न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 252, कुल 608 में से
संदर्भ में पढ़ें२१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां धाने द्वेषाभावहेतुक इति विभागो युज्यते, विशेषाभावात्, तथा प्रकृतेऽपि । तथापि वेदानाम्पौरुषेयत्वे सिद्धे, मपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति, ततः सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुरकारणं गुणा इति चेन्न । अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् । स्वत एव प्रामाण्यनिश्चयः, किन्तु शङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात्तस्य तदभावेऽभावात्, अतो नेदमनु- बोधनी । प्रवृत्तिनिवृत्तप्रयत्नयोरित्यनेन संबन्धः, न त्वित्यस्य युज्यते इत्यनेन । विशेषाभावादिति । द्वेषानु विधायिनो निवृत्तिप्रयत्नाद्रागानुविधायिनः प्रवृत्तिप्रयत्नस्यैतदनुविधायित्वे विशेषाभावादिति । न चात्र द्वेषाभाव एव प्रवृत्तेः कारणमिति युक्तम्, उपेक्षाज्ञानादपि प्रवृत्तिप्रसङ्गात् । तथा प्रकृते प्रामाण्यविषयेऽपि दोषगुणाभावाविनाभावेऽपि प्रामाण्याप्रामाण्योरन्यथासिद्धगुणदोषानुविधान- नियमात्तद्धेतुक्त्वम् । न त्वप्रमा दोषहेतुका, प्रमा तु सत्यपि गुणानुविधाने दोषाभावहेतुकेति- विभागो युक्त इति । नन्वस्तु गुणानुविधानं प्रामाण्यस्य तथापि न तद्धैतुकत्वमित्याह—तथापि—इति । वेदानां प्रामाण्यमपौरुषेयत्वं च तावत्सिद्धं तेन दोषाभावमात्रेण प्रामाण्यं सेत्स्यतीति सिद्ध्य- त्येव ततो गुणाभावेऽपि दोषाभावादेव वेदे तत्प्रामाण्यं दृष्टमिति व्यभिचारादकारणं गुणाः- सर्वत्र दोषाभावस्तु कारणमव्यभिचारादिति । न-इति । न तावद्यापि वेदानाम्पौरुषेयत्वेन प्रामाण्यमिति सिद्धं, येन तत्र गुणव्यभिचारो निर्दिश्येत । लोकाधीननिर्णयो हि वेदो लोके चान्य- भिचाराद् गुणः प्रामाण्यहेतुरिति स्थितम्, तत्र यदि वेदस्यापौरुषेयत्वमाश्रित्य दोषाभावात् प्रामा- ण्यमुच्येत तदा गुणाभावादप्रामाण्यमपि वक्तुं शक्यत इति । स्वतः-इति । न तावद्वेदानां प्रामाण्यमपेतदोषवक्तृत्वेनानुमीयते, स्वतो बोधजनकत्वेन निश्चिते प्रामाण्ये हेत्वन्तरादप्रामाण्य- शङ्कायां तन्निराकरणमात्रमप्रामाण्यकारणदोषाभावावधारणेन क्रियते । तदाहुः— तस्माद् बोधात्मकत्वेन प्राप्ता बुद्धौ प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते । ( श्लो० वा, ) इति । प्रकाशः । नन्वन्यत्र गुणस्य प्रमाहेतुत्वेऽपि वेदस्यापौरुषेयतया वक्तृगुणाभावाद्दोषाभावमात्रप्रयुक्तमेव प्रामाण्यमिति प्रामाण्ये गुणस्य व्यभिचाराद् न हेतुत्वं, किन्तु दोषाभावस्यैवेत्याह । तथा पीति । सिद्धिर्ज्ञप्तिः । सिद्धेः=निश्चिते । वेदाः प्रमाणम् , अपेतवक्तृदोषत्वादित्यनुमानादि त्यर्थः । अत्र वेदा न प्रमाणम् , अपेतवक्तृगुणत्वादिति सत्प्रतिपक्षमाह । अपेतेति । ज्ञान- ग्राहकादेव प्रमात्वं स्वीक्रियते, दोषाधीना तु शङ्का अपेतवक्तृदोषत्वादेव निरस्येत्याह । स्वत एवेति । तथापि गुणाभावहेतुकोऽप्रमाण्यसंशयस्तदवस्थ एवेत्याह । गुणनिवृत्तोति । तस्या इति । दोषसहितगुणनिवृत्तेरेवाऽप्रमात्वहेतुत्वादित्यर्थः । दोषेति । गुणसहितदोषनिवृ- त्तेरेव प्रमात्वप्रयोजकत्वादित्यर्थः । ननु तथापि शुकादिवाक्यं भ्रान्तप्रतारकवाक्यं च संवादि कथं प्रमाणं, गुणाजन्यत्वात् । मकरन्दः । चेष्टादिकार्योत्थापत्तेः । न च तदा निवृत्तिरेवेति वाच्यम्, तदा तत्कारणद्वेषाभावेन तदभावात् द्वेषाभावश्च तत्कारणदुःखसाधनत्वज्ञानाभावादिति ॥