न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 230, कुल 608 में से
संदर्भ में पढ़ें१६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १६ कारिकाव्याख्यायां रसमावेश एव, समाविष्टयोश्च परापरभाव एव । अनेवम्भूतानां द्रव्यगुणकर्म्म- दिभावेन उपाधित्वमात्रम् । तेषान्तु विरुद्धानां न समावेशो व्यक्तिभेदात् । जाती- बोधनी । बीजत्वयोर्विरोधप्रसङ्गात्, तत्कथमयं नियम इत्याह - अनेवम्-इति । अनेवंभूतानां विरोधे सति समाविष्टानां समावेशे सत्यपरापरभूतानां च द्रव्यगुणकर्म्मस्वरूपेणोपाधित्वमात्रं, न सामा- न्यरूपेण समाविष्टत्वम् । तथा हि नीलगुणयोगात् नीलमुत्पलं न तु नीलत्वयोगात्, तथा द्रव्य- सम्बन्धाद् द्रव्यं नीलं न तु द्रव्यत्वयोगादिति । एवं चलनयोगात् चलं न तु चलत्वयोगादिति । जात्यात्मकानां तु सामान्यानां विरोधे सति न समावेश इतोमं तात्पर्यगोचरमर्थं पृथक्कृत्याह- तेषां तु-इति । कुत इत्यत आह-व्यक्तिभेदात्-इति । सामान्यव्यञ्जकानामाश्रयाणां भेदा- दिति । मियन्तां व्यञ्जकानि किमायातमसमावेशस्य तत्राह-जातीनाम्-इति । व्यक्त्याश्रय- त्वाज्जातीनां तद्भेदेन तदाश्रयाणां जातीनां च न समावेशः । तस्माद्विरुद्धानां नीलत्वोत्पलत्व- चलत्वादीनां गुणद्रव्यकर्म्मव्यक्तिसमवेतत्वेन नैकव्यक्तिसमावेशः, समाविष्टानां गुणादिव्यक्तीनां न विरोध इत्यर्थः । मा भूत्तर्हि कुर्व्वत्त्वबीजत्वयोः समावेश इत्यत्र न वैजात्यं विनेत्येतदेव स्मा- प्रकाशः तस्मादिति । अनेवमिति । येषां न विरोधो न वा परापरभावः, तेषां सहभावमात्राद् व्यवस्थितानां भूतत्वकार्य्यत्वमूर्त्तत्वानां द्रव्यादिभावेन द्रव्यादिरूपतया उपाधिमात्रत्वं, न तु जातिरूपत्वमित्यर्थः । ननु द्रव्यत्वगुणत्वादीनां कथमित्यत आह । तेषामिति । तेषां द्रव्यत्वादीनां कुतो न समावेश इत्यत आह । व्यक्तिभेदात्=व्यञ्जकाश्रयभेदादित्यर्थः । एतदेव स्पष्टयति । जातीनां प्रकाशिका । कम्पभिन्नशिंशपाजनककारणं वेत्यर्थः । न जातिरूपत्वमिति । ननु परस्परात्यन्ताभाव- समानाधिकरणयोरेकत्र समावेशे तदतज्जातीयताविरोधभङ्ग एव विपक्षबाधकः । साध्योपा- ध्योरपि तादृशयोः समावेशे समान एवेति कथं नोपाधिसङ्कर्य्यं दोषाय । अत्राहुः । उपाधिः पर- म्परासम्बन्धेन जातिरेवेत्युपाधिविरोधः परम्परासम्बन्धेन जातिविरोध एव पर्य्यवसितः स चा- संभवी परम्परासम्बन्धेन सर्वजातीनां सर्वत्र वृत्त्या विरोषोदाहरणाभावात् । एवञ्च साक्षात्सम्ब- न्धेनैव तदतज्जातीयत्वं विरुद्धत्वं न तु परम्परासम्बन्धेनापीति जात्योरेव तादृशयोन सहभावो न तूपाध्योरपीति । न चैवं घटाभावत्वपटाभावत्वयोरपि समावेशः स्यादिति वाच्यम् । केनचित् सम्बन्धेन विरोधसिद्धावपि सामान्यतः परम्परासम्बन्धेन विरोधासिद्धेः । स च विरोधप्रयोजकी- भूतः सम्बन्धः प्रतीतिबलकल्पनीय इति । जात्योस्तु तादृशयोः समवायेन सामान्यत एव विरोध कारणत्वस्यान्यत्र परिच्छेदसम्भवात् । अधिकाशङ्काया व्याघातेन प्रागेव निरस्तत्वात् । तव तु मते सहकारिवादानभ्युपगमात् , जातेः कारणतायामिव तद्विरहस्याकारणतायामप्यप्रयोजकत्व- प्रसङ्गात् । प्रयोजकतया कल्पितस्य कुर्व्वद्रूपत्वस्याभावोऽन्यजातीये प्रत्यक्षेण न हि निश्चयः कार्य्या- भावेनैव तन्निर्णये परस्पराश्रयप्रसङ्गात् । अन्यजातीयात् कार्य्योत्पत्तिसम्भामनाया दुर्वारत्वादिति । अनेवम्भूतानाम् = भूतत्वमूर्त्तत्वकार्य्यत्वादीनामित्यर्थः । विरुद्धानाम् = परस्परपरि- हारवताम् । व्यक्तिभेदात् = व्यञ्जकाश्रयभेदात् ।