न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 234, कुल 608 में से
संदर्भ में पढ़ें२०० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १७ कारिकाव्याख्यायां स्य तदधीनत्वात् । कोटिद्वयस्य चाङ्गत्वस्यानुपस्थाने कः सन्देहार्थः ? तद्दर्शने च कथं सर्वथा तदसिद्धिः ? । एतेनाप्रामाणिकस्तद्व्यवहार इति निरस्तम् । सर्वथा प्रामाण्यासद्धौ तस्याप्य- सिद्धेः । प्रकृते प्रामाण्यसन्देहो लूनपुनर्जातकेशादौ व्यभिचारदर्शनादिति चेत्। न एकत्वनिश्चयस्य त्वयाऽपीष्टत्वात् । अनिष्टौ वा न किञ्चित् सिद्धयेत् । सिद्धयतु यत्र विरुद्धधर्मविरह इति चेत्, तेनैव स्थिरत्वमपि निश्चीयते । स इह सन्दि- द्यत इति चेत्, तुल्यमेतत् क्वचिन्निश्चयोऽपि कथञ्चिदिति चेत्, समः समाधिः॥१७॥ बोधनी । यथा निश्चयः प्रामाणाधीनस्तथा संदेहोऽपीति । इतश्च सर्वथा प्रामाण्यासद्धौ सन्देहो न सिद्ध्ये- दित्याह—कोटिद्वयस्य-इति । निदर्शनं निश्चयः भवतु दर्शनं, तेन चोपस्थाप्यतां कोटिद्वयं, को विरोध इत्याह-तद्दर्शने च इति । कोटिद्वयनिश्चयार्थमपि संदेहः प्रामाण्यमपेक्षत इत्यर्थः । यद्वा, कासांचिज् ज्ञानव्यक्तीनां प्रामाण्यं कासांचित्त्वाप्राण्यं दृष्टवतः कस्यचित्प्रमाण- मप्रमाणं वेति संदेहः स्यात् । सर्वथा प्रामाण्यासद्धौ कोटिद्वयानुपस्थानात्संदेहो न सिध्यतीति कथं प्रामाण्यमात्रस्य सन्देहग्रस्तत्वे प्रमाणव्यवहारो लौकिकानामित्यत्र यत्प्रतिविधानं चार्वाकस्य, अप्रा- माणिकः प्रमाणव्यवहार इति । तदपि पूर्वोक्तव्याघातेन निरस्तमित्याह-एतेन-इति । व्याघातमेव स्फुटयति - सर्वथा-इति । अप्रामाणिकोऽयं व्यवहार इत्यस्यापि प्रमाणसिद्धत्वादिति । एवम्- 'सन्देहगोचरः सर्वं कस्य चिन्न कथंचन । प्रतिष्ठामिति वादोऽयं चार्वाकस्य निराकृतः' ॥ इति । अथोत्तरमर्थं व्याख्यास्यंस्तं निराकरणीयं विशेषतः प्रामाण्यसन्देहं सहेतुकमाशङ्कते- प्रकृते-इति । व्याचष्टे-न-इति । तथाप्येकस्मिन्क्षणे भावस्यैकत्वनिश्चयोऽस्ति । तत्रैकोऽय- मित्यबाधिताकारं ज्ञानमेव शरणं, तच्च कालभेदेऽपि समानमिति भावः । विपक्षे दण्डमाह- अनिष्टौ-इति । एकस्तावन्न सिध्यति, तदसिद्धौ नानेकोऽपीति शङ्कते—सिद्धयतु-इति । यत्रैकस्मिन् क्षणिके भावे विरुद्धधर्मसंसर्गो नास्ति स एकः सिद्धयतु विरुद्धधर्मसंसृष्टविषयं प्रत्य- भिज्ञानं प्रमाणं, न प्रत्यभिज्ञानमात्रम् । स्थिरे तु विरुद्धधर्मसंसर्गोऽस्तीति भावः । तेनैव-इति । तेन विरुद्धधर्मसंसर्गविरहेण पूर्वमुपपादितेनेति शङ्कते-सः-इति । विरुद्धधर्मविरहः स्थिरेऽपि संदिग्ध इति त्वयोपपादितेऽपि मया संसर्गस्यापायमानत्वाद्विप्रतिपत्तेः संशयगोचरः स्यादिति भावः । यदि निश्चितेऽपि संदेहस्तर्हि क्षणेऽपि विरुद्धधर्मासंसर्गः संदिग्धः स्यादित्याह- तुल्यम्-इति । यदि क्षणिकस्यैक्यानिश्चये न किंचित्सिध्येदिति तर्केण तत्र निश्चयः, तर्हि स्थिर- स्याप्यभावे सर्वस्यादृष्टगोचरत्वात् क्वचित्प्रवृत्तिः कुतश्चिन्निवृत्तिश्च न स्यादिति सर्वलोकयात्रो- च्छेदप्रसङ्गोऽत्रापि सम इत्याह-क्वचित्-इति ॥ १७ ॥ प्रकाशः । पक्त्वात् तेन विना सन्देहानुपपत्तेरित्यर्थः । यद्वा, सन्देहनिश्चयस्याऽपि तदनुव्यवसायप्रामाण्य- निश्चयाधीनत्वादित्यर्थः । तद्दर्शने चेति । प्रामाण्यदर्शने चेत्यर्थः । प्रकृते स्थैर्यसाधकप्रत्यभिज्ञाने । न किञ्चिदिति । क्षणिकोऽप्येको न स्यादित्यर्थः । तुल्य- मिति । क्षणिकस्याप्येकत्वे सन्देह इत्यर्थः । क्वचिदिति । यत्र न विरुद्धधर्मसंसर्ग इत्यर्थः । सम इति । स्थिरेऽपि तदभाव एवेत्यर्थः ॥ १७ ॥ प्रकाशिका । षाधीनत्वादिव् । इति सन्मुखव्याख्याने सुगमे वक्रव्याख्याने निर्बीजमित्यरुचेराह । यद्वेति ॥१७॥ तदधीनत्वात् = सन्देहव्यापकत्वात् । व्यापकाभावे व्याप्य स्यसंदेस्याप्यभावात् । यद्वा संदेहनिश्चयस्यापि तदनुव्यवसायप्रामाण्यनिश्चयाधीनत्वादित्यर्थः । तस्याप्यसिद्धेरिति । उक्तव्यवहारे प्रामाणिकत्वस्यापीत्यर्थः ।