न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
प्रथमस्तवके ] विभोः कारणत्वसमर्थनम् । २०३ तस्योपाधिसम्बन्धेऽप्यनधिकारात् । जनितो हि तेन स तस्य स्यात्, नित्यो वा ? न प्रथमः, पूर्ववत् । नापि द्वितीयः, पूर्ववदेव । तथापि चोपाधेरेव व्यति- रेको न तस्य, अविशेषात् । तद्वत इति चेत् । न । स चोपाधिश्चेत्यतोऽन्यस्या- तद्वत्पदार्थस्याभावात्, भावे वा, स एव कारणं स्यात् । अत्रोच्यते— पूर्वभावो हि हेतुत्वं मीयते येन केन चित् । व्यापकस्यापि नित्यस्य धर्मिधीरन्यथा न हि ॥ १९ ॥ भवेदेवं यद्यन्वयव्यतिरेकावेव कारणत्वम् । किन्तु कार्यानियतः पूर्वभावः । बोधनी । ष्टस्य व्यतिरेकः सम्भवतीत्याशङ्क्याह—सोपाधेः-इति । कुत इत्यत्राह-तथाभूतस्य-इति । नित्यविभोः कारणत्व इवोपाधित्वसम्बन्धेऽप्ययोग्यत्वादिति । तदेवोपपादयति-जनित इति । तेन नित्यविभुना जनित उपाधिस्तस्य सम्बन्धी स्यात् नित्यो वेति । पूर्ववत्-इति । नित्यवि- भोर्व्यतिरेकासम्भवः कार्यजनन इवोपाधिजननेऽपि तुल्य इति । पूर्ववदेवेति। तज्जनितत्वमिवो- पाधेस्तत्सम्बन्धित्वमपि तदन्वयव्यतिरेकाभ्यामवसेयमन्वयमात्रस्य सर्वोत्ससाधारण्यात् । तेना- स्यैवायमात्मन इत्यासाधारणसम्बन्धित्वमपि व्यतिरेकाभावे दुरवधारणमिति । यद्वा, नित्यत्वेऽप्यु- पाधेस्तत्सम्बन्धस्यानित्यत्वादात्मनैव जनयितव्यत्वाच्चोपाधिस्वरूपजननवत्सम्बन्धजननपि न सम्भवतीत्युक्तं पूर्ववदेवेति । अस्तूपाधिस्तत्सम्बन्धश्च तथाप्युपाधेरेव व्यतिरेकः स्यात् न त्वात्मन इत्याह—तथापि-इति । उपाधिव्यतिरेकाव्यतिरेकयोस्तद्वत आत्मनः सर्वत्र सर्वदा- न्वयाविशेषादिति । अथवा नित्योऽप्युपाधिर्व्यापको वा स्यादव्यापको वेति विकल्पं हृदि निधाय व्यापकत्वे दोष उक्तः पूर्ववदेव-इति । निरुपाधिकसमयवदेवेत्यर्थः । अव्यापकत्वे दोषमाह— तथापि च-इति । शङ्कते—तद्वतः-इति । विशेषणस्योपाधेर्व्यतिरेके विशिष्टः तद्वानैव व्यति- रिच्यत इति । दूषयति—न-इति । उपाधिमानुपाधिश्चेत्यतो द्वयान्यस्य तद्वतो विशिष्टस्य पदा- र्थान्तरस्य नैयायिकैरनभ्युपगमादिति । तद्वतः पदार्थान्तरस्य भावेऽपि व्यतिरेकवतः तस्यैव कार- णत्वं स्यान्नात्मनो व्यतिरेकाभावादित्याह—भावे वा-इति ॥ अत्रोच्यत-इति । न तावदन्वयव्यतिरेकावेव कारणं, नापि तावेव तन्निश्चयोपायः। किं तर्हि ? कार्यानियतः पूर्वभावः कारणत्वं, निश्चीयते च धर्मिग्राहकप्रमाणादिनापि । तस्मान्नित्यविभोरपि कारणत्वसोपाधित्वनिश्चयौ सम्भवतः । एवमनभ्युपगमे ज्ञानादिकार्यलिङ्गेनात्मादेः समवायिकार- णस्य प्रतीतिर्न स्यात्, इति व्याचष्टे—भवेदेवम्-इति । व्यतिरेकहीनस्यात्मनो न कारणत्वं भवेद्यदि तावेव कारणत्वं स्यादिति । किं तर्हि कारणत्वमित्यत्राह—किन्तु-इति । येन केनचि- प्रकाशः । ननु केवलस्य व्यतिरेकाभावेऽपि शरीराद्युपहितस्य तस्य स्यादित्याह—न च सोपाधेरिति । नित्यविभोस्तदयोरगत्वादित्यर्थः । तत्र विकल्प्य हेतुमाह । जनितो हीति । अन्त्येऽपि व्या- पकोऽव्यापको वेति द्रष्टव्यम् । पूर्ववदिति । उपाधिजनकत्वग्राहकव्यतिरेकाभावस्तुल्य एवे- त्यर्थः । द्वितीयस्याद्ये दोषमाह—पूर्ववदिति । नित्यविभोरुपाधेरपि व्यतिरेकाभाव इत्यर्थः । नित्याव्यापकोपाधिपक्षे दोषमाह—तथापि चेति । विशेष्यवति विशिष्टाभावस्य विशेषणाभावे पर्यवसानादित्यर्थः । तद्वतः=उपाधिमतः । स एव विशिष्ट एव, न तु विशेष्यात्मेत्यर्थः । येन केन चिदिति । नान्वयव्यतिरेकाभ्यामेवेत्यर्थः। व्यापकस्यापीत्यत्र हेतुत्वमित्यनुष- प्रकाशिका । नान्वयव्यतिरेकाभ्यामेवेति । न हि व्यतिरेकगर्भकारणता न वा व्यतिरेकगर्भग्राह- कनियतेति भावः । धम्मिर्धीरन्यथा न हीत्यत्र हिशब्दं हेत्वर्थकं दृष्ट्वा साध्यं पूरयति । हेतुत्वमित्यनुषञ्जनीयमिति । अन्वयव्यतिरेकवज्जातीयत्वं यथा व्याख्यातमतिप्रसक्तमत
२०४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १९ कारिकाव्याख्यायां स च क्वचिदन्वयव्यतिरेकाभ्यामवसीयते, क्वचिद्धर्मिग्राहकात् प्रमाणात्। अन्यथा कार्यात् कारणानुमानं क्वापि न स्यात्। तेन तस्यानुविधानानुपलम्भात्। उप- लम्भे वा कार्यलिङ्गानवकाशात्, प्रत्यक्षत एव तत्सिद्धेः। तज्जातीयानुविधानद- र्शनात् सिद्धिरन्यत्रापि न वार्यते। तथापि वस्तुगत्यानुविहितान्वयव्यतिरेकमेव कार्यात् कारणं सिद्ध्येत्, अन्यत्र तथा दर्शनादिति चेन्न। बाधेन सङ्कोचात्। विपक्षे बाधकाभावेन चाव्याप्तेः। दर्शनमात्रेण चोत्कर्षसमत्वात्। अस्य चेश्वरे विस्तरे वक्ष्यते। सर्वव्यापकानां सर्वान् प्रत्यन्वयमात्राविशेषे कारणत्वप्रसङ्गे बोधनी। दित्यादिकं व्याचष्टे-स च-इति। तुरीयपादं व्याचष्टे-अन्यथा-इति। कुत इत्यत आह- न-इति। येन कार्येण लिङ्गेन कारणमनुमीयते तेन तत्सिद्धेः, तस्य कारणस्य सिद्धेरिति। यद्यप्यनु- मित्सिते विशेषे अन्वयव्यतिरेकयोरनुपलम्भस्तथापि तज्जातीयेषु विशेषान्तरेषु तदुपलम्भादन्य- त्रापि तज्जातीयदर्शनेन तज्जातीयकारणविशेषानुमानं सिध्यतीत्याशङ्क्याह-तज्जातीय-इति। अन्यत्रापि व्यतिरेकविरहिण्यपि आत्मादावपि समवायिकारणवद् रूपादिषु गृहीतान्वयव्यतिरे- कस्य तज्जातीयज्ञानादिकार्यदर्शनात्समवायिकारणत्वेनात्मनोऽनुमानं सुकरमिति भावः। यद्यप्य- नुपलब्धान्वयव्यतिरेकस्यापि कारणस्यानुमानं स्यात्। तथापि वस्तुगत्यानुविहितान्वयव्यतिरेक- मेव कारणं कार्यात् अनुमीयते रूपज्ञानादिना चक्षुराद्यनुमाने तथादर्शनादित्याह-तथापि-इति। न-इति। अन्वयव्यतिरेकवतः कारणत्वमिति व्याप्तेरदृष्टचरस्य धर्मिणः सिद्धिर्न स्यादिति बाधक- तर्केण नित्यविभुकारणव्यतिरिक्तविषयत्वेन संकोचादिति। न परं संकोचः व्याप्तिरेव नास्ति, व्यतिरेकविरहिणः कारणत्वे बाधकाभावादित्याह-विपक्ष-इति। अन्यत्र तथा दर्शनादिति यदुक्तं तत्राह-अन्यत्र-इति। विपक्षे बाधकमन्तरेण साहचर्यदर्शनमात्रेण साध्यधर्मिणि धर्मान्तरापादन उत्कर्षसमा नाम जातिरिति। एतदेव कथमित्यत आह-अस्य च-इति। क्षित्या- दिकं सकर्तृकं कार्यत्वाद्वटवदितीश्वरानुमाने तत एव शरीरिकर्तृकं स्यादिति प्रसङ्ग उत्कर्षसमा जा- तिरिति प्रतिपादयद्भिर्व्याप्तिमन्तरेण साहचर्यमात्रदर्शनेन धर्मान्तरोत्कर्षस्य जातित्वं तत्र विस्तरेण वक्ष्यत इति नेदानीं प्रपञ्च्यत इति। यद्वा, किमिदानीमयं न प्रपञ्च इत्यत्राह-अस्य-इति। नन्वस्ति बाधकं नित्यविभूनां सर्वकार्यं प्रति कारणत्वप्रसङ्गः, अन्वयमात्रस्याविशेषात्, तेन प्रकाशः। ज्ञनीयम्। तन्निश्चये हेतुमाह-धर्मिधीरिति। बुद्ध्यादिभिः कार्यैः समवायिकारणतयाऽऽ- त्मादयोऽवगम्यन्त इति धर्मिग्राहकमानादेव तेषां कारणत्वग्रह इत्यर्थः। तेनेति। कार्यव्यक्त्या- ऽनुमेयकारणव्यक्तेरन्वयानुविधानादर्शनादित्यर्थः। अथ कार्यकारणव्यक्त्योरन्वयव्यतिरेका- भ्यान्न तयोः कारणत्वं गृह्यते। तत्तज्जातीयस्यान्वयव्यतिरेकाभ्यामिति स्वगुणान् प्रति घटादे- रन्वयव्यतिरेकज्ञाने घटत्वादिकं न प्रयोजकम्, किन्तु द्रव्यत्वमेव। तच्चान्वयव्यतिरेकवज्जा- तीयत्वं गुणान् प्रति नित्यविभोरप्यस्तीत्याह--तज्जातीयेति। बाधेनेति। धर्मिग्राहकमाने- नात्मादीनां स्वनिष्ठकार्यगुणेषु कारणत्वग्रहाद् बाधोन्नीतपक्षेतरत्वोपाधेर्व्याप्यत्वाभावादिति भावः। विपक्षेति। दृष्टान्ते तथात्वदर्शनेऽपि तद्रूपं न प्रयोजकं गौरवादित्यर्थः। अन्यत्र तथा दर्शना- दित्यत्राह--दर्शनमात्रेणेति। नन्वबाधकाद् गुरोरपि प्रयोजकत्वमित्याशयेन बाधकमाह- सर्वेति। व्यतिरेकासम्भवेऽन्वयमात्रस्यैव कारणताग्राहकत्वे तदविशेषात् सर्वत्र कार्ये नित्य- उत्कर्षसमत्वात्। उत्कर्षसमजात्युत्तरत्वात् दृष्टान्तधर्मस्य व्याप्तिं विना पक्षे प्रसञ्जन- मुत्कर्षसमा जातिः, शब्दो यदि कृतकत्वेनानित्यः स्यात् कृतकघटादिवदेव रूपवान् स्यादित्यत्र सा अस्याश्च व्याप्तिं विना प्रसञ्जनीयत्वेनादोषत्वम्। इति धर्मदत्तोपाध्याय (प्रसिद्धबच्चाझा) कृतकुसुमाञ्जलिप्रथमस्तबकटिप्पणी समाप्ता ॥
प्रथमस्तबके ] विभुनः कारणत्वसमर्थनम् । २०५ बाधकमिति चेत् । न । अन्वयव्यतिरेकवज्जातीयतया विपक्षे बाधकेन च विशे- षेऽनतिप्रसङ्गात् । तथा हि, कार्यं समवायिकारणवद् दृष्टमित्यदृष्टाश्रयमपि तज्जा- तीयकारणकम् , आश्रयाभावे किं प्रत्यासन्नमसमवायिकारणं स्यात् , तदभावे निमित्तमपि किमुपकुर्यात् ? तथा चानुत्पत्तिः सततोत्पत्तिर्वा सर्वत्रोत्पत्तिर्वा स्यात् । एवमपि निमित्तस्य सामर्थ्यादेव नियतदेशोत्पादे स एव देशोऽवश्या- बोधनी । व्यतिरेकवत एव कारणत्वमिति व्याप्तिः सिद्धयतीत्याह-सर्वव्यापकानाम्-इति । न-इति । रूपादिकार्यं प्रति यज्जातीयं कारणं घटाद्यन्वयव्यतिरेकवद् दृष्टं, ज्ञानादिकार्यस्यापि तज्जातीयमेव कारणमनुमीयते । तज्जातीयत्वं नाम समवायिकारणजातीयत्वं सहकारिसमवधाननिबन्धनका- रणयोगित्वं च । तत्र समवायिकारणत्वं द्रव्यस्यैव न गुणादेरिति ज्ञानादीनां द्रव्याश्रयत्वं ताव- त्सिध्यति । न चातिप्रसक्तिः, द्रव्यान्तरस्याकाशादेः सहकारिसन्निधिकृततत्कारणाभावात् , अत- स्तद्व्यतिरिक्तद्रव्यभेदस्यैव ज्ञानकारणत्वेन सिद्धिरिति तदेवोपपादयति-तथा हि-इति । तज्जा- तीयकारणकमिति=दृष्टसमवायिकारणजातीयकारणकमित्यर्थः । अनुमातव्यमिति शेषः । अस- मवायिनिमित्ताभ्यामेव कार्योत्पत्तौ किं समवायिनेत्याह-आश्रय-इति । समवायिप्रत्यासन्नं ह्यसमवायिकारणं, कथं तत्तदभावे भविष्यतीति मा भूत्समवायिवदसमवाय्यपीत्याह-तदभावे- इति । असमवायिकारणोपपादकस्य हि निमित्तत्वम् , अतस्तदभावे तदपि न स्यादिति । तथापि किमायातमित्यत्राह-तथा च-इति । कारणमात्रस्याभावे कार्यस्योत्पत्तिरेव न स्यात् , निरपेक्ष- स्यैवोत्पत्तौ तस्य कादाचित्कत्वकाचित्कत्वे अपि न स्यातामिति । तर्हि निमित्तकारणमेवास्तु मा भूतां समवाय्यसमवायिनौ तत्सामर्थ्यादेव देशकलनियतोलपत्तिर्भविष्यतीत्यत्राह-एवम्-इति । समवाय्यसमवायिनोरभावे निमित्तमपि न स्यादित्युक्तम् । एवमपि यदि निमित्तसामर्थ्यादेव निय- तदेशोत्पत्तिः कार्यस्याभ्युपगम्येत भवेदेवं, तथापि यस्मिन्देशे कार्यमुत्पद्यते स देशोऽपेक्षणीयः प्रकाशः। विभोः कारणत्वप्रसङ्ग इति व्यतिरेकोऽपि तत्प्रयोजक इत्यर्थः । अन्वयेति । रूपादिकार्यं प्रति घटाद्यन्वयव्यतिरेकवद् दृष्टं, तज्जातीयश्चात्मा ज्ञानादिकं प्रति, समवायिकारणजातीय इति यावत् । यद्वा अन्वयव्यतिरेकवति कारणे सहकारिसाकल्यासाकल्याभ्यां कार्यकारणाकरणे दृष्टे । तददृष्टाप्यन्वयव्यतिरेकवज्जातीयत्वम् । न चैवमतिप्रसङ्गः । व्योमादेर्ज्ञानासमवायित्वात् । तथात्वे चाकाशाविशेषगुणतया ज्ञानस्य श्रौत्रत्वप्रसङ्गात् । दिक्कालविशेषगुणत्वे चाप्रत्यक्षत्वप्रसङ्गः । अत एव तन्न कार्यजनने सहकारिवैकल्यमतन्त्रम् । न चैवमपि व्योमादेः कार्यमात्रे निमित्तत्वा- पत्तिः । अन्यथासिद्धत्वात् । शब्दं प्रति पूर्ववर्तित्वग्रह एवान्यकार्यं प्रति तद्ग्रहात् । अन्यं प्रति पूर्ववर्तित्वग्रह एव यस्य यं प्रति तद्ग्रहः, तदन्यथासिद्धमिति प्रागुक्तमित्यर्थः । विप- क्षेति । यदिदं कार्यमेतदाश्रयोत्पत्तिप्रयोजकजन्यं न स्यादन्यदेशं स्यात् । एवं कालेऽपीति सर्वत्रोत्पत्तिसततोत्पत्तिशब्दवाच्येन तर्केणेत्यर्थः । उभयं क्रमेण विवृणोति-तथा हीति । आश्रयाभाव इति । समवायिकारणवृत्तेरेवासमवायिकारणत्वादित्यर्थः । ननु निमित्तवति निय- तदेश एव कार्योत्पत्तिरिति किं समवायिनेत्यत आह-एवमपीति । आश्रयदेशस्यैव समवा- प्रकाशिका । भ्याह। यद्वेति । तथा च व्योमादेर्ज्ञानं प्रति निरुक्तमन्वयव्यतिरेकवज्जातीयत्वमिति भावः । अन्यं मकरन्दः । अन्वयव्यतिरेकवज्जातीयत्वमतिप्रसक्तमित्यनुशायादाह-यद्वा, अन्वयव्यतिरेकवतोति । अत एवेति । तथा च ज्ञानं प्रति व्योमादेर्न निरुक्तमन्वयव्यतिरेकवज्जातीयत्वमिति भावः । समवायिकारणवृत्तेरेवेति । स्वस्वाश्रयान्यतरसमवायिकारणवृत्तेरेवेत्यर्थः । तथा चोभया-
२०६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १९ कारिकाव्याख्यायां पेक्षणीयः स्यात् । तथा च सामान्यतो देशसिद्धावितरपृथिव्यादिबाधे तदतिरि- क्तसिद्धिं को वारयेत् । एवमसमवायिनिमित्ते चोहनीये ॥ १६ ॥ बोधनी । कार्येण, स एव नः समवायिकारणमिति । नन्वस्तु तावता समवायिनः सिद्धिः किमायातात्मम- सिद्धेरित्याह-तथा च-इति । सामान्यतस्तावत्कश्चिद्देशो भवतैवाभ्युपगतः, तत्र ज्ञानादयः पृथिव्याद्यष्टद्रव्याश्रया न भवन्ति मानसप्रत्यक्षत्वात्, य उक्तसाध्या न भवन्ति न त उक्ता- धना यथा रूपादयः पृथिव्या इत्यनेन पृथिव्याद्याश्रयत्वस्य बाधे सति सामान्यतो दृष्टानुमानपू- र्वकात् परिशेषानुमानादष्टद्रव्यातिरिक्तद्रव्यसिद्धेः को वारयिता, न कश्चित् । तथा हि ज्ञानादयः क्वचिदाश्रिताः कार्यत्वादूपादिवदिति सामान्यत आश्रयसिद्धौ ज्ञानादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रयाः स्तदाश्रयत्वबाधे सति कार्यत्वात् , न यदेवं न तदेवं यथा रूपमिति । समवायिवदसमवायिनि- मित्ते च कारणे बाधकबलादेवोहनीये इत्याह-एवम्-इति । समवायिमात्रकारणत्वेऽपि तन्नि- त्यत्वात् कार्यस्य सततोत्पत्त्यादिप्रसङ्गः, असमवायिमात्रकारणत्वे इन्द्रियार्थसन्निकर्षे विनापि आत्ममनःसंनिकर्षादेव बाह्यार्थविषयज्ञानोत्पादप्रसङ्गः, निमित्तमात्रादुत्पत्तावपि आत्ममनःसंनिक- र्षाभावेऽपि तदुत्पादप्रसङ्ग इत्यादि बाधकमूहनीयम् ॥ १९ ॥ प्रकाशः यित्वादित्यर्थः । तथापि समवायिविशेषसिद्धिः कुत इत्यत आह । तथा चेति । प्रसिद्धसम- वायिवृत्तित्वबाधकसहकृतं समवायिवृत्तित्वसाधकमेवाप्रसिद्धसमवायि विषयीकरोति । सामा- न्यग्राहकस्यान्य मानस्य सहकारिविशेषाद् विशेषे पर्यवसानदर्शनादित्यर्थः । यदा तु समवा- यिवृत्तित्वानुमानान्तरं बाधकावतारः, तदा केवलव्यतिरेकिणस्तत्सिद्धिरिति भावः । एवमिति । तदन्यतराभावेऽपि कार्योत्पत्तिप्रसङ्गेनेत्यर्थः । वस्तुतः समवायिकारणत्वग्रहे प्रकाशिका । प्रतीति । स्वरूपसम्बन्धात्मककारणतायां मानाभावे सत्येवं कल्पनेति भावः । प्रसिद्धस- मवायीति । सामान्यतो दृष्टानुमानमेव बाधकोपनतं पृथिव्याद्यन्यत्वं समवायिनि विष- यीकरोति सामान्यत एवोपनयस्य प्रमाणमात्रे सहकारित्वादिति भावः । यद्वा सामान्येनैव रूपेण तन्मात्रं विषयीकरोति सामान्यतो दृष्टं बाधकावतारे, तदनवतारे तु तमन्यञ्च विशेषं विषयीकरोतीति भावः । केवलेति । केवलव्यतिरेकिण एवाष्टद्रव्यातिरिक्तद्रव्यप्रकारसिद्धि- रिति भावः । वस्तुत इति । अत्र केचित्, इदमापाततो भरस्तु प्रथमकल्प एव, तथा हि समवायिकारणत्वं विशिष्टं तत्र च समवायित्वं मानान्तरेण गृहीत्वोक्तग्राहकेन कारण- ताग्रहे संत्यर्थसमाजमहम्नैवं विशिष्टग्रहः, अन्यथा समवायिकारणत्वस्यापि विशिष्टस्य ग्राह्यत्वे ग्राहकान्तरमाश्रियेत । न हि तत्र संसर्गाभावः प्रयोजको निमित्तसाधारण्यात्, नाप्यन्योन्या- भावः, तदधिकरणे कार्यानुत्पादेन तस्य तत्राभावात् । किञ्चान्योन्याभावात्मकव्यतिरेको न सम- वायिकारणताग्राहको निमित्तीभूतकालादिसाधारण्यात् । न च यत् कपालं तत्र समवायेन घट इत्येवमात्मकस्यान्वयस्य यन्न कपालं न तत्र समवायेन घट इत्येवं रूपस्य च व्यतिरेकस्य सम- मकरन्दः । श्रयान्तर्भाव इति भावः । तथापीति । असमवायिनोऽप्याधारत्वसम्भवादिति भावः । वस्तुत इति । यद्यपि समवायित्वसमानाधिकरणं कारणत्वमेव समवायिकारणत्वम् । तच्च विशिष्टं न ग्राह्यं, किन्तु गोत्वादिसमवायित्वसाधारणसमवायित्वग्राहकसामाजात् कारणत्वग्राहका- देवार्थसमाजमहम्ना विशिष्टसिद्धिः । अन्यथा समवायिकारणत्वस्यापि विशिष्टस्य ग्राह्यत्वे ग्राह- कान्तरसम्बन्धमनुस्रियेत । न हि तत्र संसर्गाभावग्रहः प्रयोजकः । निमित्तसाधारणत्वात् । नाप्यन्योन्याभावग्रहः । तदधिकरणककार्यानुत्पादेन तस्य तत्राभावात् । यदि च कारणत्वमात्रमेव तंतो ग्राह्यं तस्य निमित्तसाधारणतया ग्राहकस्य निमित्तसाधारण्यं न दोषस्तदा प्रकृतेऽपि तुल्यम् । किञ्च संसर्गाभावग्रहस्य निमित्तसाधारणतया यदि न तद्ग्राहकत्वं, तदा निरुक्तस्यापि
प्रथमस्तवके ] विभुनः कारणत्वसमर्थनम् । २०७ बोधनी । एवं भगवतः परमेश्वरस्य विचित्रविश्वप्रसङ्गेन प्रपञ्चरचनायां सहकारिकारणं तदुपज्ञसंप्रदायकं च धर्माधर्माख्यमलौकिकं हेतुं प्रसाध्य परिच्छेदार्थमुपसंहरन्नयमेव, भगवतः सहकारिशक्तिनिय- मेऽपि,च तत्तद्वादिभिः तत्तत्प्रवृत्तिनिमित्तयोगेन मायादिशब्दैर्जगत्कारणत्वेनाभिलप्यत इति प्रतिपा- प्रकाशः। अन्योन्याभावरूपव्यतिरेक एव प्रयोजको, न तु संसर्गाभावग्रहः । निमित्तसाधारणत्वात् । यत् कपालं तत्र घटो, यन्न कपालं तत्र नेतिवद् य आत्मा तत्र ज्ञानादि, यन्नात्मा तत्र तद् नेति तद्ग्रहस्य सत्त्वात् । तथापि घटादिकं प्रति आत्मनो निमित्तकारणत्वग्रहः कुतः । तत्रोक्तगत्यभावात् । इत्थं, प्रयत्नवदात्मसंयोगश्चेष्टाद्वारा घटहेतुरिति प्रयत्नवदात्माऽपि तद्धेतुः । न चेवमपि संयोगो हेतुर्नात्मेति वाच्यम् । संयोगमात्रस्याहेतुत्वेन संयोगिविशेषितस्यैव हेतु- त्वात् । अन्यथा दण्डसंयोगस्यैव घटहेतुत्वेन दण्डस्यातत्त्वप्रसङ्गात् । अथात्मसंयोगोऽपि हेतुर्- सिद्धः । तदभावेन कार्याभावादर्शनादिति चेन्न । व्यधिकरणगुणजन्यकार्यत्वेन तत्समानाधिकर- णगुणजन्यत्वानुमानात् । स्पर्शवद्वेगवद्द्रव्याभिघातजक्रियायां तथादर्शनात् । न च मूर्तमा- त्रसमवेतासमवायिकारणकत्वमुपाधिः । कार्यकारणभावेन हेतोः साध्यव्याप्यतया तद्व्यापकत्व- प्रकाशिका। वायिकारणताग्राहकत्वमिति वाच्यम् । तथा सति समवायित्वस्य प्रथमत एव ग्रहे कार- णतामात्रमेव सिद्धमिति सिद्धं नः समीहितमिति वदन्ति । तत्तूच्छम् । एवमपि अधि- करणस्य समवायिनः तद्भिन्नस्य वा कारणतान्योन्याभावात्मकव्यतिरेकग्राह्येत्यत्र बाधकानुप- न्यासात् । एवञ्च समवायिकारणताग्रह इत्युपलक्षणमधिकरणनिष्ठकारणताग्रह इति द्रष्ट- व्यम्। अत एव कालादेरप्येवमेव कारणताग्रहो न तु संसर्गाभावग्रह इत्यादावसम्भवदिति शेषः। नन्वेवं संसर्गाभावः क्वापि न कारणताग्राहको नेत्याह । निमित्तसाधारणत्वा- दिति । निमित्तासमवायिसाधारणत्वात् । संसर्गाभावस्येति शेषः । तथापीति । यद्यप्यदृष्टा- धारत्वमात्मनः प्रकृतं तच्च समवायिकारणत्वसिद्धयैव बोधितम् तथापि शिष्यहितैषितया विचारोऽयम् । नन्वेवं संयोगिनोऽवच्छेदकत्वमस्त्वित्यत आह । अन्यथेति । यद्यपि संयो- ग्यवच्छेदकत्ववादिनोऽत्रेष्टापत्तिः । तथापि कारणसंयोगाश्रयस्यावश्यं कार्यजनकत्वमिति निय- माभिप्रायेणेदम् । व्यधिकरणगुणेति । प्रयत्नस्यान्वयव्यतिरेकाभ्यां चेष्टाकारणत्वे सिद्धे यः स्पन्दो यदीयव्यधिकरणगुणजन्यः स तत्संयोगजन्य इति व्याप्तेश्चाऽऽत्मसंयोगस्य स्पन्दजनक- त्वमित्यर्थः । फलगुरुत्वजन्योत्पतने व्यभिचार इति स्वव्यधिकरणेति । घटजन्यतत्स्पन्दे व्यभि- चार इति गुणेति । कपालरूपजन्ये घटरूपे व्यभिचार इति कार्यपदस्य स्पन्दपरत्वम् । ईश्वर- संयोगस्यापि घटादिकर्मजनकत्वमिति नेश्वरज्ञानादिजन्यघटादिकर्मणि व्यभिचारः । न च फलकान्तरवृत्तिद्रव्यगुरुत्वजन्यायां फलकान्तरवर्तिद्रव्योर्ध्वक्रियायां व्यभिचार इति वाच्यम् । गुरुत्वाधारद्रव्यफलकसंयोगस्यापि तुलादण्डघटितसम्बन्धेन तत्क्रियाजनकत्वात् विपक्षबाधकचान्न कारणप्रत्यासत्तेः कारणत्वावश्यकत्वमेवाप्रत्यासन्नजनकत्वेऽतिप्रसङ्ग एवेति । न चेति । साधन- मकरन्दः । तथात्वं न स्यात् । तस्यापि देशकालरूपाधिकरणत्मकनिमित्तसाधारणत्वात् । न च यत् कपालं तत्र समवायसम्बन्धेन घटः, यन्न कपालं न तत्र समवायेन घट इति विवक्षितमिति वाच्यम् । तर्हि समवायित्वं प्रथमत एव ग्राह्यमिति कारणत्वमात्रमेव तद्ग्राह्यमिति सिद्धं नः समीहि तम् । सम्बन्धान्तरगर्भस्य च तस्य देशादिकारणत्वग्राहकत्वं कल्प्येत । तथापि विशिष्टं न ग्राह्यं, किन्तु समवायिनः कारणत्वम् । एवमपि ग्राह्यमित्यत्र पूर्वकल्प एव वा तात्पर्यम् । नन्वेवं संयोगिनोऽवच्छेदकरूपमेवास्त्वित्यत आह--अन्यथेति । यद्यपि संयोगावच्छेदक- त्ववादिनस्तुल्यमिदं, तथापि कारणसंयोगाश्रयस्यावश्यं कारणत्वमिति नियमाभ्युपगमावष्टम्भेने- दम् । व्यधिकरणगुणेति । एतच्च प्रागेव व्याख्यातप्रायम् । न चेति । साधनव्यतिचार-
