य विशेषणत्वात् । ताश्च विशेषकारणताः कार्यत्वव्याप्यधर्मनिरूपितत्वे सत्यदृष्टत्वव्याप्यधर्मनिरूपितत्वेनानुगमनीया इति न तद्घटितसामान्यकारणतानुगम इति दिक् । यस्य कार्याभावेति । यस्यावध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्नकार्याभावव्याप्यता- इतरसहकार्याभावावच्छिन्ना तदवच्छिन्नं कारणमित्यर्थः । तेन शिलात्वेऽपि संयोगावच्छिन्नाङ्कुराभा- वव्याप्यता न शिलात्वेनावच्छिद्यते शिलायां कदाचिदङ्कुरसत्त्वादिति तत्रातिव्याप्तिः, यत्र दण्डाभा- ववत्त्वं तत्र घटाभाव इति व्याप्तावधिकरणतया दण्डाभावस्यावच्छेदकतया तदवच्छिन्ने दण्डाभाववत्त्वे ऽतिव्याप्तिः, कार्याभावव्याप्यता इतरसहकृतत्वावच्छिन्ना बीजत्वस्येति तत्रातिव्याप्तिरित्यादीनि दूषणानि न भवन्ति । न च चरमकारणे कार्याभावाभावादव्याप्तिः, चरमकारणेऽपि परामर्शादौ सति प्रतिबन्धके कार्याभावात् यत्रापि न विलम्बः परामर्शादनुमितौ, तत्रापि तज्जातीयत्वम- स्त्येव, तदेव च लक्षणम् । न चैवमपि विभागकारणे कर्म्मणि प्रतिबन्धकस्याप्यभावादसङ्गतिरिति वाच्यम् । उत्पत्तिकालावच्छिन्नस्य कर्म्मणो विभागाभावाधिकरणत्वात् । एवं च स्वासाधारणेतर- धर्म्मावच्छिन्नं यस्योक्तसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं तदवच्छिन्नं कारणमिति लक्षणवा- क्यार्थः । अन्यथासिद्धानाञ्च स्वभावत एवोक्तसम्बन्धावच्छिन्नकार्याभाव इति न तत्रातिप्रसङ्गः । अत एव तदवच्छिन्नस्य धर्मिणः कारणत्वमित्येवार्थो न तु तदवच्छेदैन कारणत्वमिति तेन न रूपवद् दण्डत्वमादायातिप्रसङ्गः । अरण्यस्थदण्डत्वं यद्यपि स्वरूपेण घटाभावव्याप्यम् , तथापि दण्डत्वमादायैव तत्र कारणता। अग्रे च बीजबीजत्वपदे बीजत्वबीजत्वपरे इति दिक् । ननु कार्य- कारणयोरवध्यवधिमद्भावसम्बन्धे मानाभावः । प्रतीतेः कार्यकारणभावेनैवोपपत्तेरित्युत्पत्ति- मकरन्दः । ऽदृष्टादेर्नियतत्वादिति वदन्ति । तन्नेदं चिन्त्यम् । कियत्सु घटेषु रासभस्याऽप्येकजातीयसम्बन्धेन देशनियतत्वादतिप्रसङ्गः । कार्यतावच्छेदकावच्छेदेनादृष्टस्याप्यतथात्वम् । द्रव्यगुणाद्यनेककार्ये एकजातीयसम्बन्धाभावादिति ॥ यस्य कार्याभावव्याप्यत्वमिति । इतराभावसहकारावच्छिन्नं तदवच्छिन्नं कारणमि- टिप्पणी । वक्षितार्थः। प्रागभावस्याजन्यत्वादिति । ध्वंसस्योत्तरभावितयात्राप्रयोजकत्वात् कार्याभावस्य तस्य जन्यत्वमपि न किञ्चित्करमतः प्रागभावस्येति प्रागभावेत्युपलक्षणमत्यन्ताभावस्येत्यपि बोध्यम् । यस्य कार्याभावव्याप्यत्वमिति । अवध्यवधिमद्भावलक्षणसम्बन्धावच्छिन्न

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १६५ प्रकाशः । नावच्छिद्यते । इतराभावे बीजेऽङ्कुराभावनियमात् । शिलायां तु तत् , शिलात्वेनैवावच्छिद्यते । मकरन्दः । त्यर्थः । तेन बीजत्वस्य कार्याभावव्याप्यत्वस्य जनकत्वाभावान्नासम्भवः । न वा यत्र दण्डाभा- ववत्त्वं तत्र घटाभाव इति दण्डाभावनिष्ठव्याप्तौ दण्डाभावस्यैवावच्छेदकतयाऽजनके दण्डा- भावादौ चातिव्याप्तिः । तत्र दण्डाभावसहकृतत्त्वस्यानवच्छेदकत्वात् । एवञ्चाग्रे बीजत्वादि- पदं तद्धर्मपरमिति । ननु कार्याभावस्तजनकत्वाभावो वा, तदभावमात्रं वा ? । आद्ये आत्माश्रयः । अन्त्ये शिलायामप्यङ्कुरस्य संयोगवृत्त्या सत्त्वेन तत्रापीतराभावसहकृतशिला- त्वस्य कार्याभावव्याप्यत्वात् । किञ्च घटकारणे ज्ञानादौ कार्याभावव्याप्यत्वं ज्ञानत्वादिनै- वावच्छिद्यते । दण्डाद्यभावसाहित्यस्य तत्र नीलधूम इव व्यर्थत्वादिति चेत् । अत्र वदन्ति । उत्पत्तिकालीनसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं विवक्षितम् । संयोगसम्बन्धस्योत्पत्त्यनन्तर- कालीनतया तदवच्छिन्नाभावमादाय न शिलादौ प्रसङ्गः । उत्पत्तिकालीनसम्बन्धो द्वयमेव, कार- णता समवायश्च । तदवच्छिन्नाङ्कुराभावश्च समवायिनि बीजादौ च । द्वयञ्च कारणमेव । न चैवं कारणतागर्भत्वेनात्माश्रयः । सम्बन्धत्वेनैव तज्ज्ञानादिति । अत्र वदन्ति । विषयविषयिभाव- सम्बन्धस्याप्युत्पत्तिकालीनतया तदवच्छिन्नकार्याभाववत्त्वस्येतराभावावच्छेदकतया वह्न्यादेरनुमिति- जनकत्वापत्तिः । चरमकारणे कार्याभावाभावादव्याप्तिश्चेति । बीजादङ्कुर इति प्रतीतिबलादवध्यव- धिमद्भावलक्षणः स्वरूपसम्बन्धविशेष एव विलक्षणः । कार्यकारणयोस्तत्सम्बन्धावच्छिन्नकार्या- भावश्च कारण इतराभावावच्छेदेन । स्वरूपायोग्ये च तादृशसम्बन्धाभावात् तदवच्छिन्नकार्याभावः स्वासाधारणशिलात्वादिकर्मोवच्छेद्यः । एवञ्च तादृशसम्बन्धावच्छिन्नकार्याभावव्याप्यत्वं यन्त्र स्वा- साधारणधर्मेत्तरावावच्छिन्नं तदवच्छिन्नं कारणमित्यत्र तात्पर्यम् । चरमकारणे च यद्यपीतराभावो नावच्छेदकस्तथाप्युत्पादकाल एव तथा । उत्पादामन्तरमेव कार्योत्पादेन तदा कार्याभावात् । यद्वा, परामर्शदौ चरमकारणेऽपि प्रतिबन्धकाभावविलम्बेन कार्योत्पत्तिविलम्बादितराभावावच्छिन्नमेव । टीप्पणी । कार्याभावव्याप्यता यस्य स्वासाधारणधर्मातिरिक्तधर्मावच्छिन्ना तत्त्वमित्यर्थः। तेन यत्र दण्डा- भाववत्त्वं तत्र कार्याभाव इति दण्डाभाववत्त्वनिष्ठव्याप्तेरधिकरणविधया दण्डाभावावच्छिन्नत्वेऽपि नातिव्याप्तिः । शिलाशकलेऽपि कदाचित् संयोगेन कार्यस्य सत्त्या तत्स्वरूपस्यापि निःस्वरूपेण व्याप्यता रासभस्यापि सामग्रीकाले कार्यदेशे सत्त्या दण्डाद्यभावावच्छिन्नैव कार्यभावाव्याप्यतेति न तयोः कारणत्वप्रसङ्गः । स्वरूपायोग्येन सहकार्यस्यावध्यवधिमद्भावसम्बन्धानङ्गीकारात् शिला- शकलादङ्कुरं रासभाद् घट इत्यप्रतीतेः सर्वदैव स्वरूपत एव तयोः कार्याभाववत्त्वमितीतरस्य धूमे वह्निव्याप्यतायां नैल्यस्येव वैयर्थ्यान्नावच्छेदकत्वम् । स्वरूपयोग्येषु बीजदण्डकपालादिषु स्व- रूपतो न सदा कार्याभावः, बीजादङ्कुरम् दण्डाद् घटः सति कारणान्तर इति प्रतीतेः, किन्तु सहकार्य- न्तरविरहे बीजादपि नाङ्कुरमिति प्रतीतेरितरकारणाभावविशिष्ट एव बीजादौ निरुक्तसम्बन्धाव- च्छिन्नकार्याभावनियम इति तन्निष्ठव्याप्यतवैवेतरावावच्छिन्नेति तेषु समन्वयः । कर्मसद्भावे विभागनियमेऽप्युत्पत्तिकाले कार्याभावेन तन्निष्ठाया व्याप्यताया इतराभावानवच्छिन्नत्वेऽप्युत्पत्ति- कालेनेतरेणावच्छेद्यत्वात् । परामर्षनिष्ठातुमित्यभावव्याप्यतायाश्च प्रतिबन्धकेनापीतरेणावच्छेद्यत्व- सम्भवान्न तयोर्व्याप्तिः । न च विनश्यदवस्थाद्यतो जन्म कार्यस्य तस्य कार्यक्षणेऽविद्यमानत्वात् कदाचिदपि कार्यवत्त्वासम्भवात् तस्य स्वरूपेणैव कार्याभावनियतत्वम् । कार्योत्पत्तेः प्राक् सम्ब- न्धसत्त्वेऽपि कार्यस्यैवाभावात् कार्याभाववत्त्वम् । अन्यथा कर्मण उत्पत्तिकालावच्छिन्नं कार्याभा-

