न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 236, कुल 608 में से
संदर्भ में पढ़ेंसर्वसाधारणनीलादिवैधर्म्येण काल्पनिकत्वं कार्यकारणभावस्य व्युत्पादयता नीलादि पारमार्थिकमेवाभ्युपगन्तव्यम् । अन्यथा, तद्वैधर्म्येण हेतुफलभावस्या- पारमार्थिकत्वानुपपत्तेः । न च कार्यकारणभावस्यापारमार्थिकत्वे नीलादि पार- मार्थिकं भवितुमर्हति, नित्यत्वप्रसङ्गात् । तस्मादस्य पारमार्थिकत्वेऽपरमपि तथा, न वोभयमपीति । कथमेकमनेकं परस्परविरुद्धं कार्यं कुर्यात्, तत्स्वभावत्वादिति यदि, तदोत्पत्तेरारभ्य कुर्यादविशेषादित्यपि न युक्तम् । तत्तत्सहकारिसाचिव्ये त- त्त्कार्यं करोतीति स्वभावव्यवस्थापनात् । इदञ्च साधारणमेव, सर्वैरेव तथोप- लम्भात् । न हि नीलादेरन्यत् साधारण्यमिति ॥१८॥ स्यादेतत् । अस्तु स्थिरं, तथापि नित्यविभोर्न कारणत्वमुपपद्यते । तथा ह्यन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते, नान्वयमात्रेण । अतिप्रसङ्गात् । न च नित्यविभूनां व्यतिरेकसम्भवः । न च सोपाधेरसावस्त्येवेति साम्प्रतम्, तथाभू-
बोधनी ।
तत्र पूर्वार्द्धं व्याख्यातुं तावद्वस्तुसत्त्वं नीलादेरवश्याङ्गीकार्यं यथा तथाह- सर्व-इति । अनुपन्न- स्तस्यापि कार्यभावस्य कारणत्वमतुल्ययोगक्षेमत्वाद्वा कारणत्वस्य संबन्धिरूपत्वेन तत्स्वरूपा- न्तर्गतत्वाद्बोपादानमित्यस्तु पारमार्थिको नीलादिस्ततः किमित्यत आह-न च-इति । किमित्ये- वमित्यत्राह- नित्यत्व-इति । नित्यस्यार्थक्रियाविरहादसत्त्वमेव स्यात्, न च नित्यत्वं कादा- चित्कत्वादिति भावः । अत्रार्थतः सिद्धमुपसंहरति-तस्मात्-इति । अस्य=नीलादेः अपरमपि= कारणत्वमपि । तथा = पारमार्थिकम् । न चोभयमपि पारमार्थिकं स्यादिति तृतीयपादं व्याचि- ख्यासंस्तन्निराकरणीयां शङ्कामुत्थाप्य निराकरणं प्रतिजानीते कथमित्यादिना न युक्तमित्यन्तेन । अन्तरा पूर्वपक्ष्यैव सिद्धान्तिनो मतमाशङ्क्य निराकरोति-तत्स्वभावत्वादित्यादिना । अवि- शेषात्कार्यकारणस्वभावस्योत्पत्तिप्रभृत्यविशेषात्तथैव व्याचष्टे-तत्तत्-इति । तुरीयपादं व्याचष्टे- इदं च-इति । 'इतिशब्दव्याख्यानम् । नन्वस्तु सर्वैरुपलम्भः, न तन्नीलादीनां साधारण्यं किन्तु सर्वान् प्रति तत्त्वं, कारणत्वस्य तु नैवंविधं साधारण्यमस्ति नियमस्योक्तत्वादित्यत्राह-न हि-इति । न तावन्नीलादेः सर्वदेशकालव्यापित्वं साधारण्यमस्त्यव्यापकत्वादनित्यत्वाच्च । न च सर्वान्प्रत्यपि नीलरूपमित्यपि संभवति । नीलत्वस्य कारणत्ववत्प्रतियोग्यपेक्षनिरूपणीयत्वाभावात् । ततः सर्वैः सर्वदा तथोपलम्भादेव साधारण्यम्, इदं च कारणत्वेऽप्यविशिष्टमिति ॥ १८ ॥ एवं तावत् क्षणिकत्वप्रतिक्षेपेण स्थिरत्वसमर्थनम् । न च गत्यन्तरं स्थिर इत्येतस्मिन्नन्वय- स्थिते भूतचैतन्यासम्भवात्तद्व्यतिरिक्तश्चेतन इति सिद्धम् । तत्राह-स्यादेतत्-इति । भवतु भूतं स्थिरं मा भूच्चैतन्यं तथापि भवदभिमतस्य नित्यविभोरात्मनः कारणत्वं नोपपद्यते, येनास्य ज्ञातृत्वं भोक्तृत्वमित्यादिकं सर्वमुपपद्येतेति भावः । किमिति नोपपद्य इत्यत्राह-तथा हि-इति । अतिप्रसङ्गात्कार्यमात्रं प्रत्येव नित्यविभूनां कारणत्वप्रसङ्गादिति भावः । ततः किमित्यत्राह-न च-इति । व्यतिरेको हि देशतः कालतो वा स्यादिति केवलस्यासम्भवेऽपि शरीराद्युपाधिविशि-
प्रकाशः ।
अस्य=नीलादेः । अपरमपि-कार्यकारणस्वरूपमपि । इदञ्चेति। तथा चेष्टापादनमिति भावः॥१८॥ नन्वेवमदृष्टस्यात्मवृत्तित्वेऽपि नात्मा समवायिकारणं, नाप्यन्यदिति तदभावादसमवाय्या- द्यपि न कारणमिति तन्नित्यत्वेन न यागादिजन्यत्वं, नाऽपि भोगनियामकत्वमित्यभिप्रेत्याह- स्यादेतदिति । न चेति । नित्यत्वेन न कालतो व्यतिरेको, विभुत्वेन न देशत इत्यर्थः ।
प्रकाशिका ।
तथा च कारणत्वमसदेवेति भावः ॥ १८ ॥