२०८ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्या] इत्येषा सहकारिशक्तिरसमा माया दुरुन्नीतिताे मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता ॥ देवोऽसौ विरतप्रपञ्चरचनाकल्लोलकोलाहलः साक्षात्साक्षितया मनस्यभिरतिं बध्नातु शान्तो मम॥२०॥ इति श्रीन्यायकुसुमाञ्जलौ प्रथमः स्तवकः ॥ १ ॥ बोधनी । दयन्नुत्तरोत्तरं समीचीनतरन्यायपरिस्फूर्त्तये स्वचेतसि भगवतः सान्निध्यं प्रार्थयते-इत्येषा- इति । इति=एवमुपपादितेषा, असमा प्रत्यात्मसमवेतत्वेनासाधारणी विचित्रा धर्माधर्माख्या शक्तिर्नैया- यिकैर्दैवस्य सहकारिशक्तिरिति व्युत्पादिता । जीवाद्दष्टसापेक्षो भगवान् जगन्ति निर्मिमीत इति तेषां च स्थितिः । माध्यमिकैस्तु दुरुन्नीतिलतः स्वरूपसामर्थ्याद्देवमियमित्युन्नेतुमशक्यत्वाद् इन्द्रजाला- दिमायासादृश्यान्मायेति । सांख्यैस्तु मूलकारणत्वात्प्रकृतिरिति, ते हि प्रकरोति प्रपञ्चमिति प्रकृ- तिशब्दं निराहुः । वेदान्तवादिनस्तु प्रबोधात्तत्त्वसाक्षात्काराद्विभेति तिरोधत्ते इत्यविद्येति । यथा हि मिथ्याज्ञानं तत्त्वज्ञानेन विनश्यति तथा धर्माधर्मावप्युत्पन्नतत्त्वज्ञानस्य भोगद्वारेण विलीयेते, ततस्तयोरेवाविद्यात्वादविद्यामात्रविलसितः प्रपञ्च इति तेषामाघोषः । एवं तत्तत्प्रवृत्तिनिमित्तवशेन मायादिशब्दैरुदिता यस्य सहकारिशक्तिरसौ देवो गुणतयाधिष्ठानमतीत्यावस्थित एवोपरतजगन्नि- र्माणादिव्यापारः सोऽस्मदीयं समस्तव्यापारं साक्षात् कुर्वन्मम चेतसि संनिधत्तामिति ॥२०॥ उदयनगम्भीरभावप्रकटननिपुणेन वरदराजेन । व्याख्यात एव गहनः कुसुमांजलेः प्रथमखण्डः ॥ इति श्रीमद्दामदेवमिश्रसूनोर्वरदराजस्य कृतौ न्यायकुसुमाञ्जलिटीकायां प्रथमः परिच्छेदः ॥ प्रकाशः योपाधेः साध्याव्यापकत्वात् ॥ १९ ॥ साधनमात्रसमर्थनेऽपि प्राधान्याददृष्टं स्तबकार्थमुपसंहरन् मायिकाद्यागमविरोधमाह— इत्येषेति । प्रथम इतिशब्द उपसंहारे । यस्य देवस्य एषा अदृष्टरूपा सहकारिशक्तिः सहकारि- कारणम् असमा मायेत्युदिता । "यन्मायाप्रभवं विश्व"मित्यत्र मायाशब्देनादृष्टस्याभिधानात् । असम्त्वे हेतुः-दुरुन्नीतिः । अदृष्टमाययोर्महाविचारोन्नेयत्वात् । "प्रकृतिप्रभवं विश्व"मि- त्यत्राप्यागमेऽदृष्टरूपा शक्तिरेव प्रकृतिरुदिता । कुतः ? । मूलत्वात् । मूलकारणमेव प्रकृतिश- ब्दार्थः । अदृष्टञ्च तथा । अविद्याप्रभवत्वागमे सैवाविद्येत्युदिता । यतः **प्रबोधात्=**तत्त्वज्ञानादुभ- योरपि भीतिः । अविद्यावज्जनकाद्दष्टस्यापि ततो भयात् । तत्त्वज्ञाने तदनुत्पत्तेः ॥ प्रपञ्चः= प्रतारणा, तद्रचनायाः **कल्लोलः=**परम्परा, तस्य **कोलाहलः=**किंवदन्ती स विरतो यस्य, स **शान्तो=**द्वेषादिहीनो मम मनसि । **अभिरतिं=**विजातीयज्ञानानन्तरितचिन्तां स्वविषयाम् । **साक्षात् साक्षितया=**तन्न प्रत्यक्षेण साक्षीभवन् । **बध्नातु=**दृढीकरोत्वित्यर्थः ॥ २० ॥ इति श्रीमदामहोपाध्यायश्रीवर्द्धमानविरचिते न्यायकुसुमाञ्जलिप्रकाशे प्रथमः स्तबकः ॥ १ ॥ प्रकाशिका । व्याप्तिपरिहाराय मात्रेति । तथा च चेष्टादावेव साधनाव्यापकत्वमिति भावः ॥ १९-२० ॥ इति श्रीभगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां प्रथमः स्तवकः ॥ १ ॥ मकरन्दः । णाय—मात्रेति । तथा न चेष्टादावेव साधनाव्यापकत्वमिति भावः । न च मात्रपदं विनापी- श्वरज्ञानादिरूपव्यधिकरणगुणजन्यशब्दजशब्दे साधनाव्याप्तिरिति वाच्यम् । मूर्त्तवृत्तित्वस्य कार्यविशेषणस्य प्रागेवोक्तत्वात् । अन्यथा तत्रैव व्यभिचारापत्तेरिति ॥ २० ॥ इति श्रीमद्दामहोपाध्यायदेवदत्तारमजमद्दामहोपाध्यायश्रीमद्रुचिदत्तकृतौ कुसुमाञ्जलिमकरन्दे प्रथमः स्तबकः ॥ १ ॥
श्रीगणेशाय नमः॥ न्यायकुसुमाञ्जलौ द्वितीयस्तबकः। तदेवं सामान्यतः सिद्धेऽलौकिके हेतौ तत्साधनेनावश्यं भवितव्यम्। न च तच्छक्यमस्मदादिभिर्द्रष्टुम्। नचादृष्टेन व्यवहारः। ततो लोकोत्तरः सर्वानुभावी सम्भाव्यते। बोधनी। अथ द्वितीयं परिच्छेदमारभमाणस्तन्निराकरणीयामाशङ्कामुत्थापयितुं यथा साधितपूर्वेणापूर्वे- णेश्वरसिद्धिस्तद्दर्शयति —तदेवम्—इति। तदिति वाक्योपक्रमे, एवमित्युक्तप्रकारपरामर्शः, सामान्यतः=सामान्यतो दृष्टेन पूर्वोक्तानुमानेन। अलौकिके हेतौ अदृष्टे सिद्धे कार्यत्वात्तस्य साधनेन ज्योतिष्टोमादिनाऽवश्यं भवितव्यम्। न च तत्साधनमस्मदादिभिः पिहितलोचनैः शक्यदर्शनम्। न च तथाऽदृष्टेन तेनानुष्ठानरूपो व्यवहारः सम्भवति। तस्मादतीन्द्रियार्थसा- क्षात्कारैकक्षमः सर्वोतिशायी कश्चिदस्ति यदुपज्ञोऽयमर्वाचीनानां तद्विषयो व्यवहार इति। प्रकाशः। द्वितीयां विप्रतिपत्तिमुत्थापयितुं भूमिकामारचयति। तदेवमिति। तस्य च जन्यतया तत्कारणयागादिदर्शी कश्चित् स्वीकर्त्तव्य इत्यर्थः। न चेति। यागादिस्वर्गसाधनत्वस्याती- न्द्रियत्वादित्यर्थः। तद्दर्शने दोषमाह। न चेति। व्यवहारश्च यागादिस्वर्गसाधनताबोधक- शब्दरूपः, अदृष्टाधिष्ठानरूपश्च। तदुभयमदृष्टसाक्षात्कारं विना न सम्भवतीत्यस्मदादिविलक्षणः सर्वज्ञः कल्प्यत इत्यर्थः। वेदवाक्यजज्ञानस्य हि प्रामाण्यमनिश्चित्य बहुधनव्ययाऽऽयाससाध्ये यागादौ प्रवृत्तिर्न स्यात्। प्रामाण्यं च गुणजन्यं, गुणश्च शाब्दे ज्ञाने प्रयोगहेतुवाक्यार्थयथार्थ- ज्ञानवत्त्वमिति भावः। प्रकाशिका। तस्य चेति। यागादिजन्यतया तस्य तत्कारणत्वे यागादिदर्शी कश्चित् स्वीकरणीय इत्यर्थः। शब्दरूप इति। शब्दप्रयोगस्यापि व्यवहारविशेषत्वादिति भावः। अदृष्टाधिष्ठानेति। कारणस्या- चेतनस्य चेतनाधिष्ठानं विना कार्याजनकत्वादिति भावः। दुभयमपीति। यद्यपि स्वर्गकामो यजेतेत्यादिशब्दप्रयोगे नादृष्टज्ञानापेक्षा, एतद्वाक्यार्थस्यादृष्टाघटितत्वात्। तथापि स्वर्गसाधनत प्रतीत्य तादृशवाक्यप्रयोगः, स्वर्गसाधनताप्रतीतिश्चादृष्टद्वारेवाऽऽशुविनाशियागादेरिति भगवतोऽ- दृष्टसाक्षात्कार आवश्यकः, ज्ञानान्तरस्य तत्रासंभवादिति भावः। ननु यागादेः स्वर्गसाधनताबोध- कोऽनादिरेव वेद इति कथमुपदेष्टुरपेक्षेत्याशङ्कयाह। वेदवाक्यजज्ञानेति। तथा चानादित्वे मकरन्दः। तस्य चेति। तस्य जन्यतया तत्कारणं यागादिः स्वीकर्त्तव्यः, ततः स्वर्गसाधनत्वेन तदुपदेशक तथा तथात्वेन तद्दर्शी कश्चित् स्वीकर्त्तव्य इत्यर्थः। तदुभयमिति। यद्यपि तद्विना- ऽपि तादृशरूपो व्यवहारः सम्भवत्येव, तथाऽप्यतीन्द्रियसाक्षात्कारं विनेत्यर्थ इत्येके। तदीय- स्वर्गसाधनतासाक्षात्कारोऽदृष्टविषयतानियत इत्याशयेन तयोरुक्तमित्यन्ये। ज्ञानान्तरस्यासम्भवात् साक्षात्कारं विनेत्युक्तम्। उत्तरग्रन्थमवतारयितुमाह। वेदवाक्यजेति। २७ न्या० कु०
२१० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या०] ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात्, किं परमेश्वरकल्पनयेति चेत्। अत्रोच्यते- प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् ॥ तदन्यस्मिन्ननाश्वासात्र विधान्तरसम्भवः ॥१॥ बोधनी। अत्रान्यथासिद्धिं मीमांसकः शङ्कते । नन्विति । नित्यत्वेन पुरुषाद्यनुप्रवेशाभावात् निर्दोषं स्वतः सिद्धप्रामाण्यं च वेदमेव मूलमवलम्ब्यान्यं धर्मसंप्रदायोऽस्तु, तन्नित्यत्वासिद्धावपि सांख्या- दिमतावलम्बनेन कर्मयोगसिद्धसाक्षात्कारविषयीकृतधर्माधर्माः कपिलादय एव सन्तु मूलमस्य, किमनेन परमेश्वरेणानपेक्षितसमुद्रवालुकाकीटसंख्यादिसर्वविषयज्ञानेनेति तदुत्तरत्वेन परिच्छेद- प्रतिपाद्यमर्थं संकलय्याह-उच्यते- प्रमायाः-इति । न तावत् स्वतः प्रामाण्यं, प्रमायाः कारणगुणतन्त्रत्वात् । न च वेदस्य नित्यत्वं शब्दस्यैवानित्यत्वात् । परतन्त्रपुरुषपरतन्त्रतया प्रवाहाविच्छेदलक्षणं नित्यत्वमस्तीति चेत्तदपि नास्ति सर्गप्रलययोः सम्भवेन प्रवाहस्यैव परिच्छेदात् । न च कपिलादिद्वारा सम्प्रदाय- सिद्धिः, ततः परमेश्वरादन्यस्मिन् कपिलादौ प्रमाणत्वेन विश्रम्भाभावात् । न हि योगबलप्रभा- विता भावना प्रमात्मकमेव साक्षात्कारं करोतीति नियमः, ततो नित्यसर्वज्ञसिद्धिरिति ॥ १ ॥ प्रकाशः। अत्रासिद्धिमाह । नन्विति । वक्तृदोषेणाप्रामाण्यशङ्कया निष्कम्पप्रवृत्तिर्न स्यात् । सा च नित्यत्वादवक्तृके वेदे नास्तीति तत एव प्रामाण्यं किं वक्तृगुणेनेत्यर्थः । वक्तृगुणजन्यत्वेऽप्यन्य- यासिद्धिमाह । योगेति । योगकर्मभ्यां ये सिद्धाः सर्वज्ञास्त एव वेदकारा अदृष्ठाधिष्ठातारश्चेति- न नित्यसर्वज्ञसिद्धिरित्यर्थः । यद्यप्यन्यथासिद्धिरपि प्रमाणाभाव एव पर्यवस्यति, तथापि साक्षात् प्रमाणाभावोऽग्रे दूष्यः, अन्यथासिद्धिद्वारा त्वत्रेत्यर्थभेदः । प्रमामात्रे गुणजन्यत्वसिद्धौ शाब्दप्रमायामपि तज्जन्यत्वसिद्धिर्भविष्यतीत्याशयेनाह । प्रमा- या इति । अनित्यप्रमाया इत्यर्थः । ननु नित्यत्वाद् वेदानां, कर्तृजन्यत्वेऽपि महाजनपरिग्रहात् , प्रामाण्यं निश्चित्य यागादौ प्रवृत्तिर्भविष्यतीत्यत आह । सर्गेति । तथा च वेदमहाजनयोरभा- वात् केन कस्य परिग्रह इति भावः । द्वितीयामन्यथासिद्धिं निरस्यति । तदन्यस्मिन्निति । अनित्यज्ञानवत्त्वेन भ्रमादिशङ्काकलङ्कितत्वेन नित्यसर्वज्ञपूर्वकत्वाद् न प्रकारान्तरसम्भव इत्यर्थः । प्रकाशिका । प्रामाण्यमेव तस्य न स्यादित्यवश्यमुपदेष्टुरपेक्षेति भावः। अग्रेति। प्रमायां गुणजन्यत्वमेव न, दोषाभावेनैवान्यथासिद्धेरित्यर्थः । वक्तृगुणजन्यत्वेऽपौरुषेयलक्षणमदृष्टाधिष्ठानेऽपीति द्रष्टव्यम् । पर्यवस्यतीति । तथा च द्वितीयपञ्चमयोर्नाभेद इति भावः । अग्रे=पञ्चमस्तबके । अन्यथा- सिद्धिद्वारा यः प्रमाणाभावः सोऽत्र दूष्योऽन्यथासिद्धिनिराकरणेनेत्यर्थः । ननु नित्यत्वादिति । नित्यत्वे प्रमाणसिद्धे दोषाभावादेव प्रामाण्यं महाजनपरिग्रहेण निश्चेयमिति भावः । तथा चेति । नित्यत्वञ्च न प्रामाणिकमिति भावः । साध्यस्यार्थानुवादपुरःसरं विरोधमपि हेत्वाभासमाह । मकरन्दः । अग्रे=पञ्चमस्तबके । अन्यथासिद्धिद्वारा = तन्निराकरणद्वारेत्यर्थः ।
द्वितीयस्तबके ] प्रमास्वतस्त्वखण्डनम् । २११ तथा हि। प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना, कार्यत्वे सति तद्विशेषत्वात् अप्र- बोधनी। प्रमापारतन्त्र्यं तावदनुमानेनोपपादयति-तथाहि-इति। प्रमात्वं नामौपाधिकसामान्यविशेषः। तस्य नित्यत्वेनानुत्पाद्यत्वात्, तदाश्रयो यथार्थानुभवलक्षणो ज्ञानविशेषः प्रमाशब्देन पक्षीक्रियते। ज्ञप्तिपक्षे च विरोधात् प्रामाण्यशब्देन प्रमाणत्वमेव पक्षीकरिष्यते, सेयं प्रमाऽप्रमासाधारणज्ञानसामा- न्यहेत्वधीना भवति, कार्यत्वे सति ज्ञानविशेषत्वादप्रमावदिति। व्याप्तिद्वयमत्राभिसंहितं-यो यत्कार्य- विशेषः स तत्सामान्यहेत्वतिरिक्तहेत्वधीनः, यथा कलमाङ्कुरः, न ह्यङ्कुरविशेषः कलमाङ्कुरोऽङ्कु- रसामान्यहेतोर्बीजादेव भवति किन्तु तद्विशेषात् कलमबीजात्, कार्यविशेषश्चेयं प्रमा तस्मात्तथेत्येका सामान्यव्याप्तिः। अपरा च-यो ज्ञानविशेषः स ज्ञानसामान्यातिरिक्तहेतुको यथाऽप्रमेति विशेष- व्याप्तिरिति। ज्ञानं नाम ज्ञानत्वाभिव्यञ्जिका विषयप्रवणा व्यक्तिः, तद्विशेषत्वमनुभवादीनामिति। अत्र द्रव्यविशेषस्याकाशादेः, ज्ञानविशेषस्य चेश्वरप्रमाया नित्यत्वाद्धेत्वपेक्षैव नास्ति, दूरेत त्साम- न्यातिरिक्तहेत्वधीनत्वम्। ततश्च तद्विशेषत्वमनैकान्तिकं मा भूदित्युक्तं-कार्यत्वे सति-इति। पक्षीकृतस्यापि कार्यत्वेन विशेषणान्नेश्वरप्रमांशे बाधादयः प्रादुष्यन्ति। अनुमानस्य विपक्षे प्रकाशः। प्रामाण्यस्य गुणजन्यत्वं साधयति। प्रमेति। हेत्वधीनत्वे ज्ञानहेत्वधीनत्वे च साध्ये सिद्ध- साधनं स्यात्, अतो ज्ञानहेत्वतिरिक्तहेत्वधीनेति साध्यम्। ननु प्रमाया ज्ञानत्वेन तद्धेतुजन्यत्वेन बाधः, ज्ञानाजनकजन्यत्वे विरोधः। अप्रमायां तदसिद्धेर्दृष्टान्तासिद्धिः, व्यर्थविशेष्यत्वं च, घटा- दावपि साध्यसत्त्वेन कार्यत्वस्यैव व्याप्तिमत्त्वात्। व्यर्थविशेषणत्वं च, व्यावत्यैश्वरज्ञानस्य परं प्रत्यसिद्धेः। नापि ज्ञानसामान्यहेत्वन्यहेतुजन्येति साध्यम्, उक्तदोषात्। ज्ञानसामान्यं च ज्ञानत्वं वा सर्वज्ञानव्यक्तयो वा ? आद्ये हेत्वसिद्धिः। अन्त्य इन्द्रियादिभिः सिद्धसाधनम्। नापि ज्ञानत्वावच्छिन्नकार्यत्वान्यकार्यत्वप्रतियोगिककारणजन्येति साध्यम्। ज्ञानत्वस्य नित्या- नित्यवृत्तितया कार्यत्वानवच्छेदकत्वात्। जन्यत्वेन ज्ञानविशेषणे प्रत्यक्षाद्यात्मकज्ञानविशेषजन- कैरिनि्द्रयादिभिः सिद्धसाधनम्। अत एव, प्रमात्वं ज्ञानत्वावच्छिन्नकार्यत्वनिरूपितकारणताभिन्न- कारणताप्रतियोगिकार्यतावच्छेदकं, ज्ञानत्वसाक्षाद्व्याप्यधर्मत्वात्, अप्रमात्ववदिति निरस्तम्। प्रकाशिका। ज्ञानाजनकेति। ज्ञानाजनकत्वं च पारिमाण्डल्यादौ प्रसिद्धम्। मिश्रास्तु विरोधः = प्रतिज्ञावि- रोधः, तथा च ज्ञानहेत्वजन्यत्वे बाधः प्रागुक्तः, इदानीन्तु साध्याप्रसिद्ध्या प्रतिज्ञाया विरोधे वाक्यार्थबोधाजनकत्वं, पारिमाण्डल्यादेरप्यभावसाक्षात्कारं प्रति प्रत्यासत्तिघटकतया जनकत्वेन ज्ञानाजनकत्वाप्रसिद्धेरिति विकल्प्य योजयन्ति। हेत्वसिद्धेरिति। ज्ञानत्वकारणाप्रसिद्धेरित्यर्थः। तथा च साध्याप्रसिद्धिरिति भावः। नित्यानित्येति। अनित्यपदमत्र सम्पातायातम्। एवम- न्यत्रापीदृशस्थले। ज्ञानत्वसाक्षादिति। ज्ञानत्वसाक्षाद्विभाजकधर्म्मत्वादित्यर्थः। विद्या चाविद्या चेति प्रथमं विभागादितस्योपपत्तिः, यदि च प्रमात्वं चाप्रमात्वञ्चानुभवत्वव्याप्यमेव मकरन्दः। साध्यार्थविवरणपूर्वकं विरोधमपि हेत्वाभासमाह। ज्ञानाजनकेति। एतेन बाघविरोधयोर्- द्वयत्रापि चरवाद्विकल्प्य विरोधाभिधानमसङ्गतमित्यपास्तम्, एकत्रैव साध्ये दोषद्वयस्योक्तत्वात्। हेत्वसिद्धिरिति। ज्ञानत्वहेत्वप्रसिद्धिरित्यर्थः। तथा च तद्धटितसाध्यस्याप्रसिद्धिरिति भावः। ज्ञानत्वसाक्षादिति। ज्ञानसाक्षाद्विभाजकोपाधित्वादित्यर्थः। एतेन, ज्ञानत्वव्याप्यज्ञानान्यान्यत्व- व्याप्यत्वेन प्रमात्वस्यासिद्धिः। तद्व्याप्यजात्यव्याप्यत्वगर्भत्वे प्रमाऽप्रमान्यतरत्वादौ व्यभिचार
[Page Header] २१२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या
प्रकाशः । प्रमात्वस्य नित्यानित्यवृत्तित्वात् । अनित्यप्रमात्वं कार्यतावच्छेदकं कार्यमात्रवृत्तित्वधर्मत्वात्, अप्र- मात्ववदित्यपि नीलघटत्वादनाऽनैकान्तिकम् । तत्र विशेषद्वयकारणेनान्यथासिद्धत्वात् । प्रमा- ऽप्रमाकार्यवैचित्र्यं च, यथैकजातीयसामग्रीव्यक्तिभेदाद् घटद्वयं जायते तद्वदेव ज्ञानसामग्रीव्य- क्तिभेदादुपपन्नम् । वैजात्यमपि तुल्यजातीयसामग्रीजन्यत्वेऽपि यमजवैधर्म्यवत् स्यात् । न च प्रमात्वावच्छिन्नकार्यत्वं कथमननुगतहेतुकमिति वाच्यम् । उक्तयुक्त्या तस्य कार्यतानवच्छेदक- त्वात् । अनित्यप्रमा प्रमाऽप्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वादप्रमावदिति चेन्न । कारणव्यक्ति- भेदजन्यत्वेन सिद्धसाधनाद् , अप्रमायां तदसिद्धेश्च । न चाप्रमायां दोषजन्यत्वात्तथा । दोषस्य पित्तादेः स्वविषयप्रमायामपि हेतुत्वात् । अनित्यप्रमा स्वविरोध्यनुभवप्रतिबन्धकजन्या अनित्या- नुभवत्वात् , अप्रमावत् । यद्वा, अनित्यप्रमा प्रमाऽप्रमान्यतरप्रतिबन्धकजन्या प्रमाऽप्रमान्य- तरत्वादप्रमावदिति चेद् , न । प्रमाजनकासाधारणव्यक्तिविशेषस्याऽप्रमाप्रतिबन्धकत्वं प्रमाजन- कत्वं चेति सिद्धसाधनात् ।
अत्रास्मत्पितृचरणाः । एवमप्रमाऽपि स्वत एव स्याद् , न परतः, प्रमावदसाधारणाका- रणादेव तदुत्पत्तौ दोषस्य तत्राहेतुत्वापत्तेः । यदि च ज्ञानसामग्र्यां सत्यां विशेषादर्शनादेर्दोष- स्यान्वयायथनुविधानाद्दोषो हेतुः, तर्हि विशेषादर्शनादेर्गुणस्यानन्वयायथनुविधानात् प्रमायामपि गुणे हेतुरिति तुल्यम् । अपि च, यत्कार्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकारणजन्यं, यथा घटविजातीयः पटः, अन्यथा कार्यवैजात्यस्याकस्मिकत्वापत्तेः । घटज्ञानमपि कार्यं तद्विजातीय- कार्यकारणविजातीयकारणजन्यमिति न व्यभिचारः । एवं प्रागुक्तानुमानेष्वपि न सिद्धसाधनम् । अनुगतस्य प्रमाहेतुत्वेनासाधारणव्यक्तिभेदस्याहेतुत्वात् । एवमनित्यप्रमात्वमनित्यज्ञानत्वावच्छि- न्नकार्यताप्रतियोगिककारणताभिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , अनित्यज्ञानत्वव्याप्य- कार्यतावच्छेदकधर्मत्वाद् , अप्रमात्ववदित्यनित्यप्रमायामप्रमासाधारणहेतुव्यावृत्तानुगतहेतुसिद्धिः।
प्रकाशिका । तदाऽभिमतं तदा ज्ञानपदममुभवपरमिति स्मर्त्तव्यम् । प्रमात्वस्येति । त्वन्मत इति शेषः तथा च बाध इति भावः । इदं च दूषणं ज्ञानपदस्यानित्यज्ञानपरत्वे, यथाश्रुते ज्ञानत्वस्य नित्यवृत्तितया कार्यतानवच्छेदकत्वेन साध्याप्रसिद्धिरेव दूषणम् पूर्वहेतोरत्र पक्षेऽसम्भवाच्च हेत्वन्तरमाह । कार्य- मात्रेति । वैजात्यं=वैचित्र्यम् । दोषस्य=पित्तोदेरिति । वस्तुतोऽप्रमाया उभयरूपतया न तादृशहेतुजन्यत्वमिति भावः । अप्रमाप्रतिबन्धकत्वमिति । अनेनानुमानेन सिद्धस्यैव प्रतिब- न्धकत्वं विषयीक्रियतामित्यर्थान्तरमिति भावः। घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः। न च तत्रानुगतकारणासम्भवः। अनुगतभोगजनकादृष्टसत्त्वात् न प्रकृतेऽपि तेनैवार्थान्तरं दृष्टस्यैव- सम्भवाच्च उक्तव्याप्तिबलेन प्रमात्वस्य कार्यतावच्छेदकत्वे सिद्धे विशेषप्रकारकप्रतीत्यर्थमाह । एवमनित्यप्रमात्वमिति । अनित्यज्ञानत्वे , व्यभिचार इत्यनित्यज्ञानत्वव्याप्येति । व्याप्यत्वञ्च भेदमात्रम् । अन्यद्वैयर्थ्यादिति ध्येयम् । अनुगतहेतुसिद्धिरिति । यद्यपि प्रमामात्रेऽनुगतगुणोऽसम्भवी, एवमप्रमायामनुगतो दोषोऽसम्भवीति बाधदृष्टान्तासि- द्धयादिः, न चानित्यसाक्षात्कारिप्रमात्वमेव पक्षः, तत्तत्प्रमात्वमेव दृष्टान्त इति वाच्यम् । तत्रा- प्यनुगतस्य हेतोरभावाद् बाधतादवस्थ्यात् । न च भूयोऽवयवेन्द्रियसन्निकर्षादिरेवानुगतो गुण