१६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकाव्याख्यायां निःसाधना मीमांसका अपि न विप्रतिपत्तुमर्हन्ति । ततोऽभावादिरनुग्राहक इत्येके, नेत्यपरे, इति विवादकाष्ठायां व्युत्पादितञ्चैतस्यानुग्राहकत्वम् । किमपरमव शिष्यते यत्र प्रमाणमभिधानीयमित्यलमतिविस्तरेण ॥ बोधनी । ततश्चार्यं विवादविषयोऽवशिष्यत इत्याह-ततः-इति । तस्याभावादेरनुग्राहकत्वमनन्यथासिद्धा- न्वयव्यतिरेकित्वे व्युत्पादितम् , अतः शक्तिनिषेधो नाम न कश्चिदन्योऽर्थः प्रमाणसाध्योऽस्तीति- शक्तिविषयेयं कथोपरम्यत इति । नन्वेवमपि भूतधर्म्मत्वमपूर्व्वस्य न सिद्ध्यतु, चेतनधर्म्मत्वेऽपि विनिगमना कुतस्त्येत्याह- प्रकाशः । यद्वा, अन्यासमावधानावच्छिन्नकार्यानुत्पत्तिव्याप्यत्वं कारणत्वम् । रासभादेश्च स्वत एव कार्याभाव- व्याप्यतयाऽन्यासमावधानस्य वैय्यर्थ्येनानवच्छेदकत्वादिति । (पृ. १५१) ततोऽधिकेति । कार- णत्वस्योभयसिद्धत्वात् तदन्यशक्तिनिषेधकमित्यर्थः । (पृ. १५१) अनुग्राहकत्वेति । कारणत्वस्य शक्तिपदवाच्यत्वेऽपि अनुग्राहकत्वस्य कारणसहकारिसाधारणत्वात् सहकारिष्वपि शक्तिपदप्रयोगः । यत्समवधाने नियतं कार्यं, तस्यैवानुग्राहकत्वादित्यर्थः । तत इति । मन्त्रादिप्रयोगे किं भावरूपो- ऽनुग्राहको नास्त्यभावरूपो वेति विप्रतिपत्त्या कथायामभावस्यानुग्राहकत्वे व्युत्पादिते कान्यत्र प्रमाणं वाच्यमित्यर्थः । प्रकाशिका । गर्भलक्षणमाह । अन्यासमाधानेति । दण्डाद् घटोत्पत्तिरिति प्रतीतेरनन्यगतिकतया तयोः तादृशसम्बन्ध इति भावः । अत्रापि यस्य व्याप्यत्वं तदवच्छिन्नत्वं कारणत्वमिति पूर्व्वदेव व्या- ख्यानं सर्व्वम् । रासभादेः=रासभत्वादेः । अनुग्राहकत्वेति । तथा च भक्तित्वेन रूपेण सह- कारिविषयक एव विवाद इत्यर्थः । गुरुत्वादिरित्यादिपदसंग्राह्यशक्तिपदशान्तनिषेधेऽपि गुरुत्वद- मकरन्दः । यदि च कचिच्च तथात्वं, तदा तज्जातीयत्वं लक्षणं बोध्यम् । न चारण्यस्थदण्डे तद्दण्डत्वादिनैव तदवच्छेदाद्व्याप्तिरिति वाच्यम् । दण्डत्वमादाय लक्षणसत्त्वादिति । अन्यासमावधानावच्छिन्नेति । अन्यासमावधानावच्छिन्नं कार्यात्नुत्पत्तिव्याप्यत्वं यस्य, तदवच्छिन्नं कारणत्वमित्यर्थः । उत्पत्तिगर्भतया पूर्व्वस्माद्भेदः । शेषं पूर्ववत् । कारणत्वसहकारी- त्यत्र द्वन्द्वः । टिप्पणी । वत्त्वं न स्यादिति वाच्यम् । तज्जातीयवत्त्वस्य लक्षणात् । स्वरूपायोग्यश्च कार्य्यकालेऽपि सम्बन्धस्यैवा भावेन कार्य्याभाववत्त्वं बोध्यम् । व्याप्यता च तादात्म्येनेति । यद्वा यद्धर्म्मस्य स्वेतरावच्छिन्नं व्याप्यत्वं यद्धर्म्मवत्त्वं कारणत्वम् । न ह्येवंविवधं किञ्चित् कारणमस्ति यज्जातीयं कार्य्योत्पत्ति- क्षणेऽपि नास्ति । एतेनोत्पत्त्यवच्छिन्नकर्मणो विभागावच्छिन्नकर्मव्यतिरेकेऽपि न क्षतिः । उत्पत्त्यवच्छिन्नकर्म्मत्वाधिकरणताया विलक्षणत्वात् । न च प्रागभावस्य सामग्रीनाश्यत्वे स्वरूपत एव सदैव कार्य्याभाववत्त्वमिति तत्र का गतिरिति वाच्यम् । प्रतियोगिनाश्यत्वस्यैव तस्य स्वीका- रात् । उत्पन्नपुनरुत्पत्तेः कार्य्यसहभावेन कारणत्वाभ्युपगमेन वारणीयत्वात् । प्रागभावानभ्युपग- माद् वा सर्व्वमवदातम् । कारणेन सह कार्य्यस्य नावध्यवधिमद्भावलक्षणसम्बन्धः, उक्तप्रतीतेः कार्यकारणभावेनैवोपपत्तेरित्यत आह यद्वा मन्द्यासमवधानावच्छिन्नेति । उत्पत्तेर हेतु- कत्वाद् बीजादङ्कुरोत्पत्तिरिति प्रतीतेस्तस्यावश्यकत्वादिति भावः ।(१) इति प्रथमस्तबकप्रकाशटिप्पणी । ( १ ) इतः परं प्रथमस्तबकप्रकाशटीप्पणी आदर्शपुस्तके नास्ति ।

ऽ प्रथमस्तबके ] अंपूर्वस्य चेतनधर्मत्वाक्षेपः । १६७ तथापि चेतन एवायं संस्क्रियते, न भूतानीति कुतो निर्णय इति चेत् । उ- च्यते । भोक्तॄणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्निया- मकाभावात् प्रतिनियतभोगासिद्धेः । न हि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः । नियामकाभावात् । तथा च साधारणविग्रह- वत्त्वप्रसङ्गः । न च भूतधर्म एव कश्चिच्चेतनं प्रत्यसाधारणः । विपर्ययदर्शनात् । द्वित्वादिवदिति चेन्न, तस्यापि शरीरादितुल्यतया पक्षत्वात् । नियतचेतनगुणो- पग्रहेणैव तस्यापि नियमो, न तु तज्जन्यतमात्रेण, स्वयमविशेषात् । बोधनी । तथापि इति । अत्र संभोगो निर्विशेषाणामित्येतदुत्तरयति — उच्यत-इति । अदृष्टविशेषविशिष्टे- ष्वपि शरीरादिभूतेषु सर्वात्मनां सर्वत्र सर्वदा सन्निधानाविशेषादिदमस्यैव शरीरं नान्यस्येति नि- यामकाभावेन प्रतिनियतभोगासिद्धेः चेतन एव संस्क्रियत इति निर्णयत इति । तदेवोपपादयति- न हि-इति । तच्छरीरं यस्यैवेति दृश्यते तदपूर्वविशिष्टमपि तस्यैवेति नियमो न स्यादिति । तदनियमे दोषमाह — तथा च-इति । ननु भूतधर्मत्वेऽप्यपूर्वस्य कञ्चिच्चेतनं प्रत्यसाधारण्यं भविष्यति । ततस्तद्विशिष्टं शरीरादि तस्यैवेति नियमः स्यादित्यत्राह न-च-इति । भूतधर्मा हि रूपादयः सर्वान् प्रति ज्ञानजनकत्वेन साधारणा दृश्यन्त इति । शङ्कते—द्वित्वादिवत्— इति । द्वित्वादयो हि भूतधर्माः केनचिदेव ज्ञायन्ते नान्येनेत्यसाधारण्येन दृष्टान्ता इति । न-इति । द्वित्वादेरपि शरीरादिना तुल्ययोगक्षेमत्वात् भूतधर्मत्वेनासाधारणत्वस्यासिद्धत्वादिति । तुल्यतामेवाह—नियत-इति । यस्यापेक्षाबुद्धिजन्या द्वित्वादयस्तस्यैव ते स्वविषयां बुद्धिं जनयन्ति नान्यस्येति नियतचेतनगुणोपगृहीतत्वेनैव तेषामसाधारण्यं, न तु भूतधर्मत्वमात्रेण, स्वयमविशेषादिति । रूपादिभ्यो द्वित्वादीनां स्वगतविशेषाभावादिति । यद्वा, स्वरूपेणासाधा- रण्यादित्यर्थः । यद्यपि द्वित्वादीनां स्वयमविशेषः, तथापि नियतचेतनगुणोपग्रहाभावे किं बाधकं येन नियम- प्रकाशः । भोक्तॄणामिति । भोक्तृप्रत्यासत्तेरविशेषात् किञ्चिच्छरीरं कस्यचिदेव भोगं जनयतीति प्रतिनियतभोगान्यथानुपपत्त्या प्रतिनियतभोक्तृकर्मोपार्जितत्वं शरीरादावभ्युपेयमित्यर्थः । विशि- ष्टैरित्यभ्युपगमवादः । असाधारण इति । प्रतिनियतभोगजनक इत्यर्थः । विपर्ययेति । भूत- धर्मस्य नीलादेस्तथात्वादर्शनादित्यर्थः । द्वित्वादीति । यथा भूतधर्मोऽपि द्वित्वादि यस्यैवापे- क्षाबुद्ध्या जनितं तस्यैव भोगजनकं, तथा अपूर्वमपि तद्धर्मः स्यादित्यर्थः । द्वित्वादेरप्यसाधारणत्वं नियतचेतनगुणोपग्रहेणैवेत्याह । तस्यापीति । तस्यैवेति = तदवच्छेदकस्यैवेत्यर्थः । विपर्ययदर्शनात् = भूतधर्मत्वेन स्थितस्य नीलादेस्तथात्वादर्शनादित्यर्थः । पक्षत्वादिति । चेतनगुणोपसंग्रहं विनैव तज्जन्यतमात्रेणासाधा- रणभोगजनकत्वं द्वित्वदृष्टान्तेनापूर्वादौ प्रसाध्यम् । दृष्टान्तो हि निश्चितसाध्यकः, तत्रास्मदादिभिः शरीरस्येव द्वित्वस्यापि चेतनगुणोपग्रहेणैवासाधारणभोगनियामकत्वं स्वीक्रियते तज्जन्यतयैव- चान्यं प्रत्यपि स्यात्, मालाकारकृतिप्रसाधितमालाद्यत् उपग्रहेण तथात्वे सहकारिणामपेक्षाबुद्धिद्वि- त्वनिर्विकल्पकादीनां तदात्मन्येव भाव इति तत्रैव द्वित्वं प्रत्यक्षजनकमिति न नियमभङ्गः । तथा च सन्दिग्धसाध्यकत्वान्न दृष्टान्तत्वमिति भावः । उपग्रहो नाम सहकारित्वं तथा च चेतनगुणोपसंग्रहेणे- त्यस्य चेतनगुणसहकारेणेत्यर्थः ।

१६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकान्याख्यायां तथापि तज्जन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत्, कार्यकारण- भावभङ्गप्रसङ्गः । शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धर्मजननोपलब्धेः । तत् यथा, इच्छोपग्रहेण प्रयत्नो ज्ञानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि । प्रकृ- तेऽपि चेतनगता एव बुद्ध्यादयो नियामकाः स्युरिति चेद् ? न । शरीरादेः प्राक् बोधनी। स्य नियतगुणोपगृहीतत्वेन व्याप्तिः सिध्येदित्याशयेन पृच्छति-तथापि-इति । यदि द्वित्वादयो नियतचेतनगुणानुगृहीता भवेयुस्तर्हि तेषां चेतनधर्मेण स्वविषयज्ञानेन सह यः कार्यकारणभावः स भज्येतेत्याह-कार्यकारण-इति । स्वविषयज्ञानजनकत्वानुपपत्तिर्बाधकमित्यर्थः । कुत इत्यत आह- शरीरादीनाम्-इति । चेतनधर्मजनकत्वस्य तद्धर्मोपगृहीतत्वेन व्याप्तिप्रदर्शनादित्यर्थः। व्याप्तिमेवोदाहरणे दर्शयति-तद् यथा इति । न ह्यनिष्टे प्रवृत्तिप्रयत्नः, न वाज्ञातविषयेच्छा, नापि तदविषयस्य सुखहेतुत्वमित्यादि । ततश्च द्वित्वशरीरादीनां नियतत्वं चेतनगुणोपग्रहेण व्याप्यत इति ततस्तत्सिद्धिरिति । सन्तु तर्हि प्रकृते शरीरेन्द्रियाणां प्रतिनियतभोगा- धनत्वेऽपि नियतचेतनगताः सम्प्रतिपन्ना एव नियामका इत्याह-प्रकृत-इति । शरीरादेः पूर्वं प्रकाशः। ननु भूतधर्मान्तरस्य साधारण्येऽप्यपूर्वं तद्धर्मस्तत्कार्यत्वमात्रेणैवासाधारणं स्यादित्यत आह- तथापीति । कार्यकारणभावमेवाह । शरीरादीनामिति । प्रकृतेऽपीति । यथा शरी- रादीनां चेतनगुणबुद्ध्यादिसहितानां नियतानां नियतभोगजनकत्वं, तथा प्रकृतेऽपि तेषां तत्स- हितानामेव तज्जनकत्वमस्त्विति कृतमपूर्वेणेत्यर्थः । शरीरादेरिति । न शरीराद्युत्पत्तेः पूर्वं बुद्ध्यादिसम्भव इति तदन्यचेतनगुणापूर्वसिद्धिरित्यर्थः । देवदत्तशरीरं, स्वाव्यवहितप्राक्काल- वर्त्तिदेवदत्तसमवेतविशेषगुणजन्यम् कार्यत्वे सति तद्भोगसाधनत्वात् तन्निर्मितस्रग्वत् । घटा- दीनां पक्षसमत्वाद् न तैर्व्यभिचारः । न च संस्कारेणार्थान्तरं, तस्य भोगजनकत्वेनाकल्पनात् । प्रकाशिका। दृष्टान्तेनैवातीन्द्रियो धर्मः सिद्धेदिति शङ्का तदवस्थ्यैवेत्यतस्तां स्मारयति । तथापि चेतन एवेति मूलम् । देवदत्ताद्येति । प्रथमशरीरोत्पन्नज्ञानादिनैव द्वितीयशरीरेऽर्थन्तरमित्याद्य पदम् यत्किञ्चिदपेक्ष्याऽऽद्यत्वं द्वितीयशरीरस्यापि सर्वापेक्षया चाद्यत्वमप्रसिद्धमिति देवद- त्तेति । देवदत्तत्वं तत्तच्छरीरपरम्परावृत्तिजातिरिति तदाश्रयेषु मध्ये सर्वाद्यत्वं पक्षतावच्छे- दकमिति भावः । जन्मान्तरीयज्ञानादिभिरर्थान्तरवारणाय साध्येऽवृत्तीत्यन्तम् । अन्यविशेषगुण- जन्यत्वमादायार्थान्तरादिवारणाय देवदत्तेति । संख्यादिभिस्तदीयैरर्थान्तरवारणाय विशेषेति । हेतौ मनसा व्यभिचारवारणाय सत्यन्तम् । अन्यशरीरादौ व्यभिचारवारणाय तदिति । तन्निर्मि- तेति । तद्भोगसाधनेत्यपि द्रष्टव्यम् । तस्येति । यद्यप्येवमपि शरीरजनकत्वे विरोधाभावः । मकरन्दः। देवदत्ताद्येति । द्वितीयशरीरादेराद्यशरीरजन्यबुद्ध्यादिजन्यत्वेनाऽर्थान्तरं स्यादित्याद्य- पदम् । अन्यशरीरे बाधवारणाय पक्षे देवदत्तपदम् । जन्मान्तरबुद्धिजन्यत्वेनार्थान्तरवारणाय वर्त्यन्तम् । ईश्वरज्ञानादिजन्यत्वेन सिद्धसाधनवारणाय । देवदत्तेति । सङ्ख्यादिजन्यत्वेनार्थो- न्तरवारणाय, विशेषेति । मनसा व्यभिचारवारणाय सत्यन्तम् । अन्यशरीरादौ व्यभिचार- वारणाय, तदिति । तन्निर्मितेति ॥ तद्भोगसाधनेत्यपि द्रष्टव्यम् । तस्येति । यद्यप्येवमपि शरीरजनकत्वे विरोधाभावस्तथापि तद्द्वारा भोगजनकत्वमाश्रित्येदमुक्तम् । यद्यपि, धर्मकल्प- प्रकृतेऽपि = भूतसंस्कारपक्षेऽपि । तथाचापूर्वेणात्मनि भोगे जननीये आद्यशरीरस्य चेतन- गुणोपग्रहेण भोगजनकत्वानुपपत्तिः, सहकारिणश्चेतनगुणस्य तदानीमभावादिति भावः।

