न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 248, कुल 608 में से
संदर्भ में पढ़ें२४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां नियमेन दोषैर्भावरूपैरेव भवितव्यम्, न त्वेवम् । विशेषादर्शनादेरभावस्यापि दोषत्वात् । कथमन्यथा ततः संशयविपर्ययौ । ततस्तदभावो भाव एवेति कथं स नेष्यते । बोधनी । दपि-इति । भावात्मनोऽधिकस्यानङ्गीकारो भवेदपीति । कथमन्यथा-इति । विशेषाद- र्शनस्यादोषत्वे कथं ततो विशेषादर्शनादप्रमात्मकौ संशयविपर्ययौ स्यातामिति वक्रकोटरादेः शुक्तिकात्वस्य विशेषस्यादर्शने हि तयोरुत्पत्तिरिति । सन्तु तर्ह्यभावा अपि दोषाः ततः किमित्य- त्राह-ततः-इति । अभावात्मनो दोषस्याभावो भाव एवेति । कथं स भावः प्रमाहेतुर्नेष्यत इति । प्रकाशः। हि भ्रमविरोधि तदभावोऽप्रमाहेतुः । प्रत्यक्षभ्रमे च प्रत्यक्षविशेषदर्शनं विरोधि दिङ्मोहादौ गौरोऽहमिति भ्रमे च तथा दर्शनात् । तच्च दोषात् तत्र नास्ति, प्रमारूपमेव च विशेषदर्शनं गुण इति तदभाव एव दोषः । ननु विशेषादर्शनं न दोषः, किन्तु विशेषदर्शनप्रतिबन्धकाः पित्तादयो दोषाः, आवश्यक- त्वात् । न च तेषां नानात्वेन विशेषदर्शनप्रतिबन्धकतयाऽनुगमे लाघवाद्विशेषादर्शनमेव हेतुरिति वाच्यम् । क्वचित् कश्चिद्दोष इत्यनुगमात् । अन्यथा पित्तादितोऽप्यप्रमा न स्यात्, अननुग- मात् । पित्ताद्युत्कर्षेण भ्रमोत्कर्षाच्च । पित्तादेरदोषत्वे चं विशेषप्रमैव कुतो न भवति । यदि च विशेषस्य विशेषान्तरादर्शनात्, तदाऽनवस्था । किञ्च, विशेषदर्शनं न प्रमामात्रे, न वा प्रत्यक्ष- प्रमायां हेतुः, व्यभिचारात् । तत्रैव तद्धेतुत्वेनानवस्थानाच्च । प्रकाशिका । प्रमात्वशरीरत्वेन तस्य नार्थवससम्पन्नेतेतिबोध्यम्। प्रत्यक्षविशेषदर्शनमिति। प्रत्यक्षविपरी- तदर्शनमित्यर्थः। केचित्तु विशेषपदेनात्र व्याप्यविशेषोऽप्युक्तः स च प्रतिबन्धहूपफलोन्नेयः, प्रति- बन्धकाननुगमस्तु न दोषाय । अत एव शङ्खे प्रत्यक्षे सति श्वैत्ये न पीतत्वारोपः, फालपृष्टत्वप्रत्यक्षे सति शुक्तौ न रजतत्वारोप इत्याहुः। क्वचित् कश्चिदिति । विशेषस्याप्यननुगतत्वेन स्वयाप्यनुगते- रेवानुसरणीयत्वादिति भावः। अन्यथेति। यद्यपि विशेषादर्शनमेव दोष इति वादिनोऽत्रेष्टापत्तिः, तथापि विशेषाप्रमापि पित्तादित एवेत्यभिप्रायेणेदम् । अत एवाग्रे भावाविष्करणं पित्तादेरदोष- त्वे चेति । भ्रमोत्कर्ष इति । उत्कर्षश्चात्र बहुकालावच्छिन्नसजातीयधारानुवृत्तिलक्षणः । मकरन्दः। विषयकभ्रमजनकत्वञ्च दोषत्वमिति तदुभयं निर्वाह्यम् । एवञ्च तत्तत्प्रमादौ यथार्थपरामर्शत्वादीनां हेतुत्वप्रहानन्तरं प्रमासामान्यं प्रत्युक्तगुणत्वेन कारणत्वग्रहः । एवं दोषत्वेनापीत्याहुः । विस्त- रस्तु प्रत्यक्षप्रकाशे । प्रत्यक्षविशेषदर्शनमिति । प्रत्यक्षविपरीतदर्शनमित्यर्थः । टिप्पणी । क्वचित् कश्चिद् दोष इति । क्वचिद् भ्रमविशेषजातीये कश्चिद् दोषजातीयः कारणमेतावदेवा- नुगमस्येष्टत्वात् । तवापि विशेषदर्शनस्य व्याप्यव्यापकभेदेनैकरूपतायाः सर्वत्रासम्भवादित्यर्थः । अप्रमा न स्यादिति । विशेषप्रमा न स्यात्, तत्र विशेषादर्शनस्यानवस्थाभयेनाहेतुत्व स्यानुपदं वक्ष्यमाणत्वात् । एतेन विशेषादर्शनहेतुतामते पित्तादेरहेतुत्वाद्विपारितिरिति शङ्का निरस्ता। उक्तपित्तादेर्हेतुत्वं व्यवस्थापयति । पित्ताद्युत्कर्षेणेति । यस्योत्कर्षेण यस्योत्कर्षः, तत् तत्कारणम्, अकारणोत्कर्षस्य प्रयोजकत्वेऽतिप्रसङ्गादिति भावः । पित्तादेर्भ्रमकारणत्वसाधक- मनिष्टप्रसङ्गमाह । पित्तादेरदोषत्वे चेत्यादि । दोषो हि प्रमाप्रतिबन्धको भ्रतजनकर्श, स चेद् विशेषादर्शनाभावस्तदानवस्थेत्याह । यदीत्यादि ।