भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 236, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 236

सर्वसाधारणनीलादिवैधर्म्येण काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम् । अन्यथा, तद्वैधर्म्येण हेतुफलभावस्या- पारमार्थिकत्वानुपपत्तेः । न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पार- मार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् । तस्मादस्य पारमार्थिकत्वेऽपरमपि तथा, न वोभयमपीति । कथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात्, तत्स्वभावत्वादिति यदि, तदोत्पत्तेरारभ्य कुर्यादविशेषादित्यपि न युक्तम् । तत्तत्सहकारिसाचिव्ये त- त्त्कार्यं करोतीति स्वभावव्यवस्थापनात् । इदञ्च साधारणमेव, सर्वैरेव तथोप- लम्भात् । न हि नीलादेरन्यत् साधारण्यमिति ॥१८॥ स्यादेतत् । अस्तु स्थिरं, तथापि नित्यविभोर्न कारणत्वमुपपद्यते । तथा ह्यन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण । अतिप्रसङ्गात् । न च नित्यविभूनां व्यतिरेकसम्भवः । न च सोपाधेरसावस्त्येवेति साम्प्रतम्, तथाभू-

बोधनी ।

तत्र पूर्वार्द्धं व्याख्यातुं तावद्वस्तुसत्त्वं नीलादेरवश्याङ्गीकार्यं यथा तथाह- सर्व-इति । अनुपन्न- स्तस्यापि कार्यभावस्य कारणत्वमतुल्ययोगक्षेमत्वाद्वा कारणत्वस्य संबन्धिरूपत्वेन तत्स्वरूपा- न्तर्गतत्वाद्बोपादानमित्यस्तु पारमार्थिको नीलादिस्ततः किमित्यत आह-न च-इति । किमित्ये- वमित्यत्राह- नित्यत्व-इति । नित्यस्यार्थक्रियाविरहादसत्त्वमेव स्यात्, न च नित्यत्वं कादा- चित्कत्वादिति भावः । अत्रार्थतः सिद्धमुपसंहरति-तस्मात्-इति । अस्य=नीलादेः अपरमपि= कारणत्वमपि । तथा = पारमार्थिकम् । न चोभयमपि पारमार्थिकं स्यादिति तृतीयपादं व्याचि- ख्यासंस्तन्निराकरणीयां शङ्कामुत्थाप्य निराकरणं प्रतिजानीते कथमित्यादिना न युक्तमित्यन्तेन । अन्तरा पूर्वपक्ष्यैव सिद्धान्तिनो मतमाशङ्क्य निराकरोति-तत्स्वभावत्वादित्यादिना । अवि- शेषात्कार्यकारणस्वभावस्योत्पत्तिप्रभृत्यविशेषात्तथैव व्याचष्टे-तत्तत्-इति । तुरीयपादं व्याचष्टे- इदं च-इति । 'इतिशब्दव्याख्यानम् । नन्वस्तु सर्वैरुपलम्भः, न तन्नीलादीनां साधारण्यं किन्तु सर्वान् प्रति तत्त्वं, कारणत्वस्य तु नैवंविधं साधारण्यमस्ति नियमस्योक्तत्वादित्यत्राह-न हि-इति । न तावन्नीलादेः सर्वदेशकालव्यापित्वं साधारण्यमस्त्यव्यापकत्वादनित्यत्वाच्च । न च सर्वान्प्रत्यपि नीलरूपमित्यपि संभवति । नीलत्वस्य कारणत्ववत्प्रतियोग्यपेक्षनिरूपणीयत्वाभावात् । ततः सर्वैः सर्वदा तथोपलम्भादेव साधारण्यम्, इदं च कारणत्वेऽप्यविशिष्टमिति ॥ १८ ॥ एवं तावत् क्षणिकत्वप्रतिक्षेपेण स्थिरत्वसमर्थनम् । न च गत्यन्तरं स्थिर इत्येतस्मिन्नन्वय- स्थिते भूतचैतन्यासम्भवात्तद्व्यतिरिक्तश्चेतन इति सिद्धम् । तत्राह-स्यादेतत्-इति । भवतु भूतं स्थिरं मा भूच्चैतन्यं तथापि भवदभिमतस्य नित्यविभोरात्मनः कारणत्वं नोपपद्यते, येनास्य ज्ञातृत्वं भोक्तृत्वमित्यादिकं सर्वमुपपद्येतेति भावः । किमिति नोपपद्य इत्यत्राह-तथा हि-इति । अतिप्रसङ्गात्कार्यमात्रं प्रत्येव नित्यविभूनां कारणत्वप्रसङ्गादिति भावः । ततः किमित्यत्राह-न च-इति । व्यतिरेको हि देशतः कालतो वा स्यादिति केवलस्यासम्भवेऽपि शरीराद्युपाधिविशि-

प्रकाशः ।

अस्य=नीलादेः । अपरमपि-कार्यकारणस्वरूपमपि । इदञ्चेति। तथा चेष्टापादनमिति भावः॥१८॥ नन्वेवमदृष्टस्यात्मवृत्तित्वेऽपि नात्मा समवायिकारणं, नाप्यन्यदिति तदभावादसमवाय्या- द्यपि न कारणमिति तन्नित्यत्वेन न यागादिजन्यत्वं, नाऽपि भोगनियामकत्वमित्यभिप्रेत्याह- स्यादेतदिति । न चेति । नित्यत्वेन न कालतो व्यतिरेको, विभुत्वेन न देशत इत्यर्थः ।

प्रकाशिका ।

तथा च कारणत्वमसदेवेति भावः ॥ १८ ॥