प्रथमस्तवके ] अपूर्व्वस्य चेतनधर्मत्वाक्षेपः । १६६ तेषामसत्त्वात् । तथा च निरतिशयाश्चेतनाः साधारणानि भूतानीति न भुक्तिनि- यम उपपद्यते ॥ १३ ॥ एतेन साङ्ख्यमतमपास्तम् । एवं हि तत्, अकारणमकार्य्यः कूटस्थचैतन्यस्वरूपः पुरुषः । बोधनी । बुद्ध्याद्यभावेन बुद्ध्यादिभिः शरीरनियमः, तेन नियतेषु शरीरादिषु बुद्ध्यादयोऽस्य भवन्ति, तैश्च तन्नियम इति इतरेतराश्रयप्रसङ्गादात्मसमवेतमपूर्व्वमेव नियामकमाङ्गीकर्त्तव्यं, तदनङ्गीकारे नियमानुपपत्तिमुपसंहरति-तथा च इति । चेतनानामतिशयो नाङ्गीकृतः सातिशयान्यपि भूतानि साधारणानि न शरीरादेः पूर्व्वं बुद्ध्यादयः सन्ति । तस्मान्न शक्तिनियम उपपद्यते । अत्र प्रयोगः- भोक्तुः स्वगुणोत्पादिताः शरीरादयः, कार्य्यत्वे सति तद्भोगसाधनत्वात्, स्रगादिवत् । न च बुद्ध्यादिभिः सिद्धसाध्यता शरीराद्युत्पत्तेः प्राक् तदभावादिति ॥ १३ ॥ एतेन-इति । भोक्तृसमवेतमेवापूर्वं भोगाङ्गिष्यच्छति नान्यसमवेतमिति प्रतिपादनेनेत्यर्थः । कथं निरस्तमिति दर्शयितुं तन्मतमेव तावदुपन्स्यस्यति-एवं हि तत्-इति । तन्मते हि पुरुषो न किञ्चित् करोति न केन चित् क्रियते । यथाहुः- ‘न प्रकृतिर्न विकृतिः पुरुषः’ (सां० का० ३) इति । कूटस्थचैतन्यस्वरूप इति । कूटस्थम्= अपरिणामि चैतन्यमेव स्वरूपं यस्य स तथोक्तः तदप्याहुः ‘तद्विपरीतस्तथा च पुमान्’ (सां०का० ११) इति । अत्र चकारोऽप्यर्थः । व्यक्ताव्यक्ताभ्यामनेकत्वाकार्य्यत्वे साधर्म्येऽपि निर्गुणत्वचैतन्यादिभिस्ता- प्रकाशः । संस्काराजन्यत्वेन पक्षविशेषणाद्वेति भावः ॥ १३ ॥ ननु चेतने न भोगो नाप्यदृष्टम् । तस्य कूटस्थत्वात्, किन्तु बुद्धाविति चेतनधर्मस्य निया- मकत्वमयुक्तमिति सांख्यमतं दूषयति । एतेनेति ! चेतनेऽपूर्वानाधाने साधारणविग्रहवत्त्वप्रसङ्गेनेत्यर्थः । शिष्यहितैषितया तन्मतं प्रपञ्चयति- एवं हीति । अकारणमित्यनेन प्रकृतेर्भेदः । अकार्य्य इत्यनेन चरमपरिणतिघटादेर्भेदः । ननु बुद्ध्याद्यकारणत्वे तस्य तत्र मानाभाव इत्यत आह । कूटस्थेति । अकारणत्वादेव कूटस्थो- ऽनित्यधर्मोनाश्रयः, कार्यत्वाभावान्न स्वरूपतो नाशः । अकारणत्वाच्च कार्यकारणयोस्तादात्म्यात् तदात्मतयापि न नाशः । अत एवापूर्व्वं न तस्य गुणः । चैतन्यस्वरूपत्वमपि धर्मधर्मिणोस्तादात्म्यात् कूटस्थत्वेन चैतन्येन निरूप्यत इति न तत्र मानाभाव इत्यर्थः । बुद्धिगतचैतन्याभिमानान्यथा- प्रकाशिका । तथापि भोगजनकस्यैव शरीरजनकत्वमित्यभिप्राायेणेदम् । यद्यपि धर्मिकल्पनादिति न्यायेन भोगज- नकत्वं तस्यैव कल्पयितुमर्हम् । तथापि संस्कारस्य स्मृतिमात्रजनकत्वमिति न भोगजनकत्वमि- त्याशयः ॥ १३ ॥ कूटस्थत्वादिति । जन्यधर्म्मानाश्नयत्वादित्यर्थः । साधारणेति । यद्यपि बुद्धि- निष्ठापूर्वाधाने भोगसमानाधिकरणमेवादृष्टं नियामकमिति न साधारणविग्रहवत्त्वम् । तथापि बुद्धेर्नित्यत्वेऽमोक्षः, अनित्यत्वे तदुत्पत्तेः प्राङ् नियमाकाभावात् साधारण- विग्रहवत्त्वप्रसङ्ग इत्यर्थः । अकारणत्वाच्चेति । कार्यकारणयोस्तादात्म्यात्तदात्म- तया नाश इत्यपि न, अकारणत्वादित्यन्वयः । अत एव = अकारणत्वादेव । मकरन्दः । नात इति न्यायेन भोगजनकत्वमपि तस्यैव कल्पनाहं, तथापि मानान्तरादप्यदृष्टसिद्धयवष्टम्भेने- दमुक्तमित्येके । संस्कारान्यत्वं गुणविशेषणमित्यन्ये ॥ १३ ॥ साधारणानि भूतानि । कार्यकारणभावभङ्गरूपदोषेण जन्यतामात्रेणापि नियमाभावेन भूतसाधारण्यम् ॥ १३ ॥ २२ न्या० कु०

१७० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकावतरणिकायां आदिकारणं प्रकृतिरचेतना परिणामिनी, ततो महदादिसर्गः। न हि चितिरेव विष- यबन्धनस्वभावा, मनिर्मोक्षप्रसङ्गात्। नापि प्रकृतिरेव तदीयस्वभावा, तस्या अपि बोधनी। भ्यां विधर्मेत्यर्थः। "अपरिणामिन्यप्रतिसङ्क्रमा चितिशक्तिरिति कथं तस्याकारणत्वे सर्ग इत्यत्र कारणं तत्स्वरूपं चाह-आदिकारणम्-इति। सर्वमपि तया क्रियते, न तु सा केन चित्। तदा- हुः-'मूलप्रकृतिरविकृतिः' (सां० का० ३) इति। अचैतन्यादेव परिणामित्वम्। तच्चाहुः- त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानम्' (सां का० ११) इति। केन रूपेण तस्याः परिणाम इत्याह-ततः-इति। ततः=प्रकृतेः। महदहङ्कारेन्द्रियतन्मात्रम- हाभूतात्मनां त्रयोविंशतेस्तत्त्वानां सर्गः। यद्यपि प्रकृतेर्महान् महतोऽहङ्कार इत्यादिक्रमात् परिणामः, तथापि प्रकृतेर्मूलकारणत्वात् तत इत्युक्तम्। ननु पुरुषार्थाय हि प्रवर्तते प्रकृतिः, पुरुषार्थश्च भोगे ऽपवर्गश्च, भोगो विषयानुषङ्गस्तद्वियोगश्च यैः पुरुष उपयुज्यते विभज्यते च त एव शब्दादयः परि- णामभेदाः सन्तु, कृतमितरेण महदादिपरिणामेन। न च विषयसम्बन्धार्थः तत्संसर्गः, नित्यचैतन्यरू- पस्य पुरुषस्य स्वभावतः तत्सम्बन्धोपपत्तेरित्याशङ्कयाह-न हि-इति। चितिश्चैतन्यमात्ररूपः पुरुषः, यदि पुरुषस्वभावानुबन्धी विषयानुषङ्गो भवेत् ततः स्वभावस्यानुच्छेद्यत्वेनानिर्मोक्षः स्या- दिति। तर्हि प्रकृतेरेवैष स्वभावोऽस्तु यद्विषयपाशैः पुरुषं बध्नाति तत्राह-नापि-इति। तदीयत्वं तदर्थ्यं, तदीयभोगोपकरणसम्पादकत्वमिति यावत्। तत्स्वभावत्वे प्रकृतेर्नित्यत्वेन कदाचिदपि निरुपाधित्वानुपपत्तेरनिर्मोक्ष एव पुंस इति। तर्ह्यनित्यस्य घटादेर्विषयस्यैव चैतन्यस- प्रकाशः। नुपपत्त्या तत्कल्पनादिति भावः। आत्मनोऽकारणत्वेऽपि सर्गमुपपादयति। आदीति। आदि- पदाद् महदादिव्यवच्छेदः, तस्य प्रकृत्यनन्तरमुत्पादात्। कारणमिति पुरुषव्यव- च्छेदः। पुरुषाद्भेदकमाह। अचेतनेति। तत्र हेतुमाह। परिणामिनीति। अनित्यध- र्माश्रयस्ततः कार्यधर्मात्मतया नश्यति। ततो घटादिवदचेतनेत्यर्थः। तत इति। प्रकृतेर्महत्तत्त्व- मन्तःकरणं बुद्ध्याख्यम्। "प्रकृतेर्महान् महतोऽहङ्कारस्तस्मात्पञ्चतन्मात्राणी"ति सांख्याः। ननु किमर्थं महदादिसर्गो मन्तव्यो नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्वित्यत आह। न ही- ति। चितिः=पुरुषचैतन्यम्। विषयबन्धनम्=विषयावच्छेदः। चैतन्यविषयावच्छेदस्येष्टानिष्टोप- लब्धिरूपस्य हेतुसापेक्षत्वे हेतोरिन्द्रियादेरङ्गीकारापत्तिः। निरपेक्षतायां सर्वदा तस्य भावादनर्मोक्षः पुंसः स्यादित्यर्थः। तर्हि प्रकृतिरेव साक्षाद्विषयबन्धनस्वभावाऽस्त्वित्यत आह। नापीति। प्रकृ- तेः साक्षाद्विषयप्रकाशकस्वभावत्वे तस्याः सदातनत्वे पुनरप्यनिर्मोक्षः पुंसः स्यादित्यर्थः। ननु वि- प्रकाशिका। पुरुषाद्भेदकमिति। भेदकान्तरमित्यर्थः। अनित्यधर्मेति। तिरोभाव एव तन्मतेऽनित्यत्वम्। कार्यधर्मेति। कार्यकारणयोस्तादात्म्यादिति भावः। कार्यत्वं चावि- र्भावमात्रं तन्मत इति। सांख्या इति। चतुर्विधं जगत् केवलप्रकृत्यात्मकं, केवल- विकृत्यात्मकं, प्रकृतिविकृत्युभयात्मकम्, अनुभयात्मकं चेति। तत्राद्यं मूलप्रकृतिरित्यु- च्यते, सा च सत्त्वरजस्तमसां साम्यावस्था, सत्त्वं सुखं, रजो दुःखं, तमो मोहः, सर्वं कार्यं सुख- दुःखमोहात्मकं तज्जनकत्वात् भोक्तृभेदेन कालभेदेन च तथात्वात्, एवं तत्कारणं प्रकृतिरपि तथा, मकरन्दः। भेदकमिति। भेदकान्तरमित्यर्थः। अनित्येति। यद्यपि सर्वानित्यतावादिनस्तस्य नानित्यं, न वा कार्यम्। तथाप्याविर्भावतिरोभावौ उत्पादविनाशाविति भावः। कार्यधर्मेति। कार्य- विषयबन्धनेति। इष्टानिष्टोपलब्धिरित्यर्थः।

