न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 237, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तवके ] विभोः कारणत्वसमर्थनम् । २०३ तस्योपाधिसम्बन्धेऽप्यनधिकारात् । जनितो हि तेन स तस्य स्यात्, नित्यो वा ? न प्रथमः, पूर्ववत् । नापि द्वितीयः, पूर्ववदेव । तथापि चोपाधेरेव व्यति- रेको न तस्य, अविशेषात् । तद्वत इति चेत् । न । स चोपाधिश्चेत्यतोऽन्यस्या- तद्वत्पदार्थस्याभावात्, भावे वा, स एव कारणं स्यात् । अत्रोच्यते— पूर्वभावो हि हेतुत्वं मीयते येन केन चित् । व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि ॥ १९ ॥ भवेदेवं यद्यन्वयव्यतिरेकावेव कारणत्वम् । किन्तु कार्यानियतः पूर्वभावः । बोधनी । ष्टस्य व्यतिरेकः सम्भवतीत्याशङ्क्याह—सोपाधेः-इति । कुत इत्यत्राह-तथाभूतस्य-इति । नित्यविभोः कारणत्व इवोपाधित्वसम्बन्धेऽप्ययोग्यत्वादिति । तदेवोपपादयति-जनित इति । तेन नित्यविभुना जनित उपाधिस्तस्य सम्बन्धी स्यात् नित्यो वेति । पूर्ववत्-इति । नित्यवि- भोर्व्यतिरेकासम्भवः कार्यजनन इवोपाधिजननेऽपि तुल्य इति । पूर्ववदेवेति। तज्जनितत्वमिवो- पाधेस्तत्सम्बन्धित्वमपि तदन्वयव्यतिरेकाभ्यामवसेयमन्वयमात्रस्य सर्वोत्ससाधारण्यात् । तेना- स्यैवायमात्मन इत्यासाधारणसम्बन्धित्वमपि व्यतिरेकाभावे दुरवधारणमिति । यद्वा, नित्यत्वेऽप्यु- पाधेस्तत्सम्बन्धस्यानित्यत्वादात्मनैव जनयितव्यत्वाच्चोपाधिस्वरूपजननवत्सम्बन्धजननपि न सम्भवतीत्युक्तं पूर्ववदेवेति । अस्तूपाधिस्तत्सम्बन्धश्च तथाप्युपाधेरेव व्यतिरेकः स्यात् न त्वात्मन इत्याह—तथापि-इति । उपाधिव्यतिरेकाव्यतिरेकयोस्तद्वत आत्मनः सर्वत्र सर्वदा- न्वयाविशेषादिति । अथवा नित्योऽप्युपाधिर्व्यापको वा स्यादव्यापको वेति विकल्पं हृदि निधाय व्यापकत्वे दोष उक्तः पूर्ववदेव-इति । निरुपाधिकसमयवदेवेत्यर्थः । अव्यापकत्वे दोषमाह— तथापि च-इति । शङ्कते—तद्वतः-इति । विशेषणस्योपाधेर्व्यतिरेके विशिष्टः तद्वानैव व्यति- रिच्यत इति । दूषयति—न-इति । उपाधिमानुपाधिश्चेत्यतो द्वयान्यस्य तद्वतो विशिष्टस्य पदा- र्थान्तरस्य नैयायिकैरनभ्युपगमादिति । तद्वतः पदार्थान्तरस्य भावेऽपि व्यतिरेकवतः तस्यैव कार- णत्वं स्यान्नात्मनो व्यतिरेकाभावादित्याह—भावे वा-इति ॥ अत्रोच्यत-इति । न तावदन्वयव्यतिरेकावेव कारणं, नापि तावेव तन्निश्चयोपायः। किं तर्हि ? कार्यानियतः पूर्वभावः कारणत्वं, निश्चीयते च धर्मिग्राहकप्रमाणादिनापि । तस्मान्नित्यविभोरपि कारणत्वसोपाधित्वनिश्चयौ सम्भवतः । एवमनभ्युपगमे ज्ञानादिकार्यलिङ्गेनात्मादेः समवायिकार- णस्य प्रतीतिर्न स्यात्, इति व्याचष्टे—भवेदेवम्-इति । व्यतिरेकहीनस्यात्मनो न कारणत्वं भवेद्यदि तावेव कारणत्वं स्यादिति । किं तर्हि कारणत्वमित्यत्राह—किन्तु-इति । येन केनचि- प्रकाशः । ननु केवलस्य व्यतिरेकाभावेऽपि शरीराद्युपहितस्य तस्य स्यादित्याह—न च सोपाधेरिति । नित्यविभोस्तदयोरगत्वादित्यर्थः । तत्र विकल्प्य हेतुमाह । जनितो हीति । अन्त्येऽपि व्या- पकोऽव्यापको वेति द्रष्टव्यम् । पूर्ववदिति । उपाधिजनकत्वग्राहकव्यतिरेकाभावस्तुल्य एवे- त्यर्थः । द्वितीयस्याद्ये दोषमाह—पूर्ववदिति । नित्यविभोरुपाधेरपि व्यतिरेकाभाव इत्यर्थः । नित्याव्यापकोपाधिपक्षे दोषमाह—तथापि चेति । विशेष्यवति विशिष्टाभावस्य विशेषणाभावे पर्यवसानादित्यर्थः । तद्वतः=उपाधिमतः । स एव विशिष्ट एव, न तु विशेष्यात्मेत्यर्थः । येन केन चिदिति । नान्वयव्यतिरेकाभ्यामेवेत्यर्थः। व्यापकस्यापीत्यत्र हेतुत्वमित्यनुष- प्रकाशिका । नान्वयव्यतिरेकाभ्यामेवेति । न हि व्यतिरेकगर्भकारणता न वा व्यतिरेकगर्भग्राह- कनियतेति भावः । धम्मिर्धीरन्यथा न हीत्यत्र हिशब्दं हेत्वर्थकं दृष्ट्वा साध्यं पूरयति । हेतुत्वमित्यनुषञ्जनीयमिति । अन्वयव्यतिरेकवज्जातीयत्वं यथा व्याख्यातमतिप्रसक्तमत