भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 249, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 249

द्वितीयस्तबके ] प्रमाश्वतस्त्वखण्डनम् । २१५ स्यादेतत् । शब्दे तावद्विप्रलिप्सादयो भावा एव दोषाः, ततस्तदभावे स्वत बोधनी । अस्त्वेव प्रत्यक्षे विशेषादर्शनादेरभावस्य दोषत्वं, न तु प्रमाणान्तर इत्याह-स्यादेतत् इति । शब्दे तावद्भावात्मकदोषाभावे सति स्वत एवातिरिक्तभावानापेक्षाज् ज्ञानकरणादेव शब्दा- त्प्रमोत्पद्यत इति दृष्टम् । शब्दे तावदेवम्, अनुमानादावपि तथा द्रष्टव्यमिति तावच्छब्दस्यार्थः । प्रकाशः । मैवम् । प्रमामात्राहितृत्वेऽपि संशयविपर्ययोत्तरप्रमायां तस्य हेतुत्वात् । तत्र विशेषाद- र्शनस्य दोषत्वेनान्यत्रापि तथात्वात् । पित्ताद्युत्कर्षस्यापि भूयोविशेषादर्शनप्रतिबन्धकत्वेनान्यथा- सिद्धत्वात् । ननु प्रत्यक्षप्रमादौ गुणजन्यत्वेऽपि वेदे भ्रमाद्यभावचतुष्टयं प्रमाहेतुः । लोके भ्रमाद्यभाव एव प्रमोत्पत्तेः । न तु वक्तृवाक्यार्थयथार्थज्ञानवरदादिगुण इत्याह- स्यादेतदिति । लिङ्गसादृश्यादिश्रभरूपदोषाभावमात्राज्ञानुमित्यादिः प्रमेति लिङ्गसादृ- श्यादियथार्थज्ञानमपि गुणस्तद्धेतुरिति शाब्दप्रमायामपि दोषाभावे सति यथार्थवाक्यार्थज्ञानं प्रकाशिका । संशयविपर्ययोत्तरप्रमायामिति । विशेषादर्शनप्रयोज्यसंशयविपर्ययोत्तरप्रमायामित्यर्थः । तेन नान्धकारकालीनघटसंशयोत्तरप्रत्यक्षे आलोकममवधानमात्रजन्ये व्यभिचारः। ननु संशयोत्तरं यत्र न प्रत्यक्षं तत्र संशयानुनुत्तरप्रत्यक्षसामग्रीसत्त्वे तत्प्रत्यक्षमेव कुतो न जायते तदसत्त्व तत एव न प्रत्यक्षमिति न विशेषदर्शनं कारणम् कार्यव्यतिरेकप्रयोजकव्यतिरेकाप्रतियोगित्वादिति चेत् । न । तदनुत्तरकालीनप्रत्यक्षं प्रति तदनुत्तरकालीनस्य कारणतया तदभावादेव तादृशप्रत्यक्षसां- मग्रीविरहात् । न च विशिष्टाभाव एव विशेषादर्शनविशिष्टग्राह्यसंशयाभावरूपः कारणमस्तु न तु विशेपदर्शनं कारणम् । अत एव न सिद्धयुत्तरानुमितौ सिषाधयिषाविशेषसामग्रीति वाच्यम् । विशेषादर्शनोत्तरजायमानप्रत्यक्षस्य विशेषविषयत्वनियमेन तत्र विशेषणज्ञानतया विशेषादर्शनस्य जनकत्वे विशेषरूपेणापि तस्यैव कारणता कल्प्यते तद्धर्मिणः कारणत्वकल्पनात् । अत एव निश्चयो- त्तरसंशयं प्रति प्रामाण्यसंशयः कारणं कोटिज्ञानत्वेन तत्र तस्य कारणतावश्यकत्वात् , सिषाधयिषा तु न केनापि रूपेणानुमिति प्रति कारणत्वेन क्लृप्तेति न तत् प्रतिवन्दिरिति दिक् । ननु निर्हेतुकं मूलेऽभिधानं स्वत इति न युक्तमात्माश्रयादतो व्याचष्टे । ननु प्रत्यक्षप्रमादाविति । शाब्द- प्रमायां गुणकारणत्वापेक्षायामनुमितिप्रमादौ तदुपपादनमर्थान्तरमत आह । लिङ्गेति । मकरन्दः । संशयविपर्ययोत्तरेति । यद्यपि संशयोत्तरप्रत्यक्षमात्रे विशेषदर्शनं न हेतुः, अन्धकारे घटसंशयोत्तरप्रत्यक्षस्य तद्दिनाऽप्यालोकसमवधानमात्रेणैवोपपत्तेः । तथापि यत्र विशेषादर्शनादि दोषाधीनः संशयस्तदुत्तरप्रत्यक्षे तस्य हेतुत्वम् । उक्तस्थले च व्यञ्जकाभावाधीनः स इति भावः । ननु तत्रापि विशेषदर्शनं न हेतुः, संशयानुत्तरप्रत्यक्षसामग्रीसत्त्वे तदुत्पत्त्यापत्तेः । तदसत्त्वे तद्व्य तिरेकादेव तद्व्यतिरेक इति किं विशेषसामग्र्यन्तरकल्पनया ? । अत एव सिद्धयुत्तरानुमितित्वा- वच्छिन्ने सिषाधयिषा न विशेषसामग्री, किन्तु तद्विरहविशिष्टसिद्धयभावः सामान्यसामग्री । तद् भावादेव तदा नानुमितिरिति चेत् । तर्हि तद्वदेव विशेषादर्शनविरहविशिष्टसंशयाभावः सामान्य- सामग्रीत्यत्रैव तात्पर्यमित्याहुः । विस्तरस्त्वनुमानप्रत्यक्षप्रकाशयोरनुसन्धेयः । लिङ्गसादृश्येति । यद्यपि परामर्शादिरूपसामान्यसामग्रीविरहादेव तत्र नानुमित्यादिः,