प्रथमस्तबके ] अपूर्व्वस्य चेतनधर्मत्वाक्षेपः । १७१ नित्यत्वेनानिर्मोक्षप्रसङ्गात् । नापि घटादिरेवाहृत्य तदीयः, दृष्टादृष्टत्वानुपपत्तेः । नापीन्द्रियमात्रप्रणाडिकया, व्यासङ्गयोगात् । नापीन्द्रियमनोद्वारा, स्वप्नदशायां व- राहव्याघ्राद्यभिमानिनो नरस्यापि नरत्वेनात्मोपधानायोगात् । नाप्यहङ्कारपर्य्यन्तव्या- बोधनी । म्बन्धिस्वस्वभावोऽस्त्वित्यत्राह-नापि-इति । विषयस्यैवाव्यवधानेन तदीयत्वं चेतनीयत्वं चैतन्य- सम्बन्धित्वं स्वभाव इत्यभ्युपगमे यावत्सत्त्वं सर्व्वस्याप्यवभासप्रसङ्गात् कस्यचिद् दृष्टत्वं कस्य- चिददृष्टत्वं कस्यचिन्नोपपद्येतेति । अस्तु तर्हि बाह्येन्द्रियपरिणामः, ततो दृष्टादृष्टव्यवस्थासिद्धेः कृतमन्तःकरणैरित्यत्राह-नापीन्द्रिय-इति । बाह्येन्द्रियमात्रद्वारा घटादेश्चैतन्यसम्बन्धाभ्युपगमे त्विन्द्रियसम्बद्धेऽपि कचिद् विषये कदाचिञ् ज्ञानोत्पत्तेर्व्यासङ्गो विलम्बो दृश्यते, स न घटत इति । तर्हि तदर्थं मनोऽप्यङ्गीक्रियतां किमहङ्कारकल्पनयेत्यत्राह-नापीन्द्रियमनोद्वारा-इति । पूर्व्ववदत्रा- पि घटादिस्तदीय इत्यनुषञ्जनीयम् । कश्चिद्धि नरः स्वप्ने वराहोऽहं व्याघ्रोऽहमिति चात्मानं मनु- ते । तस्य नरस्यापि सतः, नरत्वे विद्यमानेऽपीति यावत् । नरत्वेनात्मोपधानं=नरोऽहमित्यमि- मानो न दृश्यते । न तावदत्र बाह्येन्द्रियवृत्त्यभावान्नारत्वाभिमानानुदयः, जाग्रदवस्थायामपि तस्य प्रकाशः । षयस्यैव चैतन्यसम्बन्धित्वं स्वभावः, तथा च विषयनाशे पुंसो मोक्षः स्यादित्यत आह । नापी- ति । विषयस्य परम्परया चैतन्यसम्बन्धित्वे द्वारीभूतस्येन्द्रियादेरङ्गीकारापत्तिरिति साक्षात् तद्वा- च्यम्, तथाचेदं दृष्टमिदमदृष्टमिति न स्यात् , व्यवहितस्यापि विषयस्य यावत्सत्त्वमवभासप्रसङ्गा- दित्यर्थः । नन्विन्द्रियमात्रद्वारा विषयस्तदीयः स्यात्, किं मनःकल्पनयेत्यत आह । नापीति । व्यासङ्गेति । इन्द्रियसम्बन्धेऽपि व्यासङ्गेन दर्शनाभावादित्यर्थः । ननु व्यासङ्गानुरोधान्मनःसं- युक्तेन्द्रियसम्बद्धविषयस्य चैतन्यावच्छेदकत्वमस्तु, किमहङ्कारेणेत्यत आह । नापोति । यदी- न्द्रियमनोभ्यामेव विषयाः सम्बद्ध्यन्ते, तदा शयानो नरो यथा वराहोऽहमिदं प्रत्येमीति अभिम- न्यते, तथा नरोऽहमिदं प्रत्येमीति नरत्वेनाप्यात्मोपधानं स्यात् । अस्ति हि तत्र नरत्वं सन्निहितम्, अस्ति चेन्द्रियमनयोरपि व्यापारः, अन्यथाऽऽलोचनविकल्पयोरनुत्पादप्रसङ्ग इति तद्विन्नोऽहङ्कारो- ऽनियतविषयाभिमानव्यापारो मन्तव्य इत्यर्थः । बुद्धितत्त्वं साधयति । नाऽपीति । पूर्वेषां प्रकाशिका । कार्यकारणयोस्तादात्म्यात् । द्वितीयन्त्वेकादश इन्द्रियाणि पञ्च महाभूतानि, तृतीयन्तु महदादयः सप्त, चतुर्थे तु पुरुषः । महत्तत्त्वमेव चान्तःकरणं बुद्ध्यख्यं तस्य च सत्त्वप्रधानस्य धर्म्माः धर्म्मज्ञानवैराग्यैश्वर्य्यरूपः तमःप्रधानस्य तद्विपरीताश्चत्वार इत्यष्टौ धर्म्माः । रजसस्तु सत्त्व- तमःप्रेरकत्वमात्रेणोपयोगः । तत्र धर्म्मो यागादिसाध्यः, ज्ञानं सत्त्वपुरुषान्यताज्ञानम्, ऐहिकामुष्मिक- सुखविरक्तस्य परमो वशीकारो वैराग्यम् , ऐश्वर्य्यमणिमादिसम्पत्तिः, एवमहङ्कारादपि त्रिगुणात्मका दन्तःकरणात् सत्त्वप्राधान्येनेन्द्रियाणि, तमःप्राधान्येन पञ्चतन्मात्रा रजसस्तु पूर्व्वदेवोपयोगः । इन्द्रियाणि तु षड् बुद्धीन्द्रियाणि प्रसिद्धान्येव तत्रापि मनो द्विरूपमन्तःकरणमिन्द्रियं च, अन्तःकर- णस्य मनोबुद्धयहङ्कारभेदेन त्रैविध्यात् , कर्मेन्द्रियाण्यपि वाक्पाणिपादपायूपस्थरूपाणि पञ्च इत्यादि मकरन्दः । कारणयोस्तादात्म्यादिति भावः । अन्यथेति । आलोचनं व्यापार इन्द्रियाणाम् । विकल्पस्तु मनस इत्युपगमादिति भावः । माहृत्य=साक्षात् । तदीयः=चैतन्यसम्बन्धी । दृष्टादृष्टत्वानुपपत्तेः = इदं दृष्टमिदञ्च दृष्टमित्यस्यानुपपत्तेः । प्रणाडिकया घटादिस्तदीय इति योजना ।

१७२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १४ कारिकावतरणिकायां पारेण, सुषुप्त्यवस्थायां तद्व्यापारविरमेऽपि श्वासप्रयत्नसन्तानावस्थानात् । तद् यदेतास्ववस्थासु संव्यापारमेकमनुवर्त्तते, यदाश्रया चानुभववासना, तदन्तः- करणमुपारूढोऽर्थः पुरुषस्योपधानीभवति । भेदाग्रहाच्च निष्क्रियेऽपि तस्मिन् बोधनी । तन्निरपेक्षतद्दर्शनात् । न च स्वप्नदशायां मनो न व्याप्रियते, तस्माद्विद्यमानेऽपि नरत्वे तदभिमाने च बाह्येन्द्रियनिरपेक्षे मनसि व्याप्रियमाणे च तस्मिन् यद्व्यापारविरही नरत्वाभि- मानानुदयो भवति सोऽपीन्द्रियमनोऽतिरिक्तो नरत्वाभिमानहेतुरङ्गीकार्यः, स एवास्माकमहङ्कार- पदाभिधेय इति । यद्वा, स्वप्नदशायां वराहाद्यभिमानविषयः कश्चिदभ्युपगन्तव्य इत्यर्थः । अन्येषां व्याख्या-यदीन्द्रियं मनक्षोभयं द्वारं तर्हि यदा स्वप्ने मनोद्वारा विषयसम्बन्धः तदैवे- न्द्रियद्वारेणापि स्यात्, ततश्च यथा तत्र वराहोऽहमिति मनसाभिमानः तथेन्द्रियेण नरोऽहमित्य- मानोऽपि भवेत् । न चासावस्ति, तस्मान्नोभयं द्वारमिति । सेयमसमञ्जसत्वादनादर्त्तव्येति । नरत्वे- नार्थोपधानाभावादिति केचित् पठन्ति । तत्र यथा वराहोऽहमिममर्थं जानामीत्यभिमन्यते तथा नरोऽहमिममर्थं जानामीत्यर्थोपधानं नास्ति । तस्मान्नियतविषयाभिमानव्यापारवानन्यः स्वीकर्त्तव्य इत्यर्थः । तर्ह्यहङ्कारोऽप्यस्तु कृतं महतेत्यत्राह-नापि-इति । पूर्ववदनुषङ्गः सुषुप्त्यवस्थाया- महङ्कारपर्यन्तेन्द्रियव्यापारविरामेऽपि शरीरधारणनिमित्तश्वासप्रश्वासहेतोः प्रयत्नसन्तानस्यानुवृत्ते- स्तदतिरिक्तं किञ्चिदस्ति यत् प्रयतमानं शरीरं बिभर्त्ति, स महानिति । तस्य महतः स्वरूपमुप- संहारव्याजेन दर्शयति-तद् देतासु-इति। तत्=तस्मान्न केवलं सुषुप्तौ किन्तु जाग्रत्स्वप्नसुषु- प्त्यवस्थासु सप्रयत्नं यदनुवर्त्तते यदाश्रयश्च स्मृतिहेतुः संस्कारस्तदन्तःकरणमुपारूढ इन्द्रियमनो- ऽहङ्कारव्यापारपरम्परया तत्र प्रतिफलित इति यावत् । तदाहुः- एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ (सां० का० ३६) इति । गुणविशेषा=इन्द्रियाणि । गुणविकारत्वात् पुरुषस्य कृते विषयं परम्परया बुद्धौ प्रयच्छन्ती त्यर्थः । सोऽर्थः स्वच्छस्येवं स्फटिकस्य लाक्षादिश्चैतन्यमात्रस्यात्मन उपरञ्जको भवति । अन्तःक- रणसन्निधानात्तदारूढैः स भिन्न इव भातीति यावदिति यदि बुद्धेरेव व्यापारो न चात्मनश्चेत् तस्य कथं तर्हि चेतने कर्तृत्वाभिमानः योऽहं जानामि स एव करोमीति, कथं वा कर्तरि चैतन्याभिमानः योऽहं करोमि स एव जानामीति, तत्राह-भेदाग्रहात्-इति । कर्तृचेतनयोर्भेदाग्रहादन्यतरस्मि- न्नन्याभिमानः । यथा नैयायिकानां शरीरात्मनोरिति । तच्चोक्तम् - प्रकाशः । व्यापाराभावेऽपि यद्यापारादुच्छ्वासादि तद्बुद्धितत्त्वं कल्प्यमित्यर्थः । उपसंहरति । तद्यदिति । अवस्थासु=जाग्रत्स्वप्नसुषुप्तिषु । अनुभवरूपा वासना संस्कारोऽनुभववासना सांख्यैस्तथाऽङ्गीकारात् । तदन्तःकरणमिति । तस्मिन्नन्तःकरणे बुद्धिरूपे । अर्थो=घटादिः, उपारूढो=ज्ञानरूपतत्परिणामविष- यतया सम्बद्धः पुरुषस्यात्मन उपधानीभवति । उपधायको व्यवधायकः स्वरूपतिरोधायक इति यावत् । यत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गौ व्यवह्रियेते इत्यर्थः । तर्हि कर्ता चेतन इति कृतिचैतन्ययोः कथं सामानाधिकरण्योनुभव इत्यत आह । भेदाग्रहाच्चेति । निष्क्रिये=अकर्त्तरि ॥ तस्मिन्=बुद्धित- प्रकाशिका । तन्मतसंक्षेपः । जाग्रदिति । भावप्रधाननिर्देशः, अन्यथा शन्नन्तस्य धर्म्मिवाचकत्वेनावस्था- मनुवर्त्तते । बुद्धितत्त्वाख्यं तदिति शेषः ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वाक्षेपः । १७३ पुरुषे कर्त्तृत्वाभिमानस्तस्मिन्नचेतनेऽपि चेतनाभिमानः । तत्रैव कर्मवा- सना । पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपः । आलोचनं व्यापार इन्द्रि- याणां, विकल्पस्तु मनसः, अभिमानोऽहङ्कारस्य, कृत्यध्यवसायो बुद्धेः । सा हि बुद्धिरंशत्रयवती । पुरुषोपरागो, विषयोपरागो, व्यापारावेश श्चेत्यंशाः । भवति हि मयेदं कर्त्तव्यमिति । तत्र मयेति चेतनोपरागो दर्प- णस्येव मुखोपरागो भेदाग्रहाद्वात्त्विकः । इदमिति विषयोपराग बोधनी । तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्त्तृत्वे च तथा कर्तेव भवत्युदासीनः ( सां० का० २० ) इति । लिङ्गं = बुद्धिः । प्रकृत्यनुमापकत्वात्, धर्माधर्मयोरप्यन्तःकरणमेवाश्रय इत्याह-तत्रैव- इति । यदि धर्मादयो बुद्धेर्गुणाः कीदृशस्तर्ह्यात्मेत्याह-पुरुषस्तु-इति । सर्वथा-इति । अनु- भवतद्वासनातत्फलैः कर्मतद्वासनातत्फलैश्चेत्यर्थः । बुद्धितत्त्वस्यासाधारणं व्यापारं दर्शयिष्यन् सर्वेषां तावत् कारणानां यथास्वमसाधारणान् व्यापारान्राह-आलोचनम्-इति । संमुग्धवस्तु- मात्रदर्शनमालोचनं, तच्च चक्षुरादीनामिदमिति बाह्यप्रावण्यात्मकः परिणतिभेदः यत् नैयायिकै- र्निर्विकल्पकमित्युच्यते । विकल्पस्तु संमुग्धदृष्टस्य विशेषणविशेष्यभावेन विवेचनं तन्मनसो व्या- पारः । अभिमानः अहं जानाम्यहं करोमीत्यादिरूपः, सोऽहङ्कारस्य । कृत्यध्यवसायः स बुद्धे- रिति । नन्वीदृशः कृत्यध्यवसायः कृतिसमवायं विषयसम्बन्धं चैतन्यं वापक्षते, स कथमेनवं- विधाया बुद्धेर्धर्मो भवेदित्यत आह-सा हि-इति । तानेवांशान् विभजते-पुरुषोपरागः- इति । कथमेतत्त्रयं बुद्धेर्धर्म इत्याशङ्क्य संमुग्धमुदाहरणं दर्शयति-भवति हि-इति । भवतु, कथं तावता अंशत्रयसिद्धिरित्यत्र निष्कृष्यांशान् दर्शयति-तत्र-इति । दर्पणमुखयोरिव बुद्धि- चेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपराग इति । इदमा प्रतिनिर्दिष्टस्य विषयस्य यद्ग्राहिकैव बुद्धिराभाति स चेतनोपराग इत्यर्थः । तेन मयेत्यभिमानः कथं बुद्धेर्धर्मः स्यादिति शङ्का निरस्ता भवति । चेतनोपरागश्चेतनसम्बन्धः, स च परिणामविशेषः, तत् कथं चेतनोऽपरिणामी बुद्ध्या सम्बन्त्स्यत इत्यत्रोक्तं-दर्पणस्य-इति । कथं दूरस्थेन विषयेण बुद्धिरुपज्यत इत्यत्रोक्तम्- प्रकाशः । एवे । बुद्धिपुरुषयोर्भेदाग्रहाच्चैतन्यकृत्यभिमानौ । यथा भवतां गौरोऽहं सुखीत्यर्थः । कर्मवासना = कर्मजनितमपूर्वम् । ननु पुरुषधर्म एव किन्नापूर्वमित्यत आह । पुरुषस्त्विति । सर्वथेति । ना- पूर्वतत्फलाभ्यां लिप्यते कौटस्थ्यादिश्रुतेरित्यर्थः। इन्द्रियादीनां मिथो भेदकमसाधारणं व्यापारमाह। आलोचनमिति । निर्विकल्पकमित्यर्थः । ननु बुद्धेः कृत्यध्यवसायो न व्यापारः, कृतिविषयस्य घटादेर्जडायां बुद्धौ प्रतिभासासम्भवात् । न च कर्तव्येन घटादिना सम्बन्धान्तरमस्ति । न चासम्बन्धे, करोमीत्याद्यव्यवसायोऽतिप्रसङ्गादित्यत आह । सा हीति । चेतनोपरागवशेन जडाया अपि बुद्धेरिन्द्रियप्रणालिकया परिणतिभेद एव ज्ञानरूपः कर्तव्येन घटादिना सम्बन्ध इत्य- र्थः । पुरुषेति । बुद्धिचेतनयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः । नीलेन्द्रियसन्निकर्षान्नी- लाकारज्ञानरूपपरिणतिभेदोत्पादः पारमार्थिको विषयो रागस्ताभ्यां कर्तव्यविषयस्य प्रति- भासात्तज्जन्यः करामीत्यध्यवसायो व्यापारावेश इत्यर्थः । दर्पणस्येवेति । दर्प प्राय बुद्ध्याः । तस्मिन्नचेतने=बुद्धितत्त्वे ।

