न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 231, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] क्षणभङ्गनिराकरणम् । १६७ नाञ्च भिन्नाश्रयत्वात् । तथा च कुतः क्षणिकत्वम् ? । वैजात्याभ्युपगमे च कुतोऽ- नुमानवार्त्ता ? । मा भूदनुमानमिति चेन्न । तेन हि विना न तत् सिद्ध्येत् । न हि क्षणिकत्वे प्रत्यक्षमस्ति । तथा निश्चयाभावात्, गृहीतनिश्चित एवार्थे तस्य प्रामा- ण्यात्, अन्यथाऽतिप्रसङ्गात् । ननु वर्त्तमानः क्षणोऽध्यक्षगोचरः । न चाऽसौ पूर्वापरवर्त्तमानक्षणात्मा । ततो वर्त्तमानत्वनिश्चय एव भेदनिश्चय इति चेत् । किमत्र तदभिमतमायुष्मतः ? यदि धर्म्येव नीलादिर्न किञ्चिदनुपपन्नम् । तस्य स्थैर्य्याऽस्थैर्य्यसाधारण्यात् । अथ धर्मः । तद्भेदूनिश्चयेऽपि धर्मिणः किमायातम् ? तस्य ततोऽन्यत्वात् । वर्त्तमाना- बोधनी । रयति-तथा च-इति । अस्तु तर्हि समावेश इत्याशङ्क्य महता प्रबन्धेनोपपादितमनुमानभ- ङ्गमपसंहरति-वैजात्य-इति । विना तेन न तत्सिद्धिरित्येतच्छङ्कापूर्वकं व्याचष्टे-मा भूत्- इति । कुतः प्रमाणान्तरात् तस्य क्षणिकत्वसिद्धिरिति । ननु प्रत्यक्षमेव तत्र प्रमाणमित्यत्र नाध्यक्षं निश्चयं विनेत्येतदुत्तरयति-न हि-इति । क्षणिकमेतदिति निश्चयस्य विकल्पस्याभावादिति । मा भूद्विकल्पः, निर्विकल्पकमध्यक्षं तत्र प्रमाणमित्यत्राह-गृहीत-इति । निर्विकल्पकेन गृहीते विकल्पिते चार्थे तस्य प्रत्यक्षस्य प्रामाण्यादिति विपर्यये बाधकमाह-अन्यथा-इति । यद्यनिश्चित एवार्थे प्रत्यक्षं प्रमाणं स्यात् किमिति वह्निक्षणिकत्व एव तत्प्रमाणं न स्यात् इति चोदयति-ननु-इति । द्वितीयप्रत्यक्षं तावद्धर्मिणं घटोऽयमिति वर्त्तमानत्वविशिष्टमेवाव- गाहते, वर्त्तमानस्य चातीतानागतात्मकत्वविरोधात् । तेन वर्त्तमानत्वं निश्चाययदेव प्रत्यक्षं धर्मिणः पूर्वापराभ्यां भेदं निश्चाययतीति क्षणिकत्वे प्रमाणमिति विकल्पं दूषयितुं पृच्छति- तत्त्-इति । तद् वर्त्तमानत्वं किमित्यभिमतं, किं नीलादिधर्मिस्वरूपमेव, अथवा तद्धर्म कालविशेष- संबन्ध इति भावः । द्वितीये दूषणमाह-अथ-इति । तस्य वर्त्तमानत्वधर्मस्यातीतानागतत्वाभ्यां भेदनिश्चयेऽपि धर्मिणो नीलादेर्न भेदः सिध्यति । तस्य धर्मिणस्ततो धर्मादन्यत्वादिति । बौद्धः स्वाभिसन्धिमुद्घाटयति । वर्त्तमान-इति । न वयं धर्मिमात्रनिश्चयाद्धर्मभेदनिश्चयाद्वा धर्मिणो प्रकाशः । चेति । द्रव्यादिव्यक्तिगतत्वेनैकाश्रयत्वाभावादित्यर्थः । तथा चेति । परापरभावाभावेन वैजा- त्याभावादित्यर्थः । तथापि तत्स्वीकारे दण्डमाह । वैजात्येति । तथेति । नीलमिदमितिवत् क्षणिकमिति निश्चयाभावादित्यर्थः । तथाप्यध्यक्षं निर्विकल्पकं तथा स्यात् तत एव प्रकृतसिद्धेरि- त्यत आह । गृहीतेति । निर्विकल्पकस्य सविकल्पकोन्नेयत्वात् तदसिद्धौ निर्विकल्पकसत्तायां मानाभावादित्यर्थः । नन्वयं घट इत्यनुभवोऽस्ति । स च घट इति धर्मिणम्, अयमिति वर्त्तमानत्वं विषयीक- रोतीति वर्त्तमानत्वनिश्चय एव क्षणिकत्वनिश्चय इति तद्गृह्णीतमध्यक्षमस्त्येवेत्यत आह । नन्विति । वर्त्तमानत्वं किं घट एव, तद्धर्मो वा ? आद्ये तदवच्छिन्न एव कालस्तस्य वर्त्त- मानः कालः स च तस्य स्थैर्येऽपि सम्भवति, एकक्षणात्मकत्वं तस्य घटस्यासिद्धमेव । अन्त्ये, प्रकाशिका । इति । वर्त्तमानत्वनिश्चय एवेति । अतीतानागतक्षणागोचरं क्षणगोचरं प्रत्यक्षमेव क्षणिकत्वे मानमिति भावः । एकक्षणात्मकत्वमिति । परमसूक्ष्माणां क्षणानामप्रत्यक्षत्वात् स्थूल एव कालोपाधिर्वर्त्तमानतया प्रत्यक्षे भासत इत्युपेयम् । तादृशी च सा स्थैर्य्येऽसाधारणीति भावः । ननु गृहीतेति । निर्विकल्पकविषयेत्यर्थः । निश्चितेति = सविकल्पकविषयेत्यर्थः ।