न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 201, कुल 608 में से
संदर्भ में पढ़ेंऽ प्रथमस्तबके ] अंपूर्वस्य चेतनधर्मत्वाक्षेपः । १६७ तथापि चेतन एवायं संस्क्रियते, न भूतानीति कुतो निर्णय इति चेत् । उ- च्यते । भोक्तॄणां नित्यविभूनां सर्वदेहप्राप्तावविशिष्टायां विशिष्टैरपि भूतैर्निया- मकाभावात् प्रतिनियतभोगासिद्धेः । न हि तच्छरीरं तन्मनस्तानीन्द्रियाणि विशिष्टान्यपि तस्यैवेति नियमः । नियामकाभावात् । तथा च साधारणविग्रह- वत्त्वप्रसङ्गः । न च भूतधर्म एव कश्चिच्चेतनं प्रत्यसाधारणः । विपर्ययदर्शनात् । द्वित्वादिवदिति चेन्न, तस्यापि शरीरादितुल्यतया पक्षत्वात् । नियतचेतनगुणो- पग्रहेणैव तस्यापि नियमो, न तु तज्जन्यतमात्रेण, स्वयमविशेषात् । बोधनी । तथापि इति । अत्र संभोगो निर्विशेषाणामित्येतदुत्तरयति — उच्यत-इति । अदृष्टविशेषविशिष्टे- ष्वपि शरीरादिभूतेषु सर्वात्मनां सर्वत्र सर्वदा सन्निधानाविशेषादिदमस्यैव शरीरं नान्यस्येति नि- यामकाभावेन प्रतिनियतभोगासिद्धेः चेतन एव संस्क्रियत इति निर्णयत इति । तदेवोपपादयति- न हि-इति । तच्छरीरं यस्यैवेति दृश्यते तदपूर्वविशिष्टमपि तस्यैवेति नियमो न स्यादिति । तदनियमे दोषमाह — तथा च-इति । ननु भूतधर्मत्वेऽप्यपूर्वस्य कञ्चिच्चेतनं प्रत्यसाधारण्यं भविष्यति । ततस्तद्विशिष्टं शरीरादि तस्यैवेति नियमः स्यादित्यत्राह न-च-इति । भूतधर्मा हि रूपादयः सर्वान् प्रति ज्ञानजनकत्वेन साधारणा दृश्यन्त इति । शङ्कते—द्वित्वादिवत्— इति । द्वित्वादयो हि भूतधर्माः केनचिदेव ज्ञायन्ते नान्येनेत्यसाधारण्येन दृष्टान्ता इति । न-इति । द्वित्वादेरपि शरीरादिना तुल्ययोगक्षेमत्वात् भूतधर्मत्वेनासाधारणत्वस्यासिद्धत्वादिति । तुल्यतामेवाह—नियत-इति । यस्यापेक्षाबुद्धिजन्या द्वित्वादयस्तस्यैव ते स्वविषयां बुद्धिं जनयन्ति नान्यस्येति नियतचेतनगुणोपगृहीतत्वेनैव तेषामसाधारण्यं, न तु भूतधर्मत्वमात्रेण, स्वयमविशेषादिति । रूपादिभ्यो द्वित्वादीनां स्वगतविशेषाभावादिति । यद्वा, स्वरूपेणासाधा- रण्यादित्यर्थः । यद्यपि द्वित्वादीनां स्वयमविशेषः, तथापि नियतचेतनगुणोपग्रहाभावे किं बाधकं येन नियम- प्रकाशः । भोक्तॄणामिति । भोक्तृप्रत्यासत्तेरविशेषात् किञ्चिच्छरीरं कस्यचिदेव भोगं जनयतीति प्रतिनियतभोगान्यथानुपपत्त्या प्रतिनियतभोक्तृकर्मोपार्जितत्वं शरीरादावभ्युपेयमित्यर्थः । विशि- ष्टैरित्यभ्युपगमवादः । असाधारण इति । प्रतिनियतभोगजनक इत्यर्थः । विपर्ययेति । भूत- धर्मस्य नीलादेस्तथात्वादर्शनादित्यर्थः । द्वित्वादीति । यथा भूतधर्मोऽपि द्वित्वादि यस्यैवापे- क्षाबुद्ध्या जनितं तस्यैव भोगजनकं, तथा अपूर्वमपि तद्धर्मः स्यादित्यर्थः । द्वित्वादेरप्यसाधारणत्वं नियतचेतनगुणोपग्रहेणैवेत्याह । तस्यापीति । तस्यैवेति = तदवच्छेदकस्यैवेत्यर्थः । विपर्ययदर्शनात् = भूतधर्मत्वेन स्थितस्य नीलादेस्तथात्वादर्शनादित्यर्थः । पक्षत्वादिति । चेतनगुणोपसंग्रहं विनैव तज्जन्यतमात्रेणासाधा- रणभोगजनकत्वं द्वित्वदृष्टान्तेनापूर्वादौ प्रसाध्यम् । दृष्टान्तो हि निश्चितसाध्यकः, तत्रास्मदादिभिः शरीरस्येव द्वित्वस्यापि चेतनगुणोपग्रहेणैवासाधारणभोगनियामकत्वं स्वीक्रियते तज्जन्यतयैव- चान्यं प्रत्यपि स्यात्, मालाकारकृतिप्रसाधितमालाद्यत् उपग्रहेण तथात्वे सहकारिणामपेक्षाबुद्धिद्वि- त्वनिर्विकल्पकादीनां तदात्मन्येव भाव इति तत्रैव द्वित्वं प्रत्यक्षजनकमिति न नियमभङ्गः । तथा च सन्दिग्धसाध्यकत्वान्न दृष्टान्तत्वमिति भावः । उपग्रहो नाम सहकारित्वं तथा च चेतनगुणोपसंग्रहेणे- त्यस्य चेतनगुणसहकारेणेत्यर्थः ।