१७४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकावतरणिकायां इन्द्रियप्रणालिकया परिणतिभेदो दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा पारमार्थिकः। एतदुभयायत्तो व्यापारावेशोऽपि। तत्रैवंरूपव्यापारलक्षणाया बुद्धेर्विषयोपरागलक्षणं ज्ञानम् । तेन सह यः पुरुषोपरागस्यातात्त्विकस्य सम्बन्धो दर्पणेप्रतिबिम्बितस्य मुखस्येव मलिनिमा, सोपलब्धिरिति। तदेव- मष्टावपि धर्मादयो भावा बुद्धेरेव, तत्सामानाधिकरण्येनाध्यवसीयमानत्वात्। न च बुद्धिरेव स्वभावतश्चेतनेति युक्तं, परिणामित्वात्। पुरुषस्य तु कूटस्थनि- त्यत्वादिति। तदेतदपि प्रागेव निरस्तम्। तथापि— कर्तृधर्मा नियन्तारश्चेतिता च स एव नः॥ अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवः ॥ १४ ॥ बोधनी। इन्द्रियप्रणालिकया-इति। सोऽपि किं स्वभावतश्चेतन इत्यत्राह-पुरुषस्य-इति। यद्वा, चेतनसामानाधिकरण्येनाध्यवसीयमानत्वादिच्छादयः पुरुषधर्माः सन्तु, कृतं बुद्धयेत्याह-पुरु- षस्य-इति। इच्छादिरूपेणात्मनः परिणामे कौटस्थ्यं हीयेत, ततश्च परिणामिनो घटादिवदचैत- न्यप्रसक्तिरिति भावः। तदेवं सांख्यमतमुपन्यस्यैतेनैतन्निरस्तमिति पूर्वोक्तं स्मारयति-तदेतत्- इति। भोक्तृधर्म एव भोगनियामको नान्यधर्म इति प्रागुक्तत्वान्निरस्तमिति। यथा निरस्तं तथाह- तथा हि-इति। कर्तृधर्माधर्मादयो भोगस्य नियामका इति तावदविवादं, चेतनश्च कत्र्तैव नः प्रामाणिकानां कृतिचैतन्ययोः सामानाधिकरण्यात्। अन्यथाऽकत्र्तैव चेतनोऽचेतनैव बुद्धिः कत्र्त्री, तद्धर्मा एव भोगन्नियच्छन्तीति मते बुद्धिर्नित्याऽनित्या वा स्यात् पूर्वत्र पुंसो नाप- प्रकाशः। बुद्धितो ज्ञानोपलब्ध्योर्भेदमाह। तत्रैवंमिति। विषयोपरागो=विषयेन्द्रियसम्बन्धो बुद्धेर्विषयाकार- परिणतिभेदोऽयं घट-इत्यादिः। तेनेति। तेन ज्ञानेन चेतनोऽहमिदं जानामीत्येवमाकारो बुद्धा- वारोपितस्य चैतन्यस्य यः सम्बन्धोऽतात्त्विकः सोऽयमुपलब्धिरित्यर्थः। एवं व्यवस्थिते सिद्ध- मर्थमाह। तदेवमिति। ज्ञानवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धेरेवेत्यर्थः। संस्कारस्य सांख्यैरनभ्युपगमाज्ज्ञानस्यैव स्मृतिहेतोरनभिव्यक्ततयाऽनुवृत्तेरिति स नोक्तः। तत्सामानाधि- करण्येनेति। कृतिसामानाधिकरण्येनेत्यर्थः। यद्यप्यदृष्टस्यायोग्यतया तत्सामानाधिकरण्यं न प्रत्यक्षं, तथापि धार्मिकोऽहमित्यनुव्यवसायादुपनीतस्य प्रत्यक्षत्वमिति भावः। परिणामि- त्वादिति। अनित्यधर्माश्रयत्वादित्यर्थः। कर्तृधर्मा इति। यत्र कृतिस्तददृष्टस्य तत्रैव भोगजनकत्वमित्यत्राविवादे कृत्याश्रय एव चेतनः, तद्भिन्ने तत्र मानाभावादित्यर्थः। अन्यथेति। बुद्धेर्नित्यत्वे मोक्षाभावः। आत्मनो प्रकाशिका। वाचकत्वानुपपत्तेः। ननु पुरुषस्य कूटस्थत्वे सुखादयः कुत्रेत्यादिशङ्कानिरासाय मूलं तदेवमि- ति। अतस्तदनुरूपमेव व्याचष्टे। ज्ञानवत् सुखेति। अनभिव्यक्त्येति। सूक्ष्मरूपतयेत्यर्थः। अनित्यधर्माश्रयत्वादिति। बुद्धेश्चैतन्ये परम्परया तत्परिणामस्य घटादेरपि चैतन्यप्रसङ्ग तत्रैवंरूपव्यापारेति। करोमीत्यध्यवसायः कृत्याध्यवसायः व्यापारावेशः स एव लक्षणं भेदको यस्याः, इदं तस्याः परिचयमात्रम्। तदेवम्। एवम् ज्ञानवत् अष्टावपि ज्ञानेन सार्धमित्यर्थः। नः=अस्माकम्मतम्। अन्यथा कर्तुरचेतनत्वे।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १८५ कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम्। चेतनोऽपि कत्तैर्व कृतिचैतन्ययोः सामानाधिकरण्येनानुभवात् । न चायं भ्रमो, बा- धकाभावात् । परिणामित्वाद् घटादिवदिति बाधकमिति चेत् । न । कर्तृत्वेऽपि समानत्वात् । तथा च कृतिपि भाविकी महतो न स्यात् । दृष्टत्वादयमदोष इति चेत् , तुल्यम् । अचेतनावार्थत्वं बाधकं, कार्यकारणयोस्तादात्म्यादिति चेद्, न । असिद्धेः । न हि कर्तुः कार्यत्वे प्रमाणमस्ति । प्रत्युत “वीतरागजन्मादर्शनात्” बोधनी । वर्गः स्याद् बुद्धिलक्षणोपाधेरनुच्छेदात् , उत्तरत्र तु नानुत्पन्नस्यानित्यत्वमित्यनुत्पत्तिदशायां बुद्धितद्धर्माभावान्संसारप्रागभाव एव पुंसः । ततश्च कदाचिद्भोगः कदाचिन्मुक्तिरिति भोगनियमो नोपपद्येत । पूर्वं पुरुषान्तरापेक्षया भोगनियमानुपपत्तिरुक्ता, इदानीं त्वेकस्यैव कालापेक्षया, तत्रो- भयोरपि भोगनियमानुपपत्तिविशेषात्निरस्तमित्युक्तम् । अत्रापि नित्यविभूनामात्मनां सर्वबुद्धि- प्राप्यविशेषेण बुद्धिनियमाभावाद् तदायत्तभोगनियमानुपपत्तिरुक्तसुलभेति भावः । कृतिसामा- नाधिकरण्यव्यवस्थिता इति । कर्तृधर्मा इत्यर्थः । इदं त्वस्माभिरुच्यत इत्याह-चेतनोऽपि- इति । चैतन्यमपि कर्तुरेवेत्यर्थः । नन्वयमनुभवो भेदाग्रहा्निमित्तो भ्रम इत्युक्तं, तत्राह-न चायम्-इति । नन्वस्ति बाधकं परिणामित्वं कर्तुः परिणामित्वादित्याह-न-इति । ततः किमित्यत आह-तथा च-इति । प्रयत्नोऽपि बुद्धेः स्वाभाविकोन स्यादित्यर्थः । शङ्कते-दृष्ट- त्वात्-इति । बुद्धेः कृतिसमवायस्य मानसप्रत्यक्षसिद्धत्वात् न परिणामित्वानुमानं कर्तृत्वं बाधत इति । तर्हि कृतिचैतन्ययोः सामानाधिकरण्यस्यापि दृष्टत्वात्कर्तुश्चैतन्याऩुमानमपि बाधि- तविषयमित्याह-तुल्यम्-इति । बाधकान्तरमाशङ्कते-अचेतना-इति । अचेतनाया हि प्रकृतेः कार्या बुद्धिः, साऽचेतना स्यात् , चेतनभावे वा प्रकृतेरपि चैतन्यप्रसङ्ग इति भावः । न-इति । कर्तुः कार्यत्वमेवास्माकमसिद्धं, दूरत एवाचेतनकार्यत्वमिति । न परं कार्यत्वे प्रमाणा- भावः किं च कार्यत्व एव प्रमाणमस्तीत्याह-प्रत्युत-इति । जायमानाः प्राणिनः तावत्स्तन्यादिषु रागवन्तो दृश्यन्ते, रागश्च सुखसाधनानुमानात् , तदनुमानं च तज्जातीयलिङ्गपरामर्शात् , स प्रकाशः। बुद्ध्युपधानस्यैव संसारत्वात् । अनित्यत्वे च तदुत्पत्तेः पूर्वं प्रकृतेः साधारण्यान्नियामकाभावेन संसाराभाव इत्यर्थः । ननु कर्तुर्बुद्धितत्त्वस्य धर्मा नियन्तार इति सांख्याभिमतमेव इत्यत आह । चेतनोऽपीति । चेतनोऽहं करोमीत्युभवादित्यर्थः । कर्तृत्वेऽपीति । बुद्धि कर्त्र्याश्रयः परि- णामित्वाद् घटादिवदित्यपि स्यादित्यर्थः । भाविकी = स्वाभाविकी । यदि ज्ञानाश्रयस्य कृत्याश्रयत्वेनानुभवात् तद्वाधानुमानं, तदा चेतनोऽहङ्करोमीत्यनुभवाद् बाधस्तुल्य इति शङ्कोत्तराभ्यामाह । दृष्टत्वादिति । अचेतनायाः प्रकृतेः कार्यं बुद्धितत्त्वं, कार्यकारणयोश्च तादा- त्म्यमिति चैतन्ये तस्य बाधकमित्याह । अचेतनेति । प्रत्युतेति । जातमात्रस्य स्तन्यपाने प्रवृ- प्रकाशिका । इतिचात्र विपक्षबाधकमिति भावः। तदुत्पत्तेः पूर्वमिति । नियामकधर्मादेस्तदभावेऽभावादित्यर्थः। समानत्वात्=परिणामित्वाद् घटादिवत् इत्यस्य समानत्वात् । तव चैतन्याभावः, मम कृत्याभावः, साधनीयः, ताभ्यां हेतुदृष्टान्तोभयाभ्यामिति भावः । भाविकी=स्वाभाविकी । महतः=बुद्धेः । न स्यादिति । ज्ञानिनः कृत्याश्रयत्वस्येति शेषः । अनुमानस्य बाधितत्वादिति भावः । तुल्यम्=ज्ञानिनः कृत्याश्रयत्वस्येव कृत्याश्रयस्य चैतन्याश्रयत्वस्यापि दर्शनं तुल्यमित्यर्थः ।