मकरन्दः । इत्यपास्तम् । प्रमात्वस्येति । त्वन्मते इति शेषः । घटज्ञानमिति । घटविषयकानित्यज्ञानमित्यर्थः । न च तदवच्छिन्नकार्यनिरूपितकारणा- न्तरमेव । अनुगतभोजकादृष्टस्य सत्त्वात् । न चैवं प्रकृतानुमाने तेनैवार्थान्तरं , दृष्टस्यैव सम्भ- वादित्याहुः । अनुगतहेतुसिद्धिरिति । ननु गुणत्वस्यानुगतस्य निर्वक्तुमशक्यत्वादिनिरत्य-
द्वितीयस्तवके ] प्रमास्वतस्त्वखण्डनम् । २१३ मावत् । यदि च तावन्मात्राधीना भवेदप्रमापि प्रमैव भवेत् । अस्ति हि तत्र ज्ञानहेतुः। अन्यथा ज्ञानमपि सा न स्यात् । ज्ञानत्वेऽप्यतिरिक्तदोषानुप्रवेशाद- प्रमेति चेत्। एवं तर्हि दोषाभावमधिक्रमासाद्य प्रमापि जायेत नियमेन तदपेक्ष- णात्। अस्तु दोषाभावोऽधिको, भावस्तु नेष्यते इति चेत्। भवेदप्येवं, यदि बोधनी । बाधकं तर्कमाह-यदि-इति । तावन्मात्राधीना = ज्ञानसामान्यहेतुमात्राधीनेति । कुत इत्यत आह-अस्ति हीति । यदि तत्र ज्ञानहेतुर्न स्यात् तदा कारणाभावेन कार्यं ज्ञानमपि न स्यादि- त्याह-अन्यथा-इति । ज्ञानत्वेऽपि-इति । ज्ञानत्वाभ्युपगमेन तद्धेत्वभ्युपगमं सूचयति- एवं तर्हि-इति । यदि दोषान्वयादप्रमा स्यात् तर्हि तद्विरोधिनी प्रमा दोषाभावादेव भवेदित्यधिक- हेतुरङ्गीकृतः स्यादिति। अस्तु-इति । एवमनित्यस्यापि वेदस्य प्रामाण्यं सिद्ध्यतीति भावः। भवे- प्रकाशः। यदीति । यद्यप्यप्रमायां प्रमात्वापादने प्रमावृत्ति ज्ञानमात्रहेत्वधीनत्वं व्यधिकरणम्, तथापि प्रमात्वं यदि ज्ञानसामग्रीमात्रप्रयोज्यवृत्ति स्याद् अप्रमावृत्ति स्याद् अप्रमात्ववदित्यापादनीयम् । अप्रमायाः प्रमित्यजनकदोषजन्यत्वान्नापादकमसिद्धमित्याह । ज्ञानत्वेऽपीति । तर्हि प्रमात्व- मपि न ज्ञानमात्रसामग्रीप्रयोज्यम्, अतिरिक्तदोषाभावापेक्षादित्याह । एवन्तर्हीति । युक्तञ्चै- तत् । अन्यथा प्रमासामग्र्यामधिकदोषानुप्रवेशादप्रमाऽपि प्रमाविशेषः स्यात्, वृक्षसामग्र्या- मधिककारणानुप्रवेशाच्छिंशपा वृक्षविशेष इवेति भावः। अस्त्विति । न चैवमप्रमित्यजनकज- न्यत्वे परतस्त्वमिति वाच्यम्। आगन्तुकाभावानपेक्षज्ञानसामग्रीजन्यत्वमेव स्वतस्त्वमिति विव- क्षितत्वात् । तथा च गुणजन्यत्वेन प्रमाया नेश्वरसिद्धिः। भवेदप्येवमिति । ननु पीतः शङ्ख इत्यत्र विशेषदर्शनेऽपि भ्रमाद्व्यभिचारेण न विशेषदर्शनं भ्रमहेतुः, यत्र वा विशेषदर्शनमपि भ्रमस्तत्र तज्जन्यज्ञानस्यापि भ्रमत्वान्न विशेषदर्शनं प्रमात्वप्रयोजकम् । मैवम् । यद्विशेषदर्शनं प्रकाशिका। इति वाच्यम् । तत्तत्साक्षात्कारे तत्तदवयवानामनुगतत्वाभावाद् यथार्थपरामर्शादेरपि तत्तद्विष- याननुगमेनाननुगतत्वात् । एतेन विशेष्यवृत्तिविशेषणज्ञानमेव प्रमामात्रेऽनुगतो गुणो ग्राह्यः, यथार्थज्ञानं वेत्यनित्यप्रमात्वमेव पक्ष इत्यपास्तम् । विषयाननुगमेनाननुगतत्वात् । तथापि घटप्रमायां घटवृत्तिविशेषणज्ञानं घटाप्रमायां घटावृत्तिविशेषणज्ञानं जनकमिति तत्तत्प्रमात्वत- त्तदप्रमात्वयोरेव पक्षदृष्टान्तत्वे । एवं विशेषयोः कार्यकारणभावग्रहे शाब्दप्रमायामपि विशेषत एव कार्यकारणभावग्रहे तदनुरोधादीश्वरसिद्धिरित्यत्र तात्पर्यम्। यद्यपि घटविशेष्यकत्वे सति घटत्व प्रकारकत्वमित्येव घटप्रमात्वमित्यर्थवशसम्पन्नमेतदुभयमिति न विशिष्टनियामकगुणसिद्धिः, न वा घटप्रमात्वं जन्यतावच्छेदकं नीलघटत्ववदिति । तथापि समूहालम्बनव्यावृत्तय एकावच्छिन्नापरस्यैव मकरन्दः। प्रमात्वावच्छिन्ने कथममुगतहेतुसिद्धिरिति चेन्न । अनित्यप्रमात्वपदेनानित्यसाक्षात्कारिप्रमात्वादे- रेव विवक्षितत्वात् । तत्र च भूयोऽवयवेन्द्रियसन्निकर्षस्यानुगतहेतुसत्त्वादित्येके । शाब्दप्रमायां ग्राह्यविशेषस्य वाक्यार्थस्य प्रमा हेतुरिति प्रमासामान्ये ग्राह्यप्रमासामान्यमीश्वरस्यैव गुणः । यदि- शेषयोरिति न्यायात्। न च ग्राह्यमात्रस्यातिप्रसक्ततया यत्र यद् ग्राह्यं तत्र तत्प्रमा हेतुर्वाच्यः । तथा च तद्ग्राह्यप्रमायां 'तद्ग्राह्यप्रमा हेतुरित्यननुगम एवेति वाच्यम्। एवं तत्साक्षात्कारे तदि- न्द्रियसन्निकर्षो हेतुरिति विशेषेऽप्यननुगमापत्तेः । यदि च विशेषे विशेषस्य प्रयोजकत्वेऽपि सा- मान्ययोरपि तथात्वं, तदा प्रकृतेऽपि तुल्यमित्यन्ये । स्वाविषयकप्रमाजनकत्वम् गुणत्वम् । स्वा-
२४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां नियमेन दोषैर्भावरूपैरेव भवितव्यम्, न त्वेवम् । विशेषादर्शनादेरभावस्यापि दोषत्वात् । कथमन्यथा ततः संशयविपर्ययौ । ततस्तदभावो भाव एवेति कथं स नेष्यते । बोधनी । दपि-इति । भावात्मनोऽधिकस्यानङ्गीकारो भवेदपीति । कथमन्यथा-इति । विशेषाद- र्शनस्यादोषत्वे कथं ततो विशेषादर्शनादप्रमात्मकौ संशयविपर्ययौ स्यातामिति वक्रकोटरादेः शुक्तिकात्वस्य विशेषस्यादर्शने हि तयोरुत्पत्तिरिति । सन्तु तर्ह्यभावा अपि दोषाः ततः किमित्य- त्राह-ततः-इति । अभावात्मनो दोषस्याभावो भाव एवेति । कथं स भावः प्रमाहेतुर्नेष्यत इति । प्रकाशः। हि भ्रमविरोधि तदभावोऽप्रमाहेतुः । प्रत्यक्षभ्रमे च प्रत्यक्षविशेषदर्शनं विरोधि दिङ्मोहादौ गौरोऽहमिति भ्रमे च तथा दर्शनात् । तच्च दोषात् तत्र नास्ति, प्रमारूपमेव च विशेषदर्शनं गुण इति तदभाव एव दोषः । ननु विशेषादर्शनं न दोषः, किन्तु विशेषदर्शनप्रतिबन्धकाः पित्तादयो दोषाः, आवश्यक- त्वात् । न च तेषां नानात्वेन विशेषदर्शनप्रतिबन्धकतयाऽनुगमे लाघवाद्विशेषादर्शनमेव हेतुरिति वाच्यम् । क्वचित् कश्चिद्दोष इत्यनुगमात् । अन्यथा पित्तादितोऽप्यप्रमा न स्यात्, अननुग- मात् । पित्ताद्युत्कर्षेण भ्रमोत्कर्षाच्च । पित्तादेरदोषत्वे चं विशेषप्रमैव कुतो न भवति । यदि च विशेषस्य विशेषान्तरादर्शनात्, तदाऽनवस्था । किञ्च, विशेषदर्शनं न प्रमामात्रे, न वा प्रत्यक्ष- प्रमायां हेतुः, व्यभिचारात् । तत्रैव तद्धेतुत्वेनानवस्थानाच्च । प्रकाशिका । प्रमात्वशरीरत्वेन तस्य नार्थवससम्पन्नेतेतिबोध्यम्। प्रत्यक्षविशेषदर्शनमिति। प्रत्यक्षविपरी- तदर्शनमित्यर्थः। केचित्तु विशेषपदेनात्र व्याप्यविशेषोऽप्युक्तः स च प्रतिबन्धहूपफलोन्नेयः, प्रति- बन्धकाननुगमस्तु न दोषाय । अत एव शङ्खे प्रत्यक्षे सति श्वैत्ये न पीतत्वारोपः, फालपृष्टत्वप्रत्यक्षे सति शुक्तौ न रजतत्वारोप इत्याहुः। क्वचित् कश्चिदिति । विशेषस्याप्यननुगतत्वेन स्वयाप्यनुगते- रेवानुसरणीयत्वादिति भावः। अन्यथेति। यद्यपि विशेषादर्शनमेव दोष इति वादिनोऽत्रेष्टापत्तिः, तथापि विशेषाप्रमापि पित्तादित एवेत्यभिप्रायेणेदम् । अत एवाग्रे भावाविष्करणं पित्तादेरदोष- त्वे चेति । भ्रमोत्कर्ष इति । उत्कर्षश्चात्र बहुकालावच्छिन्नसजातीयधारानुवृत्तिलक्षणः । मकरन्दः। विषयकभ्रमजनकत्वञ्च दोषत्वमिति तदुभयं निर्वाह्यम् । एवञ्च तत्तत्प्रमादौ यथार्थपरामर्शत्वादीनां हेतुत्वप्रहानन्तरं प्रमासामान्यं प्रत्युक्तगुणत्वेन कारणत्वग्रहः । एवं दोषत्वेनापीत्याहुः । विस्त- रस्तु प्रत्यक्षप्रकाशे । प्रत्यक्षविशेषदर्शनमिति । प्रत्यक्षविपरीतदर्शनमित्यर्थः । टिप्पणी । क्वचित् कश्चिद् दोष इति । क्वचिद् भ्रमविशेषजातीये कश्चिद् दोषजातीयः कारणमेतावदेवा- नुगमस्येष्टत्वात् । तवापि विशेषदर्शनस्य व्याप्यव्यापकभेदेनैकरूपतायाः सर्वत्रासम्भवादित्यर्थः । अप्रमा न स्यादिति । विशेषप्रमा न स्यात्, तत्र विशेषादर्शनस्यानवस्थाभयेनाहेतुत्व स्यानुपदं वक्ष्यमाणत्वात् । एतेन विशेषादर्शनहेतुतामते पित्तादेरहेतुत्वाद्विपारितिरिति शङ्का निरस्ता। उक्तपित्तादेर्हेतुत्वं व्यवस्थापयति । पित्ताद्युत्कर्षेणेति । यस्योत्कर्षेण यस्योत्कर्षः, तत् तत्कारणम्, अकारणोत्कर्षस्य प्रयोजकत्वेऽतिप्रसङ्गादिति भावः । पित्तादेर्भ्रमकारणत्वसाधक- मनिष्टप्रसङ्गमाह । पित्तादेरदोषत्वे चेत्यादि । दोषो हि प्रमाप्रतिबन्धको भ्रतजनकर्श, स चेद् विशेषादर्शनाभावस्तदानवस्थेत्याह । यदीत्यादि ।
द्वितीयस्तबके ] प्रमाश्वतस्त्वखण्डनम् । २१५ स्यादेतत् । शब्दे तावद्विप्रलिप्सादयो भावा एव दोषाः, ततस्तदभावे स्वत बोधनी । अस्त्वेव प्रत्यक्षे विशेषादर्शनादेरभावस्य दोषत्वं, न तु प्रमाणान्तर इत्याह-स्यादेतत् इति । शब्दे तावद्भावात्मकदोषाभावे सति स्वत एवातिरिक्तभावानापेक्षाज् ज्ञानकरणादेव शब्दा- त्प्रमोत्पद्यत इति दृष्टम् । शब्दे तावदेवम्, अनुमानादावपि तथा द्रष्टव्यमिति तावच्छब्दस्यार्थः । प्रकाशः । मैवम् । प्रमामात्राहितृत्वेऽपि संशयविपर्ययोत्तरप्रमायां तस्य हेतुत्वात् । तत्र विशेषाद- र्शनस्य दोषत्वेनान्यत्रापि तथात्वात् । पित्ताद्युत्कर्षस्यापि भूयोविशेषादर्शनप्रतिबन्धकत्वेनान्यथा- सिद्धत्वात् । ननु प्रत्यक्षप्रमादौ गुणजन्यत्वेऽपि वेदे भ्रमाद्यभावचतुष्टयं प्रमाहेतुः । लोके भ्रमाद्यभाव एव प्रमोत्पत्तेः । न तु वक्तृवाक्यार्थयथार्थज्ञानवरदादिगुण इत्याह- स्यादेतदिति । लिङ्गसादृश्यादिश्रभरूपदोषाभावमात्राज्ञानुमित्यादिः प्रमेति लिङ्गसादृ- श्यादियथार्थज्ञानमपि गुणस्तद्धेतुरिति शाब्दप्रमायामपि दोषाभावे सति यथार्थवाक्यार्थज्ञानं प्रकाशिका । संशयविपर्ययोत्तरप्रमायामिति । विशेषादर्शनप्रयोज्यसंशयविपर्ययोत्तरप्रमायामित्यर्थः । तेन नान्धकारकालीनघटसंशयोत्तरप्रत्यक्षे आलोकममवधानमात्रजन्ये व्यभिचारः। ननु संशयोत्तरं यत्र न प्रत्यक्षं तत्र संशयानुनुत्तरप्रत्यक्षसामग्रीसत्त्वे तत्प्रत्यक्षमेव कुतो न जायते तदसत्त्व तत एव न प्रत्यक्षमिति न विशेषदर्शनं कारणम् कार्यव्यतिरेकप्रयोजकव्यतिरेकाप्रतियोगित्वादिति चेत् । न । तदनुत्तरकालीनप्रत्यक्षं प्रति तदनुत्तरकालीनस्य कारणतया तदभावादेव तादृशप्रत्यक्षसां- मग्रीविरहात् । न च विशिष्टाभाव एव