न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 247, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तवके ] प्रमास्वतस्त्वखण्डनम् । २१३ मावत् । यदि च तावन्मात्राधीना भवेदप्रमापि प्रमैव भवेत् । अस्ति हि तत्र ज्ञानहेतुः। अन्यथा ज्ञानमपि सा न स्यात् । ज्ञानत्वेऽप्यतिरिक्तदोषानुप्रवेशाद- प्रमेति चेत्। एवं तर्हि दोषाभावमधिक्रमासाद्य प्रमापि जायेत नियमेन तदपेक्ष- णात्। अस्तु दोषाभावोऽधिको, भावस्तु नेष्यते इति चेत्। भवेदप्येवं, यदि बोधनी । बाधकं तर्कमाह-यदि-इति । तावन्मात्राधीना = ज्ञानसामान्यहेतुमात्राधीनेति । कुत इत्यत आह-अस्ति हीति । यदि तत्र ज्ञानहेतुर्न स्यात् तदा कारणाभावेन कार्यं ज्ञानमपि न स्यादि- त्याह-अन्यथा-इति । ज्ञानत्वेऽपि-इति । ज्ञानत्वाभ्युपगमेन तद्धेत्वभ्युपगमं सूचयति- एवं तर्हि-इति । यदि दोषान्वयादप्रमा स्यात् तर्हि तद्विरोधिनी प्रमा दोषाभावादेव भवेदित्यधिक- हेतुरङ्गीकृतः स्यादिति। अस्तु-इति । एवमनित्यस्यापि वेदस्य प्रामाण्यं सिद्ध्यतीति भावः। भवे- प्रकाशः। यदीति । यद्यप्यप्रमायां प्रमात्वापादने प्रमावृत्ति ज्ञानमात्रहेत्वधीनत्वं व्यधिकरणम्, तथापि प्रमात्वं यदि ज्ञानसामग्रीमात्रप्रयोज्यवृत्ति स्याद् अप्रमावृत्ति स्याद् अप्रमात्ववदित्यापादनीयम् । अप्रमायाः प्रमित्यजनकदोषजन्यत्वान्नापादकमसिद्धमित्याह । ज्ञानत्वेऽपीति । तर्हि प्रमात्व- मपि न ज्ञानमात्रसामग्रीप्रयोज्यम्, अतिरिक्तदोषाभावापेक्षादित्याह । एवन्तर्हीति । युक्तञ्चै- तत् । अन्यथा प्रमासामग्र्यामधिकदोषानुप्रवेशादप्रमाऽपि प्रमाविशेषः स्यात्, वृक्षसामग्र्या- मधिककारणानुप्रवेशाच्छिंशपा वृक्षविशेष इवेति भावः। अस्त्विति । न चैवमप्रमित्यजनकज- न्यत्वे परतस्त्वमिति वाच्यम्। आगन्तुकाभावानपेक्षज्ञानसामग्रीजन्यत्वमेव स्वतस्त्वमिति विव- क्षितत्वात् । तथा च गुणजन्यत्वेन प्रमाया नेश्वरसिद्धिः। भवेदप्येवमिति । ननु पीतः शङ्ख इत्यत्र विशेषदर्शनेऽपि भ्रमाद्व्यभिचारेण न विशेषदर्शनं भ्रमहेतुः, यत्र वा विशेषदर्शनमपि भ्रमस्तत्र तज्जन्यज्ञानस्यापि भ्रमत्वान्न विशेषदर्शनं प्रमात्वप्रयोजकम् । मैवम् । यद्विशेषदर्शनं प्रकाशिका। इति वाच्यम् । तत्तत्साक्षात्कारे तत्तदवयवानामनुगतत्वाभावाद् यथार्थपरामर्शादेरपि तत्तद्विष- याननुगमेनाननुगतत्वात् । एतेन विशेष्यवृत्तिविशेषणज्ञानमेव प्रमामात्रेऽनुगतो गुणो ग्राह्यः, यथार्थज्ञानं वेत्यनित्यप्रमात्वमेव पक्ष इत्यपास्तम् । विषयाननुगमेनाननुगतत्वात् । तथापि घटप्रमायां घटवृत्तिविशेषणज्ञानं घटाप्रमायां घटावृत्तिविशेषणज्ञानं जनकमिति तत्तत्प्रमात्वत- त्तदप्रमात्वयोरेव पक्षदृष्टान्तत्वे । एवं विशेषयोः कार्यकारणभावग्रहे शाब्दप्रमायामपि विशेषत एव कार्यकारणभावग्रहे तदनुरोधादीश्वरसिद्धिरित्यत्र तात्पर्यम्। यद्यपि घटविशेष्यकत्वे सति घटत्व प्रकारकत्वमित्येव घटप्रमात्वमित्यर्थवशसम्पन्नमेतदुभयमिति न विशिष्टनियामकगुणसिद्धिः, न वा घटप्रमात्वं जन्यतावच्छेदकं नीलघटत्ववदिति । तथापि समूहालम्बनव्यावृत्तय एकावच्छिन्नापरस्यैव मकरन्दः। प्रमात्वावच्छिन्ने कथममुगतहेतुसिद्धिरिति चेन्न । अनित्यप्रमात्वपदेनानित्यसाक्षात्कारिप्रमात्वादे- रेव विवक्षितत्वात् । तत्र च भूयोऽवयवेन्द्रियसन्निकर्षस्यानुगतहेतुसत्त्वादित्येके । शाब्दप्रमायां ग्राह्यविशेषस्य वाक्यार्थस्य प्रमा हेतुरिति प्रमासामान्ये ग्राह्यप्रमासामान्यमीश्वरस्यैव गुणः । यदि- शेषयोरिति न्यायात्। न च ग्राह्यमात्रस्यातिप्रसक्ततया यत्र यद् ग्राह्यं तत्र तत्प्रमा हेतुर्वाच्यः । तथा च तद्ग्राह्यप्रमायां 'तद्ग्राह्यप्रमा हेतुरित्यननुगम एवेति वाच्यम्। एवं तत्साक्षात्कारे तदि- न्द्रियसन्निकर्षो हेतुरिति विशेषेऽप्यननुगमापत्तेः । यदि च विशेषे विशेषस्य प्रयोजकत्वेऽपि सा- मान्ययोरपि तथात्वं, तदा प्रकृतेऽपि तुल्यमित्यन्ये । स्वाविषयकप्रमाजनकत्वम् गुणत्वम् । स्वा-