(न्या० ३अ० १आ० २५सू०) इति न्यायादनादितैव सिद्धयति । यद् यच्च कार्ये रूपं- दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् । स्थूलतामपहाय सूक्ष्ममया ते तत्र स- न्तीति चेत्, चैतन्यमपि तथा भविष्यति । तथाप्यसिद्धो हेतुः, तथा सति घटादी- नामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेद् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः । सौ क्ष्म्यं च समानमिति । तस्माद्, यज्जातीयात् कारणाद् यज्जातीयं कार्यं दृश्यते, तथाभूतात् तथाभूतमात्रमनुमातव्यं, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्यं व्य-

बोधनी । चं जायमानस्यास्मिन् जन्मनि न सम्भवतीति तदर्थं भावान्तरमाश्रेयम् । एवं पूर्वेष्वपि भावे- ष्वित्यनादित्वमेव कर्तुः सिध्यति । तदाह सूत्रकारो 'वीतरागजन्मादर्शनात्' (न्या० सू० ३.१.२५) इति । अस्त्वचेतनकार्यत्वं बुद्धेः, तथापि तस्याश्चैतन्यं, तच्चैतन्ये कारणचैतन्यं च न प्रसज्यत इत्यनिष्टप्रसङ्गमुखेन दर्शयति-यद्यत्-इति । यदि यावद्धर्मकं कारणं तावद्धर्मकं कार्यमिति स्यात्तर्हि बुद्धेश्चैतन्यवद्रागादयोऽपि न स्युः, भावे वा प्रकृतावपि स्युः ; तत्र कार- णात्मकत्वमिति कारणधर्मत्वं विवक्षितमिति सन्तु रागादयः प्रकृतावित्यत आह-तथा च- इति । एवकारो भिन्नक्रमः । सा प्रकृतिर्बुद्धिरेव स्यात्, न तु प्रकृतिः । भावाष्टकसम्पन्नत्वं हि बुद्धिलक्षणमिति । स्थूलरूपताम्-इति । प्रतीयमानभावाष्टकसंपत्तिर्बुद्धेर्लक्षणम् । प्रकृतौ तु रागादयः सूक्ष्मरूपाः, ततो नोक्तदोष इति । तर्हि रागादिवच्चैतन्यमपि प्रकृतौ सूक्ष्मरूपमभ्यु- पगभ्यतामित्याह-चैतन्यमपि-इति । ततः किमित्यत आह-तथापि-इति । एवमप्यचेतन- कार्यत्वादिति हेतुविशेषणासिद्धः, सूक्ष्मचैतन्ययोगिप्रकृतिकार्यत्वादिति । ननु प्रकृतेश्चैतन्याभ्यु- पगमे तत्कार्याणां घटादीनामपि तथात्वप्रसङ्गः कार्यकारणयोस्तादात्म्यात् तथा चाचेतनकार्यत्वं सिद्धमित्याह-तथा सति-इति । तर्हि प्रकृतौ रागाद्यङ्गीकारे घटादीनामपि तथात्वप्रसङ्ग इत्याह-रागादिमत्त्व-इति । घटादिष्वपि रागादयः सन्त्येव, सूक्ष्मत्वान्नोपलभ्यन्त इत्य- नाह-सौक्ष्म्यं च-इति । तर्हि चैतन्यमपि घटादिषु सदैव सूक्ष्मत्वान्नोपलभ्यत इति वक्तुं शक्यत इति । यद्वा, प्रकृतौ रागादेः सूक्ष्मत्वान्न घटादौ तत्प्रसङ्ग इत्याशङ्क्य तत्र सूक्ष्मचैतन्या- भ्युपगमेऽपि न घटादौ चैतन्यप्रसङ्ग इत्याह-सौक्ष्म्यम्-इति । यत एवं प्रसङ्गः तस्मात् कार्यकारणयोरेवं व्यवस्था न स्वेनेवमित्याह-तस्मात्-इति । व्यभिचारात् कारणेष्वसतामेव धर्माणां कार्येषु दर्शनात् सतामेव चादर्शनादिति । प्रकृतमनुसरामः, किमनेन कार्यकारणयोः

प्रकाशः । त्ती रागजनकैष्टसाधनताज्ञानाधीनेति तदनुमानार्थं जन्मान्तरानुभूतव्याप्तिस्मरणमावश्यकमेवं तत्पू- र्वजन्मनीत्यनादितेत्यर्थः । यद्यदिति । यथा प्रकृतौ रागाद्यभावेऽपि तत्कार्यबुद्धौ रागादिस्तथा प्रकृतेरचैतन्येऽपि सा चेतना स्यादित्यर्थः । तथाचेति । प्रकृतौ रागादिस्वीकारे तल्लिङ्गबुद्धितरत्व एव मानाभावाद् इत्यर्थः । तथेति । प्रकृतावपि सूक्ष्मं चैतन्यमित्यर्थः । असिद्ध इति । अचे- तनकार्यत्वादित्यत्र विशेषणासिद्धेरित्यर्थः । तथा सतीति । बुद्धेश्चैतन्ये तज्जन्यघटादेरपि तत् स्यादित्यर्थः । रागादीति । घटादे रागादिमद्बुद्धिजन्यत्वादित्यर्थः । सौक्ष्म्यं चेति । घटादौ रागादेरिव चैतन्यस्यापि सूक्ष्मत्वा दित्यर्थः । कारणात्मकत्वम् । धर्मधर्मिणोस्तादात्म्यात् ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १७७ भिचारादिति किमनेनाप्रस्तुतेन ? । यदि च बुद्धिर्नित्या, अनिर्मोक्षप्रसङ्गः, पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् । अथ विलीयते, ततो नानादेर्विंलय इत्यादिमत्त्वे तदनुत्पत्तिदशायां को नियन्ता ? प्रकृतेः साधारण्यात् तथा चासं- सारः । पूर्वपूर्वबुद्धिवासनानुवृत्तेः साधारण्यादप्यसाधारणीति चेत् । बुद्धि- निवृत्तावपि तद्धर्मवासनाऽनुवृत्तिरित्यदर्शनम् । सौक्ष्म्यान्न दोष इति चेत् । मुक्तावपि पुनः प्रवृत्तिप्रसङ्गः । निरधिकारात्त्वान्नैवमिति चेत् । तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्था- बोधनी । साधर्म्यवैधर्म्यनिरूपणेनेत्याह-किमनेन-इति । तदेवं कृतिचैतन्ययोः सामानाधिकरण्यस्याबा- धितत्वाच्चेति

१७८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१४ कारिकान्याख्यायां] न्तरकल्पनां ? । सैव हि तत्तद्व्यवहारगोचरा तेन तेन शब्देन व्यपदिश्यते शा- रीरवायुवदित्यागमोऽपि सङ्गच्छते इत्यतोऽपि हेतुरसिद्धः । अधिकारनिवृत्त्या बुद्धेरप्रवृत्तिरपवर्गः, वासनायोगश्चाधिकारः, ततः संसारः । धर्मधर्मिणोरत्यन्त- भेदे च कौटस्थ्यविरोधः । भेदश्च विरुद्धधर्माध्यासलक्षणो घटपटादिवत् प्रत्यक्ष- बोधनी । तत्राह—सैव हि—इति । यथैकस्यैव शरीरान्तर्वर्त्तिनो वायोरूर्ध्वाधोगमनादिविशेषणात् प्राणापानादिन्यपदेशः, तथैकस्या एव बुद्धेस्तत्तद्व्यापारभेदात् प्रकृत्यादिव्यपदेश इत्यागमोऽपि संगंस्यत इति । अस्तु तर्हि बुद्धेरेव प्रकृत्यादिभावस्ततः किमित्यत आह—अतोऽपि—इति । बुद्धेरेव प्रकृतित्वोपपादनादप्यचेतनकार्यत्वादिति हेतुरसिद्धस्तस्याः कार्यत्वाभावादिति । बुद्धेरेव संसारापवर्गावेवमेव चेत्याह—अधिकार—इति । कोऽयमधिकार इत्यत्रोक्तं वासनायोगः- इति । सा वासना च कर्मजन्यो धर्माधर्माविति । यदि बुद्धेरेव संसारापवर्गौ सैव पुरुषः स्यात्, तस्य च कूटस्थनित्यस्य कथं ज्ञानादिविकारः, विकारे वा कथं कूटस्थत्वमित्याशङ्कयाह- धर्मधर्मिणोरिति। यद्वा, कत्र्तैव चेतन इत्युक्तं, तत्र चेतनस्य विकारत्वेन कूटस्थनित्यताविरोध इत्या- शङ्कयाह—धर्मधर्मिणोः-इति । न हि भिन्नस्य धर्मस्योत्पादविनाशाभ्यां धर्मिणः कूटस्थत्वं विरुध्यत इति । भेद एव कुंत इत्यत आह—भेदश्च- इति । अहं जानामि ज्ञास्याम्यज्ञासिषमित्यती- तानागतवर्त्तमानज्ञानानुगतः पुरुषोऽहमास्पदमनुभूयत इति प्रत्यक्षमेव भेदे प्रमाणमिति । तथापि धर्मधर्मिणोगौरोऽयं शुक्लोऽयमिति सामानाधिकरण्यप्रतीतिदर्शनात्तथास्याह्यत्यन्तभिन्नयोर्घटपट- योरदर्शनादभेदोऽप्यस्त्वित्याशङ्क्य सामानाधिकरण्यं यथासंभवं विकल्प्य सर्वथैतद् भेदस्यैव सा- प्रकाशः । मयति । सैव हीति । तत्तद्व्यापारयोगादादिकारणत्वाभिमानकारणत्वादियोगात्तेन तेन प्रकृत्या- दिशब्देन बुद्धिरेकौवोच्यत इत्यर्थः । शारीरेति । यथैक एव शारीरो वायुरूर्ध्वाऽधोगत्यादियो गात् प्राणापानसमानादिशब्दवाच्य इत्यर्थः । अतोऽपीति । पूर्वं नित्यत्वेनाचेतनकार्यत्वमसिद्ध- मुक्तम् । अधुना तु बुद्धिरेव प्रकृतिपदवाच्येति प्रकृतिकार्यत्वं बुद्धेरसिद्धमित्यभिप्रायेणोच्यत इत्यर्थः । एवं सत्येकस्य क्रमेण संसारापवर्गौ सांख्यमतेन समञ्जयति । अधिकारेति । वासना= धर्माधर्मौ । ननु बुद्धेश्चैतन्ये चेतनकौटस्थ्यश्रुतिविरोध इत्यत आह । धर्मेति । कौटस्थ्यं हि नित्यत्वम् , । तच्च धर्मस्योत्पादविनाशेऽपि न धर्मिणस्तदित्यविरुद्धम् । अभेदे हि धर्मधर्मिणो- स्तद्विरोधः स च नास्त्येवेत्यर्थः । कथं नास्तीत्यत आह । भेदश्चेति । अहं जानाम्यहमज्ञा सिषमहं ज्ञास्यामीत्यनुभवाज्ज्ञानातीतत्वादिय्रहेऽपि अहमास्पदस्यावाधितप्रत्यक्षेण स्थैर्यानुभवा प्रकाशिका। कृतं प्रकृत्येति । प्रकृत्यादिशब्दानामर्थान्तरकल्पनयेत्यर्थः । पूर्वं नित्यत्वेनेति । यद्यप्यव्यवहितपूर्वं विशेषणासिद्धिरुक्ता तथापि ' न हि कर्तुः कार्यत्वं' इत्यादिना प्रथमतः एव मूलेऽसिद्धिरुक्तेति । अभिप्रायेणेति । यद्यपि नीलः पट इतिवत् ज्ञानमहमिति सामानाधि- करण्यधीरसिद्धैवेति कथं ज्ञानतद्धर्मिणोर्भेदसिद्धिः । तथापि सामानाधिकरण्यप्रतीत्या नीलप- मकरन्दः । पूर्वं नित्यत्वेनेति । यद्यप्यचेतनकार्यत्वादित्यत्र विशेषाणासिद्धिरिति व्याख्यानात् कार्य- त्वासिद्धिर्नोक्ता, तथाप्यसिद्धिरित्यादिमूलेन कार्यत्वासिद्धेरप्युक्तत्वात्तदभिप्रायेणेदं मन्तव्यम् । मागमोऽपीति । प्रकृत्यहङ्कारमनःप्रभृतिप्रतिपादकागमोऽपीत्यर्थः ।