विशेषादर्शनविशिष्टग्राह्यसंशयाभावरूपः कारणमस्तु न तु विशेपदर्शनं कारणम् । अत एव न सिद्धयुत्तरानुमितौ सिषाधयिषाविशेषसामग्रीति वाच्यम् । विशेषादर्शनोत्तरजायमानप्रत्यक्षस्य विशेषविषयत्वनियमेन तत्र विशेषणज्ञानतया विशेषादर्शनस्य जनकत्वे विशेषरूपेणापि तस्यैव कारणता कल्प्यते तद्धर्मिणः कारणत्वकल्पनात् । अत एव निश्चयो- त्तरसंशयं प्रति प्रामाण्यसंशयः कारणं कोटिज्ञानत्वेन तत्र तस्य कारणतावश्यकत्वात् , सिषाधयिषा तु न केनापि रूपेणानुमिति प्रति कारणत्वेन क्लृप्तेति न तत् प्रतिवन्दिरिति दिक् । ननु निर्हेतुकं मूलेऽभिधानं स्वत इति न युक्तमात्माश्रयादतो व्याचष्टे । ननु प्रत्यक्षप्रमादाविति । शाब्द- प्रमायां गुणकारणत्वापेक्षायामनुमितिप्रमादौ तदुपपादनमर्थान्तरमत आह । लिङ्गेति । मकरन्दः । संशयविपर्ययोत्तरेति । यद्यपि संशयोत्तरप्रत्यक्षमात्रे विशेषदर्शनं न हेतुः, अन्धकारे घटसंशयोत्तरप्रत्यक्षस्य तद्दिनाऽप्यालोकसमवधानमात्रेणैवोपपत्तेः । तथापि यत्र विशेषादर्शनादि दोषाधीनः संशयस्तदुत्तरप्रत्यक्षे तस्य हेतुत्वम् । उक्तस्थले च व्यञ्जकाभावाधीनः स इति भावः । ननु तत्रापि विशेषदर्शनं न हेतुः, संशयानुत्तरप्रत्यक्षसामग्रीसत्त्वे तदुत्पत्त्यापत्तेः । तदसत्त्वे तद्व्य तिरेकादेव तद्व्यतिरेक इति किं विशेषसामग्र्यन्तरकल्पनया ? । अत एव सिद्धयुत्तरानुमितित्वा- वच्छिन्ने सिषाधयिषा न विशेषसामग्री, किन्तु तद्विरहविशिष्टसिद्धयभावः सामान्यसामग्री । तद् भावादेव तदा नानुमितिरिति चेत् । तर्हि तद्वदेव विशेषादर्शनविरहविशिष्टसंशयाभावः सामान्य- सामग्रीत्यत्रैव तात्पर्यमित्याहुः । विस्तरस्त्वनुमानप्रत्यक्षप्रकाशयोरनुसन्धेयः । लिङ्गसादृश्येति । यद्यपि परामर्शादिरूपसामान्यसामग्रीविरहादेव तत्र नानुमित्यादिः,
२१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां एव शाब्दी प्रमेति चेन्न । अनुमानादौ लिङ्गविपर्यासादीनां भावानामपि दोषत्वे तदभावमात्रेण प्रमाऽनुत्पत्तेः । अन्यत्र यथा तथाऽस्तु, शब्दे तु विप्रलिप्सार्य- भावे वक्तृगुणापेक्षा नास्तीति चेन्न । गुणाभावे तदप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् । अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेकौ
बोधनी । न-इति । अनुमाने लिङ्गविषयविपर्यासविरुद्धत्वादीनां भावानां दोषत्वे सत्त्वेऽपीत्यपिशब्दो भिन्न- क्रमः, अवधारणे वा । भावरूपदोषाभावमात्रेण लैङ्गिकज्ञानहेतोर्हृत्संशचाराद् दृष्टव्यभिचारालि- ङ्गाद्य्याप्तिलक्षणगुणाभावे प्रमाद्यनुत्पत्तेस्तवापीष्टत्वात् । न च व्याप्तिरप्यनुमितिज्ञानमात्रे हेतुर्न प्रमाया इति युक्तम् । व्याप्त्यभावेऽपि मैत्रीतनयत्वादेवानुमितिज्ञानोत्पत्तेः । अत्रादिशब्दाभ्यामर्थापत्तिमनु- पपद्यमानविपर्यासञ्च संगृह्णाति । अन्यत्र-इति । अनुमानादावतिरिक्तभावापेक्षाऽस्तु मा वा, न हि नस्तत्र निर्भरः, शब्दे तु दोषाभावे सत्यपि न स्वतः प्रम्रोत्पत्तौ गुणापेक्षाऽस्तीति नः समीहित वेदप्रामाण्योपयोगादिति । तदेतदनिष्टप्रसङ्गमुद्भाव्य शङ्कितं, तत्समान्धिमन्त्रापि समीकुर्वन् परिहरति—गुणाभाव इति तुल्यत्वादित्यन्तेन । तर्हि पौरुषेयवाक्ये गुणान्वयव्यतिरेकदर्शनात् तदधीनमस्तु प्रामाण्यम्, अपौरुषेये तु वेदे तदसम्भवादोषाभावमात्राधीनं प्रामाण्यमङ्गीकर्त्तव्यमि-
प्रकाशः । गुणे हेतुरित्याह । अनुमानादाविति । ननु यथार्थवाक्यार्थज्ञानादौ गुणे सत्यपि करणापा- टवाद् यत्रान्यमभिधित्सिते अन्यद् ब्रूते तत्र वाक्यं न प्रमाणम्, दोषाभावस्य तु प्रमाहेतुत्वे करणापाटवान्न सोऽस्तीति तत्र न प्रामाण्यमुपपद्यते इति शङ्कते । अन्यत्रेति । वक्तृदोषे सत्यपि भ्रान्तविप्रलम्भकवाक्ये संवादात् प्रामाण्यदर्शनाद्दोषोऽपि नाऽप्रामाण्यप्रयोजकः । तात्पर्यविषये त्वप्रामाण्यमेवेति प्रामाण्येऽपि तुल्यमिति परिहरति । गुणाभाव इति ।
प्रकाशिका । तथा च दृष्टान्तार्थ तदुपपादनमिति भावः । न च लिङ्गादिज्ञानाभावदशायां सामान्यसामग्रीविर- हादेव न प्रमेति वाच्यम् । एवं सति यत्र सामान्यमित्यादिन्यायेन यथार्थपरामर्शादेव प्रमाहे- तुत्वे सिद्धेऽनुमित्यादिदृष्टान्तेन शाब्देऽपि गुणजन्यत्वमुपपादितमेवेति शङ्खैवेयं तुच्छेत्यतस्तां दीपयति । ननु यथार्थेति । तात्पर्थ्यविषये त्विति । यद्यपि न भ्रान्तप्रतारकस्थले तात्प- र्यविषयघटसत्तांशे प्रामाण्यं तथाप्यन्यथानुबुद्धमन्यथा बोधयामीति यत्तत्र तात्पर्यं तद्विषयीभूतदु- ग्धांशेऽप्रामाण्यमस्त्येवेति भावः। प्रामाण्येऽपि तुल्यमिति । यद्यपि करणापाटवस्थले तात्पर्यविषये- न प्रामाण्यं तात्पर्यस्यैवाभावादिति न तौल्यार्थः । तथापि भ्रान्तप्रतारकस्थलेऽपि नाप्रमाजनकत्वं व- स्तुत इति । यद्युपनीतभानस्थलेनैव पूर्वग्रन्थे मयाप्येवमुपगन्तव्यमिति तुल्यार्थः, वस्तुतः करणापा- टवस्थले प्रकृतवाक्यार्थयथार्थज्ञानाभावादेवाप्रामाण्यं भ्रान्तप्रतारकवाक्यस्थले चाहार्यसंसर्गज्ञानस्यैव यथार्थस्य सत्त्वात् प्रामाण्यमित्यभिसन्धिः । ननु युज्यतां तथैव विभाग इत्युपेक्षाज्ञानादपि प्रवृत्ति-
मकरन्दः । तथापि यत्सामान्ये यत्सामान्यमिति न्यायात् प्रमात्वस्यानुमित्यादिविशेषे सत्यपरामर्शादिविशेषस्य हेतुत्वमिति भावः । तात्पर्यविषये त्विति । अघटे घटत्वं तत्तात्पर्यविषयस्तत्र च प्रमा नो- त्पन्नेवेत्यर्थः । प्रामाण्येऽपीति । यद्यपि तात्पर्यविषयीभूतेऽर्थे करणापाटवस्थलेऽपि प्रामाण्य- मेवेति न तौल्यार्थस्तत्र प्रामाण्याभावात्, तथापि प्रकृतवाक्यार्थगोचरयथार्थज्ञानलक्षणो गुण- एव तत्र नास्तीति भावः ।
३. तृतीय स्तबक: बौद्ध प्रत्यक्ष-अनुमान खण्डन एवं ज्ञान-प्रामाण्य
द्वितीयस्तवके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१७ स्त इति चेन्न । प्रामाण्यं प्रत्यपि गुणानां तयोः सत्त्वात् । पौरुषेयविषये इय- मस्तु व्यवस्था, अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेन्न । गुणनिवृत्त्याऽ- प्रामाण्यस्यापि सम्भवात् । तस्या अप्रामाण्यं प्रति सामर्थ्यं नोपलब्धमिति चेत् । दोषनिवृत्तेः प्रामाण्यं प्रति क्व सामर्थ्यमुपलब्धम् ? । लोकवचसीति चेत् । तुल्यम् । तदप्रामाण्ये दोषा एव कारणं, गुणनिवृत्तिस्त्ववर्जनीयसिद्धसन्निधिरिति चेत् । प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् । गुणानां दोषोत्सारणप्रयुक्तः सन्नि- धिरिति चेद्, दोषाणामपि गुणोत्सारणप्रयुक्त इत्यस्तु । निःस्वभावत्वमेवमपौरु- षेयस्य वेदस्य स्यादिति चेत्, आत्मानमुपालभस्व । तस्माद्यथा द्वेषरागाभावा- विनाभावेऽपि रागद्वेषयोरनुविधाननियमात् प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषका- रणकत्वं, न तु निवृत्तिप्रयत्नो द्वेषहेतुकः, प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुवि- बोधनी । र् ह-पौरुषेय-इति । तदेतत्परिहरन् प्रसङ्ग तावदाह-गुणनिवृत्ति-इति । तत्समाधि- माशङ्क्य साम्यापादनेन परिहरति-तस्याः-इति । यदि लोकवचसि दोषनिवृत्तेः प्रामाण्ये हेतुत्वमुपलब्धं तर्हि गुणनिवृत्तेरप्रामाण्यहेतुत्वमपि तत्रैवोपलब्धमिति शङ्कोत्तराभ्यामाह- लोक-इति । ननु तस्य लोकवचसऽप्रामाण्ये दोषा एव कारणमनन्यथासिद्धान्वयव्यतिरेकत्वात्, गुणनिवृत्तिस्तु विरोधिदोषसंनिधाननान्तरीयकेत्याह -तदप्रामाण्य-इति । तर्हि प्रामाण्यकार- णेषु गुणेषु सत्सु तद्विरोधिनां दोषाणां निवृत्तिरप्यवर्जनीयसंनिधिरिति स्यादित्याह-प्रामाण्यं प्रति-इति । यदि गुणानामन्यत्रोपक्षयेण प्रमायामहेतुत्वं तर्हि दोषाणामपि तथात्वे नाप्र- मायामहेतुत्वं भवेदिति शङ्कोत्तराभ्यामाह -गुणानाम्-इति । ननु प्रामाण्याप्रामाण्योरथैवं वक्तृगुणदोषाधीनत्वे सति वक्तृविधुरस्य वेदस्योभयोरप्यभावेन प्रामाण्याप्रामाण्योरन्यतरस्व- भावत्वमपि न स्यादित्याह - निःस्वभावत्वम् इति । आत्मानम् इति । अपौरुषेयं वेद- मातिष्ठमानमिति शेषः, न तु गुणवद्वक्तृत्वेन वेदस्य प्रामाण्यमङ्गीकुर्वतोऽस्मानिति भावः । उक्तमर्थं दृष्टान्तमुखेन विशदयन्नुपसंहरति-तस्मात्-इति । द्वेषरागाभावाविनाभावेऽपीत्यस्य प्रकाशः । निःस्वभावत्वमिति । वेदे प्रमाणत्वाप्रमाणत्वप्रयोजकगुणदोषयोरभावादित्यर्थः । तस्मादिति । यथा प्रवृत्तौ द्वेषाभावहेतुकत्वे निवृत्तौ रागाभावहेतुकत्वे सत्यपि उपेक्षाज्ञानादपि प्रवृत्तिनिवृत्ती स्या- तामिति रागद्वेषयोः प्रवृत्तिनिवृत्तिहेतुत्वमेकैकभावाऽन्यथासिद्ध., तथा प्रमाऽप्रमयोरपि गुण- दोषौ, न तु दोषाभावगुणाभावावित्यर्थः । प्रकाशिका । प्रसङ्गेन पूरयित्वा व्याचष्टे । यथा प्रवृत्ताविति । न च तत्रोक्तातिप्रसङ्गात्तथास्तु प्रकृते तु न किञ्चिदनिष्टमिति वाच्यम् । प्रकृतेऽपि सुषुप्तिदशायामेव प्रमाद्युत्पत्तिप्रसङ्गस्यानिष्टत्वात् परामर्शो- द्बोध सामान्यसामग्रीत्वे तद्विशेषस्यैव प्रमाहेतुत्वादित्युक्तत्वात् । रागद्वेषयोरिति । न च प्र- वृत्त्यभाव एव निवृत्तिरिति नाक्तविभागसङ्गतिरिति वाच्यम् । वैपरीत्यापत्तेः । न च सुषुप्तिदशायाम- प्येवं प्रवृत्तिप्रसङ्गे तत्कार्यचेष्टापत्तिरिति वाच्यम् । शरीरमनःसंयोगाभावेनैव तद्विरहोपपत्तेः । न चैवं सुषुप्तिदशायां प्रवृत्तोऽयमिति व्यवहारप्रसङ्ग इति वाच्यम् । निवृत्तव्यवहारस्यापि तदाभावेन मकरन्दः । रागद्वेषयोरिति । अत्रेदं चिन्त्यम् । प्रवृत्तिविरह एव निवृत्तिरिति न प्रयत्नद्वैविध्यं, मानाभावात् । न च वैपरीत्यापत्तिः । सुषुप्तिदशायामपि निवृत्तिविरहस्य सत्त्वेन प्रवृत्तिह्याप्य- २८ न्या० कु०
