न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 233, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] क्षणभङ्गनिराकरणम् । १६४ वताऽपि सिद्धं समीहितं चार्वाकस्येति चेत् । उच्यते— स्थैर्येदृष्ट्योर्न सन्देहो न प्रामाण्ये विरोघतः ॥ एकतानिश्चयो येन क्षणे तेन स्थिरे मतः ॥ १७ ॥ न हि स्थिरे तद्दर्शने वा स्वरसवाही सन्देहः । प्रत्यभिज्ञानस्य दुरपह्नव- त्वात् । नापि तत्प्रामाण्ये, स हि न तावत् सार्वत्रिको, व्याघातात् । तथा हि । प्रामाण्यासद्धौ सन्देहोऽपि न सिद्ध्येत्, तत्सिद्धौ वा तदपि सिद्ध्येत् । निश्चय- बोधनी । स्थैर्य्ये ? तद्दर्शने वा दर्शनप्रामाण्ये वा ? तत्रापि प्रामाण्यमात्रे किं वा प्रत्यभिज्ञानप्रामाण्ये ? तत्रापि सर्वत्र प्रकृते वेति ? तत्र न प्रथमद्वितीयावित्याह—स्थैर्येदृष्ट्योरिति । प्रत्यभिज्ञा- नस्य दुरपह्नवत्वादिति भावः । न तृतीय इत्याह—न प्रामाण्ये-इति । अनेकप्रमाणाधीन- त्वात् सन्देहस्य प्रामाण्यमात्रासिद्धौ संदेहो न सिद्ध्येत् । तत्सिद्धौ न प्रामाण्यमात्रासिद्धिरिति संदेहसिद्धिप्रामाण्यमात्रासिद्धयोः परस्परव्याघातात् । नापि चतुर्थपञ्चमावित्याह—एकता-इति । येन विरुद्धधर्मसंसर्गविरहेण क्षणैकत्वग्राहिणः प्रत्ययस्य प्रामाण्यं निश्चित्य क्षणिकस्य भावस्यैकत्वं निश्चितोषि तेनैव स्थिरमपि भावं निश्चिनुया इति व्याचष्टे—न हि-इति । यद्यपि वादिविप्रति- पत्तेराहार्य्यः संदेहः, तथापि न स्वरूपतः स्थैर्य्ये तद्दर्शनसद्भावे वा सन्देहोऽस्ति । प्रत्यभिज्ञानस्य विषयतः स्वरूपतश्च दुरपह्नवत्वादिति । सामान्यतो विशेषतश्च ज्ञानात् प्रामाण्यसंदेह इत्यपि नास्तीत्याह—नापि-इति । तत्र सामान्यसंदेहनिराकरणहेतुतया विरोध इत्येतद्व्याचष्टे— स हि-इति । सर्वज्ञानप्रामाण्यविषयस्तावन्न संदेहः संभवतीति व्याघातमेवाह-तथाहि- इति । संदेहग्राहकज्ञानस्य प्रामाण्यसिद्धेः सन्देहोऽपि सिद्ध्येत् तस्य सन्देहस्य सिद्धौ तदपि प्रामाण्यमपि सिद्ध्येदिति कृत इत्यत आह—निश्चयस्य-इति । सन्देहस्वरूपनिश्चयस्य सन्दे- हग्राहिज्ञानप्रामाण्याधीनत्वादिति निश्चयवत्तस्य तदधीनत्वादिति केचित्पठन्ति । तत्रायमर्थः- प्रकाशः । सिद्धमिति । क्षणिकत्वसन्देहेऽपि चार्वाकमतसिद्धेरित्यर्थः । अत्र सन्देहः स्थैर्ये, तद्दर्शने वा, प्रामाण्ये वा ? तृतीयेऽपि प्रामाण्यमात्रे, प्रत्यभिज्ञानप्रामाण्ये वा ? । नाद्यावित्याह । स्थैर्येति । प्रत्यभिज्ञानानुव्यवसायाभ्यां स्थैर्यतज्ज्ञाननिश्चयादित्यर्थः । वादिविप्रतिपत्त्या सन्देहो न स्वारसिक इति भावः । न तृतीयः । कचिदपि प्रामाण्याप्रसिद्ध्या तत्कोटिकसंशयस्याप्यभावादित्याह । न प्रामाण्य इति । न चतुर्थः । एकत्र क्षणे येन विरुद्धधर्मसंसर्गाभावेनैकत्वनिश्चयस्तेनैव स्थिरेऽपि तन्निश्चयादित्याह । एकतेति । तथा हीति । सन्देहीत्यनुव्यवसायमानकत्वात् तस्येत्यर्थः । तत्सि- द्धौ=सन्देहसिद्धौ । तदपि=प्रामाण्यम् । निश्चयस्येति । निश्चयस्य सन्देहाधीनत्वात् सन्देहव्या प्रकाशिका । यथार्थुतमूलावष्टम्भेनाह । क्षणिकत्वसन्देह इति । ननु यदि स्थैर्य्ये न सन्देहः तदा विचारप्रवृत्तिरेव कथमित्यत आह । वादेति । तथा च विप्रतिपत्तिजन्मा आहार्य्य एव संशयो विचाराइम् । अत एव मूले न स्वरसवाही सन्देह इत्युक्तमिति भावः । संशयस्यापीति । अनुव्यवसायप्रामाण्ये च न प्रामाण्यमात्रे सन्देह इति भावः । निश्चयस्य निधायकप्रामाण्यनिश्च- मकरन्दः । क्षणिकत्वसन्देहेऽपीति । स्थैर्यासिद्ध्या चार्वाकाऽऽकाङ्क्षितसिद्धेरित्यर्थः । वादीति । स्वारसिकस्यैवात्र निषेध्यत्वात् । अत एवोक्तं मूले, "न स्वरसवाही सन्देह" इति ॥ १७-१८॥ न सिद्ध्येत् । सिद्धिमात्रस्य प्रमाणाधीनत्वात् ।