प्रथमस्तबके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १७६ सिद्धः । न च सामानाधिकरण्यादभेदोऽपि, तद्धि समानशब्दवाच्यत्वम् , एक- ज्ञानगोचरत्वम् , एकाधिकरणत्वम्, आधाराधेयभावः, विशेष्यत्वं, सम्बन्धमात्रं वा, भेद एव भेदेऽपि चोपपद्यमानं नाभेदं स्पृशतीति । तस्मात् सर्वमवदातम् ॥१४॥ बोधनी । धकमित्याह-न च-इति । अनेकापेक्षया हि किञ्चिदेकं साधारणं भवति, न त्वेकस्यैकम् । सुश- ममन्यत् । न चातिप्रसङ्गः, कार्यकारणाभिधेयाभिधायकविषयविषयिभाववत् स्वभावत एव सामा- नाधिकरणनियमोपपत्तेरिति भावः । तस्मादात्मनो ज्ञानाद्यनित्यधर्मकत्वे दोषकणोऽपि नास्तीत्यु- पसंहति-तस्मात्सर्वमवदातम्-इति ॥ १४ ॥ प्रकाशः । दित्यर्थः । ननु धर्मधर्मिणोरत्यन्तभेदोऽसिद्धः । नीलः पट इति सामानाधिकरण्यबुद्धिरितिभिन्नाभि- न्नाभ्यां व्यावर्तमाना धर्मधर्मिणोर्भेदाभेदौ साधयति । अन्योन्याभावत्वमव्याप्यवृत्तिवृत्ति सदा- तनाभावमात्रवृत्तिधर्मत्वात् अत्यन्ताभावत्ववदित्यनुमानमप्यत्रेत्यत आह। न चेति । आद्यं द्वयं सामानाधिकरण्यं भेदेऽपि, अन्त्यत्रयं भेद एव, सम्बन्धमात्रमपि यथैककारणत्वादि तदा भेदेऽ- पि, नोचेद्शेद एव उपपद्यत इति नामेदस्ततः सिद्ध्यतीत्यर्थः । अथ नीलपटयोरभेदबुद्धिरेव सा- मानाधिकरण्यधीस्तदाऽसिद्धिः । नीलः पट इति प्रतीत्या तयोः सम्बन्धस्यैव विषयीकरणात् । अन्यथा नीलिमा पट इत्यपि बुद्ध्यापत्तिः । शब्दप्रयोगस्यापि मतुब्लोपादभेदोपचाराद्वापपत्तेः । वस्तुतो विरुद्धयोरेकत्र भावाभावाववच्छेदभेदेनैव प्रतीयेते । न चात्र सोऽस्ति । अनुमानमप्यनु- कूलतर्काभावेन व्याघातरूपप्रतिकूलतर्केण च प्रतिहतमिति संक्षेपः ॥ १४ ॥ प्रकाशिका । टयोरभेदसिद्धौ तद्दृष्टान्तेन धर्म्मधर्मिभावादेव प्रकृतेऽभेदः साध्य इत्याशयवानाशङ्कते । ननु धर्म्मधर्मिणोरिति । अन्योन्याभावत्वमिति । यद्यपि संयोगवदन्योन्याभावोव्याप्य- वृत्तितामादायार्थान्तरत्वम् । तथापि व्याप्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकस्वसमानाधिकरणा- त्यन्ताभावप्रतियोगिवृत्तित्वमव्याप्यवृत्तित्वं प्रकृते विवक्षितमिति नोक्तदोषः । संयोगात्यन्ताभावे च व्याप्यवृत्त्येव संयोगत्वं प्रतियोगितावच्छेदकमिति न दृष्टान्तासिद्धिः । सदातन्येति । सदात- नाभाववृत्त्यभावविभाजकधर्म्मत्वादित्यर्थः । तेन यथाश्रुते घटात्यन्ताभावत्वे व्यभिचारः, मात्रपदं च व्यर्थं प्रमेयत्वादपि साध्यसत्त्वात् मात्रपदस्य कात्स्न्र्यार्थकत्वे स्वरूपासिद्धिर्दृष्टा- न्तसिद्धी इति दूषणस्यानवकाशः । सदातन्येत्यादिविशेषणं च संयोगप्रागभावध्वंसयोर्व्यावृत्ति- श्वपक्षे, अन्यथाह्वदेयमेव । अभावपदं चाकाशादौ व्यभिचारवारणाय मुख्याभावपरं स पुनश्च- तुर्द्धेति शास्त्रेणाभावविभागान्न स्वरूपासिद्धिरिति स्मर्त्तव्यम् । आद्यं त्रयमिति । अधिकरणे- क्यस्यापि भेदाभेदसाधारणत्वादिति भावः । अन्त्यं त्रयमिति । सम्बन्धत्वमात्रपक्षेऽपि कार्य- कारणभावादिकमर्थमादाय भेदद्वयस्यैव प्राप्तेरिति भावः । कचित् पाठः आद्यं द्वयमिति । तत्रैकाधिकरणत्वं समानाधिकरणत्वं साम्यं च तदधिकरणत्वासामान्यधर्म्मघटितमिति भेदनीय- तमिति भावः । एवं च अन्त्यत्वेन तृतीयचतुर्थपञ्चमरूपं विवक्षितम् । षष्ठं तु स्वयमेव विकल्प्य दूषयिष्यतीति ध्येयम् । मतुब्लोपादिति । लुप्तस्मृतो मतुवेवार्थप्रत्ययको नीलपदे वा नील- सम्बन्धिाने लक्षणेत्यर्थः ॥ १४ ॥ मकरन्दः । सदात्तनाभावमात्रवृत्तिधर्मत्वादिति । ननु घटात्यन्ताभावत्वादौ व्यभिचारः, मात्रपदञ्च व्यर्थम् प्रमेयत्वादपि साध्यसत्त्वात् । न च मात्रपदं न व्यवच्छेदार्थकं, किन्तु यावदर्थकम् ।

१८० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१५ कारिकावतरणिकाया स्यादेतत् । नित्यविभुभोक्तृसद्भावे सर्वमेतदेवं स्यात्, स एव कुतः, भूता- नामेव चेतनत्वात् । कायाकारपरिणतानि भूतानि तथा, अन्वयव्यतिरेकाभ्यां तथोपलब्धेः, कर्मज्ञानवासने तु सर्वत्र प्रतिभूतनियते अनुवर्त्तिष्येते, यतो भोग- प्रतिसन्धाननियम इति चेत् । उच्यते— नान्यदृष्टं स्मरत्यन्यो नैकं भूतमपक्रमात् । बोधनी। एवं सांख्यं निरस्यापूर्वस्यात्मधर्मत्वे साधिते पुनरपि चार्वाकः प्रत्यवतिष्ठते—स्या- देतत्—इति । यदि भोक्ता नित्यो विभुश्च स्यात् ततस्तस्य सर्वदेहप्राप्त्यविशेषाद् भूतगतैरतिश- यैर्न भोगनियमः स्यादित्यात्मसमवायोऽपूर्वस्य स्यात्, तादृशस्तु भोक्ता कुतः प्रमाणात् सिध्येत् । न कुतश्चिदित्यर्थः । ननु ज्ञानसमवायिकारणत्वेनानुमास्यत इत्यत्राह—भूतानामिति । भूताना- मेव चेतनत्वे घटादेरपि तत्त्वप्रसङ्गमाशङ्क्य विशिनष्टि—कायाकार—इति । तानि भूतानि तथा चेतनानीत्यर्थः । भूतत्वाविशेषे कुतोऽयं विवेक इत्यत्राह—अन्वय—इति । यथा सुराकारपरिणता- नामेव भूतानां मदशक्तिर्नान्येषां तथैतदपि । तदुक्तं सूत्रकारेण "मदशक्तिवद् विज्ञानम्" इति । यदि शरीरादिव्यतिरिक्तः चेतनो न स्यात् तर्हि किमाश्रयावदृष्टसंस्कारौ भोगं प्रतिसंधानं च निय- च्छतस्तत्राह—कर्म—इति । स्मृतिहेतुः संस्कारो ज्ञानवासना, सा तावदनुभवसामानाधिकरण्यात् तदाधारेषु वर्त्तन्त इति । कर्मजनितौ धर्माधर्मौ कर्मवासना, सा तावन्नास्त्येव । यद्यपि स्यात् तथापि भूतानामेव कर्तृत्वान्तेष्वेव नियंता वास्येत—इत्युच्यत इति । अन्येरनुभूतं नान्यः स्मरतीति तावदविवादम् । अनेनात्मनः शरीरादिव्यतिरेके प्रमाणम- भिसंधत्ते, स्मृतिः पूर्वापरप्रत्ययाभ्यां सहैककर्तृका, ताभ्यां सहैककर्तृत्वेन प्रतिसंधीयमानत्वात्, न यदेवं, न तदेवं यथा देवदत्तस्य स्मृतिर्यज्ञदत्तस्य पूर्वापरप्रत्ययाभ्यां न प्रतिसंधीयते न तथा- चेयं तस्मान्न तथेति । ततः किमित्यत आह—नैकम्—इति । न तावच्छरीरावयविसमवेतं चैतन्यं, तस्यावस्थाभेदेष्वन्यत्वात् तत्र पूर्वानुभूतस्योत्तरावस्थायामस्मरणप्रसङ्गः । तर्हि करचरणाद्य- न्यतमावयवसमवेतं भविष्यतीति । अत्राप्येतदेवावतिष्ठते नैकभवयवभूतं चैतन्यं तस्यावयवस्य कदाचिद्विच्छेदात् । तत्र च तदनुभूतस्यावयवान्तरेणास्मरणप्रसङ्गः । यद्वा, आद्यपादेनावयवि- चैतन्यस्य निरासः, द्वितीयेनावयवचैतन्यस्येति । ननु पूर्वावयवविगता वासनोत्तरस्मिन्नवय- प्रकाशः । स्यादेतदिति । भूतचैतन्येऽपि प्रकृतसिद्धौ नित्यविभुभोक्तृनिरासपरेयं शङ्केति । अथैवं घटादिरपि चेतनः स्यादित्यत आह । कायेति । अन्वयेति । अन्वयव्यतिरेकाभ्यां शरीरस्य ज्ञानहेतुत्वे सिद्धे समवायिकारणमपि तदेव कल्प्यते । तदन्यस्मिन् मानाभावाद्, गौरोऽहं जाना- मीत्यनुभवाच्चेति भावः । ननु शरीरस्याऽनुभवितृत्वे कर्तृत्वे च तन्नाशादन्यस्य भोक्तृत्वे प्रतिसंधातृत्वे चातिप्रसङ्ग इत्यत आह । कर्मज्ञानेति । कर्मज्ञानाभ्यां जनिते वासने अदृष्टसं- स्कारौ। यत इति । यत्कायसन्ताने कर्म, तत्कायसन्ताने भोगो, यत्कायसन्तानेऽनुभवस्तत्का- यसन्ताने स्मृतिरित्यर्थः । नान्यदृष्टमिति । एवं बालशरीरेणाऽनुभूतस्य युवशरीरेण स्मरणं स्यात्, तयो- र्भेदात् । अन्यानुभूतस्यान्येन स्मरणेऽतिप्रसङ्गात् । न च बाल्ययौवनयोरेकं भूतं शरीरम् । अपक्रमात् = विनश्वरस्वभावत्वात् । न चान्यवासनाऽन्यत्र संक्रामति, अतिप्रसङ्गादित्यर्थः । प्रकाशिका । प्रकृतसिद्धाविति । कालान्तरफलानुकूलादृष्टस्यैव प्रकृतत्वादिति भावः ।