२१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां धाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि । तथापि वेदानाम्पौरुषेयत्वे सिद्धे, मपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति, ततः सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुरकारणं गुणा इति चेन्न । अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् । स्वत एव प्रामाण्यनिश्चयः, किन्तु शङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात्तस्य तदभावेऽभावात्, अतो नेदमनु- बोधनी । प्रवृत्तिनिवृत्तप्रयत्नयोरित्यनेन संबन्धः, न त्वित्यस्य युज्यते इत्यनेन । विशेषाभावादिति । द्वेषानु विधायिनो निवृत्तिप्रयत्नाद्रागानुविधायिनः प्रवृत्तिप्रयत्नस्यैतदनुविधायित्वे विशेषाभावादिति । न चात्र द्वेषाभाव एव प्रवृत्तेः कारणमिति युक्तम्, उपेक्षाज्ञानादपि प्रवृत्तिप्रसङ्गात् । तथा प्रकृते प्रामाण्यविषयेऽपि दोषगुणाभावाविनाभावेऽपि प्रामाण्याप्रामाण्योरन्यथासिद्धगुणदोषानुविधान- नियमात्तद्धेतुक्त्वम् । न त्वप्रमा दोषहेतुका, प्रमा तु सत्यपि गुणानुविधाने दोषाभावहेतुकेति- विभागो युक्त इति । नन्वस्तु गुणानुविधानं प्रामाण्यस्य तथापि न तद्धैतुकत्वमित्याह—तथापि—इति । वेदानां प्रामाण्यमपौरुषेयत्वं च तावत्सिद्धं तेन दोषाभावमात्रेण प्रामाण्यं सेत्स्यतीति सिद्ध्य- त्येव ततो गुणाभावेऽपि दोषाभावादेव वेदे तत्प्रामाण्यं दृष्टमिति व्यभिचारादकारणं गुणाः- सर्वत्र दोषाभावस्तु कारणमव्यभिचारादिति । न-इति । न तावद्यापि वेदानाम्पौरुषेयत्वेन प्रामाण्यमिति सिद्धं, येन तत्र गुणव्यभिचारो निर्दिश्येत । लोकाधीननिर्णयो हि वेदो लोके चान्य- भिचाराद् गुणः प्रामाण्यहेतुरिति स्थितम्, तत्र यदि वेदस्यापौरुषेयत्वमाश्रित्य दोषाभावात् प्रामा- ण्यमुच्येत तदा गुणाभावादप्रामाण्यमपि वक्तुं शक्यत इति । स्वतः-इति । न तावद्वेदानां प्रामाण्यमपेतदोषवक्तृत्वेनानुमीयते, स्वतो बोधजनकत्वेन निश्चिते प्रामाण्ये हेत्वन्तरादप्रामाण्य- शङ्कायां तन्निराकरणमात्रमप्रामाण्यकारणदोषाभावावधारणेन क्रियते । तदाहुः— तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धौ प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते । ( श्लो० वा, ) इति । प्रकाशः । नन्वन्यत्र गुणस्य प्रमाहेतुत्वेऽपि वेदस्यापौरुषेयतया वक्तृगुणाभावाद्दोषाभावमात्रप्रयुक्तमेव प्रामाण्यमिति प्रामाण्ये गुणस्य व्यभिचाराद् न हेतुत्वं, किन्तु दोषाभावस्यैवेत्याह । तथा पीति । सिद्धिर्ज्ञप्तिः । सिद्धेः=निश्चिते । वेदाः प्रमाणम् , अपेतवक्तृदोषत्वादित्यनुमानादि त्यर्थः । अत्र वेदा न प्रमाणम् , अपेतवक्तृगुणत्वादिति सत्प्रतिपक्षमाह । अपेतेति । ज्ञान- ग्राहकादेव प्रमात्वं स्वीक्रियते, दोषाधीना तु शङ्का अपेतवक्तृदोषत्वादेव निरस्येत्याह । स्वत एवेति । तथापि गुणाभावहेतुकोऽप्रमाण्यसंशयस्तदवस्थ एवेत्याह । गुणनिवृत्तोति । तस्या इति । दोषसहितगुणनिवृत्तेरेवाऽप्रमात्वहेतुत्वादित्यर्थः । दोषेति । गुणसहितदोषनिवृ- त्तेरेव प्रमात्वप्रयोजकत्वादित्यर्थः । ननु तथापि शुकादिवाक्यं भ्रान्तप्रतारकवाक्यं च संवादि कथं प्रमाणं, गुणाजन्यत्वात् । मकरन्दः । चेष्टादिकार्योत्थापत्तेः । न च तदा निवृत्तिरेवेति वाच्यम्, तदा तत्कारणद्वेषाभावेन तदभावात् द्वेषाभावश्च तत्कारणदुःखसाधनत्वज्ञानाभावादिति ॥
द्वितीयस्तबके ] प्रामाण्यस्वतस्त्वखण्डनम् । २१६ मानवत् सप्रतिसाधनोकर्तुमुचितमिति चेत् । न । गुणनिवृत्तिनिबन्धनायाः शङ्कायाः सुलभत्वात् । तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेद्, बोधनी । ततो नेदमपेतवक्तृदोषत्वं सप्रतिसाधनीकर्तुं युक्तमिति । न-इति । दोषाभावे तद्दोषनिबन्ध- नाप्रामाण्यशङ्कानिवृत्तावपि प्रामाण्यहेतुगुणनिवृत्तिनिबन्धनायास्तस्याः स्वस्यत्वात् । न हि स्वतः प्रामाण्यनिश्चय इत्यग्रे निवेदयिष्याम इति भावः । तस्या-इति । न तावद्दोषसंसर्गमन्तरेण प्रकाशः । धूमभ्रमाद्धिमत्येव वह्नयनुमितिर्वा कथं प्रमा, यथार्थलिङ्गज्ञानाजन्यत्वात् । न च वह्नयन्तरमेव तद्विषयः । प्रत्यभिज्ञानात् । गोत्वायैकव्यक्तिके तदभावाच्च । उच्यते । शुकादिवाक्ये भ्रान्त- प्रतारकवाक्ये च प्रमाणशब्दत्वेनातोक्तत्वाद्देववदीश्वरस्यैव यथार्थवाक्यार्थज्ञानं गुणो हेतुः, तस्य कार्यमात्रकर्तृत्वात् । शुकादिवाक्ये वेदतुल्यतया दोषाभावादिनाऽपि मन्तव्यत्वात् । न चैवं शब्दाभासोच्छेदः, तस्यापीश्वरकर्तृकत्वादिति वाच्यम् । तद्वाक्यार्थस्यासत्त्वेनेश्वरज्ञानाविषय- त्वात् । एवं लिङ्गाभासजन्यप्रमायामपीश्वरस्यैव यथार्थलिङ्गज्ञानं गुणः । एवं प्रमाया गुणजन्यतया शाब्दप्रमाया अपि गुणजन्यतया वेदे वक्तृन्तरस्याभावात् तदा- प्रकाशिका । तुल्यत्वात् । ईश्वरस्यैवेति । भ्रान्तप्रतारकवाक्य आहार्यसंसर्गज्ञानमेव यथार्थं गुणः सम्भवति तथापि शुकादिवाक्यसाधारण्यार्थमिदमेवोक्तम् । केचित्तु भ्रान्तप्रतारकस्यैव वाक्यं भ्रान्तप्रतारक- वाक्यं तथा च भ्रान्त एवान्यस्मिन् वक्तव्ये यत्रान्यद् वदति तत्संवादिवाक्यमत्र तत्पदेनोक्तमित्याहुः। न च भ्रान्तप्रतारकवाक्ये गुणसत्त्वेऽपि दोषसत्त्वात् कथं प्रमेति वाच्यम् । भ्रमस्य भिन्नविषय- त्वात् । प्रतारणायाश्च सद्वस्तुप्रतिपादनेच्छायास्तत्राभावात् । एवं लिङ्गाभासेति । अत्रापि शुकादिवाक्यसाधारण्यार्थमीश्वरज्ञानानुधरणम् । वस्तुतः पक्षतावच्छेदकविरोधिसाध्यनिष्ठप्रकृत- हेतुप्रतियोगिकव्यापकतानिषयत्वमेव परामर्शप्रयोजकमिति कूटलिङ्गपरामर्श एव तत्र गुणः । अत एवायथार्थरूपपरामर्परूपदोषसत्त्वात् कथं प्रमेति निरस्तम् । निरुक्तयथा विरोघिन एवायाथार्थ- याप्रमाप्रयोजकत्वात् । प्रकृते च तदभावादितिदिक । शाब्दप्रमाया अपीति । यद्यपि शाब्दप्र- मकरन्दः । भ्रान्तप्रतारकवाक्य इति । अत्राहार्यारोपं विना प्रतारणाया अभावात् स एव विषया- बाधात् प्रमारूप इति तमादाय यद्यपि गुणजन्यत्वमप्रत्यूहं तथापि समाधिसौकर्यादेतदुक्तम् । यद्वा, भ्रान्तप्रतारकस्येव वाक्यं भ्रान्तप्रकारकवाक्यं, तथा च बाधितमन्यदवगत्या- न्यदबाधितं यन्न दैववशाद् ब्रूते, तत्र भगवदनुद्देशेर्गुणत्वमिति वयं पश्यामः । अत एवो- क्तगुणजन्यत्वेऽपि भ्रमादिदोषजन्यत्वादप्रामाण्यमपि स्यादित्यपास्तम् । भ्रमस्य भिन्नविषयत्वेन तद्वाक्याजनकत्वात् , प्रतारणायाश्चाभावात् । केचित्तु विप्रलिप्सा विसंवादिप्रवृत्तिजनकेच्छा, टिप्पणी । वह्नयन्तरमेव तद्विषय इति । धूमसंसर्ग्यैव वह्निर्धूमलिङ्गकानुमितौ विषयः स च वह्निस्तत्र नास्त्येव यश्चास्ति स धूमसंसर्गिबह्नेर्विभिन्न एवेत्यर्थः । यद्यपि वह्नित्वेन गृही- तवह्निव्याप्तिकस्य लिङ्गस्य वह्निमास्यानुमितौ सामर्थ्यम् तथा च तत्रत्यवह्निभाने न क्षतिः । तथाप्येतद्दूरे सत्येव, यः पूर्वं धूमसम्बन्धित्वेन गृहीतः, तस्यैव धूलिपटलेन धूमत्वेन गृहीतेनानुमितौ भाने तद्वहेर्धूमसंबन्धिनिभिन्नत्वस्य प्रत्यभिज्ञानबाधितत्वादित्युत्तरं सौक- र्यार्थमाह । प्रत्यभिज्ञानेति । विशिष्टबुद्धौ विशेषणज्ञानस्य हि हेतुत्वमनभ्युपगम्येदम् ।
२२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१ कारिकाव्याख्यायां दोषनिवृत्तेरपि केवलायाः प्रामाण्यं प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति । एवं प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्य बोधनी । केवलाया गुणनिवृत्तेप्रामाण्यहेतुत्वं लोके दृष्टं, न चापौरुषेये दोषः सम्भवति । तेन गुणनिवृत्ति- मात्रेण नाप्रामाण्यशङ्केति । दोषनिवृत्तेरपि इति । गुणसहिताया एव दोषव्यावृत्तेः प्रामा- ण्यहेतुत्वं लोके दृष्टमिति न दोषनिवृत्तिमात्रेणाप्रामाण्यशङ्का निवर्त्तत इति । यच्च ज्ञानानां स्वरूपात्स्वग्राहकाद्वा प्रामाण्यं ज्ञायते नान्यस्माद् गुणसंवादादिज्ञानादिति स्वतःप्रामाण्यमुक्तं परैस्तदपि निराकुर्वन्नुपसंहरञ् ज्ञप्तिरपि परत इत्याह। एवम् इति। स्वविष- प्रकाशः। श्रयेश्वरसिद्धिरित्युक्तम् । सम्प्रति प्रमात्वग्रहोऽपि न स्वतः, अपि तु परत इति वैदिकप्रमाया अपि तत्त्वमातोक्तवाक्यजन्यत्वेन ग्राह्यमिति ततोऽपीश्वरः सिद्ध्यतीत्याह— एवमिति । अत्र यद्यपि ज्ञानप्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यं न वेति न संशयः, परतः पक्षेऽपि ज्ञानस्यापि पक्षतया प्रमात्वानुमितौ ज्ञानग्राहकत्वात्, अप्रामाण्यस्यापि स्वतो ग्राह्यत्वा- पत्तेश्च । तथापि तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वेति संशयः । स्वतः पक्षे प्रामाण्यवत एव ज्ञानस्य ग्रहात् । परतः पक्षे ज्ञात एव ज्ञानेऽनुमित्या प्रामाण्यग्रहात् । तत्र तेनैव प्रामाण्य- ग्रह इति प्राभाकराः । ज्ञानस्यातीन्द्रियतया तदनुमित्या तद्ग्रह इति भाट्टाः । मनसैव ज्ञानस्व- रूपयत् तत्प्रामाण्यग्रह इति मुरारिमिश्राः । त्रितयसाधारणं च स्वतस्त्वं निरुक्तमेव । पूर्वपक्षस्तु, यद्यपि विशेष्यावृत्त्यप्रकारकत्वम्, अगृहीतग्राह्यत्वं वा, प्रभाकरपक्षे स्मृत्यन्यज्ञा- नत्वं विशिष्टज्ञानत्वं वा प्रामाण्यं नानुव्यवसायग्राह्यम्, विशेषणज्ञानं विना विशिष्टज्ञानाभावात् । तथापि तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यं ग्राह्यम्, निष्कम्प-प्रवृत्त्यर्थत्वाल्लाघवाच्च । तच्च ज्ञानग्राहकसामग्रीग्राह्यमेव । तथा हि । विशेष्ये तद्धर्मवत्त्वं