न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 244, कुल 608 में से
संदर्भ में पढ़ें२१० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्या०] ननु नित्यनिर्दोषवेदद्वारको योगकर्मसिद्धसर्वज्ञद्वारको वा धर्मसम्प्रदायः स्यात्, किं परमेश्वरकल्पनयेति चेत्। अत्रोच्यते- प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् ॥ तदन्यस्मिन्ननाश्वासात्र विधान्तरसम्भवः ॥१॥ बोधनी। अत्रान्यथासिद्धिं मीमांसकः शङ्कते । नन्विति । नित्यत्वेन पुरुषाद्यनुप्रवेशाभावात् निर्दोषं स्वतः सिद्धप्रामाण्यं च वेदमेव मूलमवलम्ब्यान्यं धर्मसंप्रदायोऽस्तु, तन्नित्यत्वासिद्धावपि सांख्या- दिमतावलम्बनेन कर्मयोगसिद्धसाक्षात्कारविषयीकृतधर्माधर्माः कपिलादय एव सन्तु मूलमस्य, किमनेन परमेश्वरेणानपेक्षितसमुद्रवालुकाकीटसंख्यादिसर्वविषयज्ञानेनेति तदुत्तरत्वेन परिच्छेद- प्रतिपाद्यमर्थं संकलय्याह-उच्यते- प्रमायाः-इति । न तावत् स्वतः प्रामाण्यं, प्रमायाः कारणगुणतन्त्रत्वात् । न च वेदस्य नित्यत्वं शब्दस्यैवानित्यत्वात् । परतन्त्रपुरुषपरतन्त्रतया प्रवाहाविच्छेदलक्षणं नित्यत्वमस्तीति चेत्तदपि नास्ति सर्गप्रलययोः सम्भवेन प्रवाहस्यैव परिच्छेदात् । न च कपिलादिद्वारा सम्प्रदाय- सिद्धिः, ततः परमेश्वरादन्यस्मिन् कपिलादौ प्रमाणत्वेन विश्रम्भाभावात् । न हि योगबलप्रभा- विता भावना प्रमात्मकमेव साक्षात्कारं करोतीति नियमः, ततो नित्यसर्वज्ञसिद्धिरिति ॥ १ ॥ प्रकाशः। अत्रासिद्धिमाह । नन्विति । वक्तृदोषेणाप्रामाण्यशङ्कया निष्कम्पप्रवृत्तिर्न स्यात् । सा च नित्यत्वादवक्तृके वेदे नास्तीति तत एव प्रामाण्यं किं वक्तृगुणेनेत्यर्थः । वक्तृगुणजन्यत्वेऽप्यन्य- यासिद्धिमाह । योगेति । योगकर्मभ्यां ये सिद्धाः सर्वज्ञास्त एव वेदकारा अदृष्ठाधिष्ठातारश्चेति- न नित्यसर्वज्ञसिद्धिरित्यर्थः । यद्यप्यन्यथासिद्धिरपि प्रमाणाभाव एव पर्यवस्यति, तथापि साक्षात् प्रमाणाभावोऽग्रे दूष्यः, अन्यथासिद्धिद्वारा त्वत्रेत्यर्थभेदः । प्रमामात्रे गुणजन्यत्वसिद्धौ शाब्दप्रमायामपि तज्जन्यत्वसिद्धिर्भविष्यतीत्याशयेनाह । प्रमा- या इति । अनित्यप्रमाया इत्यर्थः । ननु नित्यत्वाद् वेदानां, कर्तृजन्यत्वेऽपि महाजनपरिग्रहात् , प्रामाण्यं निश्चित्य यागादौ प्रवृत्तिर्भविष्यतीत्यत आह । सर्गेति । तथा च वेदमहाजनयोरभा- वात् केन कस्य परिग्रह इति भावः । द्वितीयामन्यथासिद्धिं निरस्यति । तदन्यस्मिन्निति । अनित्यज्ञानवत्त्वेन भ्रमादिशङ्काकलङ्कितत्वेन नित्यसर्वज्ञपूर्वकत्वाद् न प्रकारान्तरसम्भव इत्यर्थः । प्रकाशिका । प्रामाण्यमेव तस्य न स्यादित्यवश्यमुपदेष्टुरपेक्षेति भावः। अग्रेति। प्रमायां गुणजन्यत्वमेव न, दोषाभावेनैवान्यथासिद्धेरित्यर्थः । वक्तृगुणजन्यत्वेऽपौरुषेयलक्षणमदृष्टाधिष्ठानेऽपीति द्रष्टव्यम् । पर्यवस्यतीति । तथा च द्वितीयपञ्चमयोर्नाभेद इति भावः । अग्रे=पञ्चमस्तबके । अन्यथा- सिद्धिद्वारा यः प्रमाणाभावः सोऽत्र दूष्योऽन्यथासिद्धिनिराकरणेनेत्यर्थः । ननु नित्यत्वादिति । नित्यत्वे प्रमाणसिद्धे दोषाभावादेव प्रामाण्यं महाजनपरिग्रहेण निश्चेयमिति भावः । तथा चेति । नित्यत्वञ्च न प्रामाणिकमिति भावः । साध्यस्यार्थानुवादपुरःसरं विरोधमपि हेत्वाभासमाह । मकरन्दः । अग्रे=पञ्चमस्तबके । अन्यथासिद्धिद्वारा = तन्निराकरणद्वारेत्यर्थः ।