प्रथमस्तवके ] अपूर्वस्य चेतनधर्मत्वव्यवस्थापनम् । १६१ वासनासंक्रमो नास्ति न च गत्यन्तरं स्थिरे ॥१५॥ न हि भूतानां समुदायपर्यवसितं चैतन्यम् । प्रतिदिनं तस्यान्यत्वे पूर्वपूर्व- दिवसानुभूतस्यास्मरणप्रसङ्गात् । नापि प्रत्येकपर्यवसितं, करचरणाद्यवयवापाये तदनुभूतस्य स्मरणाद्योगात् । नापि मृगमदवासनेव वस्त्रादिषु संसर्गादन्यवा- सनाऽन्यत्र संक्रामति । मात्रानुभूतस्य गर्भस्थेन भ्रूणेन स्मरणप्रसङ्गात् । न चोपा- दानोपादेयभावनियमो गतिः । स्थिरपक्षे परमाणूनां तदभावात् । खण्डावयविनं बोधनी । यिनि संक्रामति विच्छिन्नाद्यवगता च तिष्ठत्स्ववयवेष्विति । अत्राह—वासनासंक्रमः— इति । 'सर्गादेव वासनायाः संक्रमणे संक्रान्तमातृवासनेन गर्भस्थेन मात्रानुभूतस्य स्मरणप्रसङ्गः । नन्पूपादानोपादेयभावस्तु नियामिका गतिर्भविष्यति । न अवयवी नाम किञ्चिदस्ति, किन्तु प्रति- क्षणभङ्गुराः परमाणव एव तत्त्वम् । तेन पूर्वैः परमाणुभिरुत्तरेषामुपादीयमानत्वमस्ति । मातृभ्रू- णयोस्तु तदभावान्नातिप्रसङ्ग इत्याह—न च—इति । न च स्थिरपक्षे परमाणूनां नित्यत्वेनोपादेय- भावोऽस्तीत्याद्यपादस्य निगदव्याख्यातत्वाद् द्वितीयं व्याचष्टे—न हि—इति । द्वितीयव्या- ख्याने स्वाथस्यैव विवरणं द्वितीयमेवार्थान्तरेण व्याचष्टे—नापि इति । द्वितीयव्याख्याने तु द्वितीयमिदानीं व्याचष्टे—नापि—इति । तृतीयं व्याचष्टे—नापि मृगमद—इति । तुरीयं व्याच- ष्टे—न च—इति । मा भूत्परमाणूनामुपादानोपादेयभावः, अवयवावयविनोस्तु भविष्यतीत्याश- ङ्कयाह—खण्डावयविनम्—इति । न ह्यनुभवितारो विच्छिन्ना अवयवाः खण्डावयविनमार- प्रकाशः । नन्वृपादानवासनाया उपादेये संक्रमः स्यादित्यत आह । न चेति । स्थिरे=स्थिरपक्षे, परमाणू- नामनुपादेयत्वाद् विच्छिन्नकरादीनां खण्डावयविनं प्रत्यनुपादानत्वादित्यर्थः । प्रतिदिनमिति । आहारपरिणतिविशेषस्य तद्धेतोरन्यान्यत्वादित्यर्थः । ननु करे मे सुखं, पादे मे दुःखमित्यनुभावादसुभवव्यधिकरणस्य सुखादेरनभ्युपगमात् कराद्येवानुभवितृ स्यादि- त्यत आह । नापीति । कराद्यपाये तदनुभूतस्मरणापातादित्यर्थः । मात्रेति । मातृगर्भस्थयो- र्मिथः संसर्गादित्यर्थः । ननु उपादानं यदनुभवितृ तद्वासना तदुपादेये संक्रामतीति करादिवा- सना तदपगमे तदुपादेये संक्रामति, न च मातृभ्रूणयोस्तथात्वमित्यत आह— न चेति । खण्डेति । अवस्थितावयवसंयोगेभ्य एव खण्डावयव्युत्पादादित्यर्थः । न च परमाणूनामेव चैतन्यं, तद्गुणानामतीन्द्रियत्वेन ज्ञानादेरप्यतीन्द्रियत्वापत्तेः । शरीरात्वयादेश्च प्रकाशिका । स्थिरपक्षे इति । क्षणिकतपक्षे पूर्वपरमाणुपुञ्जात्तदुत्तरपरमाणुपुञ्जोत्पत्तिरिति भवत्तूपादेये उपादानवासनासंक्रमः, स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तत्कराव- च्छेदेनानुभूतं तदपगमे नानुभूयेतेति भावः । तद्गुणानामिति । इदमापातः, वस्तुतः मकरन्दः । अत एव नोक्तव्यभिचारोऽपीति वाच्यम् । स्वरूपदृष्टान्तासिद्धेधोरापत्तेः । अन्योन्याभावस्यात्यन्ता- भावेऽत्यन्ताभावस्यान्योन्याभावेऽवृत्तेः । सदातनत्यपि व्यर्थम् । स्वरूपयोरप्रप्रागभावध्वंसयो- रप्यव्याप्यवृत्तित्वेन प्रागभावप्रध्वंसयोरपि साध्यसत्त्वादिति चेन्मैवम् । सदातानाभाववृत्त्यभाव- विभाजकोपाधिरवादिति विवक्षितत्वात् । न चैवमपि दृष्टान्तासिद्धिः, चतुर्द्धा अभावविभागस्य, स पुनश्चतुर्दैत्यनेन करणात् । संयोगप्रागभावादेर्व्याप्यवृत्तित्वाभ्युपगमेन सदातनपदं, तदनभ्युपगमे त्वनादेयमेवेति तत्त्वम् ॥ १४ ॥ स्थिरपक्ष इति । क्षणिकतापक्षे बाल्ययुवशरीयोर: परमाणुपुलारमकतयोपादानोपादेयभावे तद्वासनासंक्रमः स्यात् । स्थिरपक्षे तदभावान्न स्यादित्यर्थः । विच्छिन्नेति । तथा च तद्वास

१८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकावतरणिकायां प्रति च विच्छिन्नानामनुपादानत्वात् । पूर्वसिद्धस्य चावयविनो विनाशात् ॥ १५॥ अस्तु तर्हि क्षणभङ्गः । न चातिशयोऽप्यतिरिच्यते बोधनी । भन्ते तस्य तिष्ठद्भिरेवारम्भादिति । अखण्डं तु पूर्वावयविनं प्रति विच्छिन्ना एवोपादानभूता इत्यत्राह-- पूर्वसिद्धस्य-इति । किमनेन, स हि तदारब्धः पूर्वावयवीति । तद्विच्छेदे विनष्ट एव क इदानीं प्रतिसन्दध्यात् । अत्र पूर्वशरीरस्याप्युत्तरं प्रत्यनुपादानत्वादित्यपि द्रष्टव्यम् ॥१५॥ अत्र चार्वाक एव बौद्धमतावलम्बनेन प्रत्यवतिष्ठते-अस्तु तर्हि-इति । यदि स्थिरपक्षे गतिर्नास्ति तर्हि क्षणभङ्गमङ्गीकुर्म इति । ननु क्षणभङ्गवादे बीजादीनामङ्कुरादिकार्यानुगुणः कश्चि- दतिशयः क्षितिसलिलादिभिराधीयत इति वक्तव्यम् , अन्यथा कुसूलस्थैरपि बीजैरङ्कुरारम्भप्र- सङ्गात् । स चातिशयो बीजव्यतिरिक्तश्चेत् तस्यैवान्वयव्यतिरेकाभ्यां कारणत्वप्रसङ्गः, अव्यतिरेके तु बीजमात्रमेवेति कुसूलस्थानामप्यङ्कुरारम्भप्रसङ्ग इत्यत आह-न च-इति । सत्यमस्त्यति- शयः, स च भावान्न व्यतिरिच्यते, समर्थस्वभावं भावान्तरमेव क्षित्यादिर्जनयत इत्यर्थः । अथवा प्रतिक्षणभङ्गे भेद उपलभ्येत, तदनुपलम्भान्नास्ति भङ्ग इत्यत्राह--न च-इति । अतिशयो वैलक्षण्यं भेद इति यावत् , व्यतिरेको नास्तित्वं, न च भेदो नास्तीत्यर्थः । यद्वा, करणाकरणवि- रुद्धधर्मसंसर्गाद्धि पूर्वोत्तरयोः क्षणयोर्भेदोऽङ्गीकारः, तस्य सहकारिलाभालाभाभ्यामेकैकस्यैवोपपत्तेर्न भेदः सिध्यतीत्यत्राह--न च-इति । सहकारिजन्यातिशयस्य भावाद्यतिरेके तस्यैव कारण- प्रकाश । कारणत्वमात्रं सिद्ध्यति, न समवायिकारणत्वम् । तदेवं विपक्षबाधकाच्छरीरं न चेतनम् भूत- त्वाद् । घटवदित्यर्थः ॥ १५ ॥ अस्त्विति । तत्र पूर्वोत्तरशरीरयोरुपादानोपादेयभावाद् वासनासंक्रमात् प्रतिसन्धाननि- र्यम उपपद्यत इति भावः । क्षणिकत्वे विप्रतिपत्तिः । सत् स्वोत्पत्त्यव्यवहितोत्तरकालवृत्ति 'सप्रति- योगि न वा ? । तत्र स्थैर्ये प्रसङ्गविपर्ययाभ्यामर्थक्रियाव्यापकक्रमयौगपद्याभावात्तदभावेऽर्थक्रि- याकारित्वरूपसत्त्वानुपपत्तौ, यत् सत् तत् क्षणिकं यथा घटः संश्च विवादास्पदीभूतः शब्दादिरिति पराभिप्रेतं मानम् । ननु क्षणभङ्गे पूर्वक्षणिकभावादग्रिमो भावः सातिशयो जायते, यतः कार्यो- त्पादः, सहकारिसहितस्यैव तद्धेतुत्वे क्षणभङ्गानुषपत्तेः। तथा च सातिशयव्यक्त्युत्पादो गृह्येत, न चैवमिति न तत्सिद्धिरित्यत आह । न चेति । अतिरिच्यते=विविच्य न गृह्यते । असमर्थ- प्रकाशिका । परमाणूनां चैतन्य एकत्र शरीरे चैतन्यबहुत्व एकाभिप्रायनियमेन प्रवृत्तिनिवृत्ती न स्यातामिति दूषणं द्रष्टव्यम् ॥ १५ ॥ सदिति । न चान्त्यशब्दस्य क्षणिकत्वे तत्रैवांशतः सिद्धसाधनम् , अक्षणिकत्वे च विधिकोटेरुप्रसिद्धिरिति वाच्यम् । पक्षतावच्छेदकैक्ये अंशतः सिद्धसाधनस्यादोषत्वात् , तद् भिन्नस्यैव वा पक्षत्वात् । यदि चान्त्यशब्दोऽपि द्विक्षणभावस्थायाी पक्षस्तदायं घट एतदुत्पत्त्यव- हितोत्तरवर्त्तिध्वंसप्रतियोगी न वेति विशिष्यैव विप्रतिपत्तिः, अतस्तत्कालध्वस्तपदार्थ एव विधि- कोटिप्रसिद्धिरिति ध्येयम् । निषेधकोटिप्रसिद्धिरत्तु मन्मते नित्ये तन्मते अलीके यदि सामान्य- विमतिपत्तिः विशेषविप्रतिपत्तौ तु सुलभैवोभयमते । प्रसङ्गविपर्ययाभ्यामिति । सामर्थ्यस्य क्षेत्रपतिते नैयायिकाङ्गीकृतत्वादसामर्थ्यसाधकाभ्यां ताभ्यामित्यर्थः, अत एव प्रसङ्गाभ्यां विप- र्ययाभ्यामित्यपव्याख्यानम् । अर्थक्रियेति । व्यापकत्वं च क्रमयौमपद्ययोरन्यतरत्वावच्छिन्न- मकरन्दः । नासंक्रमाभावात्तदनुभूतं खण्डशरीरेण न स्मर्येतेत्यर्थः॥१५॥ सदिति । न चान्त्यशब्दांशे सिद्धसा- धनमन्यथा साध्याप्रसिद्धेरिति वाच्यम् । सत्त्वावच्छेदेन साध्यसिद्धेरुद्देश्यत्वात् । अर्थक्रियाव्याप- ' अतिरिच्यते = विविच्य निश्चीयते ।