न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 202, कुल 608 में से
संदर्भ में पढ़ें१६८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१३ कारिकान्याख्यायां तथापि तज्जन्यतयैव नियमोपपत्तौ विपक्षे बाधकं किमिति चेत्, कार्यकारण- भावभङ्गप्रसङ्गः । शरीरादीनां चेतनधर्मोपग्रहेणैव तद्धर्मजननोपलब्धेः । तत् यथा, इच्छोपग्रहेण प्रयत्नो ज्ञानोपग्रहेणेच्छादयः, तदुपग्रहेण सुखादय इत्यादि । प्रकृ- तेऽपि चेतनगता एव बुद्ध्यादयो नियामकाः स्युरिति चेद् ? न । शरीरादेः प्राक् बोधनी। स्य नियतगुणोपगृहीतत्वेन व्याप्तिः सिध्येदित्याशयेन पृच्छति-तथापि-इति । यदि द्वित्वादयो नियतचेतनगुणानुगृहीता भवेयुस्तर्हि तेषां चेतनधर्मेण स्वविषयज्ञानेन सह यः कार्यकारणभावः स भज्येतेत्याह-कार्यकारण-इति । स्वविषयज्ञानजनकत्वानुपपत्तिर्बाधकमित्यर्थः । कुत इत्यत आह- शरीरादीनाम्-इति । चेतनधर्मजनकत्वस्य तद्धर्मोपगृहीतत्वेन व्याप्तिप्रदर्शनादित्यर्थः। व्याप्तिमेवोदाहरणे दर्शयति-तद् यथा इति । न ह्यनिष्टे प्रवृत्तिप्रयत्नः, न वाज्ञातविषयेच्छा, नापि तदविषयस्य सुखहेतुत्वमित्यादि । ततश्च द्वित्वशरीरादीनां नियतत्वं चेतनगुणोपग्रहेण व्याप्यत इति ततस्तत्सिद्धिरिति । सन्तु तर्हि प्रकृते शरीरेन्द्रियाणां प्रतिनियतभोगा- धनत्वेऽपि नियतचेतनगताः सम्प्रतिपन्ना एव नियामका इत्याह-प्रकृत-इति । शरीरादेः पूर्वं प्रकाशः। ननु भूतधर्मान्तरस्य साधारण्येऽप्यपूर्वं तद्धर्मस्तत्कार्यत्वमात्रेणैवासाधारणं स्यादित्यत आह- तथापीति । कार्यकारणभावमेवाह । शरीरादीनामिति । प्रकृतेऽपीति । यथा शरी- रादीनां चेतनगुणबुद्ध्यादिसहितानां नियतानां नियतभोगजनकत्वं, तथा प्रकृतेऽपि तेषां तत्स- हितानामेव तज्जनकत्वमस्त्विति कृतमपूर्वेणेत्यर्थः । शरीरादेरिति । न शरीराद्युत्पत्तेः पूर्वं बुद्ध्यादिसम्भव इति तदन्यचेतनगुणापूर्वसिद्धिरित्यर्थः । देवदत्तशरीरं, स्वाव्यवहितप्राक्काल- वर्त्तिदेवदत्तसमवेतविशेषगुणजन्यम् कार्यत्वे सति तद्भोगसाधनत्वात् तन्निर्मितस्रग्वत् । घटा- दीनां पक्षसमत्वाद् न तैर्व्यभिचारः । न च संस्कारेणार्थान्तरं, तस्य भोगजनकत्वेनाकल्पनात् । प्रकाशिका। दृष्टान्तेनैवातीन्द्रियो धर्मः सिद्धेदिति शङ्का तदवस्थ्यैवेत्यतस्तां स्मारयति । तथापि चेतन एवेति मूलम् । देवदत्ताद्येति । प्रथमशरीरोत्पन्नज्ञानादिनैव द्वितीयशरीरेऽर्थन्तरमित्याद्य पदम् यत्किञ्चिदपेक्ष्याऽऽद्यत्वं द्वितीयशरीरस्यापि सर्वापेक्षया चाद्यत्वमप्रसिद्धमिति देवद- त्तेति । देवदत्तत्वं तत्तच्छरीरपरम्परावृत्तिजातिरिति तदाश्रयेषु मध्ये सर्वाद्यत्वं पक्षतावच्छे- दकमिति भावः । जन्मान्तरीयज्ञानादिभिरर्थान्तरवारणाय साध्येऽवृत्तीत्यन्तम् । अन्यविशेषगुण- जन्यत्वमादायार्थान्तरादिवारणाय देवदत्तेति । संख्यादिभिस्तदीयैरर्थान्तरवारणाय विशेषेति । हेतौ मनसा व्यभिचारवारणाय सत्यन्तम् । अन्यशरीरादौ व्यभिचारवारणाय तदिति । तन्निर्मि- तेति । तद्भोगसाधनेत्यपि द्रष्टव्यम् । तस्येति । यद्यप्येवमपि शरीरजनकत्वे विरोधाभावः । मकरन्दः। देवदत्ताद्येति । द्वितीयशरीरादेराद्यशरीरजन्यबुद्ध्यादिजन्यत्वेनाऽर्थान्तरं स्यादित्याद्य- पदम् । अन्यशरीरे बाधवारणाय पक्षे देवदत्तपदम् । जन्मान्तरबुद्धिजन्यत्वेनार्थान्तरवारणाय वर्त्यन्तम् । ईश्वरज्ञानादिजन्यत्वेन सिद्धसाधनवारणाय । देवदत्तेति । सङ्ख्यादिजन्यत्वेनार्थो- न्तरवारणाय, विशेषेति । मनसा व्यभिचारवारणाय सत्यन्तम् । अन्यशरीरादौ व्यभिचार- वारणाय, तदिति । तन्निर्मितेति ॥ तद्भोगसाधनेत्यपि द्रष्टव्यम् । तस्येति । यद्यप्येवमपि शरीरजनकत्वे विरोधाभावस्तथापि तद्द्वारा भोगजनकत्वमाश्रित्येदमुक्तम् । यद्यपि, धर्मकल्प- प्रकृतेऽपि = भूतसंस्कारपक्षेऽपि । तथाचापूर्वेणात्मनि भोगे जननीये आद्यशरीरस्य चेतन- गुणोपग्रहेण भोगजनकत्वानुपपत्तिः, सहकारिणश्चेतनगुणस्य तदानीमभावादिति भावः।