तत्प्रकारकत्वं च व्यवसायस्यानु- प्रकाशिका । यायां यथार्थयोग्यताज्ञानमेव गुणः सम्भवतीति न तदर्थं वक्तुरपेक्षा वेदे, तथापि विशेष्यवृत्तित्वि- शेषणज्ञानं गुणः प्रमासामान्यप्रयोजक इत्यभावत्वप्रकारकप्रथमाभावप्रमायामीश्वरीयमभावत्वज्ञानं तदंशप्रमात्वनिष्पत्तये गुण इत्याशयेनेदमुक्तम् । सम्प्रतीति । तथा च प्रमायाः परतन्त्रत्वा- दिति कारिकायां परतन्त्रत्वमुत्पत्तिज्ञप्त्यो विवक्षितमिति ध्येयम् । तज्ज्ञानविषयकेति । पक्षश्च ज्ञान- प्रामाण्यमित्यनुषज्यते । अनुव्यवसायेन गृह्यत इति । तज्ज्ञानविषयकसमानाधिकरणसमानका- मकरन्दः । यापि यथार्थैव दोषः, तादृशी च तत्र नास्त्येवेत्याहुः । वस्तुतो गुणविरह एव दोषः, स च तत्र नास्तीति । अत एव लिङ्गाभासजन्यप्रमायामीश्वरयथार्थलिङ्गज्ञानजन्यत्वेऽप्ययथार्थलिङ्गज्ञानरूप- दोषजन्यतया व्याप्तावकाश एवं भ्रमत्वमपि स्यादित्यपास्तम् । एतदपि सम्प्रदायानुरोधादुक्तम् । वस्तुतोऽसङ्कीर्णबाधस्थले बाधानवतारकाले यथार्थपरामर्शाद्यद्यप्यथार्थानुमित्युत्पत्तेर्बाधितत्वप्रमा गुणः, तद्भ्रमो दोषः । शब्दे च वाक्यार्थभ्रमो दोषस्तत्प्रमा गुणः, योग्यताभ्रमो दोषस्तत्प्रमा- गुण इति वा विवक्षितमिति सर्वमवदातम् । तज्ज्ञानविषयकेति । पक्षश्च ज्ञानप्रामाण्यमित्यनुषज्यते प्रत्यक्षाकाशे चैतदनुसन्धेयम् । टिप्पणी । तत्र तेनैवेति । ज्ञानस्यातीन्द्रियेति । ज्ञानत्वेन ज्ञाततात्वे सामान्यतो व्याप्तिज्ञानादेव तज्ज्ञानानुमितिरिति कारणीभूतज्ञाने तज्ज्ञानस्य विषयत्वान्न निरुक्तस्वतस्त्वानुपपत्तिरिति भावः । व्यवसायस्यानुव्यवसायेनात । ज्ञानविषयकज्ञानेनेत्यर्थः । तेन गुरुमतस्यापि
द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् । २२१ बोधनी । यनान्तरीयस्यार्थक्रियादेः कारणगुणस्य वा विज्ञानान्निश्चितप्रामाण्यैः प्रवर्त्तकज्ञानैः सह संजातीय- त्वानुसंधानमभ्यासद्दशापत्तिः, तद्दशापन्नानां ज्ञानानामनंतरेणाप्य ऽक्रियादिविज्ञानं तजातीयानुस- न्धानादेव प्रामाण्यं निश्चीयते, तेन तत्र संशयिकत्वमसिद्धं भवेदित्यत उक्तम्-अनभ्यासदशा- याम्-इति। न च व्यभिचारव्यावर्त्तनायैव हेतोर्विशेषणम्। रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वा- दित्युक्तानसिद्धिपरिहारार्थमपि दृष्टत्वादिति। तज्जातीयत्वानुसंधानदशायां हि जाते ज्ञानेऽपि निश्चि- तेऽपि तत्स्वरूपे प्रामाण्यं प्रति संशेरते ज्ञातारः किमिदं प्रमाणमप्रमाणं वेति। तस्माज् ज्ञानस्वरू- पाद् स्वग्राहकाद्वा न प्रामाण्यनिश्चयः, किन्तु परतोऽर्थक्रियादिविज्ञानाद्, यथैवाप्रामाण्यनिश्चयः परतो प्रकाशः । व्यवसायेन गृह्यते । ज्ञानस्य विषयन्निरूप्यतया ज्ञानवित्तिवेद्यो विषय इति व्यवसाये भासमाने धर्मधर्मिवत्तद्वैशिष्ट्यमपि विषयः, व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् । अत एव रजतत्वेन पुरो- वर्तिनं जानामीति तदाकारः । अन्यथा, पुरोवर्तिनं रजतञ्च जानामीति तदाकारापत्तिः । अप्रा- माण्यं तु परतो ज्ञायते, तदभाववत्त्वस्य भ्रमांगुलिखितत्वेनानुव्यवसायाविषयत्वात् । न चैव- मनुव्यवसायस्य यावद्व्यवसायविषयविषयकत्वे भ्रान्तभ्रान्तिज्ञसङ्करः, बाधानवतारदशायामिष्ट- त्वात् , तदवतारे तस्यैव प्रतिबन्धकत्वादिति । तत्र सिद्धान्त्याह । एवमिति । अनभ्यासदशायामिति भागासिद्धिवारणार्थम् , न तु व्यभिचारनिरासार्थम् । परतो ज्ञेयत्वस्य केवलान्वयित्वात् । ननु स्वस्याप्यन्यापेक्षया परत्वाद् भट्टमते ज्ञाताऽनुमितिग्राह्यत्वाच्च सिद्धसाधनम् । परतो ग्राह्यत्वेऽपि कदाचित् स्वतो ग्राह्यत्वावि- रोधाद् , अर्थेन व्यभिचारश्च । तस्य तज्ज्ञानग्राह्यस्य ज्ञानप्रामाण्यसन्देहेन सन्दिह्यमानत्वात् । न च ज्ञानत्वेन हेतुर्विशेषणीयः । ज्ञानविषयकज्ञानप्रामाण्यसन्देहाहि-ज्ञानरूपार्थसन्देहेऽपि प्रकाशिका । लीनज्ञानेनेत्यर्थः । तेन सार्वसाधारण्यम् । व्यवसायरूपेति । व्यवसायविषयं प्रत्येव प्रत्यासत्तिक- थनमिदम्, एतदभावेऽपि ज्ञानत्वादिभानादिति स्मर्त्तव्यम्। भागासिद्धिवारणार्थं पक्षविशेषणं बोद्धव्य- मितिशेषः । नन्विति । हेतुविशेषणमिति शेषः। न च ज्ञानत्वेनेति । न चैवं स्वरूपासिद्धिर्दृष्टान्ता- सिद्धी इति वाच्यम् । ज्ञानधर्मत्वेनेत्यर्थात् । न चैवं ज्ञानरूपार्थे व्यभिचारप्रदर्शनमग्रेतनं विरुद्धमिति वाच्यम् । तत्रापि ज्ञानपदेन ज्ञानत्वमभिधानात् । केचित्तु ज्ञानत्वेनेत्यस्य ज्ञानाविषयप्रतीत्यविषय- मकरन्दः । भागासिद्धिरिति । पक्षविशेषणं बोध्यमिति शेषः । न त्विति । हेतुविशेषणमिति शेषः । न च ज्ञानत्वेनेति । ज्ञानाविषयप्रतीत्यविषयत्वेनेत्यर्थः । यथाश्रुते स्वरूपासिद्धिप्रसङ्ग इति बोध्यम् । यत्तु ज्ञानधर्मत्वेनेत्यर्थ इति तन्न। ज्ञानरूपार्थेऽनुपदं व्यभिचारोपदर्शनविरोधात् । टिप्पणी । संग्रहः । अत एवेति । वैशिष्ट्यस्यापि विषयत्वादेव । ननु स्वतो ग्राह्यत्वं परतो- ग्राह्यत्वञ्च परस्परविरुद्धमिति स्वतो ग्राह्यत्वमङ्गीकर्तॄणामसिद्धमेव परतो ग्राह्यत्वमत आह । परत इति । तथा च न तयोर्विरोध इति । स्वाश्रयानतिरिक्तज्ञानग्राह्यत्वस्य परतस्त्वस्वरूपत्वाद् भट्टेति । अविरोधादिति । परतो ग्राह्यत्वस्य स्वतो ग्राह्यत्वासिद्धत्वं कल्पयितुन्न शक्यत इति भावः । तज्ज्ञानप्रामाण्यं तज्ज्ञानेन गृह्यत इत्येवं साधने त्वाह-अर्थेन व्यभि- चारश्चेति । तज्ज्ञानग्राह्यस्येति । अनेन साध्यव्यतिरेको दर्शितः । न च ज्ञानत्वेनेति । ज्ञानाविषयकप्रतीत्यविषयोऽत्र ज्ञानपदार्थः। तेन प्रामाण्यस्य ज्ञानत्वाभावेन स्वरूपासिद्धिरिति शङ्काया
२२२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां प्रकाशः । तस्य निश्चितत्वेन तथापि व्यभिचारात् । उच्यते । अनभ्यासदशोत्पन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यं तदन्यग्राह्यं वा, स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् , प्रकाशिका । त्वेनेत्यर्थः । अतो न पक्षदृष्टान्तासिद्धि। न वाग्रे दर्शितव्यभिचारविरोध इत्याहुः । अनभ्यासद- शोत्पन्नेति । इदं च भागासिद्धिवारणाय पक्षविशेषणम् हेतोरन्यतरोप लक्षणम् । न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्यमित्यर्थः, तेन योगिज्ञानादिग्राह्यत्वमादाय न बाघः, सर्वविशेष्यकत्वे सति सर्व- प्रकारकत्वन्तु प्रामाण्यमपक्ष एवेति न निरुक्तसाध्येऽप्यंशतो बाघः । तदन्येति । यावत्स्वाश्रयग्रा- ह्यत्वे सति स्वाश्रयातिरिक्ताग्राह्यत्वं साध्यम् । तेन यथाश्रुतेऽनुमितिमादाय-सिद्धसाधनं मात्रपदप्र- वेशे योगिज्ञानमादाय बाध इति दूषणं निरस्तम् । स्वाश्रयीभूतास्मदादिज्ञानव्यक्त्यतिरिक्तमात्रग्रा- ह्यत्वं साध्यम् । तेन नोक्तदोषावकाश इति कश्चित् । स्वाश्रये सत्यपीति । अपिशब्दो विपक्ष बाधकसूचनाय सतिसप्तमीमहिम्ना सामानाधिकरण्यं लभ्यते तेन स्वाश्रयसमानाधिकरणस्वाश्र- मकरन्दः । ज्ञानत्वे व्यभिचारोपदर्शनपरं तदिति ज्ञानधर्मपरत्वेऽप्यदोष इत्यन्ये । मनभ्यासदशापन्नेति । कर्त्तव्यहेतुर्यावति तावंत एव पक्षत्वमभिमतम् । अनभ्यासदशापन्नेऽपि सर्वत्र न संशय इति यथाश्रुते भागासिद्धितादवस्थ्यापत्तेरिति । न स्वाश्रयेति । न यावत्स्वाश्रयग्राह्य मित्यर्थः । तेन योगीश्वरज्ञानस्य सर्वप्रामाण्याश्रयतया तद्ग्राह्यत्वेन न बाधः । यद्यपि सर्वविषयकज्ञानमात्रवृत्तिप्रामाण्यांशे बाधः । तथापि तस्य पक्ष- बहिर्भाव एवेति बोध्यम् । तदन्येति । स्वाश्रयान्येत्यर्थः । ननु परेषामपि प्रामाण्यस्यानुमिति- ग्राह्यत्वाभ्युपगमेन सिद्धसाधनम् । न च स्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः, उक्तन्यायेन प्रामा- ण्यमात्रस्यैव स्वाश्रयीभूतयोगीश्वरज्ञानादिग्राह्यतया बाधापत्तेरिति चेन्न । स्वाश्रयपदेन स्वाश्रय- त्वावच्छिन्नं न विवक्षितं, येनोक्तदोषः स्यात् , किन्तु स्वाश्रयीभूतास्मदादिज्ञानव्यक्तिः, तदति- रिक्तमात्रग्राह्यमित्यर्थः । स्वाश्रये सत्यपीति । विपक्षबाधक तर्कसूचनायापिशब्दः, सतिसप्तमीमहिम्ना च स्वाश्रयसा- मानाधिकरण्यं पक्षविशेषणं लभ्यते । तथा च स्वाश्रयसमानाधिकरणस्वाश्रयाधिकरणक्षणावधिकतृ- टिप्पणी । निराशः प्रामाण्यस्याप्युक्तज्ञानत्वात् । तस्य निश्चितत्वेनेति । ज्ञानरूपार्थस्य प्रामाण्याश्रयत्वे नाभिमतज्ञानज्ञानग्राह्यत्वेन निश्चितत्वेनेत्यर्थः । न स्वाश्रयग्राह्यमिति । भट्टं प्रति साधने च स्वाश्रयविषयकयावद्ग्राह्याभावः साध्यः । तेन नेश्वरज्ञानमादाय स्वमते बाधः, मीमांसकमात्रं प्रत्येव साधनीयत्वेन गुरुमते स्वाश्रययावद्ग्राह्यत्वस्यैव सत्त्वेन न सिद्धसाधनम् विशिष्य स्वाश्रय- विषयकज्ञानाजन्यज्ञानविषयत्वस्य विषयेऽपि सत्त्वाविरोधादित्यर्थः । तदन्यग्राह्यं चेति । मीमांसकसामान्यं प्रत्येव साधनस्य प्रस्तुतत्वेन प्रभाकरमते स्वाश्रयेणापि ग्रहणाद् भट्टादिकम्प्रत्येव तथात्वे जन्यस्वाश्रयातिरिक्तमात्रग्राह्यत्वमित्यर्थः । नातो भट्टादिमते स्वाश्रयातिरिक्तानुमित्यनुव्यवसायग्राह्यत्वेऽपि सिद्धसाधनम् । यद्वा भट्टादिमतेऽनुमित्य- नुव्यवसाययोः स्वातन्त्र्येणापि व्यवसायविषययावद्ग्राहकतवेन तयोस्तदंशे व्यवसायसमाना- कारकत्वा स्वाश्रयत्वेनैव सिद्धसाधनाभावान्मात्रपदन्न देयम् , स्वमते च प्रामाण्यानुमितिर्न व्यवसायसमानाकारिका व्यवसायविषयवह्निमत्पर्वतादेराधेयतया विशेष्यत्वे प्रकारत्वात् पर्वतादौ बह्वयधिकरणत्वादरेव वा प्रमात्वघटकत्वादिति । संशयविषयत्वादिति । स